नच युगपज्ज्ञानानुत्पत्तिर्दोषः ..

भेदधर्मिणोः सविशेषाभेदसमर्थनपूर्वकं भेददर्शनोपसंहारः

मूलम्

- नच युगपज्ज्ञानानुत्पत्तिर्दोषः । यथा युगपदेव दीपसहस्रदर्शने सामान्यतः सर्वे ज्ञायन्त एव, तथा स्यात् । एकस्मिन्नेव वस्तुनि विशेषस्तैरप्यङ्गीकृत एव । ‘नेति नेति’ इत्यत्र सर्ववैलक्षण्याङ्गीकारात् । विशेषानङ्गीकारे च पुनरुक्तेः । नच घटाद् वैलक्षण्यमेव पटाद्वैलक्षण्यम्; अनुभवविरोधात् । तस्माद्भेददर्शनं युक्तमेव ।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते विष्णुतत्त्वविनिर्णये भेदवादप्रकरणं समाप्तम् ।।

तत्त्वमञ्जरी

सर्वतो वैलक्षण्यं ज्ञातुं सर्वत्र युगपद् ज्ञानोत्पत्तिसम्भव इत्यत आह-न च युगपदिति ।। ननु भेदस्य स्वरूपत्वे भेदमात्रं भेदिमात्रं वा स्यात् । भेदमात्रे कस्य भेद इति वक्तव्यम् । भेदिमात्रे भेदो नास्तीत्युक्तं स्यादित्यत आह- एकस्मिन्निति ।। ‘स वा एष नेति नेतीत्यात्मा’ इत्यत्र इतिशब्देन प्रत्येकं पुरोवर्तिवस्तुप्रकारो हि विवक्षितः । एवं चाऽत्मा, घटवन्न, पटवन्न, पृथिवीवन्न, अब्वन्नेति पृथक् पृथक् सर्वपदार्थवैलक्षण्याङ्गीकारात् एकस्मिन्नेवाऽत्माख्ये वस्तुनि विशेषः तैरप्यङ्गीकृत एव । युक्तमेवेति निगमन एवशब्देन विपक्षबाधकतर्कान्तरं च सूचितम् । व्यक्तं चोक्तमनुव्याख्याने-

अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः 

अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः ।।’ इति ।

।। इति श्रीलिकुचसूरिसूनुश्रीनारायणपण्डिताचार्यविरचितायां तत्त्वमञ्जर्यां भेदवादप्रकरणम् ।।

टीका  

पटः प्रतीयमानः सर्वव्यावृत्ततयैव प्रतीयत इत्युक्तम् । तदयुक्तम् । प्रतियोगिभूतस्य सर्वस्य, धर्मिणश्च पटस्य युगपज्ज्ञानप्रसङ्गात् । यद्यपि ज्ञानानां वध्यघातुकभावेन यौगपद्यमस्ति । तथापि युगपदुत्पत्तिस्तु नास्ति । मनसोऽणुत्वेन युगपदनेकेन्द्रियसन्निकर्षाभावात् । एकेन्द्रिय-विषयेऽपि सजातीयात्मगुणानां युगपदुत्पत्त्यदर्शनादित्याशङ्क्याऽह- न चेति ।। कुतो नेत्यत आह- यथेति ।। दृश्यतेऽनेनेति दर्शनं चक्षुस्सन्निकर्षः । तथा स्यात् प्रकृत इति शेषः । यद्यपि युगपदनेकज्ञानोत्पत्तिर्नास्ति । तथापि समुदायालम्बनस्यैकस्य ज्ञानस्योत्पत्तौ न काचिदनुपपत्तिरिति भावः ।

ननु सर्वमिति सामान्यतो यत्सर्वविषयकं ज्ञानं तत्साक्षिरूपम् । तस्मिन् सर्वदा सत्येव पटादिज्ञानानि मनोवृत्तिरूपाणि जायन्ते । तत्कथमेतावाक्षेपपरिहारौ । सत्यम् । तथापि विशेषतो व्यावृत्तिप्रतीतौ घटपटज्ञानोत्पत्तियौगपद्यं प्रसज्यत एव । तत्र धर्मिणः प्रतियोगिनां च पुरोऽवस्थितत्वे युगपदिन्द्रियसन्निकर्षे च सति समुदायावलम्बनैकज्ञानोत्पत्तिरुक्ता । धर्मिप्रतियोगिनोरन्यतरस्यैव सन्निधाने तु संस्कारसहकृतेन्द्रियसन्निकर्षेणैकज्ञानोत्पत्तिरित्यादि बोद्धव्यम् । ननु भेदस्य पट-स्वरूपत्वे पट एवास्ति न भेद इति वा भेद एवास्ति न पट इति वा पटभेदशब्दौ पर्यायाविति वाऽऽ-पद्येत । मैवम् । विद्यमानयोरेव पट-भेदयोः सविशेषाभेदस्वीकारात् । तत्राभेदेनान्योन्याश्रयादि-परिहारो भविष्यति । विशेषेण चान्यतरमात्रावशेषादिकं न भविष्यति । विशेषस्य भेदप्रतिनिधि-त्वात् ।

अभिन्ने वस्तुनि पुनर्विशेषोऽस्तीत्येतदप्रसिद्धं कथमङ्गीक्रियत इत्यत आह- एकस्मिन्नेवेति ।। तैः सर्वाभेदवादिभिरपि । किमुत पदार्थान् व्यवस्थापयद्भिरन्यैः । अङ्गीकृतोऽङ्गीकृतप्रायः । तदविनाभूतस्यार्थस्याङ्गीकृतत्वात् । तत्कथमित्यत आह- नेतीति ।। ‘स एष नेति नेत्यात्मा’ इत्यत्र वाक्ये प्रतिपाद्यतया ब्रह्मणः सर्ववैलक्षण्याङ्गीकारात् । तावता च किं प्रकृत इत्यत आह- विशेषेति ।। इदमुक्तं भवति । इदं तावद्वाक्यं पदसमन्वयबलेन ब्रह्मणः सर्वपदार्थव्यावृत्ति-प्रतिपादकमिति परेणाप्यङ्गीकृतम् । तत्राऽत्मशब्दार्थस्य वाक्यद्वयप्रतिपादितयोर्व्यावृत्त्योश्च न तावद्भेदो भेदाभेदो वाऽङ्गीकर्तुं शक्यौ । अखण्डवाक्यार्थाङ्गीकारविरोधात् । तत्रात्यन्ताभेदे विशेषस्य चानङ्गीकारे पदानां पुनरुक्तिप्रसङ्गेनानाम्नानं प्रसज्येत । अतो ‘नेह नानाऽस्ति किञ्चन’ इत्यादिवाक्यविरोधपरिहाराय अत्यन्ताभेद इव पौनरुक्त्यादिप्रसङ्गपरिहाराय विशेषोऽप्यङ्गीकार्य एव । ननु, एवमादिपदजातं न वचनवृत्त्या आत्मनि प्रवर्तते, किन्तु लक्षणया । तत्र वचनवृत्त्या प्रतिपाद्ययोर्व्यावृत्त्योर्भेदसद्भावान्न पौनरुक्त्यम्    लक्ष्यार्थभेदाभावान्नाखण्डार्थताहानिरिति । मैवम् । लक्ष्यार्थे विशेषाभावे पुनर्वैयर्थ्यापरिहारात् । नानाविधारोपपरिहारस्य प्रयोजनत्वान्न वैयर्थ्यमिति चेन्न । प्रतिपाद्यविशेषाभावे तत्परिहारस्याप्यनुपपत्तेरिति ।

न केवलं व्यावृत्तिद्वयस्य निर्विशेषाभेदे पौनरुक्त्यादिदोषः । किं तर्हीत्यतो दोषान्तरं प्रतिजानीते- नचेति ।। इतश्च न व्यावृत्तिद्वयस्य निर्विशेषाभेद इत्यर्थः । कुतो नेत्यत आह- अनुभवेति ।। विरोधप्रकटनार्थमनुभवेन ह्येकार्थविशेषणत्वेन प्रतीयमानं व्यावृत्तिद्वयमभिन्नमपि सातिशयं प्रतीयते नतु तन्मात्रमिति । यद्यपि सत्यज्ञानादिवाक्यमप्यत्रोदाहर्तुं शक्यं तथापि भेदस्य सविशेषाभेदप्रति-पादनं प्रस्तुतमिति तथाविधमेव वाक्यमुदाहृतम् । क्वापि भेदानभ्युपगतावेतद्वाक्यविरोधश्चानेन सूचितो भवति ।

किञ्चात्र कथमापादनम् । यदि भेदो दृश्येत तदाऽन्योन्याश्रयत्वं स्यादिति चेन्न । भेददर्शनस्य सम्मतत्वेन विपर्ययापर्यवसानात् । दर्शनमात्रसद्भावेऽपि तस्य प्रमात्वं निराक्रियत इति चेन्न । अन्योन्याश्रयत्वस्य प्रमात्वाप्रतिबन्धकत्वात् । एतेन दर्शनस्य वास्तवत्वं निराक्रियत इत्यपि परा-स्तम् । किञ्चान्योन्याश्रयदुष्टस्य व्यावहारिकसत्त्वमपि कुतः? नहि मृदवास्तवीत्येतावता यस्य घटस्य कारणं तत एवोत्पन्नेत्येतत्परस्यापि मनोगतं भविष्यति । अथ यदि धर्म्यादिप्रतीतिमपेक्ष्य भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादित्यापाद्यते, तदा धर्म्यादिप्रतीत्यपेक्षैव निवर्तते भेददर्शनस्य किमायातम् । प्रकारान्तराभावात्तन्निवृत्तिरिति चेन्न । दर्शनमात्रस्याङ्गीकृतत्वेन निवर्तयितुमशक्य-त्वात् । प्रमात्वादिनिवर्तनेऽन्योन्याश्रयत्वादेः सामर्थ्याभावस्योक्तत्वात् ।

किञ्च  स्पष्टदृष्टं भेददर्शनं प्रकारान्तरं कल्पयिष्यति    अस्मिन्नेव वा प्रकारे कमप्यवान्तर-विशेषम्    स्वयं तु न निवर्तते    नहि स्पष्टदृष्टोऽङ्कुरः परिचितचरबीजासम्भवमात्रेण स्वयं निवर्तते । किन्तु बीजान्तरं वा परिचितेष्वेव जात्यादिविशेषं वा कल्पयतीति लोके दृष्टमित्याशय-वानुपसंहरति- तस्मादिति ।। प्रत्यक्षेणेति शेषः । एवमनुमानादिनाऽपि स्वविषये भेद-प्रतीतिर्वक्ष्यमाणन्यायेन द्रश्व्व्या । ननु व्याप्यव्यापकादिभेदप्रतीत्यपेक्षमनुमानादिकं कथं भेदे प्रमाणं भविष्यतीति चेत्, तत्किं भेदप्रतीतिमात्रं परो नाङ्गीकरोति । तथा सति तस्याप्यनुमानादिव्यवहारो न स्यात् । प्रमात्वनिवृत्तिकारणस्य च बाधकप्रत्ययस्य निरासोऽनुपदमेव करिष्यते ।

।। इति भेदवादप्रकरणम् ।।

भावबोधः

इत्युक्तमिति ।। ‘स्वस्मिन्नेकः’ इत्यादिना एकत्वानेकत्वयोर्विरोधो नास्तीत्युक्तमित्यर्थः । मूले युगपज्ज्ञानाभाव इत्येवोक्ते इश्वपादनं स्यात् । तत्परिहारार्थं युगपज्ज्ञानानुत्पत्तीत्युक्तमित्याह- यद्यपि ज्ञानाना-मिति ।। सजातीयेति ।। प्रत्यक्षार्थविशेषणगुणानामित्यर्थः । मूलगतस्य सामान्यत इति पदस्य व्यावर्त्यमाह- यद्यपि युगपदिति ।। साक्षिरूपमिति ।। ‘सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते’ इत्यनुव्याख्यानादिबलादिति भावः । इत्यादीति ।। धर्मिप्रतियोगिनोरुभयोरप्यसन्निधाने संस्कारव्यापारकेण मनसा समुदायविषयकैक-भावबोधः

ज्ञानोत्पत्तिरादिपदेन गृहीता बोद्धव्या । सर्वाभेदवादिभिरपीति ।। अनेनापिशब्दो विरोधद्योतनार्थ इत्युक्तं भवति । अत एवाऽह- पदार्थान् व्यवस्थापयद्भिरिति ।। तैर्विशेषस्य स्वारस्येनाङ्गीकृतत्वान्नास्मत्समु-च्चयार्थत्वमपिशब्दस्येति भावः । अत एवोक्तम्- अङ्गीकृतप्राय इति ।। ननु ‘स एष’ इति वाक्यगतात्मशब्दस्यैव ब्रह्मप्रतिपादकत्वम्, ‘नेति नेति’ इत्यनयोर्भिन्नभिन्नप्रतियोगिघटितवैलक्षण्यप्रतिपादकत्वमिति कथं पुनरुक्ति-रित्यत आह- इदमुक्तं भवतीति ।। पौनरुक्त्यादीति ।। आदिपदेन व्यावृत्तिद्वयब्रह्मणोर्विशेषणविशेष्य-भावानुपपत्तिरूपार्थदोषादिकं ग्राह्यं द्रष्टव्यम् । अत्रेति ।। परेण विशेषोऽङ्गीकारयितव्य इत्यर्थः । तथाविध-मिति ।। व्यावृत्तेर्भेदरूपत्वादिति भावः । एतद्वाक्यविरोध इति ।। तथा च भेदखण्डनं स्वव्याहतमिति भावः। सम्मतत्वेनेति ।। अन्यथा भेदनिराकरणादिकं न स्यादिति भावः । तस्य प्रमात्वमिति ।। यदि भेददर्शनं प्रमाणं स्यात् तदाऽन्योन्याश्रयः स्यादित्यापादनेनेत्यर्थः । प्रमात्वाप्रतिबन्धकत्वादिति ।। परेण घटात्पटस्य भेदसिद्धौ पटाद्घटस्य भेदसिद्धिरिति सिद्धिपदोक्तज्ञप्तावेवोक्तस्यान्योन्याश्रयत्वस्य तत्तद्गतप्रमात्वानिषेधकत्वा-दित्यर्थः ।

भावदीपः

गमनिकायामेव व्याख्यातत्वादत१ इत्यादिवाक्यमव्याख्यायोत्तरवाक्यमवतारयितुं शङ्कते- पटः प्रतीयमान इति ।। उक्तमिति ।। ‘प्रायस्सर्वतः’ इत्यादिवाक्य इति भावः । मूल अनुपपन्नतामाशङ्क्य तात्पर्योक्त्या तां निराह- यद्यपीति ।। यौगपद्यमस्तीति ।। ‘नाजात एको अन्यं हन्ति नाप्यन्याधारः’ इति न्यायेन मूषिकमार्जारयोरिव मनोवृत्तीनामुत्तरात्मविशेषगुणानां पूर्वपूर्वनिवर्तकत्वमिति मतान्तरेऽपि सिद्धतया वध्यघातुकभावसत्त्वेन यौगपद्यम् एकाधिकरण्यमस्तीत्यर्थः । आत्मगुणानाम् आत्मस्वामिकानां मनोनिष्ठा-नामित्यर्थः । पररीत्यैवमुक्तिः । धर्माधर्मादिविजातीयव्यावृत्त्यर्थं सजातीयेत्युक्तिरित्याहुः । दर्शनेन ज्ञायत इत्ययुक्तमित्यत आह- दृश्यत इति ।। ‘करणाधिकरणयोश्च’ इति करणे ल्युट् अनभाव इति भावः । तस्मिन् सर्वदा सत्येवेति ।। घटादिधर्मिस्वरूपभेदगोचरचाक्षुषादिज्ञानोदयदशायां भेदप्रतियोगिभूतसर्वपदार्थोपनायक-साक्षिरूपज्ञाने सति धर्मिप्रतियोग्युभयविषयकैकज्ञानोदयसम्भवेनानुपपत्त्यभावात् कथमेतौ तदयुक्तमित्यादिना कृताक्षेपपरिहारावित्यर्थः । एकज्ञानेति ।। धर्मिप्रतियोग्युभयविषयकैकज्ञानेत्यर्थः । एवं धर्मिणः सन्निकृश्व्त्वे प्रतियोग्यनुभवजन्यसंस्कारसहकृतेन्द्रियसन्निकर्षेण, प्रतियोगिनस्सन्निकृष्टत्वेन तु धर्म्यनुभवजन्यसंस्काराहित-शक्तिकेन्द्रियेणेत्यर्थः । शक्त्यनङ्गीकारमतेनोक्तम्- सहकृतेति ।। ननु भेदकार्यं विशेषेण कथं भवेदित्यत आह- विशेषस्य भेदप्रतिनिधित्वादिति ।। ‘व्रीहिभिर्यजेत’ इति यागसाधनत्वेन श्रुतव्रीहीणामलाभे व्रीहिकार्यं तत्प्रतिनिधिनीवारैः क्रियते तद्वदिति भावः । एकस्मिन्नित्यस्यार्थः- अभिन्ने वस्तुनीति ।। अपिशब्दसूचितकैमुत्यं व्यनक्ति- सर्वाभेदेति ।। न केवलमस्माभिरिति तु न व्याख्यातम् । परेण मुखतो विशेषानभ्युपगमादाह- अङ्गीकृतः अङ्गीकृतप्राय इति ।।  अत्र ज्ञापकमाह- तदविनाभूतेति ।। व्यवहारादिभेदकार्यरूपार्थस्ये-त्यर्थः । अस्फुटत्वात् पौनरुक्त्यं व्यनक्ति- इदमुक्तमिति ।। पदेति ।। (आत्मेत्यनूद्य नेति) मूर्तवन्नेति अमूर्तवन्नेति मूर्तामूर्तब्राह्मणादौ वाजसनेये नेति पदसमन्वयबलेन पृथिव्यप्तेजोऽभिधमूर्तवाय्वन्त-रिक्षाख्यामूर्तादिसर्वपदार्थव्यावृत्तिप्रतिपादकमित्यर्थः । ततः किमित्यत आह- तत्रेति ।। वाक्यद्वयेत्यादिनाऽ-न्वयः । मूर्तामूर्तसर्वपदार्थव्यावृत्तिमत्त्वे ‘नेति नेति’ इति वाक्यद्वयप्रतिपादितयोरित्यर्थः। अखण्डेति ।। निर्भेदे-त्यर्थः । यद्वा अखण्डः पदार्थान्तरेणानन्वितो वा प्रातिपदिकार्थमात्ररूपो वा यो वाक्यार्थः तदङ्गीकारविरोधा-दित्यर्थः ।

संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।

उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ।।’

इत्युक्तेः । अत्यन्ताभेद इति ।। ब्रह्मणो व्यावृत्त्योश्चेत्यनुषङ्गः । पर्यवसानमाह- अत इति ।। इत्यादिभेद-निषेधकवाक्येत्यर्थः । पौनरुक्त्यादीति ।। अन्यतरपरिशेषादिरादिपदार्थः ।

अपौनरुक्त्यमन्यथोपपन्नं सन्न विशेषमाक्षिपतीति शङ्कते- नन्वेवमादिपदजातमिति ।। नेतिनेतीत्यादि-पदजातमित्यर्थः । वचनवृत्त्याऽमूर्तव्यावृत्तिं मूर्तव्यावृत्तिं चान्योन्यभिन्नां बोधयित्वा पश्चादात्मपदलक्षितं शुद्धचैतन्यं लक्षणया बोधयति- गङ्गापदं प्रवाहबोधद्वारा तीरमिवेत्यर्थः । लक्ष्यार्थ इति ।। नेतिनेतीत्युभाभ्यामपि शब्दाभ्या-मेकचैतन्यस्यैव बोधनादेकेनैव पूर्त्या पदान्तराणां वैयर्थ्यमेवेत्यर्थः   

लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः ।

विज्ञानानन्तपदयोः पर्यायव्यर्थते कुतः ।।’

इति परोक्तमाशङ्कते- नानाविधेति ।। जडत्वानानन्दत्वादिनानाविधारोपेत्यर्थः । चशब्दोऽनुभवविरोधरूप-दोषान्तरसमुच्चयार्थ इति व्याचश्व्े - इतश्चेति ।। वक्ष्यमाणानुभवविरोधाच्चेत्यर्थः । निर्विशेषाभेदो ब्रह्मणेति योज्यम् । अनुभवाकारं व्यनक्ति- विरोधप्रकटनार्थमनुभवेन हीति ।। स्तम्भकुड्यादिरूपैकार्थस्य घट-विलक्षणोऽयं पटविलक्षणोऽयमिति विशेषणत्वेनेत्यर्थः । अभिन्नमिति ।। विशेष्येणेति भावः । नेतिनेतीति वाक्योक्तेरनौचित्यमाशङ्क्य निराह- यद्यपीति ।। अत्रेति ।। अभिन्ने वस्तुनि भेदकार्यनिर्वाहः परसम्मत इत्यत्रेत्यर्थः । शक्यमिति ।। सत्यत्वज्ञानत्वादिधर्मस्य ब्रह्मणा भेदस्य वा भेदाभेदस्य वा अखण्डार्थताविरोधेनाङ्गी-कर्तुमशक्यतयाऽत्यन्ताभेदे स्वीकार्ये विशेषस्य चानङ्गीकारे पदानां पुनरुक्ततापत्तेर्विशेषोऽभ्युपेय इत्यादेस्तत्रापि वक्तुं शक्यत्वादिति भावः । एतदुदाहरणस्य अन्यदप्यस्ति प्रयोजनमित्याह- क्वापीति ।। एवमियता प्रबन्धेन प्रत्यक्षपरिशेषाभ्यां भेदस्य धर्मिस्वरूपतया प्रतीतिद्वयाभावात् ‘नच विशेषणविशेष्यतया भेदसिद्धिः’ इत्यादि-नोक्तान्योन्याश्रयरूपतर्कस्यानवतार इत्युक्तम् । अधुना व्याप्त्या-द्यङ्गहीनत्वात्तर्काभासोऽयमिति भावेनाऽह- किञ्चात्रेति ।। भेददर्शनविषय इत्यर्थः । सम्मतत्वेनेति ।। भेदनिरासान्यथानुपपत्त्या दूषणभूषणादिव्यवस्थित- सर्वव्यवहारान्यथानुपपत्त्या च सम्मतत्वेनेत्यर्थः । विपर्ययेति ।। ‘न चान्योन्याश्रयोऽङ्गीकर्तुमुचितोऽतो न (रा.टि.)दृश्येत’ इति विपर्यये पर्यवसानरूपाङ्गमनुपपन्नं, व्याघातप्रसङ्गादिति भावः । तस्य प्रमात्वमिति ।। यदि भेददर्शनं प्रमा स्यात् तर्ह्यन्योन्याश्रयः स्यादित्यापादनं कार्यम् । भेददर्शनस्य विशेषणविशेष्यभावादिप्रतीति-सापेक्षत्वेन तत्रैवान्योन्याश्रयतया  भेददर्शनप्रतिबन्धकत्वेऽपि व्याप्त्यभावेन प्रमात्वाप्रतिषेधकत्वादित्यर्थः । एतेनेति ।। वास्तवत्वाप्रतिबन्धकत्वेनेत्यर्थः । यदि भेददर्शनं वास्तवं- तात्त्विकं स्यात् तर्ह्यन्योन्याश्रयः स्यादित्यत्र व्याप्त्यभावेन वास्तवत्वाभावप्रतिबन्धकतया परास्तमित्यर्थः ।

वास्तवत्वनिरासश्च व्यर्थ एव । तावता त्वदभिमतव्यावहारिकत्वस्यासिद्धेरिति भावेनाऽह- किञ्चेति ।। वास्तवत्वपक्ष एव अन्योन्याश्रयदोषो न त्ववास्तवत्व इति शङ्कामर्थान्तरन्यासेन निराह- नहीति ।। कारण-मिति ।। मृदित्यनुकर्षः । प्रकारान्तरेति ।। धर्म्यादिप्रतीतिसापेक्षतां विना भेदप्रतीतेः प्रकारान्तराभावात्, भेदप्रतीतेर्निवृत्तिरिति चेदित्यर्थः । उक्तत्वादिति ।। ‘प्रमात्वाप्रतिबन्धकत्वात्’ इत्यत्रेति भावः । अन्योन्याश्रयता धर्म्यादिधीसापेक्षतापगमे प्रकारान्तरस्य  चाभावे कथं भेदप्रत्यक्षं भवेदित्यत आह- किञ्चेति ।। स्पष्टदृष्ट-मिति ।। अनुभवसिद्धमित्यर्थः । अस्मिन्नेवेति ।। धर्म्यादिधीसापेक्षत्वप्रकार एवास्मदुक्तरीत्याऽवान्तरविशेषं कल्पयिष्यतीत्यर्थः । अनुभवसिद्धं कार्यमेव स्वनिर्वाहकं कल्पयिष्यतीत्येतदर्थान्तरन्यासेन व्यनक्ति- नहीति ।। एवमिति ।। यथा प्रत्यक्षेण स्वविषये घटपटादौ भेदप्रतीतिः तथाऽनुमानागमाभ्यां स्वविषये साध्यादौ भेद-प्रतीतिः । साध्यादिवस्तुप्रतीतेः सर्वविविक्ततया तद्विषयकत्वात् तत्प्रतीतिरेव भेदप्रतीतिर्द्रष्टव्येत्यर्थः । वक्ष्य-माणेति ।। नवकृत्वोऽभ्यासप्रकरणे दृष्टान्तनवकेनोच्यमानजीवेश्वरविषयभेददर्शनन्यायेन ‘तथा यतः स्वरूप-तश्चान्यो जातितः’ इति वक्ष्यमाणविरुद्धधर्मवत्त्वन्यायेनेत्यर्थः । ‘नहि प्रमाणदृश्व्स्य’ इत्यादिना वक्ष्यमाणन्यायेन वेत्यर्थः । अनुमानादिना भेदधीरयुक्तेति शङ्कते- नन्विति ।। आदिपदेन क्रियाकारकादिपदभेदग्रहः । अन्तिमादिपदेनाऽगमपरिग्रहः । कथमिति ।। भेदे प्रतीतेऽनुमानादिप्रवृत्तिः, तत्प्रवृत्त्यनन्तरं भेदप्रतीतिरिति प्राप्तेरित्यर्थः । तत्किमिति काकुः । तथा सतीति ।। अनङ्गीकार इत्यर्थः । अनुमानादिव्यवहारस्य व्याप्यव्याप-कादिभेदधीसापेक्षत्वादिति भावः । नन्वस्ति भेदधीः प्रमा तु न इत्युच्यत इत्यत आह- प्रमात्वेति ।। बाध-केति ।। भेदभेदिनोर्मिथ्यात्वप्रत्ययस्येत्यर्थः । अनुपदमिति ।। उत्तरवाक्यादावेवेत्यर्थः । इति भेदप्रकरणम् ।।

वाक्यार्थदीपिका

(श्री.टि.)

शङ्कते- पट इत्यादिना ।। प्रतियोगिभूतस्येत्यतः पूर्वं तथात्व इति पूरणीयम् । युगपज्ज्ञानेति ।। युगपज्ज्ञानोत्पत्तीत्यर्थः । ननु मूले ज्ञानयौगपद्याभावो दोष इत्यनुक्त्वा युगपज्ज्ञानानुत्पत्तिरित्यनुत्पत्तिपर्यन्तं कस्माद्धावनं कृतमित्यतस्तत्कृत्यमाह- यद्यपीत्यादिना ।। वध्यघातुकभावेनेति ।। प्रथमक्षणे संशयो द्वितीय-क्षणे च तन्निवर्तकं विशेषदर्शनं भवति । एवं च संशयविशेषदर्शनयोर्मूषकमार्जारवद्वध्यघातुकभावेन युगपद-वस्थानरूपयौगपद्यमस्त्येव । अन्यथा वध्यघातुकभावस्यैवायोगात् । तथा च ज्ञानानां युगपदवस्थानरूपयौग-पद्याभावस्य लोकेऽदृष्टत्वात् प्रकृते सर्वव्यावृत्ततया पटः प्रतीयत इत्यङ्गीकारे धर्मिप्रतियोगिज्ञानयोर्युगपदवस्थान-रूपयौगपद्यप्रसङ्ग इत्यापादने इष्टापादनं स्यादिति भावः । कुतो नास्तीत्यत आह- मनस इति ।। ननु मनसोऽणुत्वेन (श्री.टि.) युगपदिन्द्रियद्वयसन्निकर्षासम्भवेऽप्येकेन्द्रियसन्निकर्षस्तावदस्त्येव । तथा चैकस्मादिन्द्रियाद्युग-पज्ज्ञानद्वयं जायतामित्यत आह- एकेन्द्रियविषयेऽपीति ।। एकेन्द्रियरूपाधिष्ठाने मनस्सन्निकर्षस्य सत्त्वेऽपीति व्याख्येयम् । नन्वात्मगुणानां युगपदुत्पत्त्यदर्शनादित्ययुक्तम् । लिङ्गपरामर्शानन्तरमनुमितिजननकाले लिङ्ग-संस्कारस्याप्यात्मनि जायमानत्वेन वह्न्यनुमितिलिङ्गसस्कारलक्षणविजातीयात्मगुणयोर्युगपदुत्पत्तिदर्शनादत उक्तम्-सजातीयेति ।। केचित्तु लिङ्गपरामर्शानन्तरं तदनुव्यवसायोत्पत्तिकाले लिङ्गसस्कारस्यापि जननाद्विजा-तीयसंस्कारानुव्यवसायोत्पत्तिव्यावृत्त्यर्थं सजातीयपदमित्याहुः । अन्ये तु अनुमितिजननकाले धर्मादेरप्यात्मनि जननाद्विजातीयानुमितिधर्माद्युत्पत्तिव्यावृत्त्यर्थं सजातीयपदमित्याहुः । न चेतीति ।। तथा च ‘न च युगपज्ज्ञा-नानुत्पत्तिर्दोषः’ इति मूलस्य एकेनैवेन्द्रियेण युगपत्सजातीययोर्ज्ञानयोरनुत्पत्तिर्दृष्टेति हेतोः प्रकृते पटः प्रतीयमानः सर्वव्यावृत्ततयैव प्रतीयत इत्यङ्गीकारे एकेनैवेन्द्रियेण सजातीययोः प्रतियोगिभूतसर्व-धर्मिभूतपटविषयक-योर्ज्ञानयोर्युगपदुत्पत्तिप्रसङ्गरूपो दोषः स्यादित्यर्थो द्रष्टव्यः । मूले दर्शनशब्देन ज्ञानग्रहणे दीपसहस्रदर्शने ते सर्वे सहस्रदीपा ज्ञायन्त इति पुनरुक्तिः । अनुव्यवसीयन्त इत्यर्थाङ्गीकारे च प्रकृतासङ्गतिरतो व्याचश्व्े- दृश्यतेऽने-नेति ।। सामान्यत इति पदाभिप्रायमाह-यद्यपीत्यादिना ।। युगपदिति ।। एकेनैवेन्द्रियेण युगपत् सजातीयानेक-ज्ञानोत्पत्तीत्यर्थः । सामान्यशब्दार्थमाह-समुदायेति ।। प्रतियोगिभूतसर्व-धर्मिभूतपटविषयकसमूहालम्बनस्येत्यर्थः।

शिष्यः शङ्कते- नन्विति ।। साक्षिरूपमिति ।। ‘सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते’ इत्यनुव्याख्याना-द्युक्तिबलादित्यर्थः । सर्वदा सत्येवेति ।। साक्षिरूपज्ञानस्य नित्यत्वादिति भावः । आक्षेपपरिहाराविति ।। युगपज्ज्ञानोत्पत्त्यापादनरूपाशङ्का समूहालम्बनज्ञानाङ्गीकारेण परिहारश्चेत्यर्थः । सत्यमित्यादि ।। सामान्यतः सर्ववैलक्षण्यप्रतीतावेव त्वदुक्तोपपादनं सङ्गच्छते । तत्र प्रतियोगिभूतसर्वज्ञानस्य साक्षिरूपत्वात् । यदा विशेषतो घटात्पटो भिन्न इति घटप्रतियोगिकव्यावृत्तिः पटे प्रतीयते तत्र घटपटज्ञानोत्पत्तियौगपद्यं प्रसज्यत एव । न हि प्रतियोगिभूतघटज्ञानं साक्षिरूपं येन त्वदुक्तरीतिस्तत्र सङ्गच्छत इति भावः । मूलोक्तं समाधानं स्थलविशेषा-भिप्रायमित्याह- तत्रेति ।। संस्कारेति ।। यदसन्निहितं धर्मिप्रतियोगिनोरन्यतरत्तत्तद्विषयकपूर्वानुभवजन्य-संस्कारेत्यर्थः । एकज्ञानेति ।। यत्सन्निहितं धर्मिप्रतियोगिनोरन्यतरत् तद्विषयकमेव ज्ञानमुत्पद्यत इत्यर्थः । इत्यादीति ।। इत्यादीत्यादिपदेन धर्मिप्रतियोगिनोरुभयोरप्यसन्निधाने संस्कारव्यापारकेण मनसा समुदायविषय-कैकज्ञानोत्पत्तिरिति द्रष्टव्यम् । इति वेति ।। अन्यतरमात्रावशेषः स्यादिति भावः । विद्यमानयोरेवेति ।। उभयोरपि सत्त्वाङ्गीकारेण नान्यतरमात्रावशेष इति भावः । अभेदविशेषयोरुभयोः प्रयोजनमाह- तत्राभेदे-नेति ।। अन्योन्याश्रयादिपरिहार इत्यत्राऽदिपदेन भेदप्रतीतिपरम्परया अनवस्थाप्रसङ्गस्य, तथा ‘प्रत्यक्षं किं भेदमेव गोचरयेदुत वस्त्वपि’ इत्यादिनोक्तदूषणस्य च ग्रहणम् । अन्यतरमात्रावशेषादिकमित्यत्राऽदिपदेन  शब्दपर्यायत्वग्रहणम् । नन्वन्यतरमात्रावशेषाभावादेर्भेदनिर्वाह्यत्वेन कथं विशेषान्निर्वाह इत्यत आह- विशेष-स्येति ।। अभिन्ने वस्तुनि भेदकार्यकारित्वस्यैव विशेषलक्षणत्वादिति भावः । सर्वाभेदवादिभिरपीत्यनेनापिशब्दो (श्री.टि.)विरोधद्योतनार्थ इत्युक्तं भवति । अत एवाऽह- किमुतेत्यादि ।। सर्वाभेदादिवादिभिरपीति पाठे आदिपदेन भेदाभेदवादिग्रहणम् । पदार्थान् द्रव्यगुणादीन् । अन्यैः तार्किकादिभिः । ननु सर्वाभेद-वादि-भिर्विशेषस्य कण्ठतोऽनङ्गीकृतत्वात्कथमङ्गीकृत एवेत्युच्यत इत्यत आह- अङ्गीकृतप्राय इति ।। अत एव मूलगतापिशब्दस्य नास्मत्समुच्चयार्थत्वम् । अस्माभिः कण्ठत एव विशेषस्याङ्गीकृतत्वादिति भावः । कथमङ्गी-कृतप्राय इत्यत आह- तदविनाभूतस्येति ।। विशेषाविनाभूतस्य ज्ञानानन्दादेरन्यतरपरिशेषाभावापर्याय-त्वादेरर्थस्येत्यर्थः ।

।। पदसमन्वयबलेनेति ।। समन्वयो हि द्विविधः, पदसमन्वयो वाक्यसमन्वयश्चेति । तत्र वैदिकानामपर्याया-नन्तशब्दानां ब्रह्मण्युपक्रमादिप्रमाणकः शक्तितात्पर्यलक्षणस्सम्बन्धः पदसमन्वयः, तन्न्यायेनेत्यर्थः । पृथक्पृथ-गर्थेषु वाचकतयाऽवस्थितपदसमुदायरूपवाक्यानामन्वयो भगवत्परत्वं वाक्यसमन्वयः । तत्पक्षे एतद्वाक्यस्य  पृथिव्यादिव्यावृत्तिमात्रप्रतिपादकत्वेन  वाक्यद्वयप्रतिपाद्यव्यावृत्त्योर्ब्रह्मसम्बन्धित्वासिद्धिरिति भावः । आत्म-शब्दार्थस्य ब्रह्मणः । वाक्यद्वयेति ।। नेति नेतीति द्विराम्नातत्वादिति भावः । भेद इति ।। ब्रह्मणा परस्परं चेत्यर्थः । अखण्डेति ।। निर्भेदार्थनिष्ठत्वरूपेत्यर्थः । मूलं योजयति- तत्रेति ।। अत्यन्ताभेद इति मूले शेषपरि-पूरणम् । ब्रह्मणा अत्यन्ताभेदे यद् यदभिन्नाभिन्नं तत्तेनाभिन्नमिति व्याप्तिबलात्परस्परं चात्यन्ताभेद इत्यर्थः । मूले विशेषपदं बुद्ध्या विविच्य षष्ठ्यन्तं कृत्वा तेन चशब्दस्य सम्बन्ध इत्यभिप्रेत्योक्तम्- विशेषस्य चानङ्गी-कार इति ।। पुनरुक्तीति ।। ब्रह्मरूपैकार्थप्रतिपादकत्वादित्यर्थः । पुनरुक्तिः पर्यायता । एवमुत्तरत्रापि ज्ञात-व्यम् । अत्यन्ताभेदाङ्गीकारे निमित्तकथनायोक्तम्- नेह नानाऽस्तीति ।। इह ब्रह्मणि किञ्चन किमपि व्यावृत्त्यादिकं नाना भिन्नं नास्तीत्यर्थः । तथा च व्यावृत्त्योर्ब्रह्मणश्चात्यन्ताभेदानङ्गीकारे एतद्वाक्यविरोधः स्यादिति भावः । पौनरुक्त्यादीत्यादिपदेन व्यावृत्तिद्वयस्य ब्रह्मणश्च विशेषणविशेष्यभावानुपपत्तेरन्यतर-मात्रावशेषस्य च सङ्ग्रहः । एवमादीति ।। नेति नेतीत्यादिवाक्यगतेत्यर्थः । व्यावृत्त्योः पृथिवीव्यावृत्ति-जलादिव्यावृत्त्योः । लक्ष्यार्थो ब्रह्म । अखण्डार्थतेति ।। निर्भेदार्थनिष्ठत्वरूपेत्यर्थः । वैयर्थ्येति ।। एकेनैव पदेन ब्रह्मणो लक्षितत्वात्पदान्तरवैयर्थ्यं स्यादित्यर्थः । नानाविधारोपेति ।। पृथिवीजलाद्यभेदरूपेत्यर्थः । तथा च, स एष आत्मा पृथिवीवन्न जलादिवन्नेति प्रतिपादनेन तत्तदभेदारोपपरिहारो भवतीति भावः । प्रति-पाद्येति ।। लक्षणया प्रतिपाद्ये ब्रह्मणि पृथिव्यादिव्यावृत्तिरूपविशेषणानामनर्पणे तत्तदभेदारोपपरि-हारस्याप्यनुपपत्तेरित्यर्थः    विशेषणार्पणे  च निर्विशेषार्थनिष्ठत्वनिर्भेदार्थनिष्ठत्वरूपाखण्डार्थताहानिरिति भावः । यथोक्तमनुव्याख्याने ‘न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे’ इति । निर्विशेषाभेदे ब्रह्मणा परस्परं चेति शेषः । पौनरुक्त्यादीत्यादिपदेन पदान्तरवैयर्थ्यं ग्राह्यम् । चशब्दस्यार्थमाह- इतश्चेति ।। किञ्चे-त्यर्थः । निर्विशेषाभेदः परस्परमिति शेषः । अभिन्नमपि परस्परमभिन्नमपीत्यर्थः । सातिशयं सविशेषात्यन्ता-भिन्नमित्यर्थः । तन्मात्रं निर्विशेषात्यन्ताभिन्नम् । अत्रेति ।। ‘सर्वाभेदवादिना मायिना विशेषोऽङ्गीकार्यः’ (श्री.टि.) इत्यत्रेत्यर्थः । तथाविधमेवेति ।। व्यावृत्त्यपरपर्यायभेदप्रतिपादकमेव नेति नेतीति वाक्यमुदा-हृतमित्यर्थः । न केवलं प्रस्तुतः भेदप्रतिपादकत्वादेवास्य वाक्यस्य उदाहरणं किन्तु प्रयोजनान्तरानुरोधेनापीत्याह- क्वापीति ।। कुत्रापि जगति वा ब्रह्मणि वेत्यर्थः । भेदानभ्युपगताविति ।। भेदरूपपदार्थस्यैवानभ्युपगम इत्यर्थः । एतद्वाक्येति ।। भेदप्रतिपादकनेतिनेतीतिवाक्येत्यर्थः । अनेनेति ।। ‘नेति नेतीत्यत्र सर्ववैलक्ष-ण्याङ्गीकारात्’ इति मूले नेति नेतीति वाक्योदाहरणेनेत्यर्थः । तथा चैतद्वाक्यविरोधपरिहाराय भेदस्याङ्गीकर्तव्यत्वे भेदखण्डनं क्रियमाणं स्वव्याहतमित्याशयः ।

तस्माद्भेददर्शनं युक्तमेव’ इत्युपसंहारवाक्याशयमाह- किञ्चात्रेत्यादिना ।। अत्र धर्मिप्रतियोग्यपेक्षया भेदसिद्धिर्भेदापेक्षं च धर्मिप्रतियोगित्वमित्यन्योन्याश्रयतया भेदस्यायुक्तिरिति वाक्ये भेदविषये कथमापादनं त्वया क्रियत इत्यर्थः । आपादनप्रकारं शङ्कते- यदि भेद इति ।। विपर्ययेति ।। ‘न चान्योन्याश्रयाणि कार्याणि भवन्ति तस्माद्भेदो न दृश्यते’ इति विपर्ययपर्यवसानं न सम्भवतीत्यर्थः । तत्र हेतुः- भेददर्शनस्य सम्मतत्वे-नेति ।। अनुमानतर्कागमादिव्यवहारं कुर्वतस्तव भेददर्शनस्य सम्मतत्वात् । अनुमानतर्कयोर्लिङ्गसाध्यापादक-भेदसापेक्षत्वात् । अन्यथा साध्यावैशिष्ट्यादिप्रसङ्गादेरनुमानादेरेवानुत्थानात् । आगमस्यापि पदपदार्थसंसर्गादि-भेदसापेक्षत्वात् । अन्यथा गामानयेत्यादेरागमस्याबोधकत्वापत्तेः । अतो भेददर्शनं तवापि सम्मतमेवेति प्रतितर्क-पराहतिरिति भावः । यथोक्तं वादावल्याम् यदि भेददर्शनं न स्यात्तर्ह्यनुमानादिसकलव्यवहारविधुरः परः प्रसज्येतेति प्रतितर्कपराहतत्वात्’ इति । किञ्च भेददर्शनस्यासम्मतत्वे भेदनिराकरणमेवायुक्तं स्यात् । तस्य प्रतियोगिज्ञानपूर्वकत्वादित्यपि द्रष्टव्यम् । तस्य भेददर्शनस्य । प्रमात्वाप्रतिबन्धकत्वादिति ।। ‘यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रमीयेत तदाऽन्योन्याश्रयः स्यात् । न चान्योन्याश्रयाणि कार्याणि भवन्ति । तस्माद्भेददर्शनं न प्रमा’ इति वक्तव्यम् । स्यादिदं यदि धर्म्यादिप्रतीतेर्भेदप्रमात्वावच्छेदेन कारणत्वं स्यान्न चैवम्, तथात्वे धर्मिप्रतियोगिप्रतीतिमतो भेदभ्रमः क्वापि न स्यात् । न चेष्टापत्तिः । अङ्गुल्यवष्टम्भादिना द्वितीयचन्द्रदर्शनाऽ-नन्तरमयं चन्द्रोऽस्माच्चन्द्राद्भिन्न इति चन्द्रभेदभ्रमस्यानुभवसिद्धस्यापह्नोतुमशक्यत्वात् । तस्माद्भेदप्रतीतित्वाव-च्छेदेनैव धर्म्यादिप्रतीतेः कारणताया अवश्यं वाच्यत्वेन प्रकृते धर्म्यादिप्रतीत्यपेक्षया प्राप्तान्योन्याश्रयस्य भेदप्रतीतिप्रतिबन्धकत्वमेव वाच्यम् । न तु प्रमात्वप्रतिबन्धकत्वमित्यर्थः । वास्तवत्वं पारमार्थिकत्वम् । परास्तमिति ।। अन्योन्याश्रयेण भेददर्शनस्य वास्तवत्वं निराक्रियत इत्युक्त्या प्रमात्वमेव निराक्रियत इत्युक्तं स्यात् । तन्न सम्भवति । अन्योन्याश्रयत्वस्योक्तरीत्या प्रमात्वाप्रतिबन्धकत्वादित्यर्थः । दुष्टस्य, भेदस्य । व्यावहारिकसत्त्वमपीति ।। अन्योन्याश्रयेण भेददर्शनस्य प्रमात्वनिराकरणे भेदस्य पारमार्थिकसत्त्वम् एव निषिद्धं न तु व्यावहारिकं सत्त्वम् । तत्तु त्वयाऽङ्गीकृतमस्तीत्यर्थः । ननु व्यावहारिकसत्त्वोपेते वस्तुन्यन्योन्याश्रयो न दूषणमिति चेत्तत्राऽह- न हीति ।। अवास्तवी पारमार्थिकसत्या न भवति, किन्तु व्यावहारिकसत्येत्यर्थः ।

पुनः प्रकारान्तरेणाऽपादनं शङ्कते- अथेति ।। धर्म्यादिप्रतीत्यपेक्षैवेति ।। न चान्योन्याश्रयाणि कार्याणि भवन्ति । तस्माद्धर्म्यादिप्रतीत्यपेक्षया भेदो न प्रतीयत इति विपर्ययपर्यवसाने ‘सविशेषणे हि’ इति न्यायेन (श्री.टि.) भेदप्रतीतेर्धर्म्याद्यपेक्षैव निवर्तत इत्यर्थः । विशिष्टनिषेधाभिप्रायेण शङ्कते- प्रकारान्तराभावा-दिति ।। धर्म्यादिप्रतीत्यपेक्षया प्रतीयमानत्वरूपप्रकारभिन्नप्रकारस्य भेददर्शनेऽभावाद्धर्म्यादिप्रतीत्यपेक्षया प्रतीय-मानत्वरूपप्रकारस्यान्योन्याश्रयेण निवृत्तौ भेददर्शनस्यैव निवृत्तिः प्राप्तेत्यर्थः । दर्शनमात्रस्येति ।। भेददर्शन-मात्रस्येत्यर्थः । अन्यथा तन्निराकरणानुपपत्तिरित्यर्थः । एवं च विशेष्यभूतभेददर्शननिराकरणस्य बाधितत्वेन विशिष्टनिषेधायोगाद् विशेषणीभूतं धर्म्यादिप्रतीतिसापेक्षत्वमेव निवर्तते । ‘सविशेषणे हि विधिनिषेधौ विशेषण-मुपसङ्क्रामतस्सति विशेष्यबाधे’ इति न्यायादिति भावः । ननु दर्शनमात्रस्य अङ्गीकृतत्वेऽपि प्रमात्वं वास्तवत्वं वा तस्य निराक्रियत इति चेत्तत्राऽह- प्रमात्वादीति ।। उक्तत्वादिति ।। ‘अन्योन्याश्रयत्वस्य प्रमात्वाप्रति-बन्धकत्वात्’ इत्यनेनेत्यर्थः । प्रकारान्तरं धर्म्यादिप्रतीत्यपेक्षया प्रतीयमानत्वरूपप्रकारभिन्नं प्रकारमित्यर्थः । अस्मिन्नेवेति ।। धर्म्यादिप्रतीत्यपेक्षया प्रतीयमानत्वरूपप्रकार एवेत्यर्थः । स्वयं स्पष्टदृष्टं भेददर्शनमित्यर्थः । अत्रोदाहरणमाह- नहीति ।। परिचितचरेति ।। ‘भूतपूर्वे चरट्’ इति स्मरणात् पूर्वं परिचितं परिचितचरमि-त्यर्थः । बीजासम्भवेति ।। बीजादुत्पत्त्यसम्भवेत्यर्थः । परिचितेषु, बीजेषु । अनुमानादिनेति ।। अनुमानेन पक्षसाध्यलिङ्गरूपे स्वविषये । आगमेन पदपदार्थसंसर्गरूपे स्वविषय इत्यर्थः । अनुमाने व्याप्यव्यापकादिभेदाप्रतीतौ साध्याविशिष्टत्वापत्त्या तदुच्छेद एव स्यात् । एवमागमेऽपि पदपदार्थभेदाप्रतीतौ संसर्गबोधायोगादागमो-च्छेदापत्तिरिति भावः । एवं च भेदे प्रत्यक्षादिप्रमाणत्रयमुक्तं भवति । वक्ष्यमाणन्यायेनेति ।। ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्यादिना वक्ष्यमाणन्यायेनेत्यर्थः । कथमिति ।। तथा चानुमानेन भेदप्रतीतिर्न सम्भवति । तत्र व्याप्यव्यापकादिभेदोऽनुमानेन बोद्धव्यः तस्मिन्नप्यनुमाने व्याप्यादिभेदः पुनरनुमानान्तरेणेति अनवस्था स्यादिति भावः । नाङ्गीकरोतीति ।। प्रत्यक्षेणेति शेषः । तथा चानुमानापेक्षितव्याप्यव्यापकादिभेदः प्रत्यक्षेणैव ज्ञातो भविष्यतीति नानवस्थेति भावः । तथा सतीति ।। यदि परो भेदप्रतीतिमात्रं नाङ्गीकुर्यादित्यर्थः । व्यवहार इति ।। अनुमानव्यवहारस्य साध्यलिङ्गव्याप्त्यादिभेदसापेक्षत्वादागमव्यवहारस्य च पदपदार्थसंसर्गादिभेदसापेक्ष-त्वेन भेदप्रतीत्यनङ्गीकारे स न स्यादित्यर्थः । ननु भेदप्रतीतिमात्राङ्गीकारेऽपि तस्याः प्रतीतेः प्रमात्वं निरा-क्रियते । भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमानेन भेदप्रतीतेर्बाधितत्वात् । न हि बाधकबाधिता प्रतीतिः प्रमा भविष्यतीत्यत आह- प्रमात्वनिवृत्तिकारणस्येति ।। अनुपदमेवेति ।। ‘यच्च प्रमाणदृष्टानामपि’ इत्यादि-नाऽनुपदमेवेत्यर्थः । इति भेदप्रकरणम् ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ज्ञानोत्पत्तियौगपद्यस्येव ज्ञानयौगपद्यस्याप्यापादयितुं शक्यत्वात् कुतो मूले ज्ञानयौगपद्यमनापाद्य तदुत्पत्तियौगपद्यमेवाऽपादितमित्यतो ज्ञानयौगपद्यस्यानिश्व्त्वाभावात्तदनापादनम् अनिष्टत्वाच्च तदुत्पत्तियौग-पद्यस्यैव चाऽपादनं युक्तमित्यतो ज्ञानयौगपद्यस्य वस्तुतः सत्त्वादिश्व्त्वं युगपत्तदुत्पत्तेरसत्त्वात्तदुत्पत्तियौगपद्यस्या-निष्टत्वमिति वक्तुं ज्ञानयौगपद्यप्रसङ्गशङ्कां तावदुत्थापयति- पटः प्रतीयमान इत्यादि ।। एवं ज्ञानयौगपद्यप्रसङ्ग-मुत्थाप्य शङ्कामुखेन तस्येश्वपादनत्वं दर्शयति- यद्यपीति ।। कुतो ज्ञानयौगपद्यसिद्धिरित्यतोऽयौगपद्येऽसमान-(पां.टि.) कालतया वध्यघातुकभावायोगात्तदन्यथानुपपत्त्यैव तत्सिद्धिरिति भावेनोक्तम्- वध्यघातुक-भावेनेति ।। एवमिष्टापादनत्वप्रसङ्गेन ज्ञानयौगपद्यप्रसङ्गस्यानवकाशमुपपाद्य मूलोक्तं ज्ञानोत्पत्तियौगपद्य-प्रसङ्गमुत्थापयति- तथापीति ।। कुत इत्यतः, सा किमनेकेन्द्रियकरणकानेकज्ञानोत्पत्तिः? किं वा एकेन्द्रियकरण-कानेकज्ञानोत्पत्तिः? इति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- मनस इति ।। तथा च सामग्रीवैकल्या-न्नानेकेन्द्रियकरणकानेकज्ञानोत्पत्तिः सम्भवतीति भावः । अस्तु तर्हि मनःसंयुक्तैकेन्द्रियसन्निकृष्टानेक-विषयकानेकज्ञानोत्पत्तिरिति द्वितीयः । तत्र सामग्रीसद्भावेनोक्तदोषाप्रसरादित्यतः, एकं ज्ञानक्रियाकरणमेक-दैकामेव ज्ञानक्रियां जनयति न त्वनेकामिति ज्ञानक्रियाकरणस्वाभाव्यान्नायमपि पक्षः सम्भवतीत्याशयेनाऽह- एकेन्द्रियविषयेऽपीति ।। सजातीयेति ।। सजातीयप्रत्यक्षरूपात्मविशेषगुणानामित्यर्थः । अनेकज्ञानसामग्य्र-नुक्त्या अनेकज्ञानानुपपादनप्रसङ्गेन दर्शने ज्ञायन्त इत्यस्यायुक्तत्वप्रसङ्गेन च दर्शनशब्दस्य भावसाधनताया अयुक्तत्वात्करणसाधनतामाश्रित्य चक्षुस्सन्निकर्षपरतया तं व्याचष्टे - दृश्यतेऽनेनेत्यादि ।। साकाङ्क्षत्वप्रयुक्त-वाक्याभासत्वपरिहारायापेक्षितं पूरयति- प्रकृत इति शेष इति ।।

ननु प्रकृतानुपयुक्तत्वान्मूले ‘सामान्यतः सर्वे ज्ञायन्ते’ इति सामान्याकारेण सर्वज्ञानोपपादनमनर्थकमित्यतो नेदं सामान्याकारेण सर्वज्ञानोपपादनपरं किन्त्वेकज्ञानत्वकथनेनैकेन्द्रियकरणकानेकविषयकानेकज्ञानोत्पत्त्यनु-पपत्तिरूपप्रागुक्तदोषपरिहाराय एकेन्द्रियकरणकानेकविषयकज्ञानस्य समूहालम्बनरूपैकज्ञानत्वकथनपर-मेवेत्यतो नानर्थकमित्यभिप्रेत्य तद्व्यावर्त्यशङ्काप्रदर्शनपूर्वकं तत्तात्पर्यमाह- यद्यपीत्यादिना ।। साक्षिरूप-मिति ।। ‘सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते’ इत्यनुव्याख्यानोक्तेरिति भावः । तत्कथमेतावाक्षेप-परिहाराविति ।। धर्मिणः पटादेर्मनोवृत्तिरूपज्ञानस्येदानीमुत्पन्नत्वेऽपि सर्वमिति प्रतियोगिभूतसर्वविषयक-ज्ञानस्य साक्षिरूपतया पूर्वं सत्त्वेनेदानीमनुत्पन्नतया ज्ञानोत्पत्तियौगपद्यप्रसङ्गस्य धर्मिभूतस्य पटस्येव प्रतियोगि-भूतसर्वस्येदानी मनोवृत्तिरूपज्ञानानुत्पत्त्या तत्समूहालम्बनत्वकल्पनया परिहारस्य च निर्बीजत्वादिति भावः। तथापीति ।।  पटो न सर्वमिति व्यावृत्तिप्रतीतावुक्तरीत्योक्ताक्षेपपरिहारयोरनवतारेऽपीत्यर्थः । विशेषत इति ।। पटो न घट इति घटव्यावृत्ततया पटप्रतीतावित्यर्थः । प्रसज्यत एवेति ।। तत्र धर्मिप्रतियोगिनोर्घटपटयोः साक्ष्यविषयतया, तज्ज्ञानयोर्मनोवृत्तिरूपत्वेन, अन्यतरस्य साक्षिरूपत्वेन पटो न सर्वमित्यत्रेव प्रतियोगिज्ञानस्य साक्षिरूपतया, ज्ञानोत्पत्तियौगपद्यस्य परिहर्तुमशक्यत्वादिति युक्त एव तदाक्षेप इति भावः । तथापि कथमुक्तरीत्या परिहारः? समूहालम्बनज्ञानोत्पत्तेरसमर्थितत्वादित्यतः, तदनुत्पत्तिः किं धर्मिप्रतियोगिनोरुभयोः सन्निधान-दशायामभिमता? किं वाऽन्यतरस्य यस्य कस्यचित्सन्निधानदशायाम्? उभयोरसन्निधानदशायां वा? इति विकल्पान् मनसि निधायाऽद्यं दूषयति- तत्रेति ।। सामग्य्राः कार्याव्यभिचारित्वेनोभयसन्निधानस्थले योग्योभय-सन्निकर्षरूपसमूहालम्बनसामग्य्राः सत्त्वेन इदमनेन सदृशमितिवद् इदमस्माद्व्यावृत्तमिति समुदायालम्बनैक-ज्ञानोत्पत्तेरावश्यकत्वादिति भावः । न द्वितीयः । धर्मिप्रतियागिनोरन्यतरस्य धर्मिण एव सन्निधाने प्रतियोग्यनुभव-(पां.टि.) जनितसंस्कारसहकृतेन्द्रियधर्मिसन्निकर्षेण इदं तेन सदृशमितिवत्, इदं तस्माद्व्यावृत्तमिति, अन्यतरस्य प्रतियोगिन एव सन्निधाने तु धर्म्यनुभवजनितसंस्कारसहकृतेन्द्रियप्रतियोगिसन्निकर्षेण तदनेन सदृशमितिवत् तदस्माद्व्यावृत्तमिति समुदायालम्बनैकज्ञानोत्पत्तेरनिरुद्धत्वादित्याऽह- धर्मिप्रतियोगिनोरन्यतरस्यैवेति ।। नान्त्यः । तत्रापि धर्मिप्रतियोगिभूतघटपटानुभवद्वयजनितसंस्कारव्यापारकेण मनसैव तत्तेन सदृशमितिवत् तत्तस्माद् व्यावृत्तमिति समुदायालम्बनैकज्ञानोत्पत्तेरविकलत्वादित्याशयेनाऽह- इत्यादीति ।। ननु भेदकार्यस्या-न्यतरमात्रावशेषा(भावा)देः कथं विशेषेण निर्वाह इत्यत आह- विशेषस्येति ।। किमुतेति ।। अनेन मूलेऽपिशब्दः कैमुत्यार्थ इत्युक्तं भवति । मायावादिभिर्विशेषस्यानङ्गीकृतत्वात्कथं तदङ्गीकृतत्वोक्तिरित्यत आह- अङ्गीकृत इति ।। तदुपपादयति- तदविनाभूतस्येति ।। विशेषाविनाभूतस्यान्यतरमात्रावशेषा-भावादिरूपस्यार्थस्येत्यर्थः।

ननु ‘स एष नेति नेति’ इति वाक्यस्य ब्रह्मपरत्वस्यैवासिद्धेः, सिद्धौ वा आत्मशब्दप्रतिपाद्यस्य ब्रह्मणो नेति नेतीति वाक्यद्वयप्रतिपाद्ययोर्व्यावृत्त्योश्च भेदस्य वा भेदाभेदस्य वा सम्भवादत्यन्ताभेदस्यैवासिद्धेर्न तदैकार्थ्य-निबन्धनं पौनरुक्त्यमिति किं विशेषेणेत्यतोऽभिप्रायमाह- इदमुक्तं भवतीति ।। परेणापीति ।। क्रियादि-विषयाणां वाक्यानामतत्त्वावेदकत्वमङ्गीकुर्वताऽपीत्यर्थः । विरोधादिति ।। वाक्यार्थस्याखण्डताया निर्भेदत्व-रूपत्वादिति भावः । अनाम्नानमिति ।। सहप्रयोगानुपपत्तिरित्यर्थः । पूर्वेण पदेन लक्षितस्यैवोत्तरेण लक्षणायां वैयर्थ्यम्, अधिकलक्षणायां नाखण्डार्थत्वमित्याशयेनाऽह- लक्ष्यार्थे विशेषाभाव इति ।। लक्ष्यार्थभेदाभावेऽपि नानाविधारोपनिवृत्त्यर्थत्वेन सप्रयोजनत्वान्न वैयर्थ्यमिति शङ्कते- नानेति ।। तीरे नदीत्वमनभिदधतो नदीपदस्य तत्रानदीत्वव्यावृत्तिप्रयोजनकत्वादर्शनेन तत्र विरोध्याकारसमर्पकस्यैव तत्राऽरोपितविरोध्याकारान्तरनिवृ-त्त्यर्थकत्वस्थित्या, लक्ष्ये ब्रह्मणि विरोध्याकारासमर्पकस्य पदजातस्य तत्रारोपितविरोध्याकारान्तरनिवृत्त्यर्थक-त्वानुपपत्त्या वैयर्थ्यं तदवस्थमेवेत्याशयेनाऽह-प्रतिपाद्येति ।। इतीत्यस्य इतीदमुक्तं भवतीति पूर्वेण सम्बन्धः। अत्रेति ।। निर्भेदेऽपि विशेषः परेणाङ्गीकर्तव्य इत्यत्रेत्यर्थः । उदाहर्तुं शक्यमित्युपलक्षणम् । ‘सत्यज्ञानादिकेऽ-प्येवम्’ इत्यन्यत्र तदुदाहृतं चेत्यपि द्रश्व्व्यम् । तथाविधमेवेति ।। सत्यज्ञानादिवाक्यस्य सविशेषाभेदप्रतिपादनानु-कूलत्वेऽपि प्रस्तुतं भेदस्य सविशेषाभेदप्रतिपादनं प्रत्यननुकूलत्वात् तदनुदाहृत्य, तदनुकूलत्वात् ‘नेति नेति’ इति वाक्यमेवोदाहृतमित्यर्थः । प्रयोजनान्तरवत्त्वाच्च तदनुदाहृत्यैव तदेवोदाहृतमित्याह- क्वापीति ।। कथमा-पादनमिति ।। यदि भेदो दृश्येतेति भेददर्शनमात्रमापादकमित्यभिमतं किं वा यदि भेदः प्रतीयेतेति धर्मिप्रतियोगि-प्रतीतिसापेक्षप्रतीतिकत्वमित्यर्थः । आद्यमुत्थाप्य दूषयति- यदीत्यादिना ।। सम्मतत्वेनेति ।। असम्मतत्वे भेदादर्शनेन तन्निरासाद्ययोगादिति भावः । उक्तदूषणपरिहारेण द्वितीयमुत्थापयति - दर्शनमात्रसद्भावेऽ-पीति ।। अन्योन्याश्रयत्वस्येति ।। त्वया स्तम्भात् कुम्भस्य भेदप्रतीतौ कुम्भात्स्तम्भस्य भेदप्रतीतिरिति प्रतीतावेवान्योन्याश्रयत्वस्योक्तत्वेन प्रतीतिगतान्योन्याश्रयत्वेन तत्प्रमात्वनिषेधस्य चोरापराधान्माण्डव्यस्य शूलारोपणप्राप्तिवदयुक्तत्वादिति भावः । तृतीयमतिदेशेन दूषयति- एतेनेति ।। प्रतीतिगतान्योन्याश्रयत्वस्य (पां.टि.) तद्वास्तवत्वनिरासकतायाश्चोरापराधान्माण्डव्यस्य शूलप्राप्तिवदयुक्तत्वेनेत्यर्थः । यदि भेददर्शनं व्यावहारिकं स्यात्तर्ह्यन्योन्याश्रयत्वं स्यान्न च तद्युक्तं तस्मान्न व्यावहारिकमिति प्रतितर्कपराहतत्वात्तर्काभासोऽ-यमित्याह- किञ्चेति ।। विपक्षे बाधकसूचनेनाप्रयोजकत्वं परिहरति- न हीति ।।

चतुर्थप्रकारमाशङ्कते-अथेति ।। किमत्र यदि भेददर्शनं धर्मिप्रतियोगिग्रहणापेक्षं स्यात्तर्ह्यन्योन्याश्रयत्वं स्यादि-त्यापादनमभिप्रेतम्, किं वा यदि तत्सापेक्षा भेदप्रतीतिः स्यात्तदाऽन्योन्याश्रयत्वं स्यादिति, यदि वा तत्सापेक्षं भेदग्रहणं स्यात्तर्ह्यन्योन्याश्रयत्वं स्यादिति विकल्पान् मनसि निधायाऽद्यं दूषयति- तदेति ।। आपाद्यनिवृत्तेरापा-दकमात्रनिवर्तकत्वेन धर्मिप्रतियोगिग्रहणापेक्षत्वस्यैव चाऽपादकत्वात्तस्यैव निवृत्तिः स्यादित्यर्थः । भेददर्शनस्य किमायातमिति ।। भेददर्शनस्यानापादकत्वेनाऽपाद्यनिवृत्त्या न तन्निवृत्तिः सम्भवतीति भावः । नन्वत्र पक्षे आपाद्यनिवृत्त्या भेददर्शननिवृत्त्यप्राप्तावपि धर्म्यादिप्रतीत्यनपेक्षत्वरूपप्रकारान्तरेण भेददर्शनासम्भवे सति धर्म्यादिप्रतीत्यपेक्षानिवृत्त्या तन्निवृत्तिः स्यादेवेत्याशङ्कते- प्रकारान्तरेति ।। अङ्गीकृतत्वेनेति ।। भेदादर्शने तन्निरासाद्यनुपपत्त्याऽङ्गीकरणीयत्वेनेत्यर्थः । न द्वितीयतृतीयौ । त्वया स्तम्भात्कुम्भस्य भेदप्रतीतौ कुम्भात्स्तम्भस्य भेदप्रतीतिरिति धर्मिप्रतियोगिग्रहणापेक्षभेदप्रतीतावेवान्योन्याश्रयत्वादेरुक्तत्वेन तादृशप्रतीतिगतान्योन्याश्रयत्वा-देस्तत्प्रतीतिगतप्रमात्वतद्वास्तवत्वप्रतिबन्धकतायाः चोरापराधान्माण्डव्यस्य शूलारोपणप्राप्तिवदयुक्तत्वादित्या-शयेनाऽह- प्रमात्वादिनिवर्तन इति ।। अङ्गीकृत्यैव च भेददर्शनस्य प्रकारान्तरेणासम्भवं भेददर्शनस्याङ्गीकृतत्वेन निवर्तयितुमशक्यत्वमुक्तम् । वस्तुतस्तु न तस्य प्रकारान्तरेणासम्भव इति न धर्मिप्रतियोगिप्रतीतिसापेक्षत्वनिवृत्त्या तन्निवृत्तिरित्याशयेनाऽह- किञ्चेति ।। भेददर्शनस्य प्रकारान्तरकल्पकत्वे निर्णायकमाह- स्पष्टदृष्टमिति ।। अवश्यं चैतदेवम् । अन्यथाऽतिप्रसङ्गादिति भावेनाऽह- न हीति ।। वक्ष्यमाणन्यायेनेति ।।

लघुप्रभा

(व्या.टि.)

हेतोर्बाधकमाशङ्कते- पटः प्रतीयमान इति ।। ज्ञानप्रसङ्गादिति ।। ज्ञानजननस्य प्रसङ्गादि-त्यर्थः । ननु यौगपद्यापादने इष्टापादनमित्याशङ्क्य न यौगपद्यं युगपदुपस्थितिः, किन्तु युगपदुत्पत्तिः । अनुत्पत्तेः सिद्धत्वेन युगपदुत्पत्तेरेवानिश्व्त्वादित्याशयेनाऽह- यद्यपीति ।। वध्यघातुकभावेनेति ।। ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायेन तद्भावस्य सहभावनियमादित्यर्थः । नास्तीति ।। अनेनानुत्पत्तिः सिद्धेति तदुत्पत्तिर्दोषोऽनिष्टमिति मूलयोजना सूचिता । ननु कुतो नास्ति? कारणयौगपद्येन कार्ययौगपद्यसम्भवादित्याशङ्क्य युगपज्ज्ञानोत्पत्तिर्भवन्त्यप्यनेकेन्द्रियविषये वा एकेन्द्रियविषये वा । नाऽद्यः । कारणाभावादित्याह- मनसोऽ-णुत्वेनेति ।। द्वितीये प्रमाणाभावेनाभाव इत्याह- एकेन्द्रियविषयेऽपीति ।। रूपादीनां सहोत्पत्तेरात्मेति । धर्माधर्मादिविजातीयव्यावृत्त्यर्थं सजातीयेति । दर्शनशब्दस्य भावसाधनत्वे दर्शनेन ज्ञायन्त इत्यनेनानन्वयादाह- दृश्यत इति ।। नन्वनिष्टप्रसङ्गे चोदिते पुनस्तदेवाङ्गीकृतमिति किं केन सङ्गतमित्यतो भावमाह- यद्यपीति ।। सामान्यतः सर्वव्यावृत्तिज्ञानेनैतावाक्षेपपरिहारौ सङ्गतौ । धर्मिज्ञानस्य मनोवृत्तिरूपत्वेऽपि प्रतियोगिज्ञानस्य मनोवृत्तिरूपत्वाभावादिति शङ्कते- नन्विति ।। साक्षिरूपमिति ।। ‘सर्वं सामान्यतो यस्मात् सर्वैरप्यनु-(व्या.टि.) भूयते’ इत्यनुभाष्योक्तेरित्यर्थः । अनुमन्यते- सत्यमिति ।। प्रसज्यत एवेति ।। उभयोर्मनोवृत्ति-रूपत्वादित्यर्थः । तथापि ‘तथा स्यात्प्रकृते’ इत्यनुमतिरयुक्ता दीपसहस्रस्येव सर्वत्र धर्मिप्रतियोगिनां सन्निधान-नियमाभावादित्याशङ्क्य व्यवस्थामाह- तत्रेत्यादिना ।। एकज्ञानेति तत्पुरुषः । संस्कारेति ।। प्रतियोग्यनुभव-जन्यसंस्कारेत्यर्थः । संस्कारपदं सविषयकमात्रस्य सहकारित्वमुपेत्य स्मरणोपलक्षणमिति न पूर्वग्रन्थविरोधः। धर्मिणोऽसन्निधाने उपनीतस्य मुख्यविशेष्यत्वाभावनियमाभावादेतस्माद्भिन्नः स इति,  नियमे  वा  तद्भेदप्रति-योग्ययमिति प्रतीतिरित्यवधेयम् । पुनर्बाधकद्वयं प्रसञ्जयति- नन्विति ।। इति वेति ।। भेदमात्रावशेषो वा पटमात्रावशेषो वाऽन्यतरावशेष एक एवाऽपाद्यः । विशेषाङ्गीकारेण समाधिं विधत्ते- विद्यमानयोरेवेति ।। सविशेषाभेदाङ्गीकारे व्यवस्थयोक्तानुमानाशेषदोषनिरासो भवतीत्याह- तत्रेति ।। प्रतिनिधित्वादिति ।। प्रतिनिधेः स्थानिकार्यकरत्वस्य पूतिकादौ दर्शनादिति भावः । अप्रसिद्धमिति ।। मतान्तर इति शेषः । किमु-तेति ।। सर्वथा भेदानङ्गीकारिभिरपि तत्प्रतिनिधिविशेषस्तत्कार्यकारित्वेन तत्स्थानापन्नतयेष्टः, किमुत तद्वादि-भिस्तदभावे तत्स्थानापन्नतयेश्व् इति कैमुत्यम् । कथमन्येषां भेदाङ्गीकारोऽवगत इत्यत उक्तम्- व्यवस्थापयद्भि-रिति ।। हेतुगर्भविशेषणम् । भिन्नविषयत्वाद्व्यवस्थापनाया इति भावः । असदारोपोऽसावित्यत आह- तदविना-भूतस्येति ।। तदन्यथानुपपन्नस्येत्यर्थः । तत्कथमिति ।। अविनाभूतार्थाङ्गीकरणं कथमित्यर्थः । प्रतिपाद्यत-येति ।। अनेन नञोर्वीप्सा श्रुतौ पूर्वोपसंहारार्था, इति करणद्वयं वाक्यद्वयसमाप्तौ, इतीत्यतः परं प्रतीतेरिति शेषः, आत्मेत्यतो विलक्षणेति चेति सूचितम् । सर्वेति ।। सर्ववैलक्षण्यं तदविनाभूतोऽर्थ इत्यर्थः ।

ननु मुख्यभेदाङ्गीकारेणैव सर्ववैलक्षण्यप्रतिपादनसम्भवेन कुतस्तत्प्रतिनिधिविशेषाङ्गीकारः । न हि सोमाभावे पूतिकाग्रहणमिति तद्भावे स इत्यत आह- इदमुक्तं भवतीति ।। पदसमन्वयः पदशक्तिः । नञोऽन्योन्याभाववति शक्तेरित्यर्थः । ब्रह्मण आत्मपदार्थस्य । सर्वेति विशेषणतयाऽत्मपदार्थे नञर्थान्वयादित्यर्थः । अपिना वाद्यन्त-राविगानं सूचयति । आत्मशब्दार्थस्येति ।। व्यावृत्तिभ्यामिति शेषः । व्यावृत्त्योश्चेति ।। मिथ इति शेषः । अखण्डवाक्यार्थेति भावप्रधानः । अखण्डस्य संसर्गशून्यस्य प्रातिपदिकार्थमात्रस्य । वाक्यार्थत्वं वाक्यबोध्य-त्वम् । पुनरुक्तीति ।। उक्तमात्रोक्तीत्यर्थः । अनाम्नानमिति ।। पर्यायत्वेन सहपाठाभाव इत्यर्थः । मुख्यप्रतिनिध्युभयाभावे तत्कार्यासम्भव इति भावः । अङ्गीकार्य एवेति ।। र्ओ कृत्यः । नञोऽन्योन्याभाव एव शक्तेस्तद्वति लक्षणेति मतमाश्रित्य शङ्कते-नन्वेवमिति ।। भेदेति ।। मिथो विशेषणत्वे चेत्यर्थः । घटप्रतियोगि-कत्वादिभेदकसद्भावादित्यर्थः । उक्तमात्रोक्तावपि प्रयोजनवत्त्वान्न वैयर्थ्यमिति शङ्कते- नानाविधेति ।। प्रतिपाद्येति ।। नञ्द्वयेन विशेष्यपदेन चाऽत्मत्वतत्तत्प्रतियोगिकव्यावृत्त्यादिरूपविशेषासमर्पणेनाऽत्मत्वघटत्वा-द्यारोपपरिहारोऽपि न फलिष्यतीति भावः । इतश्चेति ।। अवधिभेदादित्यर्थः । व्यावृत्तिद्वयमिति ।। ननु ‘एक एव खल्वेकस्य वस्तुनो भेदः’ इति पूर्वोक्तविरुद्धं व्यावृत्तिद्वयमिति वचनमित्यत आह- अभिन्नमपीति ।। सातिशयम् अवधिभेदनिरूप्यताविशेषोपेतम् । ननु सत्यज्ञानादिवाक्यमेवात्र किं नोदाह्रियते । तत्राप्येकतरा-(व्या.टि.) परिशेषापर्यायत्वाभ्यां विशेषस्याङ्गीकारयितुं शक्यत्वात् । ‘ज्ञानानन्दादिवदेव’ इति तैत्तिरीयभाष्ये तथैवोदाहृत्वाच्चेत्याशङ्क्य प्रकृतसङ्गतिविशेषावगत्या परिहरति- यद्यपीत्यादिना ।। परमप्रक्रमानुगुण्याच्चैव-मित्याह- क्वाऽपीति ।। ‘भेदस्तु न कश्चिदपि प्रामाणिकः’ इति परमोपक्रमे वाद्युक्तेरित्यर्थः । तदेवं सापेक्षत्वं, तत्प्रतीतावप्रतीतिः, सम्बन्धितया प्रतीतिः, विशेषणतया प्रतीतिः, संशयानुपपत्तिः, प्रतियोगिनोऽपि स्वरूपत्वा-पत्तिः, विदारणापत्तिः,अनेकत्वापत्तिः, अन्यतरमात्रावशेषः, पर्यायत्वम् इति स्वरूपत्वे बाधकदशकोद्धारः ।

एवं भेदस्य धर्मिस्वरूपत्वे बाधकदशकमुद्धृत्यान्योन्याश्रयतर्कं प्रतीतिद्वयाभावेन निराश्रयतया निराकृत्य जात्या आभासीकरिष्यन् प्रतिजानीते- किञ्चेति ।। अन्यच्चेत्यर्थः । कथमिति ।। ‘किमश्च’ इति थन्प्रत्ययः । किमश्च कादेशः । केन प्रकारेणेत्यर्थः । किं, यदि भेदो दृश्येत तदाऽन्योन्याश्रयः स्यादिति दर्शनमापादकीकृत्याऽ-पादनम्, उत यदि प्रमा स्यात्तदैवमिति, किं वा यदि वास्तवी स्यात्तदैवमिति, यदि धर्म्यादिप्रतीतिमपेक्ष्य भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादिति, विशिश्व्दर्शनमापादकीकृत्य इति विकल्पः प्रश्नार्थः । आद्यमाशङ्कते- यदीति ।। इतीत्यावृत्त्या योज्यम् । सम्मतत्वेनेति ।। अन्यथा निराश्रयापादनानुपपत्तेरिति भावः । द्वितीय-माशङ्कते- दर्शनमात्रसद्भावेऽपीति ।। अयं भावः - किमन्योन्याश्रयत्वं प्रतीत्योरेव परस्परोत्पत्तिं प्रतिबध्नातीति मतं किं वा तद्धर्मम् । आद्ये कथमप्रमाऽपि भेदप्रतीतिरुत्पद्यते । न द्वितीयः । अन्ययोरन्योन्याश्रयत्वम् अन्यल्लुप्यत इत्यस्यान्याय्यत्वादित्याह- अन्योन्याश्रयत्वस्येति ।। प्रतीतिगतस्येति शेषः । एतन्न्यायं तृतीयेऽप्यतिदिशति- एतेनेति ।। किञ्च भेदस्य व्यवहारिकसत्त्वाङ्गीकरणमपि विरुध्येत । अन्योन्याश्रयेण वास्तवत्वप्रतिबन्ध इव व्यावहारिकत्वस्यापि प्रतिबन्धादित्याह- किञ्चेति ।। ननु व्यावहारिकमन्योन्याश्रयदुष्टमप्युत्पद्यत इत्यत आह- न हीति ।। परस्यापीति ।। सोल्लुण्ठनवचनं, लोकोत्तरप्रज्ञस्य तवापीत्यर्थः । तुरीयं निराचश्व्े- अथ यदीति ।। किमायातमिति ।। भेददर्शनस्यानुत्पत्तिं प्रतिज्ञाय तद्धर्मसापेक्षतानिराकरणे कथं न पूर्वोत्तरविरोध इति भावः। परिशेषादभिमतसिद्धिमभिलषति- प्रकारान्तरेति ।।  प्रसक्तप्रतिषेधेऽन्यस्याप्रसङ्गात्तन्निवृत्तिरेव सेत्स्यतीति भावः । मोक्तं विस्मार्षीरित्याह- दर्शनमात्रस्येति ।। किञ्चाऽनुभाविकस्य भेददर्शनस्यापलापोऽयुक्त इत्याह- किञ्चेति ।। लोकविरुद्धं चेत्यर्थः । तन्निदर्शयति- स्पष्टदृष्टाङ्कुरमिति ।। परिचितचरेति ।। भूतपूर्वचरमि-त्यर्थः । एतेन तर्कस्य व्याहतिरुक्ता वेदितव्या । ननु कतमेयं जातिरिति चेन्न । सामान्यलक्षणसद्भावे विशेष-निर्बन्धस्य व्यर्थत्वात् । ओतुप्रसङ्गनित्यसमास्वन्तर्भावाच्चेति दिक् । अनुमानेन भेदप्रतीत्यनुपपत्तिं शङ्कते- (व्या.टि.) नन्विति ।। कथमिति ।। अन्योन्याश्रयानवस्थानाद्यापत्तेरिति भावः । किं प्रतीतिमात्रं नाङ्गीकरोति उत तत्प्रमात्वमिति विकल्पं मनसि निधाय गूढाभिसन्धिरुत्तरयति- तत्किमिति ।। ओमिति चेत्तत्राऽह- तथा सतीति ।। व्यवहार इति ।। तथा च तस्य स्वक्रियाविरोध इति भावः । द्वितीयं निराह- प्रमात्वेति ।।

।। इति श्रीमद्विष्णुतत्त्वविनिर्णये भेदवादः समाप्तः ।।