‘इयं माता’, ‘अयं पिता’..
सिद्धार्थबोधकानामपि वाक्यानां पर्यवसानस्य समर्थनम्
मूलम्
- ‘इयं माता’, ‘अयं पिता’, ‘सुरूपोऽसि’ इत्यादौ सिद्धमात्रज्ञापनेन पर्यवसितत्वाद् वाक्यस्य ।
तत्त्वमञ्जरी
ननु सिद्धार्थत्वे वाक्यानां न वाक्यपर्यवसितिः । तस्मात् तत्रापीयं मातेति विद्धीति स्यादित्यत आह- इयमिति ।।
टीका
ननु तथाऽपि न केवले सिद्धार्थे वाक्यप्रामाण्यं युज्यते । कार्यबोधमन्तरेण नैराकाङ्क्ष्य-लक्षणस्य पर्यवसानस्याभावात् । नहि गौरश्वः पुरुषो हस्तीति वा देवदत्तः पचतीति वा पदजातं पर्यवसितमनुभूयते, किन्तु तृप्तिकामौदनं पचेति । पर्यवसानहीनस्य च न्यूनतया वाक्याभासत्वं स्यात् । अतः कार्यपरत्वं सर्वथाऽङ्गीकार्यमित्यत आह- इयमिति ।। इत्यादौ प्रयोगे । केवले सिद्धेऽर्थे नाप्रामाण्यमिति वर्तते ।
यो बाल्य एव कुतश्चित्कारणान्मातापितृभ्यां वियुक्तो मातापितृमतोऽन्यानवलोक्य स्वात्मनोऽपि तथाभावमनुमाय ‘का मे माता, को मे पिता, कीदृशौ, कुत्र वर्तेते’ इत्युत्कण्ठते । अथ तं प्रति कश्चिद्ब्रवीति ‘अयं ते पिता यः पाटलीपुत्रे राजाऽस्ति भद्रसेनः, इयं ते माता या भद्रसेनस्य महिषी लीलावती’ इति । तदा कार्योपदेशमन्तरेण सिद्धस्यैव ज्ञापनेन तद्वाक्यं पर्यवसितं भवति श्रोतुर्निराकाङ्क्षत्वात् । तदनन्तरं च स यदि कथं तौ पश्येयमिति जिज्ञासते तदा ‘तद्दर्शन-कामस्त्वमेवमनेन पथा पाटलीपुत्रं याहि’ इति कार्यं बोधयति । तथा, यः स्वमुखमपश्यन् अन्यान् सुरूपान् विरूपांश्च विलोक्य स्वात्मनि सन्दिग्धे ‘किमहं सुरूपो विरूपो वा’ इति’ । तदा तं कश्चिदाचष्टे ‘सुरूपोऽसि’ इति । तदपि वाक्यं सिद्धमात्रज्ञापनेन पर्यवस्यति । ततः परम् आकाङ्क्षा-विच्छेदात् । तस्मादिष्टसाधनज्ञापनमेव वाक्यपर्यवसाने हेतुर्न कार्यबोधनमेवेति नियमः । कार्यबोधने पर्यवसानस्यापीदमेव निमित्तं यदिष्टसाधनबोधनमिति ।
अनेनैतां वेदवाक्यानां योजनां सूचयति । यो हि सात्त्विकप्रकृतिर्लोकप्रवादात् कार्यत्वादि-लिङ्गानुसन्धानाद्वा स्वतनुभवनादेः कर्तारं सामान्यतो जानन् स्नेहमाहात्म्यज्ञानाभ्यां तद्विशेष-ज्ञानार्थमुत्कण्ठितमानसस्तत्संस्कारवशाच्चान्यदगणयन् वर्तते तं प्रत्याप्तो बन्धुरिवायं वेदस्तत्स्व-रूपं स्वप्रधानमेव प्रतिपादयति ‘विज्ञानमानन्दं ब्रह्म’ इत्यादि । ततो वाक्यार्थज्ञानादवाप्त-परमानन्दस्तत्साक्षात्कारं कामयते । तं प्रति तदुपासना विधीयते । सा च प्रक्षीणान्तःकरणमलस्यैव सम्भवति । तदर्थं कर्मविधयः प्रवर्तन्त इत्येवं समस्तोऽपि वेदः परमेश्वरस्वरूपज्ञापन एव पर्य-वसितः । अथवा शरीरेन्द्रियान्तःकरणादिसन्निधानेन स्वात्मनो विविधदुःखं पश्यन् निष्कण्टकं च सुखमलभमानोऽयं संशेते, किं ममेदं दुःखादिकं शरीरादिसम्बन्धनिमित्तमेव उत स्वाभाविक-मिति । तं प्रति वेदः प्रवर्तते ‘तत्त्वमसि’ इत्यादिः; परमात्मेव निर्दुःखपरमानन्दस्वभाव एव त्वमसि, किन्तु ईश्वराधीनाविद्याद्युपस्थापितशरीरादिनिमित्तेनान्यथारूपेणोपेत इति । ततः पुनरसौ जिज्ञासते ‘केनोपायेनाहमिदमस्वाभाविकं रूपं हित्वा स्वरूपेणावस्थितः स्याम्’ इति । तं प्रति परमेश्वर एव प्रसन्नस्तदुपाय इति तत्स्वरूपं निरूप्यते । ततः कथमसौ प्रसीदतीत्यपेक्षायां तत्साक्षात्कारस्तदर्थं श्रवणादिकं तदङ्गतया कर्माणि च विधीयन्त इत्येवं समस्तस्यापि वेदस्य परमेश्वरस्वरूप एव पर्यवसानमिति । एतच्च ‘अन्यार्थं तु जैमिनिः’ इत्यादिना सूत्रकृतैवोक्तम् ।
भावबोधः
न हि गौरश्व इति ।। इदं तु वाक्यं दृश्वन्तत्वेनोपात्तम् । अत एव पूर्वो वाशब्द उपमार्थः, द्वितीयस्त्वप्यर्थ इत्यवधेयम् । ननूक्तरीत्या वाक्यानां सिद्धेऽर्थे प्रामाण्यसिद्धावपि विष्णोः स्वप्रधानतया सकलवेदवेद्यत्वं प्रतिज्ञातं कथमनेन सिद्धमित्यत आह- अनेनैतामिति ।। यो हि सात्त्विकप्रकृतिरिति ।। इयं च योजना एकान्तभक्ता-भिप्रायेण ‘इयं माताऽयं पिता’ इत्येतावता भागेन सूचितेति ज्ञातव्यम् । मध्यमभक्ताभिप्रायेण ‘सुरूपोऽसि’ इत्यनेन सूचितां योजनामाह- अथ वेति ।। ‘तत्त्वमसि’ इत्यस्य ‘सिंहो देवदत्तः’ इतिवत्सादृश्यमादायोप-चारेणाभेदप्रतिपादकत्वमभिप्रेत्याऽह- परमात्मेवेति ।। यदर्थज्ञापनमुपचारप्रयोगे प्रयोजनं तमर्थमाह- किन्त्वी-श्वराधीनेति ।। ननु ‘विज्ञानमानन्दं ब्रह्म’ इत्यस्य ‘तत्त्वमसि’ इत्यस्य ‘इयं माता’ इति ‘सुरूपोऽसि’ इत्यनेन च योजनाप्रकारस्य सूचितत्वेऽपि नोपासनाकर्मविध्यादिपराणां वाक्यानां योजनाप्रकारः सूचितः । तथा च तत्प्रदर्शनं किंमूलकमित्यत आह- एतच्चेति ।।
भावदीपः
तथाऽपीति ।। कार्यान्विते व्युत्पत्तिपक्षस्य गौरवदुश्व्त्वेनायोगेऽपीत्यर्थः । तत्र क्रियापदाभावा-दपर्यवसानमित्यत आह- देवदत्त इति ।। पचेतीति ।। कार्यताबोधकलिङाद्यन्तपदप्रयोगे सत्येवेत्यर्थः । अस्त्व-पर्यवसानं तावताऽप्रामाण्यं कुत इत्यत आह- पर्यवसानहीनस्य चेति ।। प्रयोग इति ।। उच्चार्यमाण इत्यर्थः । पर्यवसितत्वादिति हेतोः साध्यमाह- नाप्रामाण्यमितीति ।। वाक्यार्थमाह- यो बाल्य इत्या-दिना ।। वाक्यमात्रे पर्यवसानहेतुभूतमेकं धर्मं निष्कृष्याऽह- तस्मादिति ।। परोक्तस्य कार्यपरत्वस्य इयं मातेत्यादिवाक्येऽनैकान्त्यादिति वा सिद्धपरेऽपि वाक्ये पर्यवसानदर्शनादिति वाऽर्थः । तर्ह्येकं नानुगतं लब्धमित्यत आह- कार्यबोधन इति ।। अस्त्वेवं लोके । वेदे तु कथं योजना । परेण तस्यान्यथैवोक्तत्वादित्यत आह- अनेनैतामिति ।। कार्यत्वादीति ।। आदिपदेन ‘कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः’ इत्याद्युदयनोक्त-जगद्धारकत्वादिलिङ्गपरिग्रहः । उत्कण्ठितेति ।। त्वरायुक्तमानस इत्यर्थः । तत्संस्कारेति ।। भगवज्जिज्ञासा-संस्कारवशादिति वा माहात्म्यज्ञानजन्यसंस्कारवशादिति वाऽर्थः । स्वप्रधानमिति ।। अनन्यशेषमित्यर्थः । इत्यादीति ।। आदिपदेन ‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘सत्यकामः सत्यसङ्कल्पः’, ‘निरनिष्टो निरवद्यः’ इत्यादिलक्षणवाक्यग्रहः । तदुपासनेति ।। ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’, ‘सोऽन्वेश्व्व्यः’ इत्यादावि-त्यर्थः । प्रक्षीणेति ।। कामादिषड्वर्गहीनस्येत्यर्थः । कर्मेति ।। ‘सन्ध्यामुपासीत’ ‘अर्चत प्रार्चत’ ‘ज्योतिश्वेमेन स्वर्गकामो यजेत’ इत्यादय इत्यर्थः । सुरूपोऽसीत्युक्तिसूचितयोजनामाह- अथवेति ।। संशेते संशयवान् वर्तते । ‘अतस्मिंस्तच्छब्दप्रयोगः सारूप्यगमकः’ इति न्यायात्तद्वदित्यर्थमुपेत्याऽह- परमात्मेवेति ।। तदाह सूत्रे ‘तद्गुणसारात्वात्तद्व्यपदेशः’ इति । अविद्याद्युपस्थापितेति ।। अविद्याकामकर्माद्यागते-त्यर्थः । एतच्चेति ।। परमेश्वरस्वरूपे सर्वस्य पर्यवसानमित्येतदित्यर्थः । अन्यार्थमिति ।। ‘जगद्वाचित्वात्’ ‘जीवमुख्यप्राणलिङ्गात्’ इति च पूर्वसूत्रद्वयाज्जगद्वाचित्वपदं जीवमुख्यप्राणपदं चानुवर्तते । अन्यशब्दश्चान्यज्ञान-परः । कर्मकाण्डदेवताकाण्डयोः कर्मदेवतादिरूपजगद्वाचित्वं, तत्प्रतिपादनमिति यावत्, जीवमुख्यप्राणाभ्या-मन्यब्रह्मज्ञानार्थमेवेत्यर्थः । कर्मानुष्ठानेन मनोमलनिवृत्तौ तदुपासनाद्वारा तज्ज्ञानोत्पत्तेरिति भावः । आदिपदेन ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’, ‘उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः’, ‘अवस्थितेरिति काशकृत्स्नः’ इति सूत्रत्रयग्रहः ।
वाक्यार्थदीपिका
(श्री.टि.)
नैराकाङ्क्ष्यलक्षणस्येति ।। यत्प्रतिपादनानन्तरं पुनराकाङ्क्षा न भवति तन्निराकाङ्क्षं सम्पूर्णा-काङ्क्षमित्यर्थः, तस्य भावो नैराकाङ्क्ष्यं तद्रूपस्येत्यर्थः । गौरश्वः पुरुषो हस्तीति वेति ।। ‘वा विकल्पोप-मानयोः’ इत्यभिधानाद्वाशब्द उपमानार्थः । तथा च गौरश्वः पुरुषो हस्तीति निराकाङ्क्षवाक्यवदित्यर्थः । देवदत्तः पचतीति वेति ।। अत्र वाशब्दोऽप्यर्थः । देवदत्तः पचतीत्यपि पदजातमित्यर्थः । पचतीति लट एव सत्त्वेन नैराकाङ्क्ष्यहेतोः कार्यबोधकलिङादेरभावादिति भावः । पचेतीति ।। अत्र कार्यताबोधकस्य लोटस्सत्त्वादिति भावः । सिद्धमात्रज्ञापनेन कथं वाक्यस्य नैराकाङ्क्ष्यलक्षणपर्यवसितत्वमित्यत आह- यो बाल्य एवेति ।। बाल्यावस्थायामेवेत्यर्थः । यो बाल एवेत्यपि क्वचित्पाठः । कुतश्चित्कारणात् राजकार्यादिरूपात् । तथाभावं मातापितृमत्त्वम् । पाटलीपुत्रे तन्नामकनगरे । महिषी पत्नी । सिद्धमात्रज्ञापनेनेत्यत्रावधारणार्थकमात्रशब्द-व्यावर्त्यमाह- कार्योपदेशमन्तरेणेति ।। निराकाङ्क्षत्वात् आकाङ्क्षापूर्तिहेतुत्वात् । स्वात्मनि सन्दिग्ध इति ।। स्वस्मिन्नपि सन्देहवान् भवतीत्यर्थः । सिद्धमात्रज्ञापनेनेति ।। कार्योपदेशमन्तरेण सिद्धस्यैव ज्ञापनेने-त्यर्थः । ‘तद्धेतोरेवास्तु तद्धेतुत्वं किं तेन’ इति न्यायं हृदि निधायाऽह- कार्यबोधन इति ।। यदिष्टसाधनेति ।। तदेव सिद्धार्थबोधनेऽप्यस्ति चेन्नैराकाङ्क्ष्यलक्षणं पर्यवसानं भविष्यत्येवेत्यर्थः । ‘कार्यता च न काचित् स्यादिश्व्-साधनतां विना’ इत्युक्तेरिति ध्येयम् ।
ननूक्तरीत्या वाक्यानां सिद्धेऽर्थे प्रामाण्यसिद्धावपि विष्णोस्स्वप्रधानतया सकलवेदवेद्यत्वं प्रतिज्ञातं कथमनेन सिद्धमित्यत आह- अनेनेति ।। सिद्धे व्युत्पत्तिप्रदर्शनेनेत्यर्थः । यद्वा सिद्धमात्रज्ञापनेन वाक्यस्य पर्यवसि-तत्वोपपादनेनेत्यर्थः । स्वप्रधानम् अनन्यशेषम् । तदनन्तरं स यदि कथं तौ पश्येयमिति जिज्ञासत इत्यादिनोक्त-प्रकारं वेदवाक्येऽपि दर्शयति- ततो वाक्यार्थज्ञानादिति ।। इयं च योजनैकान्तभक्ताभिप्रायेण मुमुक्षुत्व-स्यानुक्तत्वाद् इयं माता अयं पितेत्येतावता भागेन सूचितेति ज्ञातव्यम् । मध्यमभक्ताभिप्रायेण सुरूपोऽसीत्यनेन सूचितां योजनामाह- अथ वेति ।। ‘तत्त्वमसि’ इत्यस्य सिंहो देवदत्त इतिवत्सादृश्यमादायोपचारेणाभेद-प्रतिपादकत्वमन्यत्रोक्तमभिप्रेत्याऽह- परमात्मवदिति ।। यदर्थज्ञापनमुपचारप्रयोगे प्रयोजनं तमर्थमाह- किन्त्वी-श्वराधीनेति ।। अवस्थितस्स्यामिति ।। ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’ इति वचनादत्र (श्री.टि.) मुमुक्षुत्वोक्त्या एकान्तभक्तातिरिक्ताभिप्रायेणेयं योजनेति ज्ञायत इति द्रष्टव्यम् । ननु ‘विज्ञानमानन्दं ब्रह्म’ इत्यादिवेदवाक्यस्य ‘इयं माता’ इत्यनेन योजनाप्रकारस्य सूचितत्वेऽपि ‘ततो वाक्यार्थज्ञानादवाप्त-परमानन्दः’ इत्यादिनोक्तोपासनाविधिपराणां वाक्यानां योजनाप्रकारो मूले न सूचितोऽतस्तत्प्रदर्शनं किंमूलम् । तथा तत्त्वमसीत्यादिवेदवाक्यस्य सुरूपोऽसीत्यनेन योजनाप्रकारस्य सूचितत्वेऽपि ‘ततः पुनरसौ जिज्ञासते’ इत्यादिना प्रबन्धेनोक्तः कर्मविध्यादिपराणां वेदवाक्यानां योजनाप्रकारो मूले न सूचितोऽतस्तत्प्रदर्शनं च किंमूलकमित्यत आह- एतच्चेति ।। अन्यार्थं त्विति ।। ‘अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैव-मेके’ इति सूत्रस्य ‘‘परमात्मज्ञानार्थं कर्मादिकमपि वदतीति जैमिनिः । ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति? तस्मै स होवाच द्वे विद्ये वेदितव्ये, कथं नु भगवः स आदेशो भवति? यथा सोम्यैकेन मृत्पिण्डेन’ इत्यादिप्रश्नव्याख्यानाभ्याम् । एवमपि चैके पठन्ति ‘यस्तं न वेद किमृचा करिष्यति’’ इति भाष्योक्तप्रकारेणार्थो द्रष्टव्यः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
मूले उदाहरणद्वयोपदर्शनानर्थक्यमाशङ्क्याधिकारिभेदेन द्वेधा वेदवाक्यानां स्वप्रधानभगवत्परत्व-योजनाप्रदर्शनार्थत्वान्न तदित्यभिप्रेत्य तत्प्रयोजनमाह- अनेनेत्यादिना ।।
लघुप्रभा
(व्या.टि.)
एवं व्युत्पत्त्यभावेन सिद्धाप्रामाण्यं पराकृत्य वाक्यपर्यवसानाभावेनाप्यप्रामाण्यं पराकर्तुमुपक्षिपति- नन्वित्यादिना ।। तथाऽपि व्युत्पत्त्यभावस्य स्वरूपासिद्धावपि । ननु सिद्धविषयत्वेऽपि वाक्यपर्यवसानं किन्न स्यादित्यत आह- नहीति ।। पर्यवसानाभावेऽपि प्रामाण्यं किं न स्यादित्यत आह- पर्यवसानहीनस्येति ।। अत इति ।। कार्यपरत्वे वाक्यपर्यवसानादित्यर्थः । वर्तते अनुवर्तते । वाक्यस्य पर्यवसानप्रकारं दर्शयति- यो बाल्य एवेत्यादिना ।। कुतश्चिदिति ।। अपराधादितः । मातापितृभ्यामिति ।। ‘मात्रा सहोक्तः पिता वा शिष्यते’ इति विकल्पादेकशेषाभावः । अनुमायेति ।। पुत्रत्वेनेति शेषः । कीदृशाविति ।। ‘पुमान्स्त्रिया’ इत्येकशेषः । पाटलीपुत्र इति ।। तत्कालीनो ग्राम इति सम्प्रदायः । प्राथमिकी सिद्धे पर्यवसितिं प्रदर्श्य पश्चात्तनी कार्ये पर्यवसितिं दर्शयति- तदनन्तरमिति ।। पथा मार्गेण । सन्दिग्ध इति ।। दिह उपचये, अतो लडात्मने-पदम् । इष्टसाधनताबोधनमिति ।। यदाह परोऽपि
‘किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ।
फलसाधनता तत्र कारणं तेन कार्यता ।।’ इति ।
ननु सिद्धे प्राथमिकव्युत्पत्तेः पर्यवसानस्य च समर्थनेन कः प्रकृतोपयोग इत्यत आह- अनेनेत्यादिना ।। अनेनेत्यस्य उदाहरणद्वयप्रदर्शनेनेति वाऽर्थः । स्नेहवशेन जिज्ञासितमात्रादिबोधकताया इव तादृशभगवद्बोधकताया एकान्तिनं प्रति, सौरूप्यादिसंशयनिरासकताया इव मध्यमाधिकारिणं प्रति दुःखादिस्वाभाविकत्वसंशय-निरासकताया वेदे सत्त्वात् । ‘देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य’ इत्यनुव्याख्यानं (व्या.टि.) मनसि निधायाऽह- स्वतनुभवनादेरित्यादिना ।। ग्रन्थान्तरोक्तयोजनाप्रकारं दर्शयति- अथ वेति ।। संशेत इति ।। सम्पूर्वकस्य शीङो लडात्मनेपदम् । सिंहो माणवक इतीव सादृश्यनिबन्धनोऽभेदव्यपदेश इत्याह- परमात्मेवेति ।। अविद्यादीति ।। ‘अदृष्टाश्रुतवस्तुत्वात्स जीवो यः पुनर्भवः’ इति भागवतोक्तेरित्यर्थः। जिज्ञासते मुमुक्षति । तत्प्रकारं दर्शयति- केनेति ।। स्वरूपेणेति ।। ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’ इत्युक्तेः । परमेश्वर एवेति ।। ‘बन्धको भवपाशेन भवपाशाच्च मोचकः’ इत्युक्तेः । पर्यवसान-मिति ।। ततः परम् आकाङ्क्षाभावादिति भावः । न चैतदुन्मूलमित्याह- एतच्चेति ।।