जीवेश्वरभिदा..
प्रपञ्चो यदीतिश्रुत्यर्थस्य संवादेन दृढीकरणम्
मूलम्
-‘जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ।
कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।
मतं हि ज्ञानिनामेतन्मितं त्रातं च विष्णुना ।
तस्मात् सत्यमिति प्रोक्तं परमो हरिरेव तु ।।’ इति परमश्रुतिः ।
मैत्रेयीशाखायां च ‘अथ ज्ञानोपसर्गा’ इत्युक्त्वा ‘अथ ये चान्ये मिथ्यातर्कैः दृष्टान्तैः कुहकेन्द्रजालैः वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् प्राकाश्या ह्येते तस्करा अस्वर्ग्या इति ह्याह-
नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः ।
भ्राम्यंल्लोको न जानाति वेदविद्यान्तरं तु यत् ।। इति ।’
आत्मसम्बन्धि किमपि नास्तीति वादो नैरात्म्यवादः ।।
तत्त्वमञ्जरी
मिथ्यात्वे प्रयुज्यमानाः तर्काः मिथ्यातर्काः । विमतं मिथ्या दृश्यत्वादित्यादयः । कुहकानां मायाविनाम् । इन्द्रजालादयः तत्र दृष्टान्ताः । नैरात्म्ये वादो येषां ते नैरात्म्यवादाः । त एव कुहकाः मायिनः ।
टीका
एवमान्तरोपपत्तिबलादयमेव श्रुत्यर्थ इत्युक्तम् । श्रुत्यन्तरसंवादाच्चेत्याह- जीवेश्वरेति ।। चशब्दास्तथाशब्दौ च समुच्चये । एवशब्दावभेदसाहित्यनिरासार्थौ । भेदपञ्चक इति ।। ‘पञ्चद्दशतौ वर्गे वा’ इत्यत्र वाशब्देन वर्गार्थे पञ्चशब्दस्य निपातनमङ्गीकृत्योक्तम् । ‘सोऽयं सत्यो ह्यनादिश्च’ इति प्रतिज्ञाद्वयम् । तत्रानादित्वं प्रसङ्गविपर्ययाभ्यामुपपादयति- सादिश्चेदिति ।। सत्यत्वमुपपादयितुं पूर्वप्रतिज्ञामनुवदति- न चासाविति ।। कुतो नेत्यतः प्रसङ्गविपर्ययावाह- कल्पितश्चेदिति ।। द्वैतमित्यनेन उपदेशादित्यर्धमुपसंहारार्थमिति ज्ञायते । एतद् द्वैतम् । इति प्रोक्तं निश्चितम् । परमो हरिरेवेत्यस्यापि ‘औतं परमार्थतः’ इत्यस्येव शङ्का व्याख्यानञ्च ।
श्रुत्यन्तरे प्रपञ्चमिथ्यात्ववादिनां निन्दितत्वाच्च न प्रपञ्चो यदीति वाक्यस्य प्रपञ्चस्यैकजीवा-ज्ञानपरिकल्पितत्वमर्थोऽङ्गीकार्य इति भावेनाह- मैत्रेयीति ।। अथ अनन्तरं ज्ञानोपसर्गाः सम्यग्ज्ञानविघ्ना उच्यन्त इत्युक्त्वा इति प्रतिज्ञाय ‘अथ ये चान्ये’ इत्याद्युक्तमिति शेषः । ये चान्ये प्रागुक्तेभ्यः कापालिकादिभ्यो मिथ्यातर्कैः प्रपञ्चमिथ्यात्वसाधकैर्द्दश्यत्वादिहेतुभिः । कुहकेन्द्र-जालैर्दृष्टान्तैः । कुहकं छद्मना प्रदर्शितम् । प्रकाशे भवाः प्राकाश्याः । ‘इति ह्याह’ इति ब्राह्मणं स्वोक्तार्थे साक्षित्वेन मन्त्रमुपादत्ते । इत्युक्तमर्थं मन्त्रोऽप्याह हीत्यर्थः । तमेव मन्त्रं पठति- नैरात्म्येति ।। नैरात्म्यवादैः कुहकैश्च मिथ्यात्वसाधकैः दृष्टान्तहेतुभिः । अर्थात्कुहकैर्दृष्टान्तैरिति भवति । वेदविद्याऽऽन्तरं वेदविद्याऽभिप्रायम् । नन्वत्र नैरात्म्यवादिनां बौद्धादीनां निन्दा श्रूयते, न मायावादिनां, तेषामात्मवादित्वेन नैरात्म्यवादित्वाभावादित्यत आह-आत्मेति ।। आत्मन इदम् आत्म्यम् । तस्याभावो निरात्म्यम् । ‘अर्थाभावे यदव्ययम्’ इति समासः । तस्य भावो नैरा-त्म्यम् । स्वार्थे वाऽण् । तस्य वादो नैरात्म्यवादः। अस्य तात्पर्यार्थोऽयम् आत्मसम्बन्धीति । अवश्यञ्चैतदङ्गीकार्यम् । वैदिकेषु ‘परिस्थातुमिच्छन्ति’ इति वचनात् । न हि बौद्धादयो वैदिकेषु परिस्थातुमिच्छन्तीति ।।
भावबोधः
पञ्चशब्दस्य निपातनमिति ।। विकल्पार्थकवाशब्दस्य पक्षे निपाताभाववच्छब्दान्तरनिपातनमप्यर्थ इति भावः ।
भावदीपः
पञ्चद्दशतौ वर्गे वेत्यत्र वाशब्देनेति ।। यद्यपि वृत्तौ पञ्चशब्दो दशशब्दश्च डतिप्रत्ययान्तो निपा-त्यते । वर्गेऽभिधेये तदस्मिन्परिमाणमित्येतस्मिन्विषयेऽर्थे वाशब्दात् ‘सङ्ख्याया अतिशदन्तायाः कन्’ इत्यतोऽनु-वृत्तकन्प्रत्ययो भवति पञ्च परिमाणमस्य वर्गस्य पञ्चत् वर्गः, पञ्चको वर्गः, दशको वर्ग इत्येवोक्तं, न तु डप्रत्ययान्तो निपात इति । तथाऽपि श्रौतप्रयोगानुसारात्सोऽप्यङ्गीकार्य इति भावेनोक्तम्- वाशब्देनेति ।। डप्रत्ययान्तस्य निपातनमित्यर्थः । अपौनरुक्त्यायाऽह- पूर्वप्रतिज्ञामनुवदतीति ।। व्यवहितत्वात्पुनरनुवाद इति भावः । एतदित्यनुवादो द्वैतमिति व्याख्या । इति प्रोक्तमित्यनुवादो निश्चितमिति व्याख्या । शङ्का व्याख्यानञ्चेति ।। ज्ञायत इत्यनुषङ्गः । ‘यदि विकल्पः’ इति पूर्वार्धे पञ्चविधो भेदो सत्य इत्यभिमतस्तर्ह्यद्वैतः सर्वभावानामिति व्यपदेशः कथमिति शङ्का । औतं परमार्थत इति परमार्थहरिमपेक्ष्याद्वैतम् । कोऽर्थः? हरिरेव परमः सर्वभावानां चेतनानां मध्ये समाभ्यधिकरहित इति व्याख्या च ‘औतं परमार्थतः’ इत्यनेन क्रियत इति ‘परमो हरिरेव तु’ इति वाक्येन ज्ञायत इत्यर्थः । क्त्वाप्रत्ययनिर्वाहायाऽह- इत्याद्युक्तमिति शेष इति ।। वेदविद्यान्तरन्तु यदितीत्यनन्तरमुक्तमिति शेष इत्यर्थः । इति ह्याहेत्यस्यार्थमाह- इत्युक्तमिति ।। ‘ये चान्ये’ इत्यादिनोक्तमर्थमित्यर्थः । अर्थादिति ।। योग्यताबलादित्यर्थः । आत्मन इदमात्म्यमिति ष्यञ्प्रत्यये टिलोपे चाऽत्म्यमिति रूपम् । तस्य आत्मसम्बन्धिनो भाव इत्यर्थे ‘अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभाव’ इत्यादिसूत्रेणार्थाभावे यदव्ययमिति सुबन्तेन समस्यत इत्युक्तत्वात् ‘निर्’ इत्यभावार्थकाव्ययस्याऽत्म्यपदेन समास इत्यर्थः । आदिवृद्ध्यर्थमाह- तस्य भाव इति ।। अण्प्रत्यये ‘यस्येति च’ इत्यकारलोपे ‘तद्धितेष्वचा-मादेः’ इत्यादिवृद्धिरिति भावः । भावार्थकत्वाभावेऽप्युपपत्तेराह- स्वार्थे वेति ।। अवश्यञ्चैतदिति ।। आत्मसम्बन्धीत्यादिनोक्तं मायिमतनिराकरणपरत्वमित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
आन्तरोपपत्तिर्यद्यादिशब्दवैयर्थ्यरूपा । चशब्दा इति ।। त्रयश्चशब्दास्तथाशब्दद्वयं चेति शब्दपञ्चकं पञ्चानां भेदानां परस्परसमुच्चये वर्तत इत्यर्थः। ‘ननु प्रपञ्चो भेदपञ्चकः’ इत्ययुक्तम् । ‘पञ्चद्दशतौ वर्गे वा’ । वर्गार्थे पञ्चत् दशत् इति निपात्येते इत्युक्तत्वेन भेदपञ्चकः पञ्चत् इत्येव वक्तव्यम् । न तु प्रपञ्च इति । अतःकथमेतदित्याशङ्क्य भेदपञ्चक इति व्याख्यानं प्रपञ्च इति मूलारूढं करोति- भेदपञ्चक इतीति ।। पञ्चशब्द-स्येति ।। तथा च प्रपञ्च इति युक्तमिति भावः । पूर्वप्रतिज्ञामिति ।। सोऽयं सत्य इत्यनेन कृतां सत्यत्वप्रतिज्ञा-मित्यर्थः । न चासावितीति ।। भ्रान्तिकल्पित्वाभाव एव सत्यत्वमिति भावः । प्रागुक्तेभ्य इति ।। मैत्रेयी-(श्री.टि.) शाखायां प्रागुक्तेभ्य इत्यर्थः । कापालिकेभ्यः शैवादिभ्यः । मिथ्यातर्कैर्दृष्टान्तैरित्यन्वयप्रतीतिवार-णाय कुहकेन्द्रजालैर्दृश्वन्तैरित्यन्वय इत्याह- कुहकेति ।। ननु कुहकैर्मिथ्यादृष्टान्तहेतुभिरित्यत्र कुहकैरिन्द्रजाल-रूपैर्मिथ्यात्वसाधकैर्दृष्टान्तैर्हेतुभिश्चेति प्रतीयते । तदयुक्तम् । तथात्वे ब्राह्मणमन्त्रयोर्विसंवादापत्तेः । ब्राह्मणे दृश्यत्वादीनां हेतुत्वमुक्तम् । कुहकेन्द्रजालानां दृष्टान्तत्वमुक्तम् । मन्त्रे तु कुहकेन्द्रजालानां दृष्टान्तत्वं हेतुत्वं चोच्यते । तत्र कुहकानामिन्द्रजालानां मिथ्यात्वसाधने दृष्टान्तत्वसम्भवेऽपि हेतुत्वासम्भवाद् दृश्यत्वादीनामेव हेतुत्वादित्यत आह- अर्थादिति ।। यद्यपि कुहकानामिन्द्रजालानां हेतुत्वमुक्तम् । तथाऽपि तस्य बाधितत्वेना-सम्भवात् अर्थाद् दृष्टान्तत्वमेव तेषामुक्तं भवतीत्यर्थः । तथा च मिथ्यात्वसाधकैः कुहकैर्दृष्टान्तैर्दृश्यत्वादि-हेतुभिश्चेति बुद्ध्या विविच्य मन्त्रो योज्य इत्युक्तं भवति । तस्याभाव इति ।। आत्म्यस्याभाव इत्यर्थः । नन्वात्म्यरूपार्थाभाववाचिनो निरः कथमात्म्यपदेन समास इत्यत आह- अर्थाभाव इति ।। अर्थाभावरूपार्थे यदव्ययं तस्य ‘अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावात्यय’ इत्यादिसूत्रेण मक्षिकाणामभावो निर्मक्षिक-मितिवद् आत्म्यस्याभावो निरात्म्यमिति समासो युक्त इत्यर्थः । तस्य भाव इति ।। निरात्म्यस्य भावो धर्मो नैरात्म्यमित्यर्थः । प्रकारान्तरमाह- स्वार्थे वेति ।। तथा च निरात्म्यशब्दात्स्वार्थेऽण्प्रत्यये णित्त्वाद् इकारस्य ऐकाररूपवृद्धौ निरात्म्यमेव नैरात्म्यमिति भवतीति द्रष्टव्यम् । अवश्यं चैतदिति ।। प्रपञ्चमिथ्यात्ववादिनां मायावादिनामेव निन्दापरमेतद्वाक्यं, न बौद्धानामित्येतदेवावश्यमङ्गीकार्यमित्यर्थः । वैदिकेषु वेदप्रामाण्य-वादिषु । तन्मध्य इति यावत् । न हीति ।। तेषां वेदाप्रामाण्यवादित्वादिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु सङ्ख्यार्थपञ्चन्शब्दस्य विशेषणत्वात्पञ्चभेदक इति वक्तव्ये कथं भेदपञ्चक इत्युक्तमित्यत आह- भेदपञ्चक इतीति ।। तथा च समूहार्थकस्य विशेष्यपरत्वान्नोक्तदोष इति भावः । ननु वर्गे अभिधेये तदस्य परिमाणमित्येतस्मिन्विषये ‘सङ्ख्याया अतिशदन्तायाः कन्’ इति प्राप्तस्य कनोऽपवादेन डतिप्रत्ययविधा-नाड्डित्वाट्टिलोपे सति पञ्चद्दशदित्येव भवितव्यम् । पञ्चक इति तु कथमित्यतोऽप्याह- भेदपञ्चक इतीति ।। सति डति प्रत्यये तथारूपस्य भवितव्यत्वेऽपि वाशब्देन पक्षे कन्प्रत्ययविधानेन पञ्चकःदशक इति पूर्वरूपाभ्यनु-ज्ञानात्पञ्चक इत्यप्युपपन्नमिति भावः । इति ह्याहेत्यस्यापि श्रुतिविशेषत्वेनोक्तेत्याचार्यवाक्येन सम्बन्धासम्भवेन तस्य साकाङ्क्षत्वात्प्रसक्तवाक्याभासत्वमपेक्षितशेषपूरणेन परिहरति- अथ ये चान्ये इत्याद्युक्तमिति शेष इति ।। इत्याहेत्यन्तमुक्तमिति शेष इत्यर्थः । आत्मन इदमिति ।। तथा च ‘विचित्रा तद्धितगतिः’ इति वचनादिदमर्थे ष्यञित्युक्तं भवति । अर्थाभाव इति ।। तथा च निर्मक्षिकमित्यत्रेवाऽत्म्यस्याभावो निरात्म्य-मित्यर्थाभावे ‘अव्ययं विभक्ति’ इत्यनेनाव्ययीभावसमास इत्यर्थः । तस्य भाव इति ।। ‘हायनान्तयुवादि-भ्योऽण्’ इत्यनेन निरात्म्यशब्दाद्भावेऽणि णित्त्वादादिवृद्धौ नैरात्म्यशब्दनिष्पत्तिरिति भावः । अस्मिन्पक्षे युवादिषु सङ्ख्यानं भवति । तच्चागतिका गतिरिति भावेन पक्षान्तरमाह- स्वार्थिको वेति ।। ततश्च निरात्म्यमेव नैरात्म्यमिति निरात्म्यशब्दात्स्वार्थे प्रज्ञादित्वात् ‘प्रज्ञादिभ्यश्च’ इत्यनेन सूत्रेणाणि णित्त्वादादिवृद्धौ नैरात्म्यशब्दनिष्पत्तिरिति (पां.टि.) भावः । ननु बौद्धवादिनामेवेयं निन्दा किं न स्यात्, किमिति मायावादिनिन्दापरत्वं कल्प्यते । मुख्यार्थानुपपत्तावेवार्थान्तरपरत्वस्य कल्पनीयत्वादित्यत आह- अवश्यं चैतदिति ।।
लघुप्रभा
(व्या.टि.)
एवं प्रपञ्च इति श्लोके प्रपञ्चपदं जातीयरोऽर्थे डप्रत्ययकरणेन विधाऽर्थतया व्याख्यातम् । अधुना‘प्रपञ्चो भेदपञ्चकः’ इत्यनुव्याख्यानानुरोधेनात्र च श्रुतौ पञ्चकपदेन प्रपञ्चपदव्याख्यानात्तस्य च वर्गार्थत्वात्पञ्चशब्दस्यापि वर्गार्थत्वं प्रत्ययसंयोजनेन साधयति- भेदपञ्चक इतीति ।। पञ्चशब्दस्य ‘प्रपञ्चो यदि’ इति श्लोकीयस्य, निपातनं डप्रत्ययान्ततया, ‘स्तोमे डविधिः’ परिमाणमस्येत्यर्थ इति प्रस्तुतत्वादित्यर्थः । उक्तं श्रुताविति शेषः ।
अत्रेदं विचार्यते । नात्र पञ्चशब्दो निपात्यते । किन्तु पञ्चद्दशतौ इति डतिप्रत्ययान्तौ पञ्चद्दशच्छब्दौ वाशब्दात् पञ्चकशब्दः । वैयाकरणैस्तथा व्याख्यातत्वात् । तथा हि- ‘सङ्ख्याया अतिशदन्तायाः कन्’ इति कनं प्रकृत्य श्रूयते ‘पञ्चद्दशतौ’ इति वाशब्दात्कनेव ग्राह्यः । अपवादाभाव उत्सर्गस्य न्यायप्राप्तत्वात् । तथैवोदाहृतं पञ्चद्वर्गः पञ्चको वर्गः, दशद्वर्गो दशको वर्ग इति । अतः कथं पञ्चशब्दस्य निपातनं सूत्रार्थतया वर्ण्यत इति । अत्रेद-माकूतमाचार्याणम् । यथा पञ्चकशब्दः प्रामाणिकसांव्यावहारिकत्वान्निर्व्यूढः, एवं पञ्चशब्दोऽपि निर्वोढव्य एव । ‘प्रपञ्चो भेदपञ्चकः’ इति श्रुत्यैव वर्गार्थकपञ्चकशब्दप्रतिपदग्रहणेन वर्गार्थकतया प्रपञ्चशब्दस्य व्याख्यात-त्वात् । तथा च प्रयोगः- प्रपञ्चपदं वर्गार्थशक्तम्, वर्गार्थशक्तपञ्चकपदप्रतिपादितार्थकत्वात् । यद् यदर्थशक्त-प्रतिपादितार्थकं तत् तदर्थशक्तम् । यथा आख्यातपदं यत्नत्वविशिष्टशक्तकरोतिधातुप्रतिपादितार्थकं भवति यत्नत्वविशिष्टशक्तमिति सामान्यमुखव्याप्तिसम्भवेन सामान्यतो दृष्टसम्भवात् । गृहीतश्च व्याख्यानाच्छक्ति-ग्रहः । ‘विवृतेः’ इत्युक्तेः । सम्मतं चैतन्मीमांसकानां नानुयाजाधिकरणे समासव्यासयोरेकार्थं ब्रुवताम् । तन्न्यायेनाप्यत्र वर्गार्थत्वनिश्चयः । तथा पञ्चकशब्दस्य ‘सङ्ख्यायास्संज्ञासङ्घसूत्राध्ययनेषु’ इति सन्निहितकप्रत्यय-विधायकपूर्वसूत्रोदाहरणत्वेनैव सिद्ध्या पुनरिह कल्पितोदाहरणत्वमस्वरसमिति निपातानिपातविकल्पमुज्झित्वा निपात्यविकल्पाभिप्रायेण पञ्चशब्दनिपातोऽप्यत्राभिमत इति सूत्रार्थमभिप्रेत्य टीकाकृता वाशब्देन पञ्चशब्दस्य निपातनमङ्गीकृत्येत्युक्तम् । केशवाचार्यस्वामिकृतं पञ्चकशब्दसमर्थनपरतया व्याख्यानं तु पञ्चकशब्दस्य निपातनमिति क्काचित्कपाठसमर्थनाय । न तु पञ्चशब्दनिपातनं नास्तीत्यभिप्रेत्य । पञ्चशब्दस्येति बहुपाठविरो-धात् । ‘शाखाचतुष्पञ्चगतं वसु’ इत्युपासनापादीयानुव्याख्यानव्याख्यावसरे चतुःपञ्चशब्दौ वर्गार्थौ निपा-तितौ । ‘प्रपञ्चो यदीति यथा’ इत्यत्र पञ्चशब्दस्य दृष्टान्ततया ग्रहणेन तद्धिरोधाच्चेत्यलं विस्तरेण । प्रतिज्ञा-द्वयमिति ।। अत्र सत्यत्वप्रतिज्ञोक्तपञ्चप्रकारावच्छेकावच्छेदेन । अनादित्वप्रतिज्ञा तु जडघटितप्रकारेषु सामाना-धिकरण्येन । कार्यजडधर्मिकभेदस्य कार्यत्वाद्, अकार्यधर्मिकस्याकार्यत्वादिति ध्येयम् ।
प्रसङ्गविपर्ययाभ्यामिति ।। ‘सादिश्चेन्नाशमाप्नुयात्’ इति ‘न च नाशं प्रयात्येषः’ इति वाक्याभ्यामित्यर्थः। (व्या.टि.) अत्र वैशेषिकाः- नेदं विपर्ययपर्यवसानं युक्तम् । अन्योन्याभावत्वं ध्वंसप्रतियोगिवृत्ति ध्वंसेतराव्याप्यवृत्त्यप्रतियोगिकप्रतियोगिसमानाधिकरणाभाववृत्तित्वात् प्रागभावत्ववदित्यनुमानेनान्योन्या-भावानित्यत्वसिद्धेः । तत्र वृत्तिमत्त्वादित्येवोक्ते आत्मत्वादौ व्यभिचार इत्यभावपदम् । घटात्यन्ताभावत्वे व्यभिचारनिरासाय प्रतियोगिसमानाधिकरणेति, संयोगात्यन्ताभावत्वादिनिरासायाव्याप्यवृत्त्यप्रतियोगिकेति, घटध्वंसत्वादौ व्यभिचारं वारयितुं ध्वंसेतरेत्यभावविशेषणत्रयम् । तन्नाशस्तु प्रतियोगिनाशकारणात् प्रतियोगि-नाशाद्वा । न चान्योन्याभावनाशे नष्टघटयोरभेदापत्तिः । किमत्राभेदपदेन ऐक्यमुच्यते भेदाभेदो वा । नाऽद्यः । स्वरूपाभावेनैकरूप्यापादनानुपपत्तेः । न द्वितीयः । तन्नाशे तन्नास्तितानियमेन इष्टापत्तेः । नन्वाश्रयनाशादाश्रित-कार्यनाशदर्शनेन अन्योन्याभावस्याप्याश्रयनाशादेव नाशो युक्तो, न प्रतियोगिविनाशकारणात् । किं च प्रागभावनाशस्य प्रतियोगिसामग्रीजन्यत्वेन प्रतियोग्यात्मकत्ववदन्योन्याभावनाशस्य प्रतियोगिविनाशसामग्री-जन्यत्वेन प्रतियोगिविनाशतादात्म्यापत्तिः । तत्सामग्य्राभिन्नसामग्रीजन्यत्वादिति चेन्न । तत्र न तावदाद्यः । आश्रयशब्देन समवाय्यभिधानात् । अन्यथा ध्वंसस्यापि विनाशप्रसङ्गात् । एकाधिकरणनाशेऽप्यधिकरणान्तरे तद्भेदप्रतीतेश्च । नापि द्वितीयो दोषः । अन्योन्याभावनाशयोर्वैयधिकरण्येन प्रागभावभेदेन सामग्य्राभेदासिद्धेर्घट-तत्प्रागभावविनाशयोश्चैक एव प्रागभाव इति न तद्भेदस्तत्रेति । प्रतियोगिनाशादन्योन्याभावनाश इत्यस्य पर-सिद्धान्तत्वादित्याहुः ।
तन्नतरां शोभते । उक्तानुमानं न तावदत्र प्रमाणम् । अप्रयोजकत्वात् । अनष्टस्येव नष्टस्यापि प्रतियोगिनः स्मरणे वर्तमानधर्मिणि भेदस्याबाधितप्रत्यक्षसिद्धत्वेन तद्विरोधाच्च । इदानी तद्भिन्न इदानी तद्भेदकवत्त्वादिति सामान्यतो दृष्टानुमानविरोधाच्च । किं चान्योन्याभावत्वं न ध्वंसप्रतियोगिवृत्ति प्रागभावेतराभावमात्रवृत्तित्वाद् ध्वंसत्ववत् इति प्रत्यनुमानपराहतत्वात् । एवमव्याप्यवृत्तिप्रतियोगिकस्यैव प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसमानाधिकरणत्वनियमेन तदप्रतियोगिकत्वेनैव प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसामानाधि-करण्याभावलाभेन स्वरूपासिद्धिः । यत्किञ्चित्सम्बन्धेन प्रतियोगिसामानाधिकरण्ये प्रतियोगिसमानाधिकरण-विशेषणवैयर्थ्यम् । किञ्चैवं सति घटात्यन्ताभावत्वं ध्वंसप्रतियोगिवृत्ति ध्वंसेतराव्याप्यवृत्त्यप्रतियोगिकप्रतियोगि-समानाधिकरणाभाववृत्तित्वादिति घटात्यन्तभावस्यापि नाशापत्तिः । न च प्रतियोगिसामानाधिकरण्ये विप्रति-पत्तिः । घटात्यन्ताभाववति घटानयने तस्यान्यत्रागत्या प्रतियोगिसामानाधिकरण्यस्यावर्जनीयत्वात् । अन्तरा-श्यामे घटे रक्तं नास्तीति प्रतीत्या तस्यापि प्रतियोगिसमवायिदेशत्वाभ्युपगमाच्च । अनित्यप्रतियोगिकान्यो-न्याभावमात्रस्यानित्यत्वसिद्ध्यर्थमनित्यप्रतियोगिकान्योन्याभावत्वानां पक्षीकरणे संयोगान्योन्याभावत्वे भागा-सिद्धिप्रसङ्गाच्च । प्रतियोग्यन्योन्याभावप्रतियोगितावच्छेदकात्यन्ताभावयोर्व्याप्यर्व्यापकभावेन व्यापकान्योन्या-भावाभावे तद्व्याप्यप्रतियोगितावच्छेदकात्यन्ताभावप्रसङ्गाच्च । अनित्यान्योन्याभावस्यानित्यत्वे तस्यासत्त्वनिय-मेनान्योन्याभावाभावस्य प्रतियोगितावच्छेदकरूपत्वेनेश्वरादेर्नित्यस्यानित्यघटवृत्तितद्व्यक्तित्वादिप्रसङ्गश्च । न चैतेषामाभासत्वम् । तस्यान्योन्याभावनाशसिद्ध्यधीनत्वेनान्योन्याश्रयत्वादित्यलं दुर्बलवैशसेन ।
(व्या.टि.) ननु परपक्षप्रतिक्षेपेऽपि धर्मिस्वरूपस्य भेदस्य तन्नाशे नाशावश्यम्भावेन कथं पर्यवसितार्थस्या-नादिनित्यत्वस्य सिद्धिः । इत्थम्- जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतोऽनादिनित्य एवेति न कश्चित्क्षुद्रोपद्रवः । अनित्येष्वपि न्यायसुधायां टीकाकारास्तु मन्यन्ते । ‘भेदो नामान्योन्याभावः स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्यापत्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च कदाऽपि पदार्थानामन्योन्यतादात्म्य-मस्तीत्यनित्यानामपि भेदो नित्य एव’ इत्यनुवादमुखेन प्राचीनमतमालम्ब्योपद्रवः परिहृतः । ‘तस्मात्प्रध्वस्त-भेदादि सदित्येवावगम्यते’ इत्येतद्व्याख्याऽवसरे ‘नष्टानामपि वस्तूनां भेदो नैव विनश्यति’ इति तैत्तिरीयभाष्यो-दाहृतप्रमाणमुदाहृत्य ‘धर्मिनाशेऽपि भेदो न नश्यति’ इति व्यवहरणमेतन्मतमालम्ब्यैव । वस्तुतस्तु सुधायां ‘नान्यदन्यत्वम्’ इत्येतद्व्याख्यावसरे सतोर्भेदिनोर्भेदो न निवृत्तिमान् भेदत्वात् स्तम्भकुम्भभेदवदित्येतत्प्रयोगे दृष्टान्ते साध्यवैकल्यव्यभिचारपरिहाराय सतोरिति विशेषणदानात् । ‘भावे त एव चोच्छेदात्’ इत्येतद्व्या-ख्याऽवसरेऽपि ‘नष्टस्यासत्त्वेन भेदचिन्ताऽनवकाशात्’ इत्युक्तेश्च । नष्टानामपीति पक्षस्योत्तरत्र ‘इत्याहुः केचिद-ज्ञानात्’ इति निन्दनाच्च । धर्मिपटनाशे भेदस्य निरालम्बनतयाऽवस्थानायोगात्तन्त्वात्मकतया स्थितौ तन्तोः स्वात्यन्ताभिन्नपटात्यन्ताभिन्नत्वापत्तिः, परमाणौ क्रमेणानन्तभेदसमावेशापत्तिः परमाणुप्रतियोगिकभेदस्य पटस्वरूपस्य परमाणावापत्तिरित्याद्यनेकबाधकनिकायाच्च । प्रागभावधर्मिकस्यानित्यत्वावश्यम्भावाच्च । नित्य-धर्मिकोनित्य इत्युक्तरीत्याऽनादित्वप्रतिज्ञा सामानाधिकरण्येन । तर्कश्चावच्छेदकावच्छदेनैवेत्यवधेयम् । इत्यनेनेति ।। समाख्याश्रुतावुपसंहारेणेत्यर्थः । अर्धमिति ।। माण्डूकीयश्लोकार्धमित्यर्थः । एतच्छब्दपरामृश्व्ं दर्शयति- द्वैतमिति ।। शङ्केति ।। तर्ह्यद्वैतः सर्वभावानामिति व्यपदेशः कथमित्यवतारिकेत्यर्थः । व्याख्यान-मिति ।। परमो हरिरित्येवाद्वैतश्रुत्यर्थ इत्यर्थः । मूले मैत्रेयेति ।। मित्रयोरपत्यमिति विग्रहे ‘ऋष्यन्धकवृष्णि-कुरुभ्यश्च’ इत्यणि प्राप्ते एतदपवादो ‘गृष्ट्यादिभ्यश्च’ इति ढञ् । ततः ‘केकयमित्रयुप्रलयानां यादेरियः’ ञ्णिति किति चेति, यकारादेरियादेशे मैत्रेयेय इति प्राप्ते ‘दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिना-यनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि’ इति निपातनाद्युलोपे, मैत्रेयः मैत्रेयौ मित्रयवः इतिरूपाणि, तस्य शाखेति विग्रहः । मैत्रयीति पाठे ततोऽण् बोध्यः। पुंवद्भावाभावश्च । ह्रस्वपाठे मैत्रेयशब्दादिञ् । ज्ञानेतिमुख्यवृत्तिमाश्रित्याऽह- सम्यगिति ।। आहेति वक्ष्यमाणक्रियाया मन्त्रकर्तृकत्वेन उक्त्वेत्युक्तक्रियाया ब्राह्मणकर्तृकत्वेन समानकर्तृकत्वाभावेन क्त्वाऽसम्भवमाशङ्क्य शेषं पूरयति- उक्तमिति शेष इति ।। मिथ्येति भावप्रधान इत्याह- मिथ्यात्वेति ।। प्राकाश्यास्तस्करा इत्यनयोरैकार्थ्यं वारयितुमाह- प्रकाशे भवा इति ।। अपहारिण इत्यर्थः । तस्करा इति ।। ननु प्राक् प्रकाशे तस्करत्वमिवेति प्रकाशे तस्करत्वानुपपत्तेरुक्तेः कथं विरुद्धयोरेकविशेषणत्वमिति चेत्, इत्थम् । तस्करा इवाऽचरन्त इत्याचारे क्विप् । तस्करा इवाऽचरन्तोऽपि हि यतः प्राकाश्याः प्रकाशप्रमाणरूपराजदृष्टस्वविषयस्तेयमकुर्वाणा मोघाशा इति यावत् । यथोक्तं गीतायाम्- ‘मोघाशाः मोघकर्माणः, इति’ इति हेतुहेतुमद्भावेन व्याख्येयम् । अस्वर्ग्याः स्वर्गोद्देशेन न दानपात्रम् । यथोक्तं (व्या.टि.) भगवत्पादैः- ‘अवैष्णवाय दातव्यो नोदबिन्दुर्न तण्डुलः’ इति । उपादत्त इति ।। ‘आङो दोऽनास्य-विहरणे’ इत्यात्मनेपदं, प्रतिजग्राहेत्यर्थः । अर्थादिति ।। तदन्वययोग्यत्वादित्यर्थः । मूले भ्राम्यन्निति ।। तथावादेनेति शेषः । यथोक्तं ‘तथावादबला जनाः’ इति । भ्रमेः श्यन्नन्ताच्छता बोध्यः । ‘शमाम्’ इति दीर्घश्च । आन्तरमित्यन्तरशब्दादणं मत्वाऽऽह- अभिप्रायमिति ।। इतिशब्दस्याऽहेत्यन्वयः । आत्मन इद-मिति ।। मूले आत्मसम्बन्धि इति नपुंसकनिर्देशादिदमिति निर्देशः । अथवा भावकर्मणोरेव ष्यञ् । ‘गुणवचन-ब्राह्मणादिभ्यः’ इत्यत्र ब्राह्मणादेराकृतिगणत्वादिति । भावकर्मोभयग्रहणाय सामान्ये नपुंसकमिति । अत एव मूले ‘किमपि’ इति । भावः कर्म वेत्यर्थः । तथाच ‘ये चाभावकर्मणोः’ इति प्रकृतिभावाभावः । अभावकर्मणोरिति पर्युदासात् । तस्येति ।। नैरात्म्यस्येत्यर्थः। ‘हायनान्त’ इति भावे अणिति भावः । स्वार्थे वेति ।। प्रज्ञादेराकृति-गणत्वादित्यर्थः । अस्येति ।। निरुक्तपदस्येत्यर्थः । आत्मनिर्धर्मकत्वनिष्क्रियत्ववाद इत्यर्थः । मायावादिनामेवैषा निन्दा न बौद्धादीनाम् । तेषां शून्यवादित्वेनानिरात्मवादित्वात् । ष्यञो वैयर्थ्यात् । मायिनस्त्वङ्गीकृत्याप्यात्मानं तस्य धर्मक्रियाशून्यतां वदन्तीति सार्थकः ष्यञ्प्रत्ययः । ज्ञापकान्तरमाह- अवश्यमिति ।। न हीति ।। तेषां वेदबाह्यत्वादिति भावः ।