यच्च प्रमाणदृष्टानामपि ..
भेदनिरासकतर्कस्य प्रमाणविरुद्धत्वेनाऽभासत्वनिरूपणम्
मूलम्
- यच्च प्रमाणदृष्टानामपि पदार्थानां मिथ्यात्वकल्पनं तच्च प्रमाणविरुद्धत्वादेव प्रकाशतस्करत्वम् । न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्, प्रत्यक्षादिविरुद्धानां तर्का-भासत्वनियमात् । शुक्त्यादे रजतत्वादिप्रतीतेरपि बलवत्प्रत्यक्षविरुद्धत्वादेव भ्रमत्वं न तर्कमात्रात् । तर्कमात्रतः प्रत्यक्षबाधने भूतचतुष्टयस्याबादेः पृथिवीत्वादृष्टेः पृथिव्या अपि पृथिवीत्वं न स्यात् । अतो न तर्कमात्रत एव दृष्टस्य भ्रान्तित्वं कल्प्यम् । अतः सर्वभेदनिरासकतर्कस्य सर्वश्रुतिस्मृतिप्रत्यक्षानुमानविरुद्धत्वात् नितरामाभासत्वम् ।।
तत्त्वमञ्जरी
ननु चन्द्रभेदस्य सत्यत्वादृश्व्ेः भेदत्वादेव सर्वभेदस्यापि तद्वत् सत्यत्वं न स्यादित्यत आह- न हि प्रमाणेति ।। स्यादेतत् । शुक्त्यादौ रजतादित्वं प्रत्यक्षतः प्रतीयते । सा च प्रतीतिर्बाध्यत्वान्यथानुपपत्तितर्केण भ्रम इति निश्चीयते । तस्मात् कथं तर्कस्य दौर्बल्यमित्यत आह- शुक्त्यादेरिति ।। अतिप्रसङ्गमाह- तर्कमात्रत इति ।। अत्रायमाशयः । यथा भूतत्वसाम्येऽपि कुत्रचित् पृथिवीत्वं कुत्रचिदपृथिवीत्वम्, एवं भेदत्वसाम्येऽपि कुत्रचित् सत्यत्वम्, कुत्रचिदसत्य-त्वम् । पूर्णादीश्वरादल्पोऽहं भिन्न इति साक्षिप्रत्यक्षेण, विमतो भिन्नः मुक्तत्वान्निगमुक्तवदित्य-नुमानेन च विरुद्धत्वात् ।
टीका
ननु च, विवादपदं मिथ्या दृश्यत्वात् जडत्वात् परिच्छिन्नत्वात् शुक्तिरजतवत् । अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात् पटान्तरवत् । विपक्षे दृक्सम्बन्धानुपपत्त्या दृश्यत्वाभावप्रसङ्गो बाधकः । तथा च प्रपञ्चस्यैव मिथ्यात्वात्कथं तद्धर्मभूतो भेदः सत्यः स्यात् । किञ्च, विमतो भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् । विवादपदं भेदसंवेदनं भ्रान्तिर्भेदसंवेदनत्वात् चन्द्रभेदसंवेदनवत् । विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वाद् गगनवत् । विमता आत्मानो देवदत्तान्न भिद्यन्ते आत्मत्वाद्देवदत्तवत् । विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वात् सम्मतदेवदत्तशरीरवत् । एवं, विमतानीन्द्रियाणि प्रत्येकं समुदितानि च पक्षीकृत्य प्रयोक्तव्यम् । तथा, जीवाः परमात्मनः तत्त्वतो न भिद्यन्ते आत्मत्वात् परमात्मवत् । विपक्षे कल्पनागौरवप्रसङ्गो बाधकः । तदेवं भेदस्य भेदिनश्च सर्वस्यापि प्रपञ्चस्य मिथ्यात्वात्कुतो विष्णोस्सर्वोत्तमत्वं, कुतश्च तत्र सर्वागमानां महातात्पर्यमिति ?
अत्रोच्यते - किं वियदादिपदार्थास्तद्भेदश्च प्रत्यक्षादिप्रमाणसिद्धा इत्यङ्गीक्रियते न वा । नेति पक्षेऽनुमानानामाश्रयासिद्धिः स्यात् । यदि प्रत्यक्षादिप्रमाणदृष्टपदार्थपक्षीकारेणैवमनुमीयते तत्राऽह- यच्चेति ।। न केवलं जीवब्रह्मणोरेकत्वे सर्वागमानां महातात्पर्यकल्पनमिति चशब्दः । पदार्थानां तद्भेदस्य च कल्पनमनुमानैः । प्रमाणविरुद्धत्वाद् धर्मिग्राहकतया प्रबलैः प्रमाणैर्बाधितत्वेनानु-मानानां कालात्ययापदिष्टत्वात् । धर्मिग्राहकाणि हि प्रत्यक्षादीनि पदार्थान् तद्भेदं च सत्यतया विषयीकुर्वन्ति । प्रकाशतस्करत्वं प्रकाशे तस्करत्वमिव । ननु अनुमानैरेव प्रत्यक्षादीनां बाधो भविष्यतीत्यत आह- न हीति ।। कुतो नेत्यत आह- प्रत्यक्षादीति ।।
भवेदनुमानानां प्रत्यक्षादिविषयबाधकत्वं यदि प्रामाण्यं स्थितं स्यात् । न चैवम्, प्रत्यक्षादि-विरुद्धानां तेषामप्रमाणत्वात् । तथा च प्रत्यक्षादीनामप्रामाण्येऽबाधितविषयत्वरूपसम्पत्त्याऽनु-मानानां प्रामाण्यं, तस्मिंश्च सिद्धे तद्विरोधेन प्रत्यक्षादीनामप्रामाण्यमितीतरेतराश्रयत्वं स्यात् । न चैवं प्रत्यक्षादिप्रामाण्येऽपि इतरेतराश्रयत्वं समानमिति वाच्यम् । प्रत्यक्षादीनां धर्मिग्राहकत्वेन प्रबलानां दुर्बलानुमानविरोधपरिहारमनपेक्ष्यैव प्रामाण्यस्य स्थितत्वात् । न हि हरिणशावाभावमपेक्ष्य पञ्चाननो वनमवगाहत इति ।
यद्यनुमानस्य न प्रत्यक्षादिबाधकत्वं कथं तर्हि शुक्त्यादे रजतत्वादिप्रतीतेः प्रत्यक्षरूपाया दाहच्छेदाद्यनुमानबाधितत्वेन भ्रमत्वं कल्प्यते । अन्यथाऽबाधितत्वेन तस्या भ्रमत्वं न स्यादित्यत आह- शुक्त्यादेरिति ।। परीक्षादिसहकृततया बलवता नेदं रजतं किन्तु शुक्तिकैवेति प्रत्यक्षेण बाधितत्वादेवेत्यर्थः । न तर्कमात्रादिति वदताऽनुमानमपि तत्र प्रत्यक्षस्य साहाय्यमाचरत् न निवार्यत इति सूचितम् । एवमन्यत्रापि प्रत्यक्षादेः प्रबलप्रत्यक्षादिबाधितत्वेनैव भ्रमत्वं व्युत्पाद्य केवलानुमान-बाध्यत्वाभावनियमः समर्थनीयः ।
नन्वनुमानमपि अनुकूलतर्कसनाथं व्याप्तिपक्षधर्मतावत्त्वेन निरवकाशत्वात् प्रत्यक्षमिव बलवत्प्रत्यक्षस्य बाधकं भवतु विरोधाभावात् । किमनेन सर्वत्र प्रबलप्रत्यक्षाद्यन्वेषणव्यसनेनेति चेत्तर्हि कालात्ययापदिष्टमात्रलोपप्रसङ्गः स्यात् । सर्वत्रैवमनुमानप्राबल्यस्य व्युत्पादयितुं शक्यत्वादित्याशयवानाह- तर्कमात्रत इति ।। ‘भूतचतुष्टयस्याबादेः पृथिवीत्वादृष्टेः’ इत्यनेन बाह्येन्द्रियग्राह्यगुणवत्त्वलक्षणस्य भूतत्वस्यापृथिवीत्वेन व्याप्तिं साधयति । पक्षधर्मता तु स्पश्व्ैव । पृथिव्या अपि गन्धवतो द्रव्यस्यापि । पृथिवीत्वं जातिविशेषः । गन्धवद्द्रव्यं पृथिवी न भवति भूतत्वादबादिवद् इत्याद्यनुमानेन पृथिवीत्वादिग्राहकप्रत्यक्षस्य बाधः स्यात् । अस्याप्यनुमानस्य व्यभिचारादर्शनादिना व्याप्त्यादिमत्त्वादिति ।
विषमोऽयमुपन्यासः । पृथिवीत्वाभावो ह्यनेन गन्धवतो द्रव्यस्य साध्यते । अभावश्च प्रतियोगि-ज्ञानाधीनज्ञानः । तस्माद् एवमनुमिमानेन पृथिवीत्वं ज्ञातव्यमन्यथाऽप्रसिद्धविशेषणत्वापत्तेः । तच्च गन्धवति द्रव्य एव प्रत्यक्षेण ज्ञातव्यमिति उपजीव्यत्वेन प्रबलस्य प्रत्यक्षस्य नानुमानं बाध-कम् । अन्यथा स्वस्यैवोदयाभावप्रसङ्गात् । किन्तु प्रत्यक्षबलेन गन्धवतो द्रव्यस्य पृथिवीत्वस्थितौ तत्रैव भग्नव्याप्तिकमनुमानमेवाप्रमाणम् । यथा तेजोऽवयविनोऽनुष्णत्वसाधकं कृतकत्वानु-मानम् । तत्रापि ह्यनुष्णत्वप्रतियोग्युष्णत्वस्य तेजोऽवयविनि प्रत्यक्षेण ज्ञातत्वात् । न च प्रकृते तथाऽस्तीति । मैवम् । येन विना यस्योदयो नास्ति तत्तस्योपजीव्यम् । तच्च न साध्यधर्मप्रति-योगिग्राहकमेवेति नियमः । किन्तु धर्मिसाध्यलिङ्गव्याप्त्यादिग्राहकमपि । तद्विरोधश्चास्ति प्रकृत इति कथमनुमानं प्रत्यक्षस्य बाधकं भवेद् इत्याशयवान् उक्तातिप्रसङ्गस्य विपर्ययपर्यवसानमाह- अत इति ।। दृष्टस्येति भावे क्तः प्रत्यक्षस्येत्यर्थः । अथ वा भ्रान्तित्वं भ्रान्तिकल्पितत्वम् । यदा तु प्रत्यक्षविरुद्धत्वादेवानुमानस्याप्रामाण्यं तदा किमु वाच्यं सर्वप्रमाणविरुद्धत्वादिति कालात्य-यापदिष्टत्वमुक्तमुपसंहरति- अत इति ।। शङ्काऽनास्पदत्वं नितरामित्यस्यार्थः ।
नन्वस्त्यत्र व्यवस्था । शुष्कतर्कमात्रमुपजीव्येन बाध्यते । प्रमाणानुकूलं त्वनुमानमेवोपजीव्यं बाधते । तत्र प्रसक्तिहेतुत्वेनोपजीव्यस्य प्रामाण्यानपेक्षणात् । प्रतीतिमात्रेण च आश्रयत्वोप-पत्तेः । प्रकृतं चानुमानजातमागमानुकूलमिति । मैवम् । तत्त्वमसीत्याद्यागमानामैक्यपरत्वस्य निराकृतत्वात् ।
भावबोधः
ननु भेदधर्मिणः प्रपञ्चस्य मिथ्यात्वेऽपि भेदस्य न मिथ्यात्वम् । धर्मिसत्तासापेक्षत्वाभावात् । तथात्वे असति सद्विलक्षणस्यापि आश्रयसत्त्वापातात् । किञ्च प्रपञ्चमिथ्यात्वसाधनदृश्यत्वादिनैव भेदमिथ्यात्वसाधन-सम्भवे किमनया कुसृष्ट्येत्यत आह- किञ्चेति ।। नन्वेतदनुमानद्वये बाधकाभाव उपाधिरिति चेन्न । तस्य पक्षेऽपि विद्यमानत्वेन साधनव्यापकत्वादित्याशयेनाऽह - विमतमिति ।। विमतपदेन चेतनजडात्मकं सर्वमपि ग्राह्यम् । स्वान्तर्भेदहीनमित्यनेन भेदपञ्चकाभावः साध्य इति द्रष्टव्यम् । प्रत्येकं समुदितानि चेति ।। देवदत्तेन्द्रियं यज्ञदत्तस्यैव ज्ञानकरणम् इन्द्रियत्वात् यज्ञदत्तेन्द्रियवद् इत्यादि प्रत्येकं, विमातानीन्द्रियाणि देवदत्तस्यैव करणानि इन्द्रियत्वाद् देवदत्तेन्द्रियवदिति समुदितानि पक्षीकृत्य प्रयोक्तव्यमित्यर्थः । धर्मिग्राहकतयेति ।। प्रमाण-दृष्टानामित्युक्तत्वादिति भावः । न हि हरिणेति ।। अत्र प्रत्यक्षादित्वानुमानत्वरूपजातितोऽपि प्राबल्यदौर्बल्य-योर्विवक्षितत्वादेतद्दृष्टान्तोक्तिः । अत एव मूले प्रमाणस्य प्रकृतत्वेऽपि प्रत्यक्षादिविरुद्धस्येत्युक्तम् । अन्यथोपजीव्यप्रमाणविरुद्धस्येति वक्तव्यम् । शुक्त्यादेरित्युत्तरग्रन्थेन प्रत्यक्षादिमात्रस्यानुमानबाध्यत्वे परशङ्कित-बाधकोद्धाराच्चायमेवाभिप्रायोऽवगम्यत इति भावः । प्रत्यक्षरूपाया इति ।। अनेन रजतत्वादिप्रतीतेरपि इति मूलगतप्रतीतिपदं पूर्वोत्तरग्रन्थानुरोधेन प्रत्यक्षपरमित्युक्तं भवति । इति सूचितमिति ।। अन्यथा न तर्कादि-त्येवावक्ष्यदिति भावः । एवमन्यत्रापीति ।। नभोनैल्यचन्द्रप्रादेशत्वयजमानप्रस्तरत्वादावित्यर्थः ।
हेतुसूचकभूतपदोक्तं भूतत्वं न जातिः सङ्करप्रसङ्गात् । पृथिव्यादिपञ्चकान्यतमत्वस्य प्रकृतसाध्ये विरोधेन हेतुत्वासम्भवाद् भूतत्वं निर्वक्ति- बाह्येन्द्रियेति ।। व्याप्तिं साधयतीति ।। अनेन भूतचतुष्टयस्य पृथिवी-त्वादृष्टेरित्येतन्न केवलं हेतुमति साध्याभावादर्शनप्रतिपादकत्वेन व्यभिचारादर्शनप्रतिपादकं किन्तु अपृथिवीत्व-दृष्टेरिति नञ्व्यत्यासेन सहचारदर्शनप्रतिपादकमपीत्युक्तं भवति । अत एव दृष्टिपदप्रयोजनकथनावसरे व्यभिचारा-दर्शनादीत्यादिपदप्रयोगं करिष्यति । पक्षतावच्छेदकाभावस्यैव साध्यत्वे बाधप्रसङ्गात् पृथिव्या इत्येतद् व्याचश्व्े- गन्धवत इति ।। ननु गन्धवत्त्वमेव पृथिवीत्वमिति गन्धवद्द्रव्यस्यापृथिवीत्वसाधने पुनस्तदवस्थो बाध इत्यत आह- जातिविशेष इति ।। भग्नव्याप्तिकमिति ।। व्याप्तिग्रहणसमय एव प्रवृत्तप्रबलप्रमाणविरोधस्या-प्युत्थापकत्वात्प्रकृते च पृथिवीत्वाभावरूपसाध्यप्रतियोगिपृथिवीत्वग्राहकप्रत्यक्षविरोधः स्यात् । उक्तानुमान-व्याप्तिग्रहणसमय एव उपस्थितेरिति भावः । अत एवोक्तं सुधायाम् - ‘किं व्याप्तिग्रहणसमयेऽव्याप्त्युत्थापकः प्रमाणविरोधः स्याद् उतानुमानप्रवृत्त्युत्तरमपि । आद्यस्त्विष्यत एव । मानबाधे न तद्भवेदिति वक्ष्यमाणत्वात्’ इति । येन विनेति ।। अत्र जातितः प्राबल्ये विद्यमानेऽपि धर्म्यादिग्राहकत्वेनोपजीव्यत्वेनापि प्राबल्यमस्तीति तदुपपादितमिति ज्ञातव्यम् । शङ्काऽनास्पदत्वमिति ।। आभासत्वे तारतम्याभावादिति भावः । तत्त्व-मसीत्याद्यागमानामिति ।। एतज्ज्ञापनायैव मूले सर्वश्रुतिमात्रं विरोधित्वेन गृहीतमिति भावः ।
भावदीपः
एतत्तन्त्विति ।। एतत्समवायिकारणत्वेनाभिमततन्तुनिष्ठेत्यर्थः । अन्यत्र सर्वत्राप्यविद्यमानपटस्य एतत्तन्तुष्वभावसाधने मिथ्यात्वमेव सिद्ध्यतीति भावः । पटान्तरस्य स्वोपादानतन्तुष्वेव सत्त्वेनैतत्तन्तुष्वभावात् साध्यानुगमो दृष्टान्ते ध्येयः । हेतोरप्रयोजकत्वनिरासाय हेतुसत्त्वेऽपि साध्याभावोऽस्त्विति साध्याभाव-पक्षे बाधकमाह- विपक्ष इति ।। पदार्थानां दृश्यत्वं तावदस्ति । तच्च दृक्सम्बन्धनिमित्तम् । सम्बन्धश्च न संयोगः। द्रव्ययोरेव संयोगात्, दृशश्चाद्रव्यत्वात् । नापि समवायः । अयुतसिद्धयोरेव तदभ्युपगमात् । नापि विषयविषयिभावः । तस्य दुर्वचनत्वात् । किन्तु अध्यस्ताधिष्ठानभावरूप एव वाच्य इति दृशि अध्यस्तत्वाद् दृश्यमिति वाच्यम् । तथा च मिथ्यात्वाभावे दृग्दृश्ययोः सम्बन्धानुपपत्त्या दृश्यत्वाभावप्रसङ्ग इत्यर्थः । चन्द्र-भेदवदिति ।। एकस्मिन्नेव चन्द्रेऽङ्गुल्यवष्टब्धचक्षुषा प्रतीयमानद्वितीयचन्द्रभेदवदित्यर्थः । एवमग्रेऽपि । विमत-मिति ।। जगदित्यर्थः । तात्त्विकस्वान्तर्भेदेति ।। अन्योन्यप्रतियोगिकभेदहीनमित्यर्थः । गगनवदिति ।। यथा गगनं स्वान्तर्भेदहीनं तथा जगदित्यर्थः । बाधनिरासाय तात्त्विकेति । यद्वा प्रपञ्चमिथ्यात्वे भेदमिथ्यात्वे च मानमुक्त्वा चैतन्यैक्ये मानमाह- विमतमिति ।। जीवब्रह्मरूपचेतनम् एकानेकत्वेन विमतिविषयीभूत-मित्यर्थः। मतत्वात् मतिविषयत्वादित्यर्थः । विमता आत्मान इति ।। देवदत्तेतरात्मान इत्यर्थः । एवं शरीराणीत्यादावपि ज्ञातव्यम् । एवमिति ।। विमतानीन्द्रियाणि देवदत्तस्यैव भोगायतनानि इन्द्रियत्वात् तदीयेन्द्रियवत्, विमतानि चक्षूंषि देवदत्तस्यैव इत्येवं समुदितानि प्रत्येकं वा पक्षीकृत्येत्यर्थः । विमतानि शरीराणी-त्यादिप्रयोगेषु जीवचैतन्यानामैक्येन विना साध्यापर्यवसानाज्जीवैक्यसिद्धिरिति भावः । एवं जीवाना-मन्योन्यमभेदं प्रसाध्य परमात्माभेदं साधयति- तथा जीवा इति ।। कल्पनेति ।। अनेकचेतनकल्पनागौरवेत्यर्थः। एतेषामनुमानानां प्रातिस्विकरूपेण दूषणानि तु ‘इत्येवोपरम्यते’ इति मूलवाक्यव्याख्यानावसाने व्यक्तानि । यच्चेति चशब्दसमुच्चेयस्य व्यवहितत्वादाह- न केवलमिति ।। ‘न च जीवेश्वराभेद एव तात्पर्यमागमस्य’ इत्येतदवतारिकायामुक्तदिशा सर्वागमानां जीवब्रह्मणोरभेदे यन्महातात्पर्यवर्णनं तन्मात्रमेव ‘न च जीवेश्वराभेद एव’ इत्यारभ्य ‘न चाभेदे तात्पर्यमित्यत्र किञ्चिन्मानम्’ इत्यन्तेन ‘न च विशेषणविशेष्यतया’ इत्यारभ्य ‘तस्माद्भेददर्शनं युक्तमेव’ इत्यन्तेन चोक्तानेकप्रमाणसिद्धजीवादिभेदोपेतभगवदुत्कर्षपरत्वापलापात् प्रकाशतस्करत्वं न भवति, किन्तु मिथ्यात्ववर्णनादपीत्यर्थः । पदार्थानामित्युपलक्षणमिति भावेनाऽह- तद्भेदस्य चेति ।। केन कल्पनमित्यतः शेषमाह- अनुमानैरिति ।। प्रागुक्तैरिति भावः । विरुद्धत्वपदं बाधितत्वपरमिति भावेन तदनूद्य व्याचश्व्े- प्रमाणेत्यादिना ।।
धर्मिग्राहिणोऽपि साध्याभावग्राहकत्व एव बाधकत्वमित्यतस्तद्व्यनक्ति- धर्मिग्राहकाणीति ।। सत्यत-येति ।। विधिनिषेधाववधूय प्रत्ययायोगादिति भावः । षष्ठीतत्पुरुषभ्रान्तिं निराह- प्रकाश इति ।। ‘सप्तमी शौण्डैः’ इत्यत्र योगविभागात्समास इति भावः । अथाप्यसङ्गतमित्यत उक्तम्- इवेति ।। समानमिति ।। प्रत्यक्षादीनां प्रामाण्ये सति तद्विरुद्धमिथ्यात्वानुमानानामप्रामाण्यं, तस्मिंश्च सिद्धे तदविरोधात्सत्यत्वग्राहि-प्रत्यक्षादीनां प्रामाण्यमिति समानमित्यर्थः । धर्मिग्राहकत्वेनेति ।। एतच्च प्रकृताभिप्रायेण वाऽनुमानाद्या-शयेन (श्रयेण) वोक्तम् । प्रत्यक्षस्य जात्यैव प्राबल्यात् । तत एव तदनुगुणमेवार्थान्तरमुपन्यस्यति- न हि हरिणेति ।। शावः शिशुः । परीक्षादीति ।। दोषाजन्यत्वादिरूपयुक्त्यनुसन्धानपरीक्षया वा प्रामाण्यनिश्चयेन वा सहकृतत्वहेतुना बलवतेत्यर्थः । नन्वेवं नेदं रजतम् अग्निसम्बन्धे सति दह्यमानत्वात्, पाषाणप्रक्षेपे सति पाट्यमानत्वादित्याद्यनुमानप्रवृत्तेः का गतिरित्यत आह- न तर्कमात्रादिति वदतेति ।। साहाय्यमिति ।। संवादहेतुना तद्दार्ढ्यापादकत्वेनेति भावः । एवमन्यत्रापीति ।। ‘गौरोऽहं’, ‘नीलं नभः’ इत्यादिभ्रमस्थलेऽपीत्यर्थः । समर्थनीय इति ।। विवृतमेतत्सर्वं न्यायामृते प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकोद्धार-वादे । अनुमानमपीति ।। दाहच्छेदाद्यनुमानमपीत्यर्थः । प्रत्यक्षस्येति ।। इदं रूप्यमित्यादिभ्रमरूपस्येत्यर्थः यद्वा दृश्यत्वाद्यनुमानमपि घटपटादिपदार्थग्राहिप्रत्यक्षस्येत्यर्थः । सर्वत्रैवमिति ।। व्याप्त्यादिमत्त्वप्रकारेणेत्यर्थः। अस्पष्टत्वाद्धेतुव्याप्त्यादि व्यनक्ति- इत्यनेनेति ।। भूतत्वस्य जातित्वे साङ्कर्यापत्त्योपाधित्वमुपेत्य तत्स्वरूपो-क्तिर्बाह्येति । एतच्चाऽत्मन्यनतिव्याप्त्यर्थमुक्तम् । गुणवत्त्वस्य द्रव्यमात्रे सत्त्वात्तद्व्यावृत्त्यर्थमिन्द्रियग्राह्येति । गन्धरसरूपस्पर्शशब्दानां पृथिव्यादिभूतपञ्चके यथाक्रमं घ्राणरसनचक्षुस्त्वक्श्रोत्ररूपबाह्येन्द्रियग्राह्यतया तद्वत्त्व-रूपभूतत्वस्य पक्षे गन्धवद्द्रव्ये दृष्टान्तेऽबादिचतुष्टये च सत्त्वात्पक्षधर्मता दृष्टान्ते हेत्वनुगमो व्याप्तिश्चेति भावः। बाधनिरासाय पृथिव्या इत्यनूद्य गन्धवतो द्रव्यस्येत्युक्तम् । पृथिवीत्वमपि यदि गन्धवत्त्वं तदाऽपि बाध इत्यत आह- जातिविशेष इति ।। प्रयोगप्रकारं निष्कृष्याऽह- गन्धवद्द्रव्यमिति ।।
उपजीव्यप्रत्यक्षस्थलेऽस्त्वनुमानं दुर्बलं नाऽन्यत्रेति शङ्कते- विषमोऽयमिति ।। अतिप्रसङ्गरूपोपन्यास इत्यर्थः। न च प्रकृत इति ।। शुक्तिरूप्यादिभ्रमप्रत्यक्षस्थल इति वा दृश्यत्वाद्यनुमानेषु धर्मिभूतघटपटादिप्रत्यक्षस्थल इति वाऽर्थः । आद्ये दाहाद्यनुमानसाध्यप्रत्यक्षस्य नेदं रजतमित्यस्य प्रतियोगिज्ञानजननेन पृथिवीत्वमिव पक्षादन्यत्रापि ग्रहणसम्भवेन पक्ष एव ग्राह्यमिति नियमाभावादिति भावः । द्वितीये मिथ्यात्वाद्यनुमानस्थलेऽपि प्रतियोगिनोऽसत्त्वस्य भेदस्य च पक्ष एव ग्राह्यत्वमिति नियमाभावादिति भावः । येन विनेति ।। तथा चेदं रूप्यमिति भ्रमं विना नेदं रजतं दह्यमानत्वादित्याद्यनुमानाप्रवृत्तेर्भ्रमस्थलेऽप्यनुमानस्य प्रत्यक्षमुपजीव्यमेवेति नानुमानरूपतद्बाधकता । किन्तु ततोऽपि बलवत्प्रत्यक्षस्यैवेति भावः । दृश्यत्वाद्यनुमानस्थलेऽपि आश्रया-सिद्धिनिरासाय प्रत्यक्षादिप्रमाणदृश्व्पदार्थानेव पक्षीकृत्य मिथ्यात्वस्य भेदाभावस्य वा साध्यत्वेन तेन विना दृश्यत्वाद्यनुमानानुदयेनाऽस्ति तत्राप्युजीव्यत्वमिति भावः । ननूक्तमत्र साध्यधर्मं प्रति यत्प्रतियोगि तद्ग्राहकमेव तदभावसाधकानुमानोपजीव्यमिति । प्रकृतं तु न तथेत्यत आह- तच्चेति ।। निषेधरूपसाध्यधर्मं प्रति यत्प्रतियोगि तद्ग्राहकमित्येवमित्यर्थः । व्याप्त्यादिग्राहकमपीति ।। तेन विनाऽप्यनुमानानुत्थानेन येन विनेत्युक्तलक्षण-सत्त्वादिति भावः । प्रकृत इति ।। इदं रूप्यमिति स्थले सर्वमिथ्यात्वानुमानादिस्थले च सत्त्वेनैव धर्म्यादि गृह्णातीति तद्ग्राहकप्रत्यक्षादीति प्रागेवोक्तत्वादिति भावः । भ्रान्तित्वस्य ज्ञानधर्मत्वादाह- भावे क्त इति ।। कर्मण्येव निष्ठामुपेत्याऽह- अथ वेति ।। प्रत्यक्षविरोधोऽकिञ्चित्कर इति श्रुत्यादिविरोधमाहेति भ्रान्ति-निरासायाऽह- यदा तु प्रत्यक्षेति ।। अनुमानस्य दृश्यत्वादिप्रागुक्तानुमानानाम्, ‘यच्च प्रमाणदृष्टानाम्’ इत्यादि-नोपपादितं कालात्ययापदिष्टत्वमित्यर्थः । आभासत्त्वे तारतम्याभावादाह- शङ्केति ।। यदुक्तं दृश्यत्वाद्यनुमानानामुपजीव्यप्रत्यक्षादिबाधितविषयत्वं तत्रोपजीव्यबाधस्य नायं विषय इति भावेन शङ्कते- नन्वस्त्यत्रेति ।। उपजीव्येन बाधविषय इत्यर्थः । प्रमाणभूतं कथं बाध्येतेत्यत आह- तत्रेति ।। प्रमाणानुकूला-नुमानविषय इत्यर्थः । अप्रसक्तस्य निषेधायोगात्प्रसक्तिहेतुत्वेनेत्युक्तम् । आश्रयासिद्धिः कुतो नेत्यत आह- प्रतीतीति ।। प्रकृतं चेति ।। दृश्यत्वादीत्यर्थः । निराकृतत्वादिति ।। ‘न च जीवेश्वराभेद एव तात्पर्यमागमस्य’ इत्यादिनेति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
एतत्तन्त्विति ।। एतत्पटस्य तन्त्वन्तरनिष्ठात्यन्ताभावप्रतियोगित्वं सिद्धमेवास्ति । एतत्तन्तु-ष्वेवास्तीति वक्तव्यम् । तत्रापि तदत्यन्ताभावसाधने मिथ्यात्वमेव सिद्ध्यति । प्रतिपन्नोपाधावत्यन्ताभाव-प्रतियोगित्वस्यैव मिथ्यात्वादिति भावः । अप्रयोजकतां परिहर्तुमनुकूलतर्कमाह- विपक्ष इति ।। पक्षे साध्या-भावशङ्कायामित्यर्थः । ‘पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रहः’ इति कारिकावचनात् । दृक्सम्बन्धेति ।। दृश्यस्येति शेषः । तथा च दृग्दृश्यसम्बन्धेत्यर्थः । तथा हि । यदि जगत्सत्यं स्यात् तदा दृग्दृश्ययोस्सम्बन्धो न स्यात् । चैतन्यरूपाया दृशो दृश्यस्य च संयोगसमवाययोरयोगाद् दृग्रूपचैतन्यस्यासङ्गत्वेन विषयित्वानुपपत्त्या चासम्भ-वाद् दृशि दृश्यं जगदध्यस्तमित्यधिष्ठानाध्यस्तत्वरूपाध्यासिकसम्बन्ध एव वाच्यः । न ह्ययं सम्बन्धो जगतस्सत्यत्वे सम्भवतीति मिथ्यात्वमेव वाच्यमिति भावः । सत्यः स्यादिति ।। धर्मिण एव मिथ्यात्वे तद्धर्मस्य सत्यताया लोकेऽदर्शनादिति भावः । विमतो भेदो जीवेश्वरभेदः ।
‘विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वतः ।
यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा ।।’
इति कारिकोक्तानुमानमाह- विमतमिति ।। विमतं चेतनजडरूपं सर्वम् । व्यावहारिकभेदाङ्गीकारेण बाधवारणाय तात्त्विकपदम् । ‘अभावरूपा धर्मा नाद्वैतं घ्नन्ति’ इति मण्डनमिश्रोक्तेरनृतव्यावृत्तिर्ब्रह्मभिन्ना तात्त्विकीति मते अनृतव्यावृत्तिरूपतात्त्विकभेदवत्त्वस्यैव चैतन्ये सत्त्वेन बाधवारणाय स्वान्तरित्युक्तम् । स्वस्वरूपान्तर्गतो यो भेदः पञ्चभेदस्तद्धीनमित्यर्थः । मतत्वात् मतिविषयत्वाद् दृश्यत्वादित्यर्थः । प्रत्येकं समुदितानि चेति ।। यज्ञदत्तेन्द्रियं देवदत्तस्यैव ज्ञानकरणम् इन्द्रियत्वाद् देवदत्तेन्द्रियवदिति प्रत्येकं, विमतानि यज्ञदत्तविष्णुदत्तादि-सर्वेन्द्रियाणि देवदत्तस्यैव ज्ञानकरणानि इन्द्रियत्वाद् देवदत्तेन्द्रियवदिति समुदितानि पक्षीकृत्य प्रयोक्तव्यमि-त्यर्थः । व्यावहारिकभेदाङ्गीकारेण बाधवारणाय तत्त्वत इत्युक्तम् । अप्रयोजकतां परिहरति- विपक्ष इति ।। जीवानां परमात्माभेदाङ्गीकारे लाघवं, भेदाङ्गीकारे चेतनबहुत्वप्राप्त्या कल्पनागौरवमित्यर्थः । धर्मिग्राहक-तयेति ।। प्रमाणदृष्टानामित्युक्तत्वादिति भावः ।
कथं कालात्ययापदिष्टत्वमित्यतः साध्याभावग्राहकत्वादित्याह- धर्मिग्राहकाणि हीति ।। रूपसम्प-त्त्येति ।। अङ्गसम्पत्त्येत्यर्थः । समानमिति ।। प्रत्यक्षादिप्रामाण्ये सिद्धे तद्विरुद्धत्वादनुमानस्याप्रामाण्यसिद्धिः। (श्री.टि.) अनुमानाप्रामाण्यसिद्धौ तद्विरोधाभावात्प्रत्यक्षादिप्रामाण्यसिद्धिरितीतरेतराश्रयत्वं समानमित्यर्थः। द्वितीयकोटिरसिद्धेत्याह- प्रत्यक्षादीनामित्यादिना ।। प्रबलस्य दुर्बलविरोधाभावापेक्षा नास्तीत्यत्र दृष्टान्तमाह- न हीति ।। तत्र यथा हरिणत्वपञ्चाननत्वादिजात्यैव प्राबल्यदौर्बल्ये तथा प्रत्यक्षत्वानुमानत्वरूपजात्यैव प्राबल्य-दौर्बल्ये इत्याशयः । दाहेति ।। नेदं रजतं दाहच्छेदादिमत्त्वादित्याद्यनुमानेत्यर्थः । अन्यथेति ।। रजतत्वादि-प्रतीतेरनुमानबाधितत्वानङ्गीकार इत्यर्थः । अबाधितत्वेन अबाधितत्वप्रसङ्गेन । तस्याः प्रत्यक्षादिप्रतीतेः । भ्रमत्वं न स्यादिति ।। भ्रमत्वस्य बाधैकवेद्यत्वादिति भावः । ननु प्रत्यक्षत्वाविशेषात्कथमियं शुक्तिरिति प्रत्यक्षस्य प्राबल्यमित्यत उक्तम्- परीक्षादिसहकृतेति ।। दाहच्छेदाद्यनुमानरूपपरीक्षेत्यर्थः । वदतेति ।। केवलार्थकमात्रशब्दप्रयोगेणेत्यर्थः । ननु नीलं नभ इति प्रत्यक्षं नभो न नीलं विभुत्वादित्यनुमानबाध्यं दृष्टम् । तथा प्रादेशपरिमितश्चन्द्रमा इति प्रत्यक्षम्
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।।’
इत्यागमबाध्यं दृष्टम् । अतो ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्युक्तमसदित्यत आह- एवमन्यत्रापीति ।। नभोनैल्यप्रत्यक्षमनुमानमूलभूताव्याकृताकाशस्यानीलत्वावगाहिसाक्षिप्रत्यक्षेणैव बाधितम्,नानुमानमात्रात् । तथा चन्द्रप्रादेशमात्रत्वावगाहिप्रत्यक्षं यद्दूरस्थत्वादिदोषयुक्तं तत्परिमाणादावयथार्थमिति साक्षिप्रत्यक्षेणैव निश्चितत्वात्तेनैव बाधितम्, नाऽगममात्रात् । एवं प्रबलप्रत्यक्षेणैव बाधितत्वात्ततः परं प्रवर्तमानावनुमानागमौ बाधकाविवोच्येते । राजगौरवेण राजभृत्येन अमात्य इवेत्यर्थः । यथाऽऽहुः- ‘दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा । तदाऽपि विपरीतत्वम्’ इति । केवलानुमानेत्युपलक्षणम् । केवलागमेत्यपि ग्राह्यम् । तर्हीति ।। अनुमानेनैव प्रत्यक्षबाधाङ्गीकार इत्यर्थः । ननु न कालात्ययापदिष्टलोपप्रसङ्गः । वह्निरनुष्णः पदार्थत्वादित्यनुमानस्य स्पार्शन-प्रत्यक्षात्प्राबल्याभावेन प्रत्यक्षेणैवानुमानस्य बाधसम्भवादित्यत आह- सर्वत्रैवमिति ।। व्याप्तिपक्षधर्मतावत्त्वेन तस्याप्यनुमानस्य प्रबलत्वात्तेनैव प्रत्यक्षबाधो भविष्यतीति कालात्ययापदिष्टलोपस्तदवस्थ इत्यर्थः ।
हेतुसूचकभूतपदोक्तं भूतत्वं न जातिः, मूर्तत्वेन साङ्कर्यप्रसङ्गात् । पृथिव्यादिपञ्चकान्यतमत्वस्यापृथिवीत्व-रूपप्रकृतसाध्ये विरोधेन हेतुत्वासम्भवात् । अतो भूतत्वं निर्वक्ति- बाह्येन्द्रियग्राह्यगुणवत्त्वलक्षणस्य भूतत्वस्येति ।। दिक्कालयोरपि गुणवत्त्वेन भूतत्वपरिहारायेन्द्रियग्राह्येति गुणविशेषणम् । तथात्वे आत्मनोऽपि मनोरूपान्तरेन्द्रियग्राह्यगुणवत्त्वेन भूतत्वपरिहाराय बाह्येत्युक्तम् । तथा च पृथिव्यप्तेजोवाय्वाकाशानां घ्राण-रसनचक्षुस्त्वक्श्रोत्ररूपबाह्येन्द्रियग्राह्यगन्धरसरूपस्पर्शशब्दरूपगुणवत्त्वाद्भूतत्वमिति द्रष्टव्यम् । व्याप्तिं साधयतीति ।। अनेन गन्धवद् द्रव्यं पृथिवी न भवति भूतत्वादबादिवदित्यनुमाने भूतचतुष्टयस्य पृथिवीत्वा-दृष्टेरित्येतन्न केवलं हेतुमति साध्याभावादर्शनप्रतिपादकत्वेन व्यभिचारादर्शनप्रतिपादकं किन्त्वपृथिवीत्वदृश्व्ेरिति नञो व्यत्यासेन सहचारदर्शनप्रतिपादकमपि भवतीत्युक्तम्भवति । अत एवोत्तरत्र व्यभिचारादर्शनादिनेत्यादि-(श्री.टि.) पदप्रयोगेण सहचारदर्शनं गृहीतम् । तथा च व्यभिचारादर्शनसहचारदर्शनयोरुक्तत्वात् ताभ्यां व्याप्तिः साधिता भवतीत्यर्थः । स्पष्टैवेति ।। घ्राणरूपबाह्येन्द्रियग्राह्यगन्धरूपगुणाश्रयत्वेन भूतत्वस्य पक्षीभूतपृथिव्यां स्पष्टत्वादित्यर्थः । पृथिवी पृथिवी नेति साधने प्रतिज्ञापदयोर्व्याघातपरिहाराय पृथिव्या अपीत्ये-तद्व्याचष्टे- गन्धवत इति ।। ननु गन्धवत्त्वमेव पृथिवीत्वम् । तथा च गन्धवद्द्रव्यं गन्धवद्द्रव्यं नेति साधने पुनस्तदवस्थः प्रतिज्ञापदव्याघात इत्यत आह- पृथिवीत्वमिति ।। व्यभिचारादर्शनादिनेत्यादिपदेन सहचार-दर्शनग्रहणम् । तथा च व्यभिचारादर्शनादिना सिद्धा या व्याप्तिस्तद्वत्त्वादित्यर्थः । व्याप्त्यादीत्यादिपदेन पक्ष-धर्मताग्रहणम् ।
विषमोऽयमुपन्यास इति ।। पृथिव्या अपि पृथिवीत्वं न स्यादित्युपन्यासः । प्रकृते विषमो अनुकूलो न भवतीत्यर्थः । अनेन अनुमानेन । अन्यथेति ।। पृथिवीत्वरूपप्रतियोगिज्ञानाभावे पृथिवीत्वाभावरूपसाध्यस्य ज्ञातुमशक्यत्वादप्रसिद्धविशेषणत्वमित्यर्थः । उपजीव्यत्वेनेति ।। प्रतियोगिग्राहकत्वेनेत्यर्थः । अन्यथेति ।। अनुमानस्यैव प्रत्यक्षबाधकत्व इत्यर्थः । स्वस्यैव अनुमानस्यैव । उदयाभावेति ।। पृथिवीत्वरूपप्रतियोगि-ज्ञानाभावेन तदभावरूपसाध्यस्याप्रसिद्धत्वापत्त्याऽप्रसिद्धविशेषणत्वेनोदयाभावप्रसङ्गादित्यर्थः । तत्रैव पक्षीभूते गन्धवद्द्रव्य एव । तेजोऽवयविनः तेजोरूपावयविनः । ज्ञातत्वादिति ।। तथा च तत्रैव भग्नव्याप्तिकमनुमान-मेवाप्रमाणमित्यर्थः । नैवं प्रकृतेऽस्तीति वैषम्यमित्याह- न च प्रकृत इति ।। जीवाः परमात्मनस्तत्त्वतो न भिद्यन्त इत्यत्र भेदाभावरूपसाध्यधर्मप्रतियोगिभूतभेदस्य घटपटादौ ज्ञानसम्भवेन पृथिवीत्वादिवत्पक्ष एव ज्ञातव्यत्वनियमाभावान्नोक्तरीत्या पक्ष एव भग्नव्याप्तिकमनुमानमित्यर्थः । साध्यधर्मप्रतियोगीति ।। साध्यधर्मस्य यः प्रतियोगी तद्ग्राहकमेवेत्यर्थः । तद्विरोधश्चेति ।। प्रकृते मिथ्यात्वानुमाने धर्म्यादिग्राहकत्वेन प्रत्यक्षस्योप-जीव्यत्वात् । तथा जीवाः परमात्मनस्तत्त्वतो न भिद्यन्त इत्यादौ साक्षिप्रत्यक्षस्य पक्षीभूतजीवग्राहकत्वात् तेन चासार्वज्ञादिविरुद्धधर्माधिकरणत्वेन परमात्मभेदस्यैव गृहीतत्वात्तादृशभेदवत्त्वेन प्रत्यक्षसिद्धजीवपक्षीकारेण परमात्मभेदाभावसाधने धर्मिग्राहकत्वेनोपजीव्यप्रत्यक्षबाधोऽनुमानस्यास्तीत्यर्थः। अत एवोक्तं ‘प्रमाण-दृष्टानामपि पदार्थानाम्’ इति ।
भ्रान्तित्वमिति पदस्वारस्यमङ्गीकृत्य व्याचष्टे- भावे क्त इति ।। तथा च दर्शनस्य प्रत्यक्षस्येति तदर्थ इत्याह- प्रत्यक्षस्येत्यर्थ इति ।। दृष्टस्येति पदस्वारस्यमङ्गीकृत्यापि व्याचश्व्े- अथ वेति ।। सर्वप्रमाणविरुद्धत्वा-दिति ।। सर्वप्रमाणविरुद्धत्वादित्यभिप्रेत्येत्यर्थः । आभासत्वे तारतम्याभावान्नितरामित्ययुक्तमित्यत आह- शङ्केति ।। नन्वनुमानेनैव प्रत्यक्षं बाध्यत इत्युच्यते । ननु तर्हि कालात्ययापदिष्टस्य दोषता वा त्याज्या व्यवस्थापकं वा वक्तव्यमिति चेत्तत्राऽह- नन्वस्त्यत्र व्यवस्थेति ।। शुष्केति ।। प्रमाणानुकूल्यरहितेत्यर्थः । उपजीव्येन प्रत्यक्षेण । उपजीव्यं प्रत्यक्षमिति द्वितीया । ननूपजीव्यस्यानुमानबाधितत्वेनाप्रामाण्ये धर्म्याद्यसिद्ध्याऽनु-मानप्रवृत्तिरेव न स्यादिति चेत्तत्र पृच्छामः, किं निषेध्यसमर्पकत्वेन तत्प्रामाण्यमपेक्षितं धर्मिप्रमित्यर्थं वा । (श्री.टि.) नाऽद्य इत्याह- प्रसक्तीति ।। प्रसक्तिहेतुत्वेन यदुपजीव्यं तस्येत्यर्थः । प्रत्युत तत्प्रामाण्यं निषेध-विरोध्येवेति भावः । न द्वितीय इत्याह- प्रतीतीति ।। धर्मिण इति शेषः । तथा च प्रतीतिमात्रेणाऽश्रयत्वोपपत्त्या तस्याः प्रतीतेः प्रामाण्यं नापेक्षितं येन तज्जनकत्वेनोपजीव्यस्य प्रामाण्यमपेक्षितं स्यादिति भावः । नन्वस्तु प्रमाणानुकूलानुमानस्योपजीव्यप्रत्यक्षबाधकत्वम् । प्रकृतभेदप्रपञ्चमिथ्यात्वसाधकानुमानजातस्य प्रमाणानु-कूल्याभावात् कथं बाधकत्वमित्यत आह- प्रकृतं चेति ।। आगमेति ।। तत्त्वमसीत्यागमेत्यर्थः । तत्त्वमसीत्या-द्यागमानामिति ।। एतज्ज्ञापनायैव मूले सर्वश्रुतीति श्रुतिमात्रं विरोधित्वेन गृहीतमित्यवगन्तव्यम् । निराकृत-त्वादिति ।। ‘अत्र चोपजीव्यत्वेन प्रमाणप्राबल्याद्भेद एव तात्पर्यं युक्तम्’ इत्यादिना निराकृतत्वादित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भेदो मिथ्या मिथ्याभूतप्रपञ्चधर्मत्वाद् वन्ध्यासुतवक्तृत्ववत् इत्युपोद्घातसङ्गत्या करिष्यमाणेऽनुमाने, प्रपञ्चस्य मिथ्यात्वासिद्ध्या हेत्वसिद्धिमाशङ्क्य प्रपञ्चमिथ्यात्वसाधनाय न्यायदीपावल्यामानन्दबोधोक्तमनुमानं शङ्कते- विवादपदमिति ।। पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे शुक्तिरजतादौ तत्सिद्ध्या सिद्धसाधनत्वस्य तदवच्छेदेन साध्यसिद्धेरुद्देश्यत्वपक्षे च ब्रह्मण्यंशे बाधस्य च प्राप्त्या सर्वमिति पक्षनिर्देशानु-पपत्तेर्विवादपदमिति तन्निर्देशः कृत इति द्रष्टव्यम् । एवं साधारण्येन प्रपञ्चमिथ्यात्वसाधकमनुमानमुपन्य-स्यासाधारण्येन तत्साधकतत्त्वप्रदीपिकोक्तमनुमानमुपन्यस्यति- अयं पट इति ।। पटविशेष इत्यर्थः । अत्र पटमात्रं पक्षीकृत्य तस्य एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वसाधने पटान्तरस्य एतत्तन्तुनिष्ठत्वाभावेनैतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वेनापि प्रतिज्ञार्थोपपत्त्याऽर्थान्तरः स्यात्, तन्निवृत्त्यर्थं विशेषग्रहणम् । साध्ये च सादृश्यप्रतियोगित्वेन सिद्धसाधनतापरिहारायाभावेति । प्रागभावादिप्रतियोगित्वेन सिद्धसाधनतापरि-हारायात्यन्तेति । मृन्निष्ठात्यन्ताभावप्रतियोगित्वेन तद्वारणाय तन्त्विति । तन्त्वन्तरनिष्ठात्यन्ताभावप्रतियोगितया तद्वारणाय एतदिति । विपक्षे बाधकाभावादप्रयोजकत्वमुक्तहेतूनामाशङ्क्य परिहरति- विपक्ष इति ।। अयमाशयः- दृश्यस्य सत्यत्वे न तावत् तज्ज्ञानं स्वतः, जडत्वात् । नापि परतः । तदपि न तावदसम्बद्धं प्रकाशकमति-प्रसङ्गात् । नापि सम्बद्धम्, आत्मगुणस्य ज्ञानस्य ज्ञेयेन संयोगसमवाययोरयोगात् । अन्यस्य च सम्बन्धस्या-भावात् । विषयविषयिभावस्याद्विष्ठत्वेनासम्बन्धत्वाद्दुर्निरूप्यत्वाच्च । अतो न तस्य दृश्यत्वं सम्भवतीति दृश्यत्वाभावप्रसङ्गो बाधक इति ।
अस्त्वेवं प्रपञ्चस्य मिथ्यात्वं किं तावतेत्यत आह- तथा चेति ।। एवं परम्परया भेदस्य मिथ्यात्वं प्रसाध्य साक्षादपि तत्साधनाय प्रमाणमालायामानन्दबोधोक्तमनुमानमुपन्यस्यति- किञ्चेति ।। भेदो मिथ्येत्युक्ते चन्द्रभेदादिना सिद्धसाधनमित्यतो विमतग्रहणम् । यावान् कश्चिद्विमतो भेदः स सर्वोऽपीत्यर्थः । भेदग्रहणं विस्पश्वर्थम् । भेदसंवेदनस्य सत्यत्वान्न तद्विषयस्य भेदस्य मिथ्यात्वमित्यत आह- विवादपदमिति ।। यद्वा विषयपक्षकमनुमानमुक्त्वा विषयिपक्षकमपि तदाह- विवादपदमिति ।।
(पां.टि.)
‘विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वतः ।
यदित्थं तत्तथा यद्वत् खं तथेदं ततस्तथा ।।’
इति प्रमाणमालायामानन्दबोधोक्तमनुमानमनुवदति- विमतमिति ।। साध्ये प्रतीतिपराहतिपरिहाराय तात्त्विकग्रहणम् । नृशृङ्गाद्यभावापेक्षया तात्त्विकभेदाभावस्य सिद्धत्वात्सिद्धसाधनता स्यात् । तत्परिहाराय स्वान्तरिति । मतत्वात् ज्ञातत्वादित्यर्थः । इदानी प्रतिभासमानभोक्तृभेदस्य तात्त्विकत्वनिरासकं तदुक्त-मेवानुमानमुपन्यस्यति- विमता इति ।। देवदत्ते तद्देवदत्तभेदाभावस्य सिद्धत्वात्सिद्धसाधनतापरिहाराय विमता इति । आत्मग्रहणं स्पष्टार्थम् । साध्ये तत्त्वत इति पूरणीयम् । अन्यथा बाधप्रसङ्गात् ।
जीवानां परस्परभेदनिरासकं तदुक्तमेवानुमानमुपन्यस्यति- विमतानीति ।। प्रत्येकमिति ।। देवदत्तस्य शरीरस्य देवदत्तभोगायतनतायाः सिद्धत्वात्सिद्धसाधनतापरिहाराय विमतानीति । विमतं चक्षुर्देवदत्तस्य रूप-ग्रहणसाधनं भोगसाधनत्वात्, चक्षुष्ट्वाद्वा देवदत्तचक्षुर्वत्, विमतं रसनं देवदत्तस्य रसग्रहणसमर्थं भोगसाधनत्वात्, रसनत्वाद्वा देवदत्तरसनवत्, इत्येवं प्रत्येकमित्यर्थः । समुदितानीति ।। विमतानीन्द्रियाणि देवदत्तस्यैव भोग-साधनानि इन्द्रियत्वात्, भोगसाधनत्वाद्वा देवदत्तेन्द्रियवदिति समुदितानीन्द्रियाणि पक्षीकृत्य प्रयोक्तव्यमि-त्यर्थः । एवं जीवानां परस्परभेदाभावं प्रसाध्य जीवपरमात्मनोस्तात्त्विकभेदाभावं साधयत् तदुक्तमेवानुमान-मुपन्यस्यति- तथेति ।। बाधपरिहारार्थं तत्त्वत इति साध्ये विशेषणम् । विमतो भेद इत्याद्यनुमानेष्वप्रयोज-कत्वमाशङ्क्य परिहरति- विपक्ष इति ।। आत्मान्यस्यापि सत्यत्व इत्यर्थः । न च तर्हि गौरवाद्बिभ्यता शून्यवाद एवातिलघीयानङ्गीकार्यः स्यादिति वाच्यम् । प्रामाणिकत्वादात्मसत्यत्वस्य तत्र गौरवस्यादोषत्वादित्या-शयात् । केचित्त्वात्मभेदाभावसाधकानुमानेष्वप्रयोजकत्वशङ्कापरिहारायेदम् । तथा हि । न तावदयमात्मा अणुः सकलशरीरव्यापिवेदनानुसन्धानानुपपत्तिप्रसङ्गात् । नापि मध्यमपरिमाणो निरवयवत्वाद् गगनवत् । ततः परिशेषाद्व्यापकोऽभ्युपेयः । ‘आकाशवत्सर्वगतश्च नित्यः’ इति श्रुतेश्च । स चैकः परस्यापि सम्मतः । ‘यो बहून् कल्पयत्यसावेकम्’ इति न्यायात् । तेनैकैकेन सर्वेषां भोगायतनत्वाद्युपपत्तौ वास्तवात्मभेदकल्पने गौरवमेव बाधकम् । यथाऽऽकाशस्यैकत्वेऽपि कर्णशष्कुलीभेदोपाधिकभेदाच्छब्दोपलम्भानुपलम्भव्यवस्था, यथा दिश एकत्वेऽपि प्राच्यादिव्यवस्था आदित्यसंयोगोपाधिकभेदादेव, यथा वा कालस्यैकत्वेऽपि मुहूर्तयामाहोरात्रादि-व्यवस्था कल्पितभेदादव्याहताऽभ्युपेयते तार्किकैस्तद्वदिहापि भविष्यतीत्याहुः ।
अस्त्वेवं भेदभेद्यात्मकस्य प्रपञ्चस्य मिथ्यात्वं किं तावताऽपीत्यतोऽभिप्रेतमर्थं दर्शयति- तदेवमिति ।। ननु प्रमाणेनादृष्टान्पदार्थादीन् पक्षीकृत्यानुमानैर्मिथ्यात्वसाधनान्न बाधितविषयत्वमित्यतोऽत्र पदार्थादीनां प्रमाण-दृष्टत्वपक्ष एव बाधितत्वमुच्यते, न तु तददृष्टत्वपक्षेऽपि । तत्र तु दूषणान्तरमेवेत्यतो नानुपपत्तिरित्यभिप्रेत्य अत्र सम्भावितविकल्पद्वयं मनसि निधायाऽद्यं बहिरेव प्रदूष्य द्वितीयपक्षदूषणपरतया मूलं योजयति- किमि-त्यादि ।। आश्रयासिद्धिः स्यादिति न्यायरीत्योक्तं न स्वरीत्या । स्वमते तददूषणत्वस्यान्यत्र स्थितत्वादिति (पां.टि.) द्रष्टव्यम् । भेदभेदिरूपप्रपञ्चस्यानुमानैर्मिथ्यात्वसाधनशङ्काया मूलारूढतासिद्ध्यर्थमपेक्षितपूरणेन पदार्थानामित्यादि व्याचश्व्े - पदार्थानामिति ।। उत्तरग्रन्थानुरोधाद्विरुद्धत्वे बाध्यत्वमेव । तच्च पदार्थादिग्राहक-प्रमाणानामधिकबलत्वं विना न सम्भवतीत्यतस्तदुपयोगिनीमधिकबलतां पूरयन् कथं साऽपीत्यतो हेतूक्त्या तामुपपादयति- धर्मिग्राहकतयेति ।। अनेनोपजीव्यत्वात्पदार्थादिग्राहकप्रमाणानामनुमानाद्यपेक्षया प्राबल्य-मित्युक्तं भवति ।
ननु नाधिकबलत्वमात्रं बाधकतायां तन्त्रम्, अतिप्रसङ्गात्, किन्तु विरुद्धार्थत्वविशिष्टमेव । तदिह पदार्थादि-ग्राहकाणां प्रत्यक्षादीनामुपजीव्यत्वादनुमानाद्यपेक्षयाऽधिकबलत्वेऽपि विरुद्धार्थत्वाभांवात् कथं बाधकत्वमित्यतः, तेषां विरुद्धार्थतां दर्शयति- धर्मिग्राहकाणीति ।। मिथ्यात्वसाधनस्य प्रकाशतस्करत्वरूपत्वाभावात्कथं तदित्यतो व्याचश्व्े - प्रकाशेति ।। उक्तमाशयमजानानः शङ्कते - नन्विति ।। प्रमाणत्वाविशेषेऽपि प्रत्यक्षादिभिरेवानुमानानां बाधो न त्वनुमानैः प्रत्यक्षादीनामित्यत्र नियामकाभावादिति भावः । समानमिति ।। प्रत्यक्षादीनां प्रामाण्ये सिद्धे तद्विरोधादनुमानानामप्रामाण्यसिद्धिस्तत्सिद्धौ च तद्विरोधाभावात्तत्प्रामाण्यसिद्धिरिति समानमित्यर्थः। प्रबलस्य दुर्बलविरोधपरिहारानपेक्षायां दृष्टान्तमाह- न हीति ।। अन्यथेति ।। अनुमानस्य प्रत्यक्षबाधकत्व इत्यर्थः । अबाधितत्वेनेति ।। अनुमानातिरिक्तबाधशून्यत्वेनेत्यर्थः । परीक्षासहकृततयेति ।। विशेषदर्शन-जन्यस्वसमानविषयकज्ञानान्तररूपसजातीयसंवादार्थक्रियाकारिरूपविजातीयसंवादविसंवादाभावरूपपरीक्षा-सहकृततया नेदं रजतमिति प्रत्यक्षस्य बलवत्त्वम् । इदं रजतमिति प्रत्यक्षस्य तु तद्विरहाद्दुर्बलत्वमित्यर्थः । ननु न तर्कादिति वक्तव्यं मात्रपदमधिकमित्यतस्तत्सूचितमर्थमाह- न तर्केत्यादि ।।
ननु नीलं नभः, पीतः शङ्ख इत्यादिप्रत्यक्षादेर्नीरूपत्वश्वैत्यानुमित्यादिबाध्यत्वदर्शनात्कथं प्रत्यक्षादेः केवलानु-मानबाध्यत्वाभाव इत्यत आह- एवमन्यत्रापीति ।। निरवकाशत्वादिति ।। निरवकाशप्रयुक्तप्राबल्यस्योप-जीव्यत्वप्रयुक्तप्राबल्यापेक्षया प्रबलत्वाद् उपजीव्यभूतप्रत्यक्षादिबाधकत्वं निरवकाशस्यानुमानस्य युक्तमिति भावः । सर्वत्रेति ।। वह्निरनुष्णः पदार्थत्वादित्यादावित्यर्थः । व्यवस्थापकस्य चाभावादिति भावः । ननु भूतत्वं न जातिर्मूर्तत्वेन सङ्करप्रसङ्गात् । नाप्युपाधिः । तदनिर्वचनादित्यत आह- बाह्येति ।। व्याप्तिं साधय-तीति ।। व्यभिचाराभावोपदर्शनेनापृथिवीत्वदृष्टेरिति नञ्व्यत्यासेन सहचारोपदर्शनेन च व्याप्तिसाधनादिति भावः । अत एवोत्तरत्र व्यभिचारदर्शनादिनेत्यादिपदमिति द्रष्टव्यम् । स्पष्टैवेति ।। अत एव मूले तदनुपपादनेन न दोष इति भावः । पृथिवीत्वजातिविशिष्टस्य पृथिवीत्वाभावसाधनस्य व्याहतत्वादाह - गन्धवतो द्रव्यस्या-पीति ।। गन्धवद्द्रव्ये गन्धवद्द्रव्यत्वरूपपृथिवीत्वाभावस्यापि व्याहतत्वादाह- जातिविशेष इति ।। अभिप्रायमाह- गन्धवद्द्रव्यमित्यादिना ।। ननु भेदभेद्यादिप्रपञ्चग्राहकप्रत्यक्षस्य तन्मिथ्यात्वानुमानबाध्यत्वे गन्धवद्द्रव्ये पृथिवीत्वग्राहकप्रत्यक्षस्याप्यपृथिवीत्वानुमानबाध्यत्वं स्यादिति प्रागुक्ततर्के दृष्टान्ताभावेनाऽ-पाद्यापादकयोर्विशेषतो व्याप्त्यनुपपत्त्या यद्विशिष्टस्य यस्य यद्भवति इत्याद्यविशेषलक्षणसामान्यव्याप्तेरेव तर्कमूल-(पां.टि.) तयाऽवश्याश्रयणीयतया प्रकृते च प्रपञ्चग्राहकप्रत्यक्षस्य पृथिवीत्वग्राहकप्रत्यक्षस्य च प्रत्यक्षत्वादि-विशेषेऽपि प्रपञ्चग्राहकस्य प्रत्यक्षस्य तन्मिथ्यात्वानुमानं प्रत्यनुपजीव्यत्वात् तदपेक्षया प्राबल्याभावेन तद्बाधक-त्वानुपपत्त्या व्याप्तिपक्षधर्मतावत्त्वेन निरवकाशतन्मिथ्यात्वानुमानबाध्यतायाः पृथिवीत्वग्राहकप्रत्यक्षस्य चापृथिवीत्वानुमानं प्रत्युपजीव्यत्वेन तदपेक्षया प्राबल्यात् तद्बाधकत्वोपपत्त्या तदबाध्यतायाश्च सम्भवेना-विशेषासिद्ध्याऽविशेषरूपसामान्यव्याप्तेरप्यसम्भवेन मूलशैथिल्यात्तर्काभासोऽयमित्यभिप्रेत्य, भवेदेतदेवम्, यदि पृथिवीत्वग्राहकप्रत्यक्षस्यापृथिवीत्वानुमानं प्रत्युपजीव्यत्वं स्यात्, तदेव कथमित्यतः प्रतियोगिग्राहकत्वेन तदुपदर्शयति- विषमोऽयमुपन्यास इत्यादि ।। अभावश्चेति ।। ससम्बन्धिकपदार्थज्ञानस्य सम्बन्धिता-वच्छेदकप्रकारकसम्बन्धिज्ञानसाध्यत्वादिति भावः । अन्यथेति ।। पृथिवीत्वज्ञानाभावे पृथिवीत्वाभाव-ज्ञानासम्भवादिति भावः ।
ननु प्रत्यक्षस्य प्रतियोगिग्राहकत्वेनोपजीव्यताया बाधकत्वोपयोगिप्राबल्यहेतुताया अक्लृप्तत्वान्न तदङ्गी-कारोऽत्रोचित इत्यतस्तस्य क्लृप्ततां दर्शयति- यथेति ।। एतच्च तेजोऽवयविमात्रस्य पक्षत्वमनुष्णत्वस्यैव च साध्यत्वमभिप्रेत्योक्तम् । तेजोऽवयविविशेषस्य पक्षतायां तेजोऽवयविमात्रस्य पक्षतायामपि शीतत्वस्य साध्यतायामुक्तप्रकारानवतारादिति द्रष्टव्यम् । ननु पृथिवीत्वग्राहकप्रत्यक्षस्येव जगद्ग्राहकप्रत्यक्षस्याप्युप-जीव्यतायाः सत्त्वादविशेषः स्यादेवेत्यत आह- न चेति ।। घटो व्यापकः सत्त्वादित्यत्र प्रत्यक्षस्य धर्मिमात्र-ग्राहकत्वेन, शुचि नरशिरःकपालं प्राण्यङ्गत्वादित्यत्र शब्दस्य साध्यमात्रग्राहकत्वेन, मनो विभु समवाय्याधार-त्वादित्यत्रानुमानस्य हेतुमात्रग्राहकत्वेनोपजीव्यताया दृश्व्त्वेन साध्यधर्मप्रतियोगिग्राहकत्वेनैवोपजीव्यत्वस्य नियन्तुमशक्यतया, ‘येन विना यस्य नोत्थानं तत्तस्योपजीव्यम्’ इत्येवंरूपोपजीव्यत्वस्यैवाऽश्रयणीयत्वेन जगद्ग्राहकप्रत्यक्षस्य साध्यधर्मप्रतियोगिग्राहकत्वाभावेऽपि धर्मिसाध्यलिङ्गव्याप्त्यनुमितिस्वरूपतत्प्रामाण्यादि-ग्राहकत्वेन जगन्मिथ्यात्वानुमानं प्रति सुतरामुपजीव्यत्वेन, उपजीव्यत्वानुपजीव्यत्वाभ्यां विशेषाभावेना-विशेषसिद्ध्या युक्त एव तन्मूलकोक्तप्रसङ्गावतार इत्याशयेन समाधत्ते- येन विनेत्यादि ।। दृष्टिविषयस्य घटादेर्भ्रान्तित्वस्य परेणानभ्युपगतत्वेन तन्निषेधानुपपत्त्या दृष्टपदस्य दृश्यते एतद्दृष्टमिति कर्मसाधनताया अनुपपन्नत्वात्, दृष्टिर्दृष्टमिति भावसाधनोऽयं दृष्टशब्द इत्याह- दृष्टस्येति भावे क्त इति ।। कर्मणि क्तप्रत्ययमङ्गीकृत्यापि दृष्टिविषयस्य भ्रान्तित्वमुपपादयति- अथ वेति ।। नन्वाभासत्वे तारतम्याभावात् तदर्थकस्य नितरामित्यस्यानुपपत्तिरित्यतस्तदर्थमाह- शङ्केति ।। तथाऽपि न कालात्ययापदिष्टोच्छेदो व्यवस्थापक-सद्भावादित्यभिप्रेत्य शङ्कते- नन्विति ।। नन्वेवमुपजीवकेनानुमानेनोपजीव्यस्य प्रत्यक्षस्य बाधने अनुमानानुद-यापत्त्या न तेन प्रत्यक्षस्य बाधः स्यादित्यतः किं निषेधस्य प्रमाणेनाप्रसक्त्याऽनुमानानवतारोऽभिमत उत धर्म्यसिद्धेरिति विकल्पं मनसि निधायाद्यं दूषयति- तत्रेति ।। न द्वितीय इत्याह- प्रतीतिमात्रेणेति ।। तथा चाऽश्रयतायां सत्त्वस्याप्रयोजकतया न तत्सिद्ध्यर्थतयाऽप्युपजीव्यस्य प्रामाण्यापेक्षेति भावः ।
लघुप्रभा
(व्या.टि.)
एवं भेदप्रतीतेरन्योन्याश्रयादिनोत्पत्तिं निरस्य सर्वोत्तमत्वमाक्षिप्य समाहितम् । अधुना विषय-मिथ्यात्वेन तत्प्रतीतिप्रमात्वमाक्षिप्य पुनस्तदाक्षेप्तुं भेदमिथ्यात्वे तत्प्रतीतिभ्रान्तित्वे तदुपयोगिभेदमिथ्यात्वे तदनुरोध्यात्मैक्ये चानुमानान्युदाहरति- नन्वित्यादिना ।। अत्र विश्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधोऽध्यस्ते सिद्धार्थतेत्यतो विवादपदमित्युक्तम् । विवादस्यानेकत्वेऽपि साध्यविशेषोपादानात् तद्विशेषसिद्धिः । द्वितीये पटान्तरतन्त्वन्तरान्योन्याभावं चाऽदाय सिद्धार्थताऽर्थान्तरतावारणाय क्रमेण इदमेतदत्यन्ताभावपदानीति बोध्यम् । शेषं सुगमम् । सम्बन्धेति ।। द्रव्यत्वायुतसिद्धत्वाभावेन संयोगसमवाययोरित्यर्थः । ‘विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वतः । यदित्थं तत्तथा यद्वत् खं तथेदं ततस्तथा’ इत्यान्तर्गणिकभेदाभावानुमानं सुरेश्वरवार्तिकोक्तमर्थतोऽनुवदति- विमतमिति ।। जीवानां पारस्परिकभेदाभावेऽनुमानम्-आत्मान इति ।। परकायप्रवेशेन यक्षवद्देवदत्तस्यापि परकीयदेहभोगसम्भवादाह- देवदत्तस्यैवेति ।। परमात्मनीतरभेदाभावेऽ-नुमानम्- तथेति ।। निगमयति- तदेवमिति ।।
ननु मूले ‘प्रमाणदृष्टानामपि मिथ्यात्वकल्पनम्’ इत्यन्यथाऽनुवादः, तेन रूपेणापक्षीकरणात् । विमतेः पक्षतावच्छेदकत्वेन प्रमाणदृष्टेरपक्षतावच्छेदकत्वादित्यतो विकल्पेन प्रत्यवस्थानान्न दोष इत्याशयेनाऽह- अत्रोच्यत इति ।। समुच्चेयाभावेन चशब्दवैयर्थ्यमाशङ्क्य निराह- न केवलमिति ।। चशब्द इति ।। समुच्चिनोतीति शेषः । ‘न चाभेदे तात्पर्यमित्यत्र किञ्चिन्मानम्’ इति माननिरासेनार्थलभ्यं(ब्धं)कल्पनमिह समुच्चेयमिति भावः। तद्भेदस्य चेति मूलशेषोक्तिः । ननु कथमेषां तद्बाधितत्वं तेषामेतद्ग्राह्याभावानवगाहित्वादित्यत आह- धर्मि-ग्राहकाणि हीति ।। साध्यविपरीतरूपेणेति शेषः । यद्वक्ष्यति ‘सत्यतया’ इति । बाधकत्वे विपरीतविषयत्वं तन्त्रं न पक्षतावच्छेदकावच्छेदेन । अंशबाधोच्छेदापत्तेः । प्रकृते तदप्यस्तीत्याह- पदार्थांस्तद्भेदं चेति ।। प्रकाशाप-हारित्वभ्रान्तिं वारयति- प्रकाशेति ।। तस्करत्वमिवेति ।। ‘तद्वहतोः’ इति करस्य सुट् तलोपश्चेति ज्ञेयम् । इवेत्यनेन मूले रूपकमिति सूचयति । तस्करत्वं नाम धनस्वाम्यदृष्टापहारित्वं चौर्यापरपर्यायम् । तद्यथा तत्स्वामि-दर्शने विहन्यते । तद्दर्शिभिः प्रतिघातेनापहारशक्तिविच्छेदात् । तथेहापीत्यर्थः । यामिकगृहे चोर इवेत्यनेन समानमेतत् । वैपरीत्यं शङ्कते- नन्विति ।। स्थितं स्यादिति ।। सिद्धं स्यादित्यर्थः । स्थिते प्रामाण्ये बलवतो बाधकता सिद्ध्येत् । तदेव न सेत्स्यतीत्याह- न चैवमिति ।। अनेन को दोषः प्रादुःष्यादित्यत आह- तथा चेति ।। प्रबलदुर्बलानपेक्षवृत्तिं व्यतिरेकमुखेन निदर्शयति- न हीति ।। अबाधितत्वेनेति ।। बाधकान्त-राभावादिति भावः । अनुमानमपीति ।। अनेन तर्कपदं सामान्योपलक्षणमिति सूचयति । साहाय्यमिति ।। ‘योपधाद् गुरूपोत्तमाद्वुञ्’ इति प्रकृत्य ‘सहायाद्वा’ इति वुञो वैकल्पिकत्वात्पक्षे ष्यञिति भावः । अत्र मूले तर्कमात्रादिति तर्कमात्रशब्दस्यावधारणार्थकस्य तर्कशब्देन मयूरव्यंसकादित्वान्नित्यस्तत्पुरुषसमासो बोध्यः । तर्क एवेति तु विग्रहः । सुप्समासत्वे तदनित्यत्वस्य ‘अव्ययम्’ इत्यादिपृथक्समासविधानेन ज्ञापितत्वेन नित्यत्वा-नुपपत्तेः । समासान्तरस्याप्रसक्तत्वात् ।
(व्या.टि.) ननु देहात्मैक्याध्यासो विनाशा(शत्वा)द्यनुमानबाधित इति नायं नियम इत्याशङ्क्य एतमेव न्यायमन्यत्राप्यतिदिशति- एवमिति ।। व्युत्पाद्येति ।। व्युत्पादनप्रकारस्तु ‘मम देह इति ह्येव न देहोऽहमिति प्रमा’ इत्यनुव्याख्यानोक्तदिशा बोध्यः । ननु बाधकतायां प्राबल्यं तन्त्रं लाघवात् । न तु प्रत्यक्षत्वादिजाति-विशेषोऽपि गौरवात् । तथा चानुमानमपि यदि निरवकाशत्वादिना प्रबलं तदा तदपि प्रत्यक्षं बाधतां किमनेन निर्मूलेन नियमनिबन्धेनेत्याशङ्कते- नन्वनुमानमपीति ।। विपक्षे बाधकादनियमो नेत्याह- कालात्ययापदिष्ट-मात्रेति ।। अत्र मात्रेति कार्त्स्न्ये । ननु तथाऽपि मूले पृथिवीत्वादृष्टेरित्यनुपपन्नम् । पञ्चम्या दौर्लभ्यात् । ‘विभाषा गुणेऽस्त्रियाम्’ इति सूत्रे गुणे हेतावस्त्रीलिङ्गे पञ्चमीविधानात् । अस्या गुणत्वेऽपि शब्दस्य स्त्रीलिङ्गत्वा-दिति चेत्, विभाषेति योगविभागादगुणे स्त्रियामपि भवति । अन्यथा धूमादग्निमान्, घटो नास्त्यनुपलब्धेरित्यादि-प्रयोगानुपपत्तेरिति वैयाकरणैरेवोक्तत्वादित्यवेहि । चतुष्टयस्येति ।। सङ्ख्याया अवयवे तयबिति भावः । इत्यनेनेति ।। भूयोदर्शनेन व्यभिचाराभावसिद्धेरित्यर्थः । स्पष्टैवेति ।। पृथिव्यां घ्राणेन गन्धं जिघ्रामीत्यनुभव-सिद्धत्वादित्यर्थः । प्रतिज्ञाव्याघातं विहन्ति- गन्धवत इति ।। तथाऽपि व्याघात इत्यत आह- जातिविशेष इति ।। प्रयोगप्रकारं दर्शयति- गन्धवदिति ।।
वैषम्यं शङ्कते- विषम इति ।। ज्ञानाधीनज्ञान इति बहुव्रीहिः । अनुमिमानेनेति ।। अत्रानुपूर्वात् ‘माङ् माने शब्दे च’ इत्यस्माल्लटः शानचि ‘भृञामित्’ इत्यभ्यासस्येत्त्वे ‘श्नाभ्यस्तयोरातः’ इत्यालोपे रूपं द्रष्ट-व्यम् । अन्यथेति ।। पृथिवीत्वज्ञानाभावेत्यर्थः । अप्रसिद्धेति ।। यद्यप्यभावसाध्यके व्यतिरेकिणि साध्याप्रसिद्धिर्न दोषः । अत एव नैयायिका अपि व्यतिरेकिणि साध्यमभावरूपतया योजयन्ति । तथाऽप्यन्वयिनि प्रतियोग्यप्रसिद्धौ तद्विशिष्टाभावग्रहानुपपत्तेरित्यर्थोऽवसेयः । इतीति ।। साध्यप्रतियोगिग्राहकेणेत्यर्थः । अन्यथेति ।। उपजीव्य-स्यैवोपजीवकेन बाध इत्यर्थः । उदयेति ।। तत्प्रतियोगिकत्वेन साध्यानुमितिविरहादिति भावः । स्थितौ निर्णये, तत्रैव गन्धवद्द्रव्य एव । भग्नव्याप्तिकमिति ।। ‘भञ्जो अवमर्दने’ इत्यस्मात् ‘ओदितश्च’ इति निष्ठानत्वम् ‘अनिदिताम्’ इति नलोपः । नत्वस्यासिद्धत्वात्कुत्वं च बोध्यम् । अनेन व्याप्तिमत्त्वेन निरवकाशत्वरूप-प्राबल्यबीजं निरस्तम् । एवेत्यनेन न पराप्रामाण्ये हेतुरित्याचष्टे । तन्निदर्शयति- यथेति ।। प्रतिज्ञातवैषम्यं निगमयति- न चेति ।। मिथ्यात्वाद्यनुमानानां भावसाध्यकत्वेन प्रत्यक्षस्य साध्यप्रतियोगिग्राहकत्वाभावादिति भावः। उपजीव्यत्वस्यैकप्रकारानियतत्वेनैकाभावेऽप्यपरसम्भव इत्याशयेनोपजीव्यत्वं लक्षयति-येन विनेति ।। अत्र येन यस्योपकारस्तत्तस्योपजीव्यमित्युक्ते न्यायमते प्रामाण्यपरतस्त्वेन प्रमाणमात्रप्रामाण्यग्राहकत्वेना-नुमानस्य प्रत्यक्षाद्युपजीव्यत्वम्, मीमांसकमते ‘सत्रादुदवसाय पृष्टशमनीयेन यजेरन्’ इत्यादिना विहितोत्तराङ्गस्य फलोपकार्यङ्गमात्रस्य च सत्राद्युपजीव्यत्वं स्यादित्यतिप्रसङ्गवारणाय यस्य येनोदय इत्युक्तम् । अत्र येन यस्योद-यस्तत्तस्योपजीव्यमिति विधिमूललक्षणकरणे यादृच्छिकसंवादिलिङ्गविभ्रमादपि प्रमाऽनुमित्युदयेन तस्याप्युप-जीव्यत्वप्रसङ्गं वारयितुं व्यतिरेकमुखतो लक्षणमिति ध्येयम् । तच्च साधारणं नैकव्यक्तिमात्रनिष्ठमित्याह- (व्या.टि.) तच्चेति ।। अन्यथा दहनशैत्यानुमानस्य प्रत्यक्षबाधानापत्तेरिति भावः । धर्मीति ।। तथा च धर्मि-ग्राहकत्वेन प्रत्यक्षस्योपजीव्यत्वं स्थिरमिति भावः । ततः किमित्यत आह- तद्विरोधश्चेति ।। कथमिति ।। किमाक्षेपे, न कथमपीत्यर्थः । अत्र दृष्टस्येति कर्मणि निष्ठान्तत्वे भ्रान्तित्वानन्वयादाह- भाव इति ।। ‘नपुंसके भावे क्तः’ इति सूत्रादिति भावः । भावसाधनत्वेन लब्धार्थमाह- प्रत्यक्षस्येति ।। यद्यपि ज्ञानार्थयोर्भ्रमत्वं परस्येष्टम् । यदाह - ‘भ्रमोपादानमज्ञानम्’ इति । तथाऽपि शाब्दिकमर्यादयैवमुक्तमिति भावः । यद्वा निष्ठान्तस्य कर्मसाधनत्वेऽपि नानन्वयः । ‘इष्टिश्चितिराहुतिः’ इत्यादाविव भ्रान्तित्वमित्यत्र क्तिनोऽपि कर्मण्युपगमादि-त्याह- अथ वेति ।। उक्तं कालात्ययापदिष्टं कैमुतिकन्यायसिद्धं चेत्युपसंहाराभिप्रायं वदन् कैमुतिकन्यायं दर्श-यति- यदेति ।। इत्युपसंहरतीत्यन्वयः । कैमुत्यद्योतकं नितरामिति पदं व्याचश्व्े- शङ्केति ।। किमेत्तिङव्यय-घादाम्वद्रव्यप्रकर्षे’ इत्यव्ययपूर्वात्तरप आमुप्रत्यये तद्रूपम् । ननूपजीव्यमुपजीवकस्य बाधकमिति व्यवस्थितोऽयं न्यायः, व्यवस्थापकसद्भावात् । तथा हि । उपजीव्यं द्विविधं प्रसञ्जकं प्रमापकं चेति । उपजीवकमपि निषेधकं विधायकमिति । उभयमपि शुष्कं प्रमाणानुकूलं चेति । तत्र निषेधकं प्रति प्रसञ्जकमुपजीव्यमपि नोपजीवकं बाधते । अन्यथा भ्रान्तेर्बाधकबाधकतापत्तेः । उपजीवकमपि न सर्वबाध्यम् । शुष्कस्य बाधेऽपि प्रमाणसनाथस्य बाधे प्रमाणानामपि बाधापत्तेः । इह च मिथ्यात्वस्य सत्त्वनिषेधरूपत्वेन धर्मिग्राहकमपि प्रत्यक्षं प्रसञ्जकतया नोपजीवकबाधकं, किन्त्वनुमानमुपजीवकमपि प्रमाणसनाथमुपजीव्यमेव बाधतामित्याशयेन शङ्कते- नन्व-स्तीति ।। निराकृतत्वादिति ।। भूते निष्ठा । ‘न चाभेदे किञ्चिन्मानम्’ इति मूलेनेति शेषः ।