लघुप्रभा
लघुप्रभा
अत्र पारतन्त्र्यस्य भगवदितररमादिसाधारण्येन तद्राहित्यस्य केवलस्य लक्षणत्वम्, रमादावविद्यमानानां चिन्ताश्रमादीनामभावानां त्वन्यप्रसादानधीनत्वविशेषितानां लक्षणत्वमित्यवधेयम् । आनन्दादीनामपि परिपूर्णत्वविशेषितानामेव लक्षणत्वमित्यभिप्रेत्य परिपूर्णानन्दत्वादीनीत्युक्तम्- अनन्तानि लक्ष-णानीति ।। प्रत्येकं लक्षणत्वे सम्भवति दोषाभावानां गुणानां वा समुदायस्य तत्त्वाभिप्रायस्यास्वरसत्वात् । विशेषणविशेष्यभावे च व्यर्थविशेषणत्वाद्यापत्तेः । अशेषपदमपि न प्रत्येकमतिव्याप्तिवारणाभिप्रायकम् । किन्तु लक्षणानन्त्यसूचकमित्याह- तदर्थमेवेति ।। व्यवहारादिति ।। वैशेषिकादीनामिति शेषः । एवं च सत्पदं कल्याणपरं, गुणपदं भावधर्मपरमित्युक्तं भवति । वैशेषिकादिव्यवहारस्य भ्रममूलत्वाद् अनभिप्रेतार्थकल्पनस्य परजातिमति व्यवहृतसत्पदेऽपि तौल्यान्निर्दोषत्वेनोक्ते दुःखादीनामप्रसक्तेश्चारुच्या पक्षान्तरमाह - अथ वेति ।। उत्पत्त्यादीत्यादिपदेन सान्तत्वसातिशयत्वादीनां ग्रहणम् । अत्र गुणपदस्य परिपूर्णज्ञानानन्दादिपरत्वे सदिति स्वरूपकथनम् । शुभधर्मपरत्वे त्वतिव्याप्तिवारकं निर्दोषत्वरूपसत्त्वम् । रमागुणानामुत्पत्त्यादि-किञ्चिद्दोषाभावेऽपि सातिशयत्वरूपापरिपूर्णत्वस्य सत्त्वेन दोषसामान्याभावरूपसत्त्वघटितलक्षणमनतिव्याप्त-मेव । एतदेवाभिप्रेत्य परिपूर्णानन्दत्वादीनीत्युक्तम् । दोषविवेचनाय चोत्पत्त्यादिराहित्यमित्युक्तिरित्यव-धेयम् । समतीतेत्यस्य कृत्यमाह- एतदिति ।। जीवचित्प्रकृत्यतीतत्ववज्जडातीतत्वं किमिति नोक्तमित्यत उक्तम्- क्षराक्षरपदाभ्यामिति ।। अत्र शङ्क्यते । सम्भावकं क्षराक्षराद्युत्तमत्वं वा तदन्यत्वमात्रं वा । आद्येऽपि विशिष्टस्य तत्त्वे, अक्षरोत्तमत्वमात्रस्यैव सम्भावकत्वसम्भवेन विशेषणवैयर्थ्यम् । प्रत्येकं तत्त्वे सम्भावकान्तर-वैयर्थ्यम् । क्षरोत्तमत्वस्याक्षरे सम्भाव्ययोग्यतारहिते, जडोत्तमत्वस्य क्षराक्षरयोः सत्त्वेन सम्भावकत्वायोगश्च । द्वितीये प्रत्येकमन्यत्वस्य परस्परसाधारण्येन विशिष्टस्यैव सम्भावकत्वे क्षरान्यत्वे सति अक्षरान्यत्वस्य जड-साधारण्येन तदन्यत्वे सतीत्यपि विशेषणीयमिति जडोपलक्षणा कार्या । तथाऽपि सा न युक्ता । मुख्यार्थान्व-यानुपपत्तेरभावात् । उपलक्ष्यतावच्छेद(कस्यैवा)कैक्याभावाच्च । क्षरशब्दप्रवृत्तिनिमित्तविनाशादेर्जडेऽपि सत्त्वेन मुख्यवृत्तेरेव युक्तेश्च । ‘साक्षाद्भूतस्य चोद्भवः’ इत्यनुव्याख्याने उत्पत्तेर्जडे मुख्यतोक्त्या तन्न्यायेन नाशस्यापि तत्रैव मुख्यत्वाच्च । ‘शरीरक्षरणात् क्षराः’ इति श्रुत्या जीवेष्वेव नाशस्यामुख्यत्वोक्तेश्च । ‘यद्यपीयमप्यमुख्या’ इति टीकायां देहोत्पत्तेरमुख्यत्वोक्त्या तन्नाशस्याप्यमुख्यत्वस्य ग्राह्यत्वाच्च । तस्माल्लक्षणा न युक्ता । साऽप्येक-पदस्य सम्भवे पदद्वयस्य न युक्ता । अत एव बाधलक्षणे ‘वाजपेये रथघोषेण माहेन्द्रस्तोत्रमुपाकरोति’ इत्यत्र द्वन्द्वाश्रयेण रथघोषाभ्यां प्रकृतिप्राप्तयोर्दर्भमन्त्रयोः क्रमेण बाध इति प्राप्ते, इतरेतरद्वन्द्वस्यैकवचनायोगेनासम्भवे समाहारद्वन्द्वस्य पदद्वयलक्षणावत एकपदलक्षणायुक्ततत्पुरुषापेक्षया जघन्यत्वात्तत्पुरुष एवेति सिद्धान्तितम् । मुख्यार्थस्योपलक्षणत्वाभावेन अपिपदस्य सर्वथाऽयुक्तिश्चेति चेत् ।
अत्र ब्रूमः । उत्तमत्वस्य सम्भावकत्वपक्षे, अक्षरोत्तमत्वस्य वस्तुतो नारायणासाधारण्येऽपि तत्तद्वादिरीत्या तस्य ब्रह्मादिसाधारण्यप्राप्तौ तदुत्तमत्वस्यापि विशेषणत्वे वक्तव्ये, साङ्ख्यरीत्या जडे विशिष्टस्यापि प्राप्तौ तदुत्तमत्वस्यापि घटकत्वस्यावश्यम्भावेन जडोपलक्षणायाः प्रकृतोपयोगात् । प्रत्येकमुत्तमत्वस्य सम्भावकत्वं तु नाङ्गीक्रियते । वस्तुतोऽन्यत्वस्यैव सम्भावकत्वम् । तच्च विशिष्टस्यैवेति जडोपलक्षणाऽऽवश्यकी । ‘अत एव जडजीवप्रकृतिभ्योऽत्यन्तविलक्षणम्’ इति फलितमुक्तम् । ‘क्षराक्षरजडात्मकात् सर्वस्मादुत्तमत्व-मित्ययमर्थो हि प्राङ् निरूपितः’ इति वक्ष्यमाणटीका तु स्वमात्रवृत्तिशुभधर्मप्रयुक्ततद्वैलक्षण्यस्य तदुत्तमत्व-पर्यवसितत्वमभिप्रेत्य प्रवृत्ता । अन्वयानुपपत्तेरभावाल्लक्षणाऽयुक्तेति तु न । तात्पर्यानुपपत्तेर्लक्षणाबीजत्वस्य व्रीहीन् प्रोक्षतीत्यादौ दृष्टत्वात् । अन्वयानुपपत्तेर्लक्षणाबीजत्वसिद्धान्ते यष्टीः प्रवेशयेत्यत्र भोजनोद्देश्यक-प्रवेशरूपपदार्थान्वयानुपपत्तिवत् तात्पर्यविषयसमतीतत्वान्वयस्य क्षराक्षरयोरयोगाच्च । शरीरक्षरणशक्यता-वच्छेदककेन क्षरपदेन शरीरक्षरणस्वरूपक्षरणसाधारणक्षरणमात्रमुपलक्ष्यतावच्छेदकीकृत्य क्षरजडस्य, अक्षरपदेन परतन्त्रत्वे सति क्षरणमात्राभावमुपलक्ष्यतावच्छेदकीकृत्याक्षरजडस्योपलक्षणसम्भवेन, उपलक्ष्यतावच्छेदका-भावोक्तिरयुक्ता । योगलभ्यस्य विनाशादेर्जडसाधारण्येन मुख्यवृत्तिरेव युक्तेति तु न । क्षरणस्य धात्वर्थत्वेऽपि ‘शरीरक्षरणात् क्षराः’ इति निर्वचनेन शरीरक्षरणस्यैव, ब्रह्मशब्दे गुणपूर्णत्वस्येव, निर्मथ्यशब्देऽचिरनिर्मथनस्येव, दृतिहरिशब्दे पशुगतदृतिहरणस्येव, ऋत्विक्शब्दे ब्रह्मादिगतऋतुयजनस्येव च योगलभ्यत्वोपगमात् । तस्य च जडेऽभावात् । उत्पत्तिशब्दार्थेषु स्वरूपोत्पत्तेर्मुख्यत्ववत् नाशशब्दार्थेषु स्वरूपनाशस्य तथात्वेऽपि श्रुतिबलेन शरीरक्षरणस्यैव योगार्थत्वात् । श्रुतिस्तु योगप्रदर्शिकैव न त्वमुख्यत्वपरा । अत एव वाऽक्षराधिकरणचन्द्रिकायाम्, ‘लक्ष्मीरक्षरदेहत्वादक्षरेति श्रुतौ शरीराक्षरणस्य निमित्तत्वोक्तेश्चाव्यभिचरितशरीर-क्षरणाभावरूपाक्षरणविशेषे केवलयौगिकोऽक्षरशब्दः’ इत्युक्तम् । देहोत्पत्तेः टीकायाम् अमुख्यत्वोक्तावपि तत्प्रवृत्तिनिमित्तकजन्यशब्दस्य शरीरिणि ‘जन्तुजन्युशरीरिणः’ इति कोशबलाद्योगरूढत्ववत्, ‘स्वनाशेन स्वामिनो नाशोपचारात्’ इति टीकायां नाशोपचारोक्तावपि क्षरशब्दस्योक्तश्रुतिवशाद्यौगिकत्वम् । ‘कूटस्थोऽक्षर उच्यते’ इति कूटस्थस्याक्षरशब्द-वाच्यत्वोक्त्या, तन्न्यायेनोच्यत इत्यस्य वचनविपरिणामेनापकर्षेण च सर्वभूतानां क्षरशब्दवाच्यत्वनिर्धार-णात् । लक्ष्मीत्वभूतत्वयोर्नियमेन भाने योगरूढत्वमपि ।
केचित्तु उपचारत्वोक्तिबलाद् ब्रह्मादौ लाक्षणिकाभ्यामेव क्षराक्षरपदाभ्यामेकोपलक्ष्यतावच्छेदकाभावेऽपि मुख्यार्थस्य जडस्य चित्रगुलम्बकर्णादौ चित्रगवादीनामिवोपलक्षणया ग्रहणमित्याहुः । पदद्वयस्य लक्षणा तु उपलक्ष्यभेदादुपलक्ष्यतावच्छेदकभेदाच्च युक्ता । अस्वातन्त्र्यस्योपलक्ष्यतावच्छेदकतामुपेत्य विनिगमनाविरहात् पदद्वयलक्षणेति तु न । उपलक्ष्यतावच्छेदकभेदसम्भवात् । प्राथम्यादेर्विनिगमकत्वाच्च । अस्वातन्त्र्यस्य द्विवारं बोधापत्तेश्च । लाक्षणिकपदद्वयेनाप्येकबोधे, शक्तेनापि तथा सम्भवेन अग्निं वह्निमानयेत्यादौ पुनरुक्त्यना-पत्तेश्च । ‘सत्यं ज्ञानम्’ इत्यत्राद्वैतिमते वैयर्थ्योक्त्यभावापत्तेश्चेत्यलम् । मुख्यार्थस्याप्युपलक्षणाजन्यशाब्द-बोधविषयत्वस्य सत्त्वेन समुच्चयार्थकमपिपदमिति स्पष्टम् । अधिकं तु गुरुप्रभायाम् ।