न चाऽत्मन्यनात्मभ्रमःक्वापि दृष्टः..
परोक्तयोः प्रपञ्चारोपस्याधिष्ठानप्रधानयोर्निरासः
मूलम्
- न चाऽत्मन्यनात्मभ्रमःक्वापि दृष्टः । न हि कश्चिद् अहम् अहं न भवामीति भ्रान्तो दृश्यते । आत्मन्यनात्मभ्रम एवायं प्रपञ्च इति तैरुच्यते । तं विनैवानात्मन्यात्म-भ्रमकल्पनेऽनात्मनः सत्यत्वं स्यात् । तदा चाद्वितीयत्वकल्पनेऽनात्मैवास्ति । नाऽत्मेति भवति ।
तत्त्वमञ्जरी
न केवलं सदृशसत्यवस्तुद्वयाभावादेवात्र भ्रमासम्भवः । अनुभवबाह्यत्वाच्चेत्याह - न चात्मनीति ।। न हि कश्चिदहमहं न भवामीति भ्रान्तो दृश्यते । भ्रान्तावभ्रान्तौ वा संसर्गप्रत्यये यथेदमिति पुरोवर्तिधर्मिग्रहणम्, तथाहमित्याख्यधर्मिग्रहणमेष्टव्यम् । यथा कुत्रचिदपि पुरोवर्ति-धर्मिस्वरूपमात्र इदमिदं न भवतीति भ्रान्तिर्न दृष्टा, एवमात्माख्यधर्मिस्वरूपमात्रेऽप्यहमहं न भवामीति कस्यापि भ्रान्तिर्न दृश्यते । आत्मनः स्वरूपमात्रस्य स्वयंप्रकाशत्वादयं नियमः ।
यथेदं प्रत्ययवेद्यपुरोवर्तिस्वरूपमात्रे भ्रमाभावेऽपि तद्विशेषे शुक्तित्वादौ भ्रमः सम्भवति, एवमेवाहंप्रत्ययवेद्य आत्मस्वरूपमात्रे भ्रमासम्भवेऽपि तद्विशेषे कुत्रचिद् भ्रमः स्यान्नाम । अनुभवानपेक्षायामतिप्रसङ्गमाह- तं विनैवेति ।। तद्विवक्षितभ्रमं विनैव ।
टीका
नन्वस्त्येव भ्रमस्याधिष्ठानादिपूर्वकत्वनियमः । अस्त्येव च जगदारोपस्याधिष्ठानमात्मा । स हि सर्वस्योपादानतया श्रूयते । न चापरिणामिनस्सोपपद्यते । अतोऽविद्योपादानकप्रपञ्चा-रोपेऽधिष्ठानमिति सिद्ध्यति । पूर्वपूर्वप्रपञ्च एवोत्तरोत्तरप्रपञ्चारोपे प्रधानं भविष्यति । न च सत्यत्वा-भावान्न प्रधानमिति वाच्यम् । प्रधानं किं स्वरूपेणोपयुज्यते उत ज्ञानेनाथ संस्कारेण । नाऽद्यः । अज्ञातरजतस्यापि रजतारोपप्रसङ्गात् । न द्वितीयः । ज्ञानस्य चिरविनष्टस्य कारणत्वानुपपत्तेः । तृतीये तूपपद्यत एव मिथ्यार्थस्यापि प्राधान्यं, तज्ज्ञानजन्यसंस्कारसम्भवात् । न च प्रथमारोपेऽ-नुपपत्तिः, अनादित्वादारोपपरम्परायाः । आदिसृष्टावपि पूर्वसर्गसंस्कारोऽस्त्येव । अत एव नानवस्थादोषः, सिद्धविषयत्वात् । सादृश्यं च द्रव्यत्वादिकं विद्यत एव । ततो निरधिष्ठानत्वं निष्प्रधानत्वं चासिद्धम् । तर्कश्चेष्टापादनत्वादाभास इत्यतो जगद्भ्रान्तावात्मनोऽधिष्ठानत्वं तावन्नि-राकरोति- न चेति ।। आत्मा ह्यात्मत्वेन प्रत्यक्त्वेन प्रतीयते । प्रपञ्चस्त्वनात्मतया पराक्त्वेन । ततश्च विरुद्धतयैव प्रतीयमानयोरात्मजगतोरधिष्ठानाध्यस्तभावो नोपपद्यत इति भावः । अत्र विरुद्धतया प्रतीयमाने तद्विरुद्धतया प्रतीयमानस्याऽरोपः कुत्रापि न दृष्ट इत्येव वक्तव्ये यदात्माना-त्मग्रहणं करोति तद्विरुद्धतया प्रतीयमानत्वहेतोः पक्षधर्मतामपि प्रदर्शयितुमिति ज्ञातव्यम् ।
तथा च प्रयोगौ । नाऽत्मा जगदारोपाधिष्ठानं तद्विरुद्धतया प्रतीयमानत्वात् । यथा पर्वतो न सर्षपारोपाधिष्ठानम् । प्रपञ्चो वा नाऽत्मन्यध्यस्तः तद्विरुद्धतया प्रतीयमानत्वात् । यथा सर्षपो न पर्वतेऽध्यस्त इति । विरुद्धाकारप्रतीतावप्यध्यासाङ्गीकारे तस्य कदाऽप्यनिवृत्तिप्रसङ्गः । आत्मनः सर्वोपादानत्वश्रुतिस्तु नास्त्येवेत्यन्यत्रोपपादितम् ।
‘‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’’ इत्यस्योक्ताभिप्रायमबुद्ध्वा यश्चोदयेत्- आत्मनि व्याप्तेऽणौ वाऽनात्मनः शरीरपरिमाणत्वस्य भ्रमदर्शनात् कथमेतदिति तं प्रत्युक्तं विवृणोति- न हीति ।। अहमिति प्रत्यक्त्वेनाऽत्मानमनुभवन्नेवाऽत्मन्यहं न भवामीति तद्विरुद्धतया प्रतीयमान-मारोपयन् कश्चिन्न हि दृश्यत इत्यर्थः । जगदारोपानङ्गीकारेऽनुमानस्याप्रसिद्धविशेषणत्वमिति चेन्न । प्रतिषेध्यस्य परप्रसिद्ध्याऽप्यनुमानोपपत्तेः । अन्यथा प्रतितन्त्रसिद्धार्थस्य क्वापि प्रतिषेधा-भावप्रसङ्गात् । नन्वात्मन्यनात्मारोपः परैरनङ्गीकृत एव कस्मान्निराक्रियत इत्यत आह- आत्म-नीति ।। अनात्मा चासौ भ्रमश्चेति विग्रहः ।
ननु भ्रमो नाम ज्ञानविशेषः । तत्कथं तस्यानात्मसामानाधिकरण्यम् । मैवम् । ज्ञानार्थरूपस्य परैर्भ्रमाध्यासादिशब्दवाच्यत्वाभ्युपगमात् । अस्य च तदनुवादत्वात् । अयम् इत्याध्यात्मिको बाह्यश्च । ‘युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोः’ इत्यात्मानात्मानौ प्रकृत्य ‘तथाऽप्यन्योन्य-स्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य’ इत्यादिना तैर्मायावादिभिरितरेतराध्यासं वदद्भिरात्म-न्यनात्मनः प्रपञ्चस्याऽरोपोऽङ्गीकृत एव । अतो नानुक्तोपालम्भोऽयमिति भावः । अत्र विवादा-भावसूचनाय बहुवचननिर्देशः । इतरेतराध्यासेऽप्यात्मा अनात्मरूपेणासत्यो न स्वरूपेण । प्रपञ्चस्त्वात्मरूपेण स्वरूपेण चानृत इति सूचनाय भ्रम एवेत्यवधारणम् । यथोक्तं- ‘ सत्यानृते मिथुनीकृत्य’ इति । योऽत्रानुक्तोपालम्भं शङ्कमानस्याभिप्रायः तमुत्तरत्रोद्घाट्य दूषयिष्यामः ।
आत्मन्यनात्माध्यासनिरासप्रसङ्गेनानात्मन्यात्माध्यासमपि परोक्तं निराकरोति- तं विनै-वेति ।। अनात्मन्यात्मारोपकल्पनमयुक्तम् । तथा सत्यानात्मनः सत्यत्वप्रसङ्गात् । शुक्त्यादेरधि-ष्ठानस्य सत्यत्वदर्शनात् । अनात्मनश्चाधिष्ठानत्वात् । स्यादेतदेवं यद्यनात्मन्यात्मा स्वरूपेणाऽरो-प्येत । नैतदेवम् । किन्तु आत्मन्यनात्मा स्वरूपेणाऽरोप्यते तत्राऽरोपितेऽनात्मन्यात्मा संसृष्टरूपे-णैवाऽरोप्यत इति, तत्रोक्तम्-तं विनैवेति ।। तम् आत्मन्यनात्मभ्रमं विनैव, तं परित्यज्येत्यर्थः।
इदमुक्तं भवति । सत्यमेवं परस्य दर्शनमिति । किं नामाऽत्मन्यनात्मनः स्वरूपेणाऽरोप-स्तावद्दूषितो दूषयिष्यते च । अतः स परित्याज्यः । तथा च तं विनैव केवलमनात्मन्यात्मारोपो वाच्यः । तत्र चेदं दूषणमुक्तम् - अनात्मनः सत्यत्वं स्यादिति ।। एवं सति कथमयुक्तमिति ।
नन्वनात्मनः सत्यत्वे काऽस्माकं क्षतिः । अपसिद्धान्तः स्यादिति चेन्न । सत्यस्याद्वितीयत्वं ह्यस्मत्सिद्धान्तः। न चैवं सत्यसौ भग्न इत्यत आह- तदा चेति ।। अनात्मनः सत्यत्वेऽपि सत्य-स्याद्वितीयत्वमित्यस्य सिद्धान्तस्याङ्गीकारेऽनात्मैव सत्य आत्मा तु न सत्य इत्यापन्नं भवति । आत्मनोऽपि सत्यत्वे सत्यस्याद्वितीयत्वमित्यस्य सिद्धान्तस्य हानिप्रसङ्गात् । अस्त्वेवमिति चेन्न । आत्मैवास्ति न अनात्मेति सिद्धान्तहानिप्रसक्तेः । अत्र कश्चिद्वैयात्यादाह- एकमेव सत्यं द्वितीयमसत्यमिति स्थिते यत्सत्यं सोऽस्माकमात्मा यदसत्यं सोऽनात्मा । न नामि्न विप्रतिपत्ति-रिति । तदसत् । दृश्यत्वजडत्वपरिच्छिन्नत्वादिरूपेण प्रतिपन्नस्य हि सत्यत्वमापादितम् । तथा प्रत्यक्त्वादिरूपेण प्रतिपन्नस्यासत्यत्वं, न नाममात्रम् । एवं च सति कथं नापसिद्धान्त इति ।
भावबोधः
आत्मनः प्रपञ्चारोपाधिष्ठानत्वे श्रुतार्थपत्तिमाह- स हीत्यादिना ।। पक्षधर्मतामपीति ।। अनेना-त्मत्वेनाज्ञातेऽनात्मत्वेन ज्ञायमानस्याऽरोपो न क्वापि दृष्ट इति मूलमुक्ताभिप्रायकमिति ज्ञातव्यम् । आत्मन इति ।। तथा चास्मदनुमानेन प्रागुक्तश्रुतार्थापत्तिविरोधादिति भावः । ‘ननु न चाऽत्मनि’ इति वाक्यस्योक्ता-भिप्रायत्वे ‘न हि कश्चित्’ इत्युत्तरवाक्यं पुनरुक्तं स्यादित्यत आह । उक्ताभिप्रायमबुद्ध्वेति ।। उक्तं विवृणोतीति ।। पूर्ववाक्ये आत्मानात्मपदयोस्तु स्थितिप्रदर्शनपरत्वसम्भवान्नाधिष्ठानारोप्यतावच्छेदकत्वेनाऽ-त्मत्वादिप्रतिपादकत्वं प्रतीयते । अत्र तु प्रकारवाचिभवामीति शब्दबलादहमादिपदानामधिष्ठानाद्यवच्छेद-कत्वादिप्रतिपादकत्वेन स्फुटप्रतिभासनाद्विवरणरूपत्वमिति भावः । अनुमानस्येति ।। आत्मा न जगदारोपा-धिष्ठानमिति प्रथमानुमानस्येत्यर्थः । भ्रमप्रपञ्चपदयोः सामानाधिकरण्यादाह-अनात्मा चासाविति ।। शङ्कमान-स्याभिप्रायमिति ।। प्रत्यक्त्वेन प्रतीयमानेऽन्तःकरणावच्छिन्नचैतन्ये पराक्त्वेन प्रतीयमानस्यारोपो न स्वय-मङ्गीक्रियत इत्यभिप्राय इति । उद्घाट्य दूषयिष्याम इति । ‘अन्तःकरणावच्छिन्नं परिच्छिन्नम् ’ इत्यादिनेत्यर्थः।
भावदीपः
(रा.टि )
श्रूयत इति ।। ‘यतो वा इमानि भूतानि जायन्ते’,‘आत्मानं स्वयमकुरुत’ इत्यादिना श्रूयत इत्यर्थः। तर्कश्चेति ।। यदि जगत् कल्पितं स्यात् अधिष्ठानादित्रितयपूर्वकत्वमङ्गीकार्यं स्यादिति तर्कश्च । न केवलमनुमान-मसिद्धत्वादाभास इति चार्थः । आत्मानात्मशब्दौ तथा ज्ञातोपलक्षकाविति भावेन व्याचष्टे- आत्मा हीति ।। आत्मत्वेनेत्यस्य व्याख्या प्रत्यक्त्वेन प्रतीयत इति । अनात्मत्वेनेत्यस्य व्याख्या पराक्त्वेनेति । आन्तरत्वेन बाह्यत्वेन च प्रतीयेते आत्मानात्मानावित्यर्थः । पक्षधर्मतामपीति ।। आत्मत्वानात्मत्वशब्दितयोः प्रत्यक्त्व-पराक्त्वयोर्विरुद्धत्वेनाऽत्मादिपदोक्त्यैव तत्सूचनादिति भावः । न केवलं व्याप्तिमित्यपेरर्थः । तथा चेति ।। व्याप्तिपक्षधर्मतयोः सिद्धत्वे सतीत्यर्थः । विपक्षे बाधकतर्कमाह- विरुद्धाकारप्रतीतावपीति ।। प्रागुक्त-श्रौतार्थापत्तिं निराह- सर्वेति ।। नास्त्येवेति ।। ‘यतो वा ’ इत्यादेरन्यार्थतया प्रकृतिनयानुव्याख्याने सम्यग्व्याख्यानादिति भावः । तथा च प्रागुक्तानुमानस्य न तद्विरोध इति भावः ।
ननूत्तरवाक्यस्य वक्ष्यमाणव्याख्यानरीत्या विरुद्धधर्मवत्त्वेन प्रतीयमानयोर्नाध्यस्ताधिष्ठानभाव इत्यर्थकत्वात् पूर्ववाक्यस्यापि तथैव तात्पर्यवर्णनान्न हीति वाक्यवैयर्थ्यमित्यतो यथाश्रुतार्थं मन्वानं प्रति न हीत्युत्तरवाक्यं प्रवृत्तमित्यवतारयति- न चाऽत्मनीति ।। उक्तेति ।। ततश्च विरुद्धतयेत्यादिनोक्ताभिप्रायमित्यर्थः । अनात्मन इत्यस्य व्याख्या शरीरेत्यादि । स्थूलोऽहं कृशोऽहमित्यादिभ्रमेत्यर्थः । तद्विरुद्धतयेति ।। एतेन ‘ अहं न भवामि’ (रा.टि ) इत्येतद्विरुद्धतया प्रतीयमानस्योपलक्षणमित्युक्तं भवति । अनुमानस्येति ।। नात्मा जगदारोपाधि-ष्ठानमिति प्रागुक्तानुमानस्येत्यर्थः । प्रतियोग्यप्रसिद्ध्या तदभावस्याप्रसिद्धेरिति भावः । प्रतितन्त्रेति ।। स्वमत-मात्रसिद्धोऽर्थः प्रतितन्त्रसिद्धान्तः । यथा न्यायमत ईश्वरस्य प्रमाणता । औतमते शुक्तिरूप्यस्यानिर्वचनीयते-त्यादि । अधिकरणे ल्युटोऽनुशासने सत्यपि प्रपूर्वकात् ‘माङ् माने’ इत्यस्याधिकरणार्थकल्युडन्तस्य प्रयोगा-भावाद्विप्राः प्रमाणमित्यादेस्तद्वाक्यप्रामाण्येनोपचारत्वादित्यादिरूपेण प्रतिषेधाभावप्रसङ्गादित्यर्थः । नन्वात्म-नीति ।। प्रत्यक्त्वेन प्रतीतेऽहमर्थे आत्मनीत्यर्थः । व्याप्तेनिर्विशेषचैतन्य एव जगदारोपाङ्गीकारादिति गूढाभिप्रायेणेयं शङ्का । तामग्रे निरसिष्यन् प्रत्यगात्मन्यनात्मारोप इति पक्षे प्रत्यक्त्वपराक्त्वरूपविरुद्धधर्मवत्त्वेन भेदेनैकत्वबहुत्वाभ्यामन्तर्भेदहीनत्वतद्वत्त्वाभ्यां प्रतीयमानयोरात्मानात्मनोर्नाधिष्ठानाध्यस्तभाव इति क्रमाच्चतुर्धा (रा.टि ) निरसिष्यन् आद्यनिरासाय मूलमवतार्य व्याचष्टे- इत्यत आहेति ।। ‘भ्रमु चलने’ इत्यस्य कर्मणि रूपमुपेत्य प्रपञ्चपदसामानाधिकरण्यायाऽह- अनात्मा चासाविति ।। ज्ञानार्थेति ।। ज्ञानरूपस्यार्थरूपस्य चेत्यर्थः । विषयविषयिणोरित्यस्य यथायोगं विवरणमात्मानात्मानाविति । इत्यादिनेति ।। अध्यासभाष्यस्थ-वाक्येनेत्यर्थः । भाष्यकारस्य परस्यैकत्वात् कथं तैरित्युक्तिरित्यत आह- विवादेति ।। तद्व्याख्यात्राद्यभिप्रायं बहुवचनमिति भावः । यथोक्तमिति ।। अध्यासभाष्ये । प्रपञ्चस्य स्वरूपेणाप्यसत्यत्वादनृतपदप्रयोगः । अन्यस्यातथात्वात्सत्यपदप्रयोगः कृत इति भावः । अहं ममेति नैसर्गिको व्यवहार इति वाक्यशेषः । ननु प्रत्यक्त्वेन प्रतीतेऽहमर्थे न प्रपञ्चारोपः, अपि तु व्याप्ते आत्मनि । न हि तस्य प्रत्यक्त्वेन भानमस्ति, येन विरुद्धतया प्रतीयमाने पराक्त्वेन विरुद्धधर्मेण प्रतीयमानस्य जगत आरोपो न युक्त इत्युक्तिर्युक्ता स्यात् । अहमर्थ आत्मनि जगदारोप इति मतेऽस्तूक्तो दोषः । मदभिप्रेते तु दोषो नोक्त इत्यत आह- योऽत्रेति ।। आत्मन्यनात्मभ्रम एवेति वाक्यावतारिकायां शङ्कमानस्य व्याप्तात्मन्येवाऽरोपो नाहमर्थ इत्यत्राभिप्रायो यः तं ‘न चाऽत्मनि भेदभ्रमः क्वापि दृष्टः’ इति वाक्यव्याख्याऽवसाने स्यादेतदित्यादिग्रन्थेन प्रकटीकृत्य दूषयिष्याम इत्यर्थः । तात्पर्यस्यास्फुटत्वादाह-इदमुक्तं भवतीति ।। दूषित इति ।। ‘भ्रान्तिकल्पितत्वे च’ इत्यादिनेति भावः । दूषयिष्यत इति ।। उपरम्यत इति वाक्यव्याख्याऽवसाने वा बहुजीववादिपक्षदोषोक्तिप्रस्तावे वा दूषयिष्यते चेत्यर्थः । असाविति ।। सिद्धान्तो न भग्न इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि)
आत्मनः प्रपञ्चारोपाधिष्ठानत्वे श्रुतार्थापत्तिमाह- स हीत्यादिना ।। श्रूयत इति ।। ‘सच्च त्यच्चाभवत्’, ‘तदात्मानं स्वयमकुरुत’ इत्यादावित्यर्थः । सा उपादानता । अधिष्ठानमेवेति ।। इदमेव चोपादानत्वमिति भावः । न प्रधानमिति ।। पूर्वपूर्वप्रपञ्चस्याप्यारोपितत्वेनाऽरोप्यप्रपञ्चादधिकसत्ताकत्वाभावान्न प्रधानत्वमि-त्यर्थः । सत्यत्वाभावेऽपि प्रधानत्वं सम्भवतीति वक्तुमाह- प्रधानं किमित्यादिना ।। स्वरूपेणेति ।। अज्ञातत्वे-नेत्यर्थः । उपयुज्यत इति ।। भ्रमकारणं भवतीत्यर्थः । अज्ञातरजतस्येति ।। पुरुषस्येत्यर्थः । कारणत्वानुपपत्ते-रिति ।। भ्रमापेक्षयाऽव्यवहितपूर्ववर्तित्वाभावादिति भावः । मिथ्यार्थस्यापीति ।। सत्यत्वाभावेऽपीत्यर्थः । (श्री.टि) प्राधान्यमिति ।। पूर्वपूर्वप्रपञ्चस्येत्यर्थः । तज्ज्ञानेति ।। मिथ्याभूतपूर्वपूर्वप्रपञ्चविषयकभ्रम-रूपज्ञानजन्येत्यर्थः । अनुपपत्तिरिति ।। तदपेक्षया प्रधानभूतस्य पूर्वप्रपञ्चस्याभावेन तदनुभवजन्यसंस्कारा-भावादिति भावः । नन्वथाप्यादिसृष्टौ प्रधानभूतपूर्वप्रपञ्चाभावेन तदनुभवजन्यसंस्कारायोगेनाऽरोपानुपपत्तिरित्यत आह- आदिसृष्टावपीति ।। पूर्वसर्गेति ।। सृष्टिप्रलयपरम्पराया इदम्प्रथमताभावेनानादित्वादिति भावः । अत एवेत्युक्तं विशदयति- सिद्धविषयत्वादिति ।। बीजाङ्कुरानवस्थावत् प्रामाणिकविषयत्वादित्यर्थः । सादृश्यम् अधिष्ठानप्रधानयोः । निरधिष्ठानत्वमित्यादि ।। आत्मदृष्टान्तेन प्रपञ्चस्य भ्रान्तिकल्पितत्वाभावसाधकमित्यर्थः। तर्कश्चेति ।। यदि जीवजडात्मकं सर्वं जगद् भ्रान्तिकल्पितं स्यात् तर्ह्यारोप्यसदृशाधिष्ठानप्रधानपूर्वकमङ्गीकार्यं प्रसज्येतेति तर्कश्चेत्यर्थः । आभास इति ।। अनिष्टत्वरूपाङ्गवैकल्यादित्यर्थः । ‘अङ्गान्यतमवैकल्ये तर्कस्याऽ-भासता भवेत्’ इति कारिकावचनादिति भावः । आत्मत्वेनेत्यस्यैव विवरणम् - प्रत्यक्त्वेनेति ।। अनात्मतयेत्यस्य व्याख्यानम्- पराक्त्वेनेति ।। पक्षधर्मतामपीति ।। अनेनाऽत्मत्वेन ज्ञातेऽनात्मत्वेन ज्ञायमानस्याऽरोपो न क्वापि दृष्ट इति मूलार्थ उक्तो भवतीति ज्ञातव्यम् । यद् यद्विरुद्धतया प्रतीयते तत् तदारोपाधिष्ठानं न भवतीति सामान्यव्याप्तौ दृष्टान्तमाह- यथेति ।। यद् यद्विरुद्धतया प्रतीयते तत् तस्मिन्नध्यस्तं न भवतीति सामान्यव्याप्तौ दृष्टान्तमाह- यथेति ।। अत्राप्रयोजकतापरिहाराय विपक्षे बाधकं तर्कमाह-विरुद्धाकारेति ।। तस्याध्यासस्य ।
ननु ‘सच्च त्यच्चाभवत्’ इत्यादिश्रुत्या सर्वस्यापि प्रपञ्चस्य ब्रह्मोपादानता श्रूयते । न चापरिणामिनस्सा सम्भवति । अतोऽविद्योपादानकप्रपञ्चारोपे ब्रह्माद्यधिष्ठानमेवेति सिद्ध्यतीति पूर्वोक्तां श्रुतार्थापत्तिं दूषयति- आत्मन इति ।। अन्यत्रेति ।। ‘जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते’ इत्यादिनाऽनुव्याख्याने तैत्तिरीयभाष्ये चास्याः श्रुतेरन्यार्थताया उपपादितत्वादात्मनस्सर्वोपादानताश्रुतिस्तु नास्त्येवेत्यर्थः । ‘न चाऽत्मनीति’ वाक्यस्य तद्विरुद्धतया प्रतीयमाने तद्विरुद्धतया प्रतीयमानस्याऽरोपो न सम्भवतीत्युक्ताभिप्रायकत्वे ‘न हि कश्चिदहं न भवामीति भ्रान्तो दृश्यते’ इत्युत्तरवाक्यं पुनरुक्तं स्यादित्यत उक्तम्- उक्तमभिप्रायमबुद्ध्वेति ।। चोदये-दिति ।। आत्मन्यनात्मभ्रमो न दृष्ट इति प्रतीत एवार्थे चोदनां शङ्कां कुर्यादित्यर्थः । तत्प्रकारमाह- आत्मनी-त्यादिना ।। ननु जैनरीत्या आत्मनि कायपरिणामत्वरूपमध्यमपरिणामत्वज्ञानस्य भ्रमत्वं कुतः? वस्तुगत्या आत्मा कायपरिणाम एव किं न स्यादित्यत उक्तम्- व्याप्त इति ।। तार्किकरीत्येदमुक्तम् । अस्मद्रीत्योक्तम्- अणाविति ।। एतदिति ।। आत्मन्यनात्मभ्रमो न दृष्ट इत्येतत्कथमित्यर्थः । उक्तं विवृणोतीति ।। अनात्म-शब्दस्याहं न भवामीति विवरणादित्यर्थः । तद्विरुद्धतया पराक्त्वेन । प्रतीयमानं वस्तु । अनुमानस्येति ।। आत्मा न जगदारोपाधिष्ठानं तद्विरुद्धतया प्रतीयमानत्वात् यथा पर्वतो न सर्षपारोपाधिष्ठानमिति प्रथमानु-मानस्येत्यर्थः । अप्रसिद्धविशेषणत्वमिति ।। भवन्मते जगदारोपस्यैवाप्रसिद्ध्या तद्घटितसाध्यस्याप्यप्रसिद्ध-त्वादिति भावः ।
परप्रसिद्ध्येति ।। तथा च जगदारोपाधिष्ठानं नेति प्रतिषेध्यस्य जगदारोपाधिष्ठानत्वस्य परस्य तव मते (श्री.टि) प्रसिद्ध्याऽप्यनुमानोपपत्तेरित्यर्थः । अन्यथेति ।। प्रतिषेध्यस्य परप्रसिद्ध्यनपेक्षायामित्यर्थः । प्रतितन्त्रसिद्धार्थस्येति ।। ‘स्वतन्त्र एव सिद्धोऽर्थः परतन्त्रैर्निवारितः । प्रतितन्त्रो यथा न्याये सर्वज्ञस्य प्रमाणता’ इति कारिकावचनेन प्रतितन्त्रसिद्धान्तलक्षणं ज्ञातव्यम् । तथा च प्रतितन्त्रसिद्धान्तसिद्धस्येश्वरप्रामाण्यस्य कणादादिभिरीश्वराप्रामाण्यवादिभिः क्रियमाणः प्रतिषेधोऽनुपपन्नः स्यादित्यर्थः । कस्मादिति ।। तथा चानुक्तोपालम्भ इति भावः । सामानाधिकरण्यमिति ।। अनात्मरूपार्थस्य भ्रमत्वाभावादनात्मभ्रमपदयोः कथं सामानाधिकरण्यमित्यर्थः । अध्यासादीत्यादिपदेन भ्रमादिशब्दग्रहणम् ।
ननु परैरेवमभ्युपगतत्वेऽपि भवद्भिः कथं तथा व्यवहारः कृत इत्यत आह - अस्य चेति ।। ‘आत्मन्यनात्मभ्रम एवायं’ इत्यादिमूलस्येत्यर्थः । आत्मन्यनात्मारोपः परैरङ्गीकृत इत्यत्र ज्ञापकमाह- युष्मदस्मदित्यादिना ।। आत्मानात्मानाविति ।। अस्मत्प्रत्ययगोचरः प्रत्यगर्थ इति यावत्, स आत्मा, युष्मत्प्रत्ययगोचरः परागर्थ इति यावत्, सोऽनात्मेत्यात्मानात्मनोरुपक्रान्तत्वादित्यर्थः । अन्योन्यस्मिन्निति ।। आत्मन्यनात्मनोऽ-नात्मन्यात्मन इत्यन्योन्यस्मिन्नित्यर्थः । अन्योन्यात्मकतामिति तादात्म्यारोपाभिप्रायेण । संसर्गारोपाभि-प्रायेणान्योन्यधर्मांश्चेत्युक्तम् । बहुवचननिर्देश इति ।। तैरिति बहुवचननिर्देश इत्यर्थः । भ्रम एवेति ।। न तु तत्र सत्यांशोऽस्तीत्यर्थः । सत्यानृते इति ।। अधिष्ठानाध्यस्ते इत्यर्थः । मिथुनीकृत्येति ।। संवलिते कृत्वे-त्यर्थः । व्यवहाराः प्रवर्तन्त इत्युत्तरेणान्वयः । अहं कर्ता भोक्ता, अहं मनुष्यः, सन् घटः, प्रकाशते घटः इत्यादयो व्यवहारा इति तदर्थः । योऽत्रानुक्तोपालम्भं शङ्कमानस्याभिप्राय इति ।। आत्मन्यनात्मारोपः परैरनङ्गीकृत एव कस्मान्निराक्रियत इत्यनुक्तोपालम्भं शङ्कमानस्यायमभिप्रायः । तथाहि- यदि प्रत्यक्त्वेन प्रतीय-मानमन्तःकरणावच्छिन्नं परिच्छिन्नचैतन्यं पराक्त्वेन प्रतीयमानप्रपञ्चारोपाधिष्ठानं स्यात् तर्ह्येव नाऽत्मा जगदा-रोपाधिष्ठानं तद्विरुद्धतया प्रतीयमानत्वादित्युक्तानुमानविरोधः स्यात् । न चैवम् । किन्तु सर्वतो व्याप्तमेव । तच्च स्वभावेनैकरसमप्यनन्तोपाधिभिन्नम् । तच्च न प्रत्यक्त्वादिना विरुद्धत्वेन प्रतीयते । यच्च प्रत्यक्त्वादिना विरुद्धतया प्रतीयमानमन्तःकरणावच्छिन्नं परिच्छिन्नं तस्यानधिष्ठानत्वात् । अतो नोक्तानुमानावकाश इति । उद्घाट्य दूषयिष्याम इति ।। तमिमभिप्रायं ‘स्यादेतत् । यद्यन्तःकरणावच्छिन्न’ इत्यादिना ग्रन्थेनोद्घाट्य ‘व्याप्तात्मस्वरूपानुविद्धतया घटादीनां प्रतीत्यभावात् । आरोपितस्याधिष्ठानानुविद्धतया प्रतीतिनियमात् । न हि कश्चिदिदं शुक्लभास्वरं रजतमितिवदिदमात्मस्वरूपं घट इति प्रत्येति ’ इत्यादिना ग्रन्थेनोत्तरत्र दूषयिष्याम इत्यर्थः । किन्त्वित्यनन्तरमादाविति शेषः । आरोपितेऽनात्मनीति ।। तथा चाधिष्ठानत्वेऽपि सत्यत्वं न वक्तव्यमित्यर्थः । तं परित्यज्येति ।। आत्मन्यनात्मभ्रम इति वचनं त्वया त्यज्यतामित्यर्थः । कुत इत्यत आह- इदमुक्तं भवतीति ।। एवं सतीति ।। यथाकथञ्चिदेकस्यैव सत्यतायाः प्राप्तत्वादिति भावः । सिद्धान्तस्य हानीति ।। सत्यद्वयप्राप्तेरिति भावः । अस्त्वेवमिति ।। अनात्मैव सत्य आत्मा तु न सत्य इत्येवमस्त्वित्यर्थः। अस्तीति ।। सत्य इत्यर्थः । यत्सत्यमिति ।। सत्यतया यदायास्यतीत्यर्थः । अस्माकमात्मेति ।। तत्रैवानात्म-(श्री.टि) न्यात्मसञ्ज्ञा क्रियत इत्यर्थः । सोऽनात्मेति ।। तत्रैवाऽत्मन्यनात्मसञ्ज्ञा क्रियत इत्यर्थः । एतादृशवादिनोऽलौकिकत्वादेव पूर्वं वैयात्यादाहेत्युक्तम् । औद्धत्यादिति तदर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि)
नन्वस्त्येवेति ।। तथा च नियमव्युत्पादनमनर्थकमिति भावः । ननु यद्यस्ति नियमस्तर्हि अधिष्ठा-नाभावात्कथं जगद्भ्रमसिद्धिरित्यतः तस्याऽत्माधिष्ठानकत्वान्न तदनुपपत्तिरिति भावेनाऽह- अस्त्येव चेति ।। ननु आत्मनो जगदारोपाधिष्ठानत्वं कुतः प्रमाणात्सिद्धमित्यतः ‘सच्च त्यच्चाभवत्’, ‘तदात्मान स्वयमकुरुत’ इत्यादिश्रुतेरेव तत्सिद्धेर्युक्तं जगदारोपाधिष्ठानत्वमात्मन इत्याह- स हीति ।। ज्ञातस्यैव प्रधानत्वादिति भावः। केचित्तु आत्मनः प्रपञ्चारोपाधिष्ठानत्वे श्रुतार्थापत्तिमाह- स हीति इति ग्रन्थावतारमाहुः । ननूपादानत्वश्रुत्योपा-दानत्वसामान्यसिद्धावपि न तदधिष्ठानत्वरूपतद्विशेषसिद्धिर्मृदादेर्घटादिकं प्रति परिणामितयेवाऽत्मनोऽपि जगत्प्रति तथोपादानत्वस्य सम्भवेन तत्परित्यागेनाधिष्ठानतया तदाश्रयणस्य निर्निबन्धनत्वादित्यतः केवल-योपादानत्वश्रुत्या तदसिद्धावपि परिणामितयोपादानत्वानुपपत्तिसहकृतया तया तत्सिद्धिस्स्यादिति भावेन परिणामितया तदनुपपत्तिं हेतूक्त्याऽह- न चेति ।। अपरिणामिन इति हेतुगर्भं विशेषणम् । अपरिणामित्वादि-त्यर्थः । परिणामे विकारित्वप्रसङ्गेन निर्विकारत्वश्रुतिविरोधापातादिति भावः । फलितमाह- अत इति ।। अधिष्ठानत्वं विनोपादानत्वानिर्वाहादित्यर्थः । नन्वस्त्वात्मनोऽधिष्ठानत्वं तथाऽपि प्रधानाभावात् कथं तदारोप इत्यतः पूर्वापूर्वारोपविषयप्रपञ्चस्यैवोत्तरोत्तरप्रपञ्चारोपे प्रधानत्वसम्भवान्न तदभावोऽस्तीत्याह - पूर्वपूर्वेति ।। न चेति ।। आरोपस्य सत्यप्रधानपूर्वकत्वनियमात् पूर्वारोपविषयप्रपञ्चस्य चासत्यत्वादुत्तरोत्तरप्रपञ्चारोपे कथं प्रधानत्वमित्याशयः । प्रधानस्य स्वरूपेणाऽरोपोपयोगित्वपक्षे तत्प्राप्तावपि तदनुपयोगित्वपक्षे न तत्प्राप्तिरिति भावेन सम्भावितविकल्पप्रदर्शनपूर्वकं तद्दूषणेन तत्सत्ताया अनुपयोगं दर्शयति- प्रधानं किमित्यादिना ।। तज्ज्ञानजन्येति ।। न च प्रमाजन्यसंस्कारस्यैव भ्रमहेतुत्वेन भ्रमजन्यसंस्कारस्य तत्राहेतुत्वात् सत्यपि तस्मिन् तद्धेतुप्रमाजन्यसंस्काराभावान्न भ्रमजन्यसंस्कारेणाऽरोपोपपत्तिरिति वाच्यम् । सत्यपि संस्कारे प्रमाजन्यत्वाभावेन भ्रमाभावादर्शनेन प्रमाभ्रमसाधारणज्ञानजन्यसंस्कारस्यैवाऽरोपोपयोगित्वेन प्रमाजन्यसंस्कारस्यैव तद्धेतुताया निष्प्रमाणकत्वेनानङ्गीकर्तव्यत्वादित्याशयात् । अनुपपत्तिरिति ।। ततः पूर्वं प्रपञ्चारोपाभावेन तद्विषयप्रपञ्चस्य संस्कारद्वाराऽऽरोपोपयोगस्य वक्तुमशक्यत्वादिति भावः । जगदारोपस्येदम्प्रथमतापक्षे उक्तरीत्या तदनुपपत्ति-प्रसक्तावपि तस्यानादित्वे पूर्वारोपविषयप्रपञ्चस्य संस्कारद्वारोपयोगः सम्भवत्येवेति नानुपपत्तिरिति भावेन परिहरति- अनादित्वादिति ।।
ननु कल्पाद्यभ्रमे ततः पूर्वं प्रपञ्चारोपाङ्गीकारे तस्याऽद्यभ्रमत्वानुपपत्त्या ततः पूर्वं तस्याङ्गीकर्तुमशक्यतया तद्विषयप्रपञ्चस्य तदारोपं प्रति संस्कारद्वारोपयोगस्यासम्भवदुक्तिकतया तदारोपानुपपत्तिस्तदवस्थैवेत्यतः तत्कल्पीयपूर्वारोपजन्यसंस्कारस्य तत्रोपयोगस्य वक्तुमशक्यत्वेऽपि कल्पान्तरीयप्रपञ्चारोपजन्यसंस्कारस्य तदुपयोगो नानुपपन्न इति भावेनाऽह- आदिसृष्टावपीति ।। अत एवेत्यनेन परामृश्व्ं हेतुं दर्शयति- सिद्ध-(पां.टि) विषयत्वादिति ।। सादृश्यं चेति ।। न च द्रव्यत्वादिसादृश्येन भ्रान्त्युत्पादेऽतिप्रसङ्गः स्यादिति वाच्यम् । जलप्रवाहगते दण्डे वक्रिमभ्रमदर्शनानुरोधेन सोपाधिकभ्रमेष्वतिप्रसक्तसादृश्यस्याप्युपयोगसम्भ-वादित्यत्र तात्पर्यात् । आत्मत्वेनेत्यस्य व्याख्यानम्- प्रत्यक्त्वेनेति ।। अनात्मत्वेनेत्यस्य व्याख्यानम्- पराक्त्वे-नेति ।। पक्षधर्मतामिति ।। अनेनाऽत्मत्वेन ज्ञातेऽनात्मत्वेन ज्ञायमानस्याऽरोपो न क्वापि दृष्ट इति मूलाभिप्राय उक्तो भवति । अप्रयोजकतां परिहरति- विरुद्धाकारेति ।। तर्ह्युपादानत्वश्रुतेर्निविषयत्वादप्रामाण्यमित्यतः सैव नास्तीत्याह- आत्मन इति ।। अन्यत्रेति ।। ‘सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ’ इत्यादिनाऽऽ-नुमानिकपादे प्रकृत्यधिकरण इत्यर्थः । अबुद्ध्वेति ।। विरुद्धत्वेन प्रतीयमानयोर्नाधिष्ठानाध्यस्तभावः सम्भवती-त्यभिप्रायबोधे तच्छङ्काऽनुदयादिति भावः ।
ननु ‘न चाऽत्मनि’ इति पूर्ववाक्योक्तस्यैव ‘न हि’ इत्युत्तरवाक्येनापि प्रतिपादनात् पौनरुक्त्यमित्याशङ्क्य तद्विवरणरूपत्वात्तस्य न तेन पौनरुक्त्यमित्याह- उक्तं विवृणोतीति ।। पूर्ववाक्ये आत्मानात्मपदयोर्वस्तुस्थिति-प्रदर्शनत्वसम्भवान्नाधिष्ठानारोप्यतावच्छेदकत्वेनाऽत्मत्वादिप्रतिपादकत्वं प्रतीयते । अत्र च प्रकारवाचिभवामीति शब्दबलादहमादिशब्दानामधिष्ठानाद्यवच्छेदकत्वादिनाऽऽत्मत्वादिप्रतिपादकत्वेन स्फुटं प्रतिभासनात्तद्विवरण-रूपत्वमिति भावः । अनुमानस्येति ।। आत्मा न जगदारोपाधिष्ठानमिति प्रथमानुमानस्येत्यर्थः । अनात्मविषयको भ्रमोऽनात्मभ्रम इत्यर्थः प्रतीयते, स चानुपपन्नः । तथा सति भ्रमः प्रपञ्च इति भ्रमप्रपञ्चपदयोः सामानाधि-करण्यानुपपत्तिप्रसङ्गात् । अतोऽन्यथा विग्रहमाह- अनात्मा चासावित्यादि ।। कथमिति ।। तत्प्रतिपाद्यसमस्य-मानपदार्थभेदस्य बाधितत्वेन सामानाधिकरण्यस्य बाधितत्वप्रसङ्गादिति भावः । आध्यात्मिक इति ।। आन्तरो दुःखादिरूप इत्यर्थः । बाह्यश्चेति ।। घटादिरूप इत्यर्थः । नन्वान्तरस्य बाह्यस्य च प्रपञ्चस्य भ्रमत्वं परैरुच्यत इत्युक्तम् । तत्कुतो विज्ञायत इत्यतः तद्वाक्योदाहरणेन तदुपपादयति । युष्मदित्यादि ।। युष्मत्प्रत्यय-गोचरोऽनात्मा, अस्मत्प्रत्ययगोचर आत्मा तयोरिति सम्बन्धः । बहुवचनेति ।। बहुवचननिर्देशः परेषां विवादाभावसूचनायैव न तु गौरवादित्यर्थः । यथोक्तमिति ।। सत्यसंसृष्टतयाऽनृतं स्वरूपेण मिथुनीकृत्याध्यस्य क्त्वाप्रत्ययो गौणः । एतदध्यासरूपोऽहं ममेति लोकव्यवहारो नैसर्गिक इत्यन्वयः । शङ्कमानस्याभिप्राय इति ।। प्रत्यक्त्वेन प्रतीयमानेऽन्तःकरणावच्छिन्ने चैतन्ये पराक्त्वेन प्रतीयमानस्याऽरोपो न स्वयमङ्गीकृत इति योऽभिप्रायस्तम् । ‘स्यादेतदन्तःकरणावच्छिन्नं परिच्छिन्नम्’ इत्यादिनोद्घाट्य ‘व्याप्तात्मस्वरूप’ इत्यादिना दूषयिष्याम इत्यर्थः । आत्मन्यध्यासनिरासप्रस्तावे तस्यैव निरासः सङ्गतो न तु अनात्मन्यात्माध्यास-निरासोऽपीत्यतः तत्प्रसङ्गेनेत्युक्तम् । नन्वनात्मन्यात्मनः संसृष्टतयाऽऽरोपपक्षेऽपि कथमनात्मनः सत्यत्व-प्रसङ्गः । आत्मन्यनात्मनोऽपि स्वरूपेणाध्यासाङ्गीकारादित्याशयेन पृच्छति- किं नामेति ।। परिहरति- आत्मनीति ।। दूषित इति ।। ‘न चाऽत्मन्यनात्मभ्रमः’ इत्यादिनेति शेषः । दूषयिष्यते चेति ।। ‘आत्माज्ञाना-त्मकत्वे च जगतः’ इत्यादिनेति शेषः ।
लघुप्रभा
जगति जगदारोपे जगद्द्वयसत्यतापातरूपवज्रपातमसहमानोऽजगति जगदारोपं शङ्कते- नन्वस्त्ये-वेत्यादिना ।। निरधिष्ठानत्वहेतोरसिद्धिं दर्शयति- अस्त्येवेति ।। श्रूयत इति ।। ‘इदं सर्वं यदयमात्मा’, ‘सर्वं खल्विदं ब्रह्म’, ‘अक्षरात्सम्भवतीह विश्वम्’ इत्यादिनेति शेषः । उपादानस्यापि ‘जनिकर्तुः प्रकृतिः’ इत्यपादानत्वादिति भावः । अपरिणामिन इति ।। निर्विकारत्वश्रुतेरित्यर्थः । अविद्योपादानकेति ।। तस्याः परिणामसम्भवादिति भावः । निष्प्रधानत्वहेतोरप्यसिद्धिमाह- पूर्वपूर्वेति ।। सत्यत्वं न प्राधान्यप्रयोजनमिति वक्तुं पृच्छति- प्रधानं किमिति ।। अज्ञातरजतस्यापीति बहुव्रीहिः । विशेषणाभावेनापि न विशिष्टाभाव इत्याह- सादृश्यं चेति ।। निगमयति- तत इति ।। मूले आत्मानात्मशब्दौ तत्त्वेन प्रतीयमानपरौ इति व्याचष्टे- आत्मत्वेनेत्यादि ।। अत्र विरुद्धतया प्रतीयमानयोः इति हेतुगर्भविशेषणम् । सामान्यतो दृष्टे सामान्यतो व्याप्तिः प्रदर्शनीया न तु विशेषतः । तस्य पक्षसाधारणत्वादित्युदाहरणानौचित्यमाशङ्क्य पराचष्टे- अत्रेति ।। अस्य ‘तथोपनयरूपा च’ इत्युक्तदिशोपनयरूपत्वान्न दोष इति भावः । निष्कर्षयति- तथा चेति ।। प्रयोगा-विति ।। अधिष्ठानावलम्बेनाध्यस्तावलम्बेन च द्वावित्यर्थः । विपक्षे बाधकमाह- विरुद्धाकारेति ।। कदाऽ-पीति ।। चरमावस्थायामपीत्यर्थः । निवर्तकस्य निवृत्तिव्यभिचारेण तदप्रयोजकत्वे कालस्यातन्त्रत्वादि-त्यर्थः । अन्यत्रेति ।। प्रकृत्यधिकरणानुभाष्यसुधयोरित्यर्थः । विवृतस्य विवरणानर्थक्यमाशङ्क्य निराह- न चाऽत्मनीति ।। उक्तं टीकोक्तम् । य इति ।। औत्तानिक इत्यर्थः । नन्वात्माननुभवे अनात्मभ्रमोऽपि युक्तः। यथाऽऽह पतञ्जलिः- ‘परोक्षे लिट्’ इत्यत्र ‘अपरोक्षस्यापि परोक्षं सुप्तोऽहं किल विललाप’ इत्यादौ, अत आह- अनुभवन्निति ।। अप्रसिद्धेति ।। प्रतियोग्यप्रसिद्धौ निषेधस्याप्रसिद्धिरिति भावः । उत्तरयति- प्रतिषेध्य-स्येति ।। किमेवं वादिनो नैयायिकस्य प्रसिद्धिमात्रमनुमानोपयोगि प्रमाणेन वा । आद्यं दूषयति- परेति ।। तथा च नात्राप्रसिद्धविशेषणत्वमिति भावः । द्वितीये वज्रं पातयति- अन्यथेति ।। अत्रानुक्तोपालम्भं शङ्कते- नन्विति ।। एवेति ।। अनुक्तेरित्यर्थः । प्रपञ्चपदसामानाधिकरण्यलब्धविग्रहमाह- अनात्मा चासाविति ।। भ्रमपदस्य ज्ञानवाचित्वप्रसिद्ध्या शङ्कते- नन्विति ।। अनुवादत्वादिति ।। अनुवादस्य पुरोनुवादानुरूपत्वेन स्वार्थपरत्वाभावादिति भावः । आध्यात्मिक इति ।। ‘अध्यात्मादेष्ठञिष्यते’ इति ठञ्, आन्तर इत्यर्थः । बहुवचनेति ।। कर्तुरेकत्वेऽपि ‘तोटङ्कपद्मपादश्च ज्ञानोच्चबीजभुक्तथा’ इत्युक्ततदनुमन्तृशिष्यबहुत्वाद् बहुवचनमित्यर्थः । एवकारसूचितमनुवाद्यविशेषं दर्शयति- इतरेति ।। नन्वत्रानुक्तोपालम्भशङ्कायाः तदुक्ति-प्रदर्शनेन परिहारेऽपि सत्यां प्रसिद्धोक्तावनुक्तोपालम्भशङ्कैवेयं निर्दला नोपपद्यत इत्यत आह- योऽत्रेति ।। उत्तरत्रेति ।। ‘न च मिथ्योपाधिकृतो भेदः क्वापि दृष्टः’ इति मूल इत्यर्थः । नन्वात्मन्यनात्माध्यास एवायं निरसनीयो नानात्मन्यात्माध्यासः, नाशङ्कितत्वात् । अन्यथा व्यर्थोक्तेरपर्यवसानात्, इत्यतः सति प्रसङ्गे परोक्तं दूष्यं नोदास्यमित्याह- आत्मनीति ।। तं विनैवेत्यंशमवतारयति- स्यादेतदेवमिति ।। ननु परित्यागेऽप्यारो-पितत्वादधिष्ठानं मिथ्यैवेति कथं तत्सत्यत्वापादनमित्यतोऽभिसन्धिमुद्घाटयति- इदमुक्तं भवतीति ।। परित्याज्य लघुप्रभा
इति ।। दुष्टस्याग्राह्यत्वादित्यर्थः । आपन्नमिति ।। भ्रमस्य सदधिष्ठानत्वबलादिति शेषः । वैयात्या-दिति ।। शाठ्यादित्यर्थः । न नाममात्रमिति ।। प्रतीचोऽसत्यत्वं पराचश्च सत्यत्वमित्यनर्थावेवाऽपद्येते, न नामविनिमयमात्रं, येनेष्टापत्तिः स्यादित्यर्थः ।