टीका

स्वमतेन धर्मादिसिद्धिप्रकारः

टीका  

उच्यते । किमेवं वदतो धर्मादौ सन्देह उताऽभावनिश्चयः । आद्ये न तत्र प्रवर्तेत नापि निवर्तेत । द्वितीये कुतोऽसाविति वाच्यम् । घटाद्यभावनिश्चय इव प्रत्यक्षेणैव धर्माद्यभावनिश्चय इति चेन्न । अयोग्यतया चक्षुषा रसस्येव प्रत्यक्षेण सतोऽप्यग्रहणोपपत्तेः । ननु किं योग्यताविशेषणेन यन्नोपलभ्यते तन्नास्त्येवेति चेत् । स्यादेतदेवं यद्यत्र वादिनो न विप्रतिपद्येरन्, यदि च चक्षुरादिना रसादिकमयोग्यतया न गृह्यत इति न स्यात् । सत्यां तु वादिविप्रतिपत्तौ सति चायोग्यतया क्वचिदनुपलम्भे प्रत्यक्षानुपलब्धिः संशयमेव सम्पादयति । किमनुपलम्भान्नास्त्येव धर्मादिकमुत वाद्यन्तरोक्तरीत्या चक्षुषाऽनुपलभ्यमानोऽपि रसो रसनेनेवायोग्यतया प्रत्यक्षेणानुपलभ्यमानमपि प्रमाणान्तरादस्तीति । नहि न्यायमतिक्रम्य स्वसमयमात्रेण संशयोत्तारो युज्यते । तथाचैतत्संशय-निरासार्थमप्यागमादिकं प्रमाणमङ्गीकार्यम् । तथा सति तेनैव सुकरं धर्मादिसाधनम् ।

किञ्चाऽगमादिप्रामाण्याभावे लोकव्यवहारोच्छेदः प्रसज्येत । ननु सम्भावनामात्रेण तत्सिद्धिः। संवादेन च प्रामाण्याभिमान इति चेत् । एवं तर्ह्यागमादिकं ज्ञानमुत्पादयति तच्च संवादीत्यङ्गी-कृतम् । किमतोऽधिकं  प्रामाण्यं  नाम यन्नाङ्गीक्रियते    तदेवं  चार्वाकेणापि धर्मादिकमङ्गीकार्यमिति स्थितम् ।

। इति चार्वाकनिरासः ।

भावदीपः

आगमादिनैव धर्मादिनिश्चयः । आगमादिप्रामाण्यं च धर्मतदभावकोटिकसंशयोत्तारार्थमङ्गीकार्यमिति विवक्षुर्ग्रन्थकारो धर्मादिसन्देहमाह- किमेवमिति । न तत्रेति ।। इश्वपूर्तादिधर्म इत्यर्थः । लोक इति योज्यम् । बहुवित्तव्ययायाससाध्यत्वान्न प्रवर्तेत । पारत्रिकादिश्रेयोऽपेक्षित्वादभावानिश्चयान्न निवर्तेतेत्यर्थः ।। स्यादेतदेव-मिति ।। यन्नोपलभ्यते तन्नास्तीत्येतत्कल्पनेन धर्माद्यभावनिश्चयः स्यात् तदा, यद्यत्रेत्यादियोजना । विपर्यये पर्यवसानमाह- सत्यामित्यादिना ।। संशयशरीरं व्यनक्ति- किमनुपलम्भादित्यादिना ।। विशेषादर्शनादि-सामग्रीसत्त्वे जायत एव संशय इत्येवंरूपं वा सामग्रीसत्त्वे कार्येण भाव्यमित्येवं रूपं वा सर्वजनसिद्धं न्यायमति-क्रम्य यन्नोपलभ्यते तन्नास्त्येवेति स्वसिद्धान्तमात्रेण संशयनिरासो न युक्तः ।। तथा चेति ।। सन्देहे न्यायसिद्धे सतीत्यर्थः ।। निरासार्थमपीति ।। तदनुष्ठानार्थमागमानभ्युपगमेऽपीत्यर्थः । अन्यथा नास्तिकस्य तवेष्टा-पूर्तादितो निवृत्तिरास्तिकजनस्य प्रवृत्तिर्वा न युक्ता स्यादिति भावः । त्वयाऽप्यागमप्रामाण्यमङ्गीकृतप्रायमित्याह- किञ्चेति ।।

वाक्यार्थदीपिका

(श्री.टि.)

एवमुदयनोक्तं धर्मादिसाधकप्रमाणं दूषयित्वा स्वयं तद्वक्तुं प्रतिजानीते- उच्यत इति ।। एवं वदत इति ।। न च धर्मादौ प्रमाणमस्ति । प्रत्यक्षेण तदनवगमात् । अनुमानादीनां च प्रामाण्याभावादिति वदत इत्यर्थः ।। आद्ये न तत्र प्रवर्तेतेति ।। तत्रेति बुद्धिस्थपरस्परधनवनिताद्यपहारेण निरङ्कुशकामोपभोगपरामर्शः। तथा च यदि धर्माधर्मसद्भावसन्देहस्तवास्ति तर्हि परस्परधनवनिताद्यपहारेण निरङ्कुशकामोपभोगे प्रवृत्तिस्तवास्ति सा न स्यात् । न हि धर्माधर्मसद्भावशङ्कायां सत्यां सा युक्तेत्यर्थः ।। नापि ततो निवर्तेतेति ।। धर्मादेरित्यर्थः। यदि धर्मेऽधर्मे च तव सन्देहस्तदा धर्माधर्माभाववादिनस्तव धर्मादधर्माच्च निवृत्तिस्तावदस्ति सा न स्यात् । नहि  धर्माधर्मादौ सन्देहे सति सा युज्यत इत्यर्थः ।। कुतोऽसाविति ।। धर्माद्यभावनिश्चयः कुतः प्रमाणादित्यर्थः । (श्री.टि.) चार्वाकः प्रमाणं शङ्कते- घटाद्यभावेति ।। योग्यत्वे सति यत्प्रत्यक्षेण नोपलभ्यते तन्नास्ति । धर्मादिकं च प्रत्यक्षायोग्यत्वान्नोपलभ्यत इत्यस्यापि सम्भवान्न प्रत्यक्षेण धर्माद्यभावानिश्चय इत्याह- अयोग्यत-येति ।। विशेषणेनेति ।।  अनुपलब्धिविशेषणेनेत्यर्थः ।। तन्नास्त्येवेति ।। शशविषाणवदित्यर्थः ।। अत्रे-ति ।। धर्मादिविषय इत्यर्थः । शशविषाणे यथा तथेति शेषः । तर्ह्येव यन्नोपलभ्यते तन्नास्तीति व्याप्तिर्युक्ता स्यादित्याशयः ।। न स्यादिति ।। तर्ह्येव योग्यताविशेषणं व्यर्थं स्यादिति भावः । क्वचित् रसादौ । प्रत्यक्षा-नुपलब्धिरिति ।। धर्मादिविषयिणीत्यर्थः ।। नास्त्येवेति ।। शशविषाणवदित्यर्थः ।। अनुपलभ्यमानम-पीति ।। धर्मादिकमिति वर्तते ।

ननु धर्माद्यभावप्रतिपादकमदीयसमयेनैवानुपलम्भान्नास्त्येव धर्मादिकमित्येककोटिनिश्चयसम्भवादेष संशयो निवर्तिष्यत इत्यत आह- न हीति ।। न्यायमतिक्रम्येति ।। संशयकोटिप्रापकन्यायमतिक्रम्येत्यर्थः    तथा च संशयकोटिप्रापकन्याययोः प्रबलत्वान्न तन्मूलकः संशयः समयमात्रनिवर्त्य इति भावः । ‘अतस्संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा’ इत्यनुव्याख्यानं हृदि निधायाऽह- तथा चेति ।। तथा चाऽगमादौ प्रमाणतयाऽङ्गीकृते सति द्वितीयकोटिनिश्चयसम्भवात् संशयनिरासो भविष्यतीत्याशयः । नन्वस्तु संशयविधूननार्थमागमप्रामा-ण्यम् । कुतो धर्मादिसिद्धिः । तदभावावेदकप्रमाणाङ्गीकारे संशयोत्तारसम्भवादित्यत आह- तथा सतीति ।। तुल्यन्यायेन तथा धर्मादिसाधकागममात्रस्य प्रामाण्ये सिद्धे तेन धर्मादिसिद्धिरप्यविकलेति भावः ।। आगमा-दीति ।। आदिपदेनानुमानग्रहणम् ।। लोकव्यवहारोच्छेद इति ।। साक्षिजन्यवचनेनार्थनिश्चयस्य लोके दर्शनादा-गमप्रामाण्याभावे साक्ष्यादिलोकव्यवहारोच्छेदः स्यात्  । अनुमानप्रामाण्याभावे    धूमदर्शनानन्तरं  वह्न्यादि-व्यवहारस्य  चोच्छेदः प्रसज्यत इत्यर्थः ।। सम्भावनामात्रेणेति ।। उत्कटकोटिकस्संशयस्सम्भावना तन्मात्रे-णेत्यर्थः ।। तत्सिद्धिरिति ।। अयमत्रार्थे साक्षीत्यादिलोकव्यवहारस्य धूमदर्शनानन्तरं वह्न्यादिव्यवहारस्य (ज्ञानस्य) च सिद्धिरित्यर्थः । तथा चानुमानागमयोः संशयजनकत्वमेव प्राप्तं न प्रमाजनकत्वम् । तथा च न प्रामाण्यम् । न हि संशयजनकं प्रमाणमित्याशयः । एवं तर्ह्यागमानुमानयोः प्रामाण्यव्यवहारस्य का गतिरित्यत आह- संवादेन चेति ।। सम्भावनया प्रवृत्त्यनन्तरं संवादेन प्रामाण्याभिमानः स्मृतिवदिति भावः ।। संवादी-ति ।। संवादित्वोक्त्याऽर्थस्य यथावस्थितत्वं प्राप्तमिति भावः ।। किमतोऽधिकमिति ।। यथावस्थितार्थज्ञेय-विषयीकारिज्ञानजनकत्वादन्यदधिकं प्रामाण्यं नाम किमस्तीत्यर्थः । वादार्थमुपसंहरति- तदेवमिति ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

नन्वनुपलब्धिविरुद्धा वादिविप्रतिपत्तिर्न संशयाय प्रभवतीत्यतोऽनुपलब्धेः सावकाशत्वमाह- यदि चेति ।। वादिविप्रतिपत्ताविति ।। वादिनां धर्मासत्त्वाभिमान इत्यर्थः ।। अस्तीति ।। अनेन वादिविप्रति-पत्तिक्वचिदयोग्यताप्रयुक्तादर्शनयोर्मिलितयोरनुपलब्धेरस्तित्वकोटिसाहचर्यप्रापकतया  साधारणत्वसम्पादकत्वेन संशयोपयोग उक्तः । नास्तित्वकोटिसाहचर्यस्य च स्पश्व्त्वादनुपपादनम् । ननु यत्प्रत्यक्षेण नोपलभ्यते तन्नास्त्येवेति (पां.टि.) नियमादेव संशयनिवृत्तिः स्यादित्यत उक्तरीत्या संशयप्रापकन्यायप्राप्तसंशयस्य त्वत्समयाभ्युपेत-नियममात्रेणापह्नवेऽतिप्रसङ्ग इत्याशयेनाऽह- न हीति ।। अन्यथा चक्षुरेकप्रत्यक्षवादिनाऽपि केनचिदनुपलम्भाद् रसाद्यभावं वदता जीयेतेति भावः । लोकव्यवहारेति ।। लोके नदीतीरे पञ्चफलानि सन्तीति वाक्यश्रवणानन्तरं नदीतीरपञ्चफलसंसर्गव्यवहारः प्रत्यक्षसिद्धः । तथा चास्ति संसर्गज्ञानं तच्च शाब्दमेवेत्यवश्यं शब्दस्य प्रामाण्य-मभ्युपेयम् । एवं धूमादिदर्शनानन्तरं वह्न्यादिव्यवहारः प्रत्यक्षसिद्धः । तथा चास्ति वह्न्यादिज्ञानम् । तच्चानुमिति-रूपमेवेत्यनुमानस्य प्रामाण्यमवश्यमभ्युपेयम् । अन्यथा उक्तरूपव्यवहार उच्छिद्येतेत्यर्थः ।। सम्भावना-मात्रेणेति ।। उत्कटकोटिकसंशयमात्रेणेत्यर्थः । ननु तत्र पञ्चफलानां वह्न्यादेश्च प्राप्त्यनन्तरं प्रमाणेनाहं प्रवृत्त इति व्यवहार आगमानुमानयोरप्रामाण्ये न स्यादित्यत आह- संवादेनेति ।।

लघुप्रभा

(व्या.टि.)

प्राचीनचार्वाकशङ्कामपाकरोति- उच्यत इति ।। किमेवं वदत इति ।। एवं वदतस्तव मते आस्तिक-नास्तिकसमुदायस्य धर्मादिसन्देहस्तदभावनिश्चयो वेत्यर्थः । प्रवर्तेत आस्तिकः । निवर्तेत नास्तिकः । प्रवृत्तिं प्रतीष्टसाधनतानिश्चयस्य, तत्प्रतिद्वन्द्विनिवृत्तियत्नं प्रतीष्टसाधनताऽभावनिश्चयस्य, अनिष्टसाधनतानिश्चयस्य वा हेतुत्वाल्लोकप्रवृत्तिनिवृत्त्युपायाभावादिति भावः । यद्वा संशयवतस्तव करणेऽनिष्टशङ्कया कामोपभोगादौ प्रवृत्तिः, अकरणेऽनिष्टशङ्कया सन्ध्यावन्दनादौ निवृत्तिश्च न स्यातामिति शङ्कते- किमिति ।। विप्रतिपद्येरन् विवदेरन् । ननु यन्नोपलभ्यते तन्नास्तीति समयाच्छङ्कापरिहारः स्यादित्यत आह- न हीति ।। तथा सतीति ।। संशयोत्ताराय तत्प्रामाण्याङ्गीकार इत्यर्थः । व्यवहारान्यथानुपपत्त्याऽप्यागमप्रामाण्यं साधयति- किञ्चेति ।। व्यवहारो नाम शब्दजन्यसंसर्गज्ञानजन्यप्रवृत्तिः । धूमज्ञानजन्यवह्निज्ञानजन्यवह्न्यर्थिप्रवृत्तिः । तदन्यथासिद्धिं शङ्कते- नन्विति ।। व्यवहारः प्रवृत्तिः । ‘सम्भावना उत्कटकोटिकसंशयः’ इति चिन्तामणौ चार्वाकग्रन्थे रुचिदत्तो व्याख्यत् । तत्सिद्धिः प्रवृत्तिसिद्धिः ।। संवादेनेति ।। प्रवृत्तिसामर्थ्येनेत्यर्थः ।। प्रामाण्याभिमान इति ।। ‘अभिमानः स्मृतिवत्’ इत्यपि रुचिदत्तः ।। किमत इति ।। संवादिज्ञानस्यैव प्रमात्वादित्यर्थः ।