बहुजीववादिपक्षेऽपि भेदस्य ..
बहुजीववाद्यभिमते मिथ्योपाधिकृते जीवभेदे दोषस्योद्भावनम्
मूलम्
- बहुजीववादिपक्षेऽपि भेदस्य मिथ्यात्वाङ्गीकारे एते दोषा भवन्त्येव । मिथ्योपाधिकृतं हि तेषामपि बहुत्वम् । न च मिथ्योपाधिकृतो भेदः क्वापि दृष्टः ।।
तत्त्वमञ्जरी
एवं बहुजीववादमपि निरस्य अनयोर्मतयोरैक्यं साधयन् एकजीववादिनो दूषणान्यपि सर्वाण्यत्रानुकर्षयति- बह्विति ।। शिष्यादिबोधनासम्भव एकजीवनिश्चय इत्याद्यास्तत्रोपन्यस्ता एते दोषा भवन्त्येव । आत्मन्यनात्मत्वकल्पना वा तज्जन्यदेहादिर्वा खलु मिथ्योपाधिर्नाम । तस्यास्तु निरस्तत्वात् मिथ्योपाधिरेव न युज्यते । किं पुनस्तत्कृतो भेदः ।
टीका
एवम् एकजीववादिमतं दूषयित्वा तानेव दोषान् बहुजीववादिमतेऽप्यतिदिशति- बहुजीववादीति ।। ये जीवेश्वरयोः जीवानां च केवलं भेदमाचक्षते ये च भेदाभेदौ ते सर्वेऽपि बहुजीववादिनः । अतो बहुजीववादीत्येवोक्ते तन्मतेऽप्युक्तदोषातिदेशः कृतः स्यात् । न चासौ युज्यते । अत उक्तं ‘भेदस्य मिथ्यात्वाङ्गीकारे’ इति । ये मायावादिनो भेदस्य मिथ्यात्वमङ्गीकृत्य बहुजीववादिनः तन्मत एवायं दोषातिदेशः । शुद्धभेदवादस्तु सिद्ध एव । भेदाभेदवादस्तु प्रकारान्तरेण दूषयिष्यत इति भावः । एत इति ये एकजीववादिमतस्योक्ता इत्यर्थः । एवेति तेषामपरिहार्यत्व-माह ।
ननु ये गुरुशिष्यादिविकल्पदोषाः प्रागेकजीववादिनाम् उक्तास्त एव कथं बहुजीववादिनां भवन्ति । तैर्जीवबहुत्वस्याङ्गीकृतत्वादिति चेन्न । बहुत्वाङ्गीकारेऽपसिद्धान्तात् । ननु यथा बिम्ब-प्रतिबिम्बयोः प्रतिबिम्बानाञ्च परस्परं वास्तवभेदाभावेऽप्युपाधिकृतो भेदस्तथा जीवेश्वरयोर्जीवानां च परस्परमुपाधिकृतं बहुत्वमस्त्येव । तेन बहुत्वसद्भावात् सर्वव्यवस्थोपपत्तिः । तस्य च औपाधिक-त्वान्नापसिद्धान्त इति चेत्, एवं वदता वक्तव्यं स उपाधिः सत्यो मिथ्या वेति । आद्येऽपसिद्धान्ता-पाताद् द्वितीय एव अङ्गीकार्य इत्याह- मिथ्येति ।। हिशब्देन अपसिद्धान्तप्रसङ्गं विपक्षे सूचयति । तेषां बहुजीववादिनामपि पक्षे, न केवलमेकजीववादिनाम् । ततः किमित्यतः प्रागुक्तं दोषं दर्शयति- न चेति ।। तथा चैकजीववादिभ्यो विशेषाभावाद् गुरुशिष्यादिविकल्पदोषाः प्रसज्यन्त एवेति भावः । उपाधिकृत एव भेदः तावन्नास्ति, मिथ्योपाधिकृतस्तु सर्वथा नास्तीत्यत्राभिप्रायो, न तूपाधिकृतो भेदोऽस्तीति ।
ननु बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च मिथो भेदो दर्पणाद्युपाधिकृतो दृश्यत एवेति चेन्न । तद्भेदस्य स्वाभाविकत्वात् । दृश्यते हि तावद्भेदः । न च तस्य स्वाभाविकत्वे बाधकमस्ति, येनौपा-धिकत्वं कल्प्येत । ननु यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणप्रतिपन्नः तत्स्वलक्षण एव वेश्मान्तः प्रविष्टोऽपि प्रतीयते तथा दर्पणतलस्थितोऽपि । न तद् वस्त्वन्तरत्वे युज्यते । किं च शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकबिम्बैकरूपत्वं दर्शयति-
‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ।।’ इति ।
अपि च वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधिवशात् तदाकारगर्भितः परिण(म)त इति वाच्यम् । विरुद्धपरिमाणत्वात्, संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः । तथा सति बिम्बसन्निधिलब्धपरिणतिरेव तदपायेऽप्यवतिष्ठेत । न हि निमित्तापाये कार्यनाशोऽस्ति । तदेवं बिम्बप्रतिबिम्बयोः पारमार्थिकेऽभेदे सत्युपाधिकृत एव भेदोऽङ्गीकर्तव्य इति । उच्यते- किं यथा बहिः स्थितो देवदत्त इत्यादिना सादृश्यप्रतीतिरुपन्यस्ता किं वा प्रत्यभिज्ञानम् । आद्ये नाभेद-सिद्धिः । न हि गवये गोसादृश्यावगतौ तयोरभेदः सिद्ध्यति । द्वितीयस्त्वसिद्ध एव । प्रतिबिम्बो हि बिम्बाद्भिन्नत्वेन प्रतीयत इति तावदविवादम् । अन्यथा कस्योपाधिकृतत्वं वर्ण्येत । तथा च प्रत्यक्षेण भेदं पश्यन्नेव प्रत्यक्षेणैव तदेवैतदिति प्रत्यभिजानातीति कथं युज्यते । भेदप्रतीतिबलादेव वारिस्थमादित्यमिति व्यपदेशोऽपि गौणो व्याख्यातव्यः । व्यपदेशमात्रस्य प्रत्यक्षबाधकतायाम् ‘आदित्यो यूपः’ इत्यादावपि तत्प्रसङ्गात् । यथा बिम्बसन्निधिरादर्शपरिणतिहेतुः, एवं तदपायोऽपि विपरीतपरिणतिहेतुः । विपरीतपरिणतौ च प्रतिबिम्बगर्भितता नश्यत्येव । यथा सुवर्णरजतादीनां मूषाग्निसन्निधाने लब्धद्रवावस्थानां तदपाये पुनर्घनीभावस्तथाऽत्रापि किं न स्यात् । दर्शनानादरे च स्थायित्वमपि कस्य बलेनाऽपाद्येत । तस्माद् यथा यथा दर्शनं लोके समवाय्यसमवायिनिमित्तनाशः कार्यनाशे कारणमङ्गीक्रियते तथा प्रतिबिम्बस्यापि उपाधिबिम्बतत्सन्निधिनाशात् नाशोऽङ्गी-कर्तव्यः । तस्मात् बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च मिथो भेदस्य स्वाभाविकत्वात् नोपाधि-कृतत्वम् । किमुत मिथ्योपाधिकृतत्वमिति ।
भावबोधः
न तूपाधिकृतभेदोऽस्तीति ।। तथा च ‘भेदश्चोपाधितः कुतः’ इत्यादिना न विरोध इति भावः । बिम्बैकरूपत्वं गमयतीति ।। न वारिस्थमित्यत्राऽदित्यमित्यस्यानुवृत्त्या वारिस्थस्याऽदित्यत्वव्यपदेशादिति भावः । आदित्यमित्यस्यानुवृत्तिप्रदर्शनार्थमेव समग्रवाक्योदाहरणमिति ज्ञातव्यम् । गौणो व्याख्यातव्य-इति ।। न चोद्यदादिप्रायपाठविरोधः । भेदप्रत्यक्षस्य प्राबल्येन तस्यापि बाधोपपत्तेरिति भावः ।
भावदीपः
अङ्गीकृत्येत्यस्य वादिन इति वदनक्रियाकर्तृभिस्समानकर्तृकत्वं ज्ञेयम् । वर्तन्त इति शेषो वा । सिद्ध एवेति ।। न दूष्य इत्यर्थः । दूषयिष्यत इति ।। ‘उपाधिभेदाङ्गीकारे’ इत्यादिनेति भावः । शङ्कते- यथा बिम्बेति ।। सर्वव्यवस्थेति ।। गुरुशिष्यादिनिर्णयः, शिष्योपदेशाय प्रवृत्तिः, तस्य तस्य तथा प्रतिपत्तिः, अयं मुक्तोऽयं बद्ध इत्यादिसर्वव्यवस्थेत्यर्थः । प्रागुक्तं दोषमिति ।। मिथ्येत्यस्यासदित्यर्थकत्वादविद्यमानोपाधिना कृतो भेदो न दृष्ट इत्येवंरूपमित्यर्थः । विशेषनिषेधः शेषविधिं गमयतीति न्यायेनोपाधिकृतभेदोऽस्तीति प्रतीतिं तात्पर्योक्त्या निराह- उपाधिकृत एवेति ।। उद्यन्तमादित्यमिति ।। आदित्यपदं प्रत्येकमन्वेति । तेन वारिस्थस्यापि प्रतिबिम्बस्योद्यदादित्यतुल्यतयेक्षणनिषेधान्यथाऽनुपपत्त्या बिम्बादित्याभेदप्रतीतेरिति भावः । इति वाच्यमिति ।। प्रकारान्तरासम्भवादिति भावः । प्रतिमुद्रेव बिम्बलाञ्छितत्वरूपप्रकारान्तरमपि सम्भवतीत्यत आह- विरुद्धेति ।। दीर्घसूक्ष्मत्वादिरूपेणेति भावः । अस्तु तर्हि परिणमत इत्येव पक्ष इत्यतस्तत्पक्षे दोषमाह- तथा सतीति ।। दर्पणस्यैव तदाकारतया परिणतत्वे सतीत्यर्थः । असिद्ध एवेत्युक्तं व्यनक्ति- प्रतिबिम्बो हीति ।। गौण इति ।। सारूप्यादादित्यशब्दप्रयोग इति भावः । व्यपदेशेन भेदप्रतीतेरेवास्तु बाध इत्यत आह- व्यपदेशेति ।। एतदपायेऽप्यवतिष्ठेतेति प्रागुक्तदोषं निराह- यथा बिम्बेति ।। तदपायो बिम्बापायः । प्रति-बिम्बगर्भितेति ।। परिणतिरिति योज्यम् । ननूक्तं न हि निमित्तापाय इत्यादि तत्राऽह- यथा सुवर्णेति ।। स्थायित्वमपीति ।। प्रतिबिम्बरूपकार्यस्येत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
तन्मतेऽपि केवलभेदमाचक्षाणानां मतेऽपि । ननु केवलभेदवादिनां भेदाभेदवादिनामपि बहुजीव-वादित्वेन तन्मतं कस्मान्न दूष्यत इत्यत आह- शुद्धेति ।। केवलेत्यर्थः । सिद्ध एवेति ।। सम्मत एव, अतो न निराकार्य इति भावः । तदङ्गीकृतं बहुत्वं स्वाभाविकमौपाधिकं वेति विकल्प्याऽद्ये दोषमाह- बहुत्वाङ्गीकार इति ।। बहुत्वस्य स्वाभाविकत्वाङ्गीकारे सत्यत्वप्राप्त्याऽपसिद्धान्ताऽपातादित्यर्थः । द्वितीयमाशङ्कते- यथा बिम्बप्रतिबिम्बयोरित्यादिना ।। उपाधीति ।। दर्पणाद्युपाधीत्यर्थः । सर्वव्यवस्थेति ।। गुरुशिष्यादिव्यवस्था बद्धमुक्तव्यवस्था चेत्यर्थः । आद्येऽपसिद्धान्तादित्युक्तं दूषणं मूलसूचितमित्याह- हिशब्देनेति ।। विपक्षे उपाधेः सत्यत्वाङ्गीकारे । ननु ‘मिथ्योपाधिकृतो भेदो न दृष्टः’ इत्यत्रोपाधिकृतो भेदो वर्तते, परन्तु मिथ्योपाधिकृतो भेदो नास्तीति मूलाभिप्रायः प्रतीयते । तथात्वे ‘भेदश्चोपाधितः कुतः’ इत्यादिना विरोधाऽपत्तेस्तदभिप्रायमाह- उपाधिकृत एवेति ।। न त्विति ।। येन भेदश्चोपाधितः कुत इत्यादिस्ववचनविरोधः स्यादिति भावः । स्वाभाविकत्वमुपपादयति - दृश्यते हीति ।। बिम्बप्रतिबिम्बयोरभेदं सदृष्टान्तं प्रत्यभिज्ञयोपपादयति- नन्विति ।। यत्स्वलक्षण इति ।। करचरणाद्यवयवसन्निवेशरूपयत्स्वलक्षणयुक्तया प्रतिपन्न इत्यर्थः । तथा दर्पणतलेति ।। यत्स्वलक्षणं मुखं ग्रीवायां प्रतिपन्नं तत्स्वलक्षणमेवाऽदर्शे प्रतिपन्नोऽस्मीति प्रत्यभिज्ञया प्रतीयत इत्यर्थः । वस्त्वन्तरत्वे प्रतिबिम्बस्य बिम्बादत्यन्तभिन्नत्व इत्यर्थः । दर्शयतीति ।। पारमार्थिकं यत्प्रतिबिम्बस्य बिम्बैकरूपत्वं तद्दर्शयतीत्यर्थः । नभसो मध्यङ्गतमित्यन्वयः । तथा चात्रोद्यदादाविव वारिस्थे प्रतिबिम्बेऽप्यादित्य-(श्री.टि.) पदप्रयोगादिति भावः । आदित्यपदस्यात्रानुवृत्तिसूचनार्थमेव समग्रवाक्योदाहरणमिति ज्ञात-व्यम् । वस्त्वन्तरत्वे प्रतिबिम्बस्य बिम्बाद्भिन्नत्वे । तदाकारगर्भितो बिम्बाऽकारगर्भितः, अन्तर्गतबिम्बाऽकार इत्यर्थः । इति वाच्यम् इत्येव वाच्यम् । प्रकारान्तराभावादिति भावः । ननु कथं प्रकारान्तराभावः । यथा वस्त्रादौ प्रतिमुद्रायाः बिम्बभूतमुद्रालाञ्छितत्वमेवास्ति । न तु प्रतिमुद्रागर्भिततया वस्त्रादेः परिणामः । एवमादर्शेऽपि बिम्बभूतमुखलाञ्छितत्वमेवास्तु नतु तद्गर्भिततया परिणाम इत्यत आह- विरुद्धेति ।। बिम्बभूत-मुद्रायाः प्रतिमुद्रापेक्षया विरुद्धपरिमाणत्वाभावो वस्त्रादीनां संश्लेषश्च बिम्बभूतमुद्रालाञ्छितत्वोपयोगी तिष्ठति, न तथा तत्रास्ति । मुखप्रतिमुखयोर्विरुद्धपरिमाणोपेतत्वात् बिम्बस्याऽदर्शसंश्लेषाभावाच्च, बिम्बलाञ्छितत्वा-नुपपत्त्या तदाकारगर्भित एव परिणमत इति वाच्यमित्यर्थः । अस्त्वेवं ततः किमित्यत आह- तथा सतीति ।। दर्पणस्य बिम्बाकारगर्भिततया परिणतत्वे सतीत्यर्थः । परिणतिः आदर्शपरिणामः प्रतिबिम्बः । तदपाये बिम्बसन्निध्यापाये । परिणतिरेवेत्येवकारस्यावतिष्ठेतैवेति सम्बन्धः । तयोर्भेदाङ्गीकारादिति भावः । न च बिम्ब-सन्निधेरादर्शपरिणामे निमित्तकारणत्वेन तन्नाशे कार्यस्यापि नाशान्नावस्थानमित्यत आह- न हीति ।। दण्डादि-नाशे घटादिनाशादर्शनादित्यर्थः ।
नन्वस्त्वेवं बिम्बप्रतिबिम्बयोरभेदः किं ततः प्रकृत इत्यत आह- तदेवमिति ।। अङ्गीकर्तव्य इतीति ।। तथा च ‘न चोपाधिकृतो भेदः क्वापि दृष्टः’ इत्युक्तमसदिति भावः । सादृश्यप्रतीतिरिति ।। बिम्बप्रतिबिम्ब-योरभेदसाधनायेति शेषः । सिद्धिः सादृश्यप्रतीत्येति शेषः । द्वितीयः प्रत्यभिज्ञारूपानुभवः । अन्यथा भेदस्यैवाप्रतीतौ । कथमिति ।। विरोधादिति भावः । गौणोऽमुख्यः । न चोद्यदादिप्रायपाठविरोधः । बिम्बप्रतिबिम्बभेदावगाहिप्रत्यक्षस्य प्राबल्येन प्रायपाठस्यापि तेन बाधोपपत्तेरिति भावः । गौणव्यपदेशेनैव भेदावगाहिप्रत्यक्षबाधः किं न स्यादित्यत आह- व्यपदेशमात्रस्येति ।। तत्प्रसङ्गादिति ।। ‘आदित्यो यूपः’ इत्यभेदव्यपदेश आज्याञ्जननिमित्तौज्वल्यरूपसारूप्येणामुख्यः । तथा च तस्याप्यभेदव्यपदेशस्याऽदित्य-यूपभेदावगाहिप्रत्यक्षबाधकताप्रसङ्गादित्यर्थः । आदर्श एव बिम्बसन्निधिवशात्तदाकारगर्भितः परिणमत इत्यस्य तथा सति बिम्बसन्निधिलब्धपरिणतिरेव तदपायेऽप्यवतिष्ठेतेत्युक्तदूषणं परिहरति- यथेति ।। आदर्श-परिणतिहेतुः आदर्शस्य प्रतिबिम्बाकारेण परिणतौ हेतुरित्यर्थः । तदपायो बिम्बसन्निध्यपायः । गर्भितता आदर्शस्य । न हि निमित्तापाये कार्यनाशोऽस्तीत्युक्तदोषं परिहरति-यथेति ।। तदपाये मूषाग्निसन्निधान-रूपनिमित्तकारणापाये । तथा च निमित्तकारणनाशेन कार्यनाशो दृष्ट इति भावः । ननु सुवर्णरजतादौ दृष्टान्ते विद्यमानमपि निमित्तकारणनाशेन कार्यनाशदर्शनं नाऽद्रियत इत्यत आह- दर्शनानादर इति ।। स्थायित्वम-पीति ।। बिम्बसन्निधिलब्धपरिणतिरेव तदपायेऽप्यवतिष्ठेतेत्येवं बिम्बसन्निधिलब्धपरिणतेर्बिम्बसन्निध्यपाये स्थायित्वमपि कस्य बलेनाऽपाद्यते । निमित्तापायेऽपि कार्यानाशस्यैव दर्शनादित्येवं दर्शनबलेनाऽपाद्यत इति वक्तव्यम् । तदनादरे एतदपि न स्यादिति भावः । यथादर्शनं दर्शनानुसारेण । समवायीत्यादि ।। समवायि-(श्री.टि.) कारणनाशात् कार्यनाशो यथा तन्तुनाशात् पटनाशः । असमवायिकारणनाशाद्यथा तन्तुद्वय- संयोगनाशात्पटनाशः । निमित्तकारणनाशाद्यथा अपेक्षबुद्धिनाशाद् द्वित्वनाशः । यथा वा मूषाग्निसन्निधाननाशेन सुवर्णादीनां द्रवावस्थानाश इति द्रष्टव्यम् । तत्सन्निधिनाशात् तत्सन्निधीनां नाशादित्यर्थः । तथा चोपाधिनाशाद् बिम्बनाशात् तयोस्सन्निधिनाशाच्च नाशोऽङ्गीकर्तव्य इति प्रत्येकं सम्बन्धो द्रष्टव्यः ।
(पां.टि.) नन्वेकजीववादिमतोक्तानां दोषाणां बहुजीववादिमते अतिदेशस्य बहुजीववादिमतेऽप्येते दोषा भवन्तीत्येतावतैव सिद्धे भेदमिथ्यात्वाङ्गीकार इत्यस्यांशस्य वैयर्थ्यम् । न च बहुजीववादिनामनेकविधत्वा-दुक्तदोषातिदेशस्य च तावन्मतसाधारण्याभावेनोक्तदोषातिदेशस्य तद्व्यक्तिविशेषनिष्ठतां ज्ञापयितुं भेदस्य मिथ्यात्वाङ्गीकार इत्येतद्विशेषणमिति वाच्यम् । तत्प्रकारानिरूपणेन बहुजीववादिनामनेकविधत्वस्यैवा-सिद्धेः । कथञ्चित् तत्सिद्धौ वा दोषाणां तावन्मतसाधारणत्वाभावे तैस्तन्निरासासम्भवेन तावन्मतसाधारण्य-स्याऽवश्यकत्वेन तद्व्यक्तिविशेषनिष्ठत्वस्यानाश्रयणीयत्वेन तज्ज्ञापकतया सार्थक्यस्य वक्तुमशक्यत्वादित्यतो बहुजीववादिनामनेकविधत्वोपदर्शनपूर्वकमुक्तदोषाणां तद्व्यक्तिविशेषनिष्ठत्वोपवर्णनार्थतया तेषां दोषाणां तावन्मतसाधारणत्वाभावं दर्शयति- ये जीवेश्वरयोरिति ।। न चासाविति ।। मतवैलक्षण्यादिति भावः । एवमनेकविधत्वं तावन्मतसाधारण्याभावं चोक्तदोषातिदेशस्योपपद्य तद्व्यक्तिविशेषनिष्ठतामतिदेशस्योपपाद-यति- ये मायावादिन इति ।। नन्वेवं तन्मतयोरनिरासप्रसक्तिरित्यतो मतद्वये पूर्वमतस्यानिरासप्रसक्तिरभिमतो तद्द्वितीयस्येति विकल्पद्वयं मनसि निधायाऽद्यमिष्टापत्त्या दूषयति- शुद्धेति ।। आत्यन्तिकभेदवादस्तु निर्दुष्ट इत्यर्थः । तथा न तदनिरासप्रसङ्गः सिद्धान्तिनः क्षत्यापादक इति भावः । द्वितीयं दूषयति- भेदाभेदेति ।। तथा च न तदनिरासप्रसङ्गोऽपीति भावः । एकजीववादिमतोक्तदोषाणामिवानुक्तदोषाणामप्युत्तरत्र बहुजीवमते कथनेन तद्व्यावर्तकत्वासम्भवात् तदर्थकैवकारानुपपत्तिरित्यतोऽत्रोक्तदोषाणामपरिहार्यत्वमात्रसूचकत्वेनेतरदोष-व्यावर्तकत्वानङ्गीकारान्न तदनुपपत्तिरिति भावेनाऽह- एवेतीति ।। बहुत्वं किं वास्तवं कल्पितं वेति विकल्पं मनसि निधाय आद्यं दूषयति- बहुत्वाङ्गीकार इति ।। जीवैक्यस्य त्वत्सिद्धान्तत्वादिति भावः । अस्तु तर्हि द्वितीयो निरवद्यत्वादित्यभिप्रेत्य करिष्यमाणस्वकल्पनाया असम्भावितत्वशङ्कां तदनुगुणदृष्टान्तोपदर्शनेन परिहरन्नेव तमवलम्ब्य व्यवस्थाऽनुपपत्त्यपसिद्धन्तयोः परिहारं शङ्कते- यथेति ।। सर्वेति ।। गुरुशिष्यादीत्यर्थः। अपिशब्दसङ्ग्राह्यप्रदर्शनेन तद्वैयर्थ्यं परिहरति- न केवलमिति ।। ननु ‘भेदश्चोपाधितः कुतः’ इति सिद्धान्ते उपाधेर्भेदकारकत्वखण्डनात् ‘उपाधिकृतो भेदो न दृष्टः’ इत्येतावता पूर्णत्वादुपाधिकृतो भेदो न दृष्ट इत्येव वक्तव्यत्वान्मिथ्यापदमनर्थकम् । तन्महिम्ना भेदस्य मिथ्योपाधिकृतत्वाभावप्राप्तावप्युपाधिकृतत्वाभावाप्राप्त्या विरुद्धार्थत्वं चेत्यतोऽत्र मिथ्यापदस्याभिप्रायान्तरवत्त्वेन आपाततः प्रतीताभिप्रायकत्वाभावान्नानुपपत्तिरिति भावेनाऽह- उपाधिकृत एवेत्यादि ।। उपाधिकृतो भेदो न दृष्ट इति गूढाभिसन्धिनोक्तस्याऽशयमज्ञात्वा सम्भ्रान्त-श्चोदयति- नन्विति ।। आशयमुद्घाटयति- नेति ।। बिम्बप्रतिबिम्बयोरभेदे पारमार्थिकत्वस्य सकलप्रमाण-(पां.टि.) सिद्धत्वात्तद्भेदस्य स्वाभाविकत्वानुपपत्तेरुपाधिकृतत्वमेवाभ्युपगन्तव्यमित्याशयेन शङ्कते - नन्विति ।। अभिज्ञासिद्धो भेदः कथं प्रत्यभिज्ञया बाध्यतामित्यत आह- न तदिति ।। तत्प्रत्यभिज्ञानमित्यर्थः। अभिज्ञायाः स्वरूपमात्रगोचराया भेदाभेदयोरुदासीनत्वात्प्रत्यभिज्ञायास्त्वभेदविषयत्वाद्भेदबाधकत्वमिति भावः। किञ्चेति ।।
‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ।।’
इति शास्त्रीयो व्यवहारोऽपि प्रतिबिम्बस्य पारमार्थिकबिम्बैकरूपत्वं दर्शयतीति सम्बन्धः । अत्र वारिस्थे प्रतिबिम्बे बिम्बवाच-कादित्यशब्दप्रयोगात्तदैक्यसिद्धेरिति भावः ।
नन्वैक्यावभासेनैव भेदावभासः कुतो बाध्यः, भेदावभासेनैवैक्यावभासबाधः किं न स्यादित्यतो व्यक्तिभेदः तत्रोपपत्तिशून्यत्वाद्बाध्यत इत्याह- अपि चेति ।। इति वाच्यमिति ।। भिन्नस्य मुखस्योत्पादकान्तराभा-वाद्दर्पणावयवा एव मुखाकारेण परिणता इति वाच्यमित्यर्थः । मुखतत्प्रतीत्योरन्यथाऽनुपपन्नत्वादिति भावः । निमित्तकारणकथनम्- बिम्बसन्निधिवशादिति ।। ननु मुखलाञ्छितप्रतिमुद्रेयं, न परिणाम इत्यत आह- विरुद्धपरिमाणत्वादिति ।। मुद्रासमानपरिमाणाभावात् मुद्रासंयोगाभावाच्च बिम्बलाञ्छितत्वानुपपत्तेर्दर्पणस्थं प्रतिमुद्रेव न तु प्रतिमुद्रेत्यर्थः । यद्वा ननु प्रतिबिम्बं न दर्पणादिपरिणामः किन्तु मुद्रालाञ्छितप्रतिमुद्रेव प्रतिबिम्बं बिम्बलाञ्छितमेवेत्यत आह- विरुद्धेति ।। युक्तं प्रतिमुद्राया मुद्रालाञ्छितत्वं मुद्रासमानपरिमाणत्वात् । मुद्रायाः संयोगस्य प्रतिमुद्राऽऽधारे पात्रादौ विद्यमानत्वाच्च । प्रकृते तु बिम्बसमानपरिमाणत्वाभावात् आदर्शे बिम्ब-संयोगाभावाच्च प्रतिमुद्रेव प्रतिबिम्बस्य बिम्बलाञ्छितत्वानुपपत्तेरित्यर्थः । अस्तु दर्पणावयवपरिणाम एव मुखमित्यत आह- तथा सतीति ।।
ननु बिम्बसन्निध्यपगमेन तस्य परिणामनाशात् न तथैवावस्थानमापादयितुं शक्यमित्यतः समवाय्यसमवायि-नाशयोरेव कार्यनाशप्रयोजकत्वात्, अतथाभूतबिम्बसन्निध्यपगमस्य परिणामनाशकत्वं वक्तुं न शक्यमित्याह- न हीति ।। अन्यथाऽतिप्रसङ्गादिति भावः । अस्त्वेवं तर्हि बिम्बप्रतिबिम्बयोः पारमार्थिकमैक्यं किं ततः प्रकृते लब्धमित्यतः तद्भेदस्योपाधिकृतत्वमेवेत्याह- तदेवमिति ।। किमनेन सादृश्यप्रतीतिः साधकतया उपन्यस्ता, अन्यद्वा किञ्चित्प्रमाणमिति विकल्पद्वयं मनसि निधाय विकल्पयति- किं यथेति ।। आद्यं दूषयति- आद्य इति ।। तत्र हेतुमाह- न हीति ।। अन्यथा तयाऽपि तदभेदः सिध्येदिति भावः । नाप्यतिरिक्तं किञ्चित्प्रमाणमिति द्वितीयः । तद्धि भवत्प्रत्यक्षं वा अनुमानं वा आगमो वेति, आद्येऽप्यभिज्ञानं वा प्रत्यभिज्ञानं वा इति च विकल्पान् मनसि निधाय, नाऽद्यः । तस्य प्रत्यक्पराक्त्वादिना भेदग्राहित्वादिति भावेन प्रत्यभिज्ञानं तत्र प्रमाणमिति द्वितीयं दूषयति- द्वितीयस्त्विति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
अयमर्थः- प्रतिबिम्बो हि बिम्बाद्भिन्नतया साक्षात्क्रियत इति तावदविवादम् । अन्यथा त्वयाऽपि कस्य भ्रमत्वमुच्येत । न च भेदं भेदकं च साक्षात्कुर्वन्नभेदमपि साक्षात्कुर्वन् दृष्टः । न च ऐक्ये साक्षात्कृते सोपाधिकभ्रमोऽपि युक्तः । तदुपादानस्याप्यैक्याज्ञानस्य ऐक्यज्ञानेन निवृत्तत्वात् । न चोपाधिनिवृत्तिसहकृतमेव ज्ञानमज्ञाननिवर्तकम् । ज्ञाते कदाऽपि न जानामीत्यननुभवेन ज्ञानस्य स्वप्रागभावं प्रतीव अज्ञानं प्रत्यप्यन्यान-पेक्षस्यैव निवर्तकत्वात् । न च बिम्बप्रतिबिम्बयोरैक्ये ज्ञातेऽपि तदवच्छिन्नचैतन्ये ऐक्याज्ञानात्तत्र भेदभ्रम इति वाच्यम् । अतिप्रसङ्गात् । न च बिम्बप्रतिबिम्बैक्याज्ञानाभावेऽपि मूलाविद्याकार्योऽयं भेदभ्रमः । तथा सति व्यावहारिकत्वापातात् । न च सोपाधिकं भ्रमं प्रति नाज्ञानज्ञाने उपादाननिवर्तके । किन्तु उपाधिसन्निधान-रूपदोषतदपगमाविति वाच्यम् । दोषो निमित्तमात्रं कार्यानुगुणं मिथ्याभूतमज्ञानमेव तूपादानमिति त्वन्मत-हानेः । अन्यथा हि अज्ञानाकार्यत्वेन ज्ञानानिवर्त्यत्वेन च बिम्बप्रतिबिम्बभेदस्य सत्यत्वापातादिति । नाप्यनुमानं तत्र मानम् । अत्यन्तसादृश्यस्य वैधर्म्याभावस्य क्रियासाम्यस्य पृथक् कारणाभावस्य बिम्बकारणमात्रजन्यत्वस्य च व्यभिचारासिद्ध्यादिनाऽन्यत्र निरस्तत्वादिति भावेन आगमं निराकरोति- भेदप्रतीतिबलादेवेति ।। चित्रितः सिंह इति लोकव्यवहारवत्, ‘यथा दारुमयी योषा यथा चर्ममयो मृगः’ इत्यादिस्मार्तव्यवहारवच्च भेदप्रतीतिबला-देव वारिस्थमादित्यमिति व्यवहारस्य सादृश्यादिनिमित्ततया गौणत्वेन मुख्यत्वाभावान्न तस्य प्रमाणत्वमिति भावः ।
ननु भेदप्रतीतिबलात्कुतः शास्त्रीयव्यपदेशस्य गौणत्वकल्पनम् । व्यपदेशविरोधेन भेदप्रतीतेरेवाप्रमाणत्वं किं न स्यादित्यतः तथा सति ‘आदित्यो यूपः’ इत्यादिव्यपदेशानुसारेण तद्भेदप्रत्यक्षस्यैवाप्रामाणिकत्वापत्त्या प्रत्यक्षानुसारेण व्यपदेशस्य तत्सिद्धीत्यादिपेटिकया जैमिनिना गौणताया अवर्णनीयत्वप्रसङ्गादिति भावेनाऽह- व्यपदेशमात्रस्येति ।। इत्यादावपीत्यादिपदेन ‘यजमानः प्रस्तरः’ इत्यादेः सङ्ग्रहः । अपि चेत्युक्तं दोषं निराकरोति- यथेति ।। तथा च न सर्वदोपलब्धिप्रसङ्ग इति भावः । ननु समवायिकारणासमवायिकारणनाशयोरेव कार्यनाशप्रयोजकत्वात्कथमतादृग्रूपस्य बिम्बसन्निध्यपगमस्य परिणामनाशहेतुत्वं स्यादित्यतस्तयोरिव निमित्त-कारणनाशस्य तत्प्रयोजकतानियामकस्य लोकदर्शनस्याविशिष्टत्वेन निमित्तकारणनाशस्य तत्प्रयोजकत्वमवश्य-मभ्युपेयमिति भावेन तदुदाहरति- यथा हीति ।। लोकदृष्टस्यानभ्युपगमे बाधकमाह- दर्शनेति ।। तस्यापि दर्शनमूलकत्वेनाविशेषादिति भावः । किमेतावता सिद्धमित्यत एतावता लोकदर्शनानुसारेण समवाय्यसमवायि-नाशयोः कार्यनाशप्रयोजकत्ववन्निमित्तनाशस्यापि प्रयोजकत्वात्तन्नाशेन परिणामनाशो युक्त इति निगमयति- तस्मादिति ।। परमप्रकृतमुपसंहरति- तस्मादिति ।।
लघुप्रभा
(व्या.टि.)
अतिदिशतीति ।। एत इत्येतच्छब्देन इति शेषः । मूलोक्तविशेषणकृत्यं व्यनक्ति- य इत्यादिना ।। केवलमिति ।। आत्यन्तिकमनौपाधिकं चेत्यर्थः । ननु तयोरुक्तदोषानतिदेशे किमदुष्टत्वमुत दोषान्तर-मित्यतस्सत्यमाद्येऽदुष्टत्वं द्वितीये दोषान्तरमित्याह- शुद्धभेदवादस्त्वित्यादिना ।। अपरिहार्यत्वमिति ।। (व्या.टि.) अवधारणस्य भवनक्रियान्वयादित्यर्थः । कथमित्याक्षेपे । तदापादकाभावादित्यर्थः । बहुत्वेति ।। स्वाभाविकेति शेषः । औतस्यैव परमसिद्धान्तत्वादित्यर्थः । अपसिद्धान्तं व्यपोहति- यथेति ।। वक्तव्य-मिति ।। वक्ष्यमाणस्य विकल्पस्योत्तरमिति शेषः । अपिपदसमुच्चेयं दर्शयति- न केवलमिति ।। नन्वत्र विशिष्ट-निषेधे शिष्टमिश्व्ं स्याद्, विशेषनिषेधे शेषाभ्यनुज्ञानन्यायात् । तथा च ‘भेदश्चोपाधितः कुतः’ इति तत्त्वप्रकाशिका-विरोध इत्यतोऽस्याऽशयं प्रकाशयति-उपाधिकृत एवेति ।। उक्तप्रति(त्यभि)ज्ञा दृष्टिविरुद्धेत्याह-नन्विति ।। उत्तरयति- तद्भेदस्येति ।। कुतः स्वाभाविकत्वमित्यतोऽपवादाभावे उत्सर्गस्य न्यायप्राप्तत्वेन प्रमाणानपेक्षणा-दित्याशयेनापवादाभावमाह- न चेति ।। बिम्बप्रतिबिम्बयोर्वास्तवभेदे बाधकमाशङ्कते- तदिति ।। आत्यन्तिक-साधर्म्यमित्यर्थः । शास्त्रीय इति ।। ‘वृद्धाच्छः’ इति च्छः, तस्येयादेशः । शास्त्रे उद्यन्तमित्यादिना स्वरूपैः प्रतिरूपस्य वारिस्थस्य । समभिव्याहारादित्यर्थः । प्रतिबिम्बस्य बिम्बभेदे बाधकान्तरञ्चाह- अपि चेति ।। परिणामं परिशेषयितुमन्यद्दूषयति- विरुद्धेति ।। परिशिश्व्ं पराचश्व्े- तथा सतीति ।। ननु निमित्तापाये कथं कार्यावस्थानमित्यत आह- नहीति ।। यद्यपि निमित्तापाये नैमित्तिकापायो बहुस्थलेषु दृष्टः । पूर्वतन्त्रे प्रयाजेषु वा शिष्टापाये नाराशंसापायस्य, सामधेनीषु राजन्यापाये पाञ्चदश्यापायस्य, पितृयज्ञे आर्षेयवरणापाये तन्निमित्त-चोदकापायस्य दर्शनात् । व्याकरणेऽपि सिजादिलोपे तन्निमित्तवृद्ध्यादिलोपस्य, न्यायनयेऽपेक्षाबुद्धिनाशे द्वित्वनाशस्य, अदृष्टनाशे स्वर्गभोगनाशस्य च दर्शनात् । तथाऽपि नासौ नियतः । तुरीनाशेऽपि पटानाशात् । अङ्गीकार्येत्यादौ णिलोपेऽपि वृद्ध्यादिदर्शनादिति भावः । निगमयति- तदेवमिति ।। बिम्बप्रतिबिम्बम्बाभेदे प्रमाणं दूषयितुं पृच्छति- किमिति ।। सादृश्यस्याभेदाविनाभावाभावादित्याह- न हीति ।। अभेदप्रत्यभिज्ञाऽभावं भेदप्रतीत्या समर्थयते- प्रतिबिम्बो हीति ।। विपक्षे बाधकमाह- अन्यथेति ।। धर्मिण एवाप्रतीतावित्यर्थः । कथमिति ।। विरुद्धोभयप्रत्ययस्य सकृदेककरणेनानुत्पत्तेरित्यर्थः । गौणत्वे बीजमाह- भेदप्रतीतीति ।। तत्प्रसङ्गादिति ।। तथा च तत्सिद्धिपेटिकाविरोध इति फलितम् । परिणतिपक्षोक्तबाधकमुद्धरति- यथेति ।। निमित्तापायो न साक्षान्नैमित्तिकापाये हेतुः, किन्तु विपरीतपरिणतिद्वारेत्याह- विपरीतपरिणताविति ।। निमित्तापायस्य विपरीतकार्योत्पादहेतुभावं निदर्शनेन द्रढयति- यथा हीति ।। स्थायित्वस्य दर्शनैकप्रमाणक-त्वात्कस्येत्याक्षेपः । न्यायनयमवलम्ब्योपसंहरति- तस्मादिति ।। परमप्रकृतमुपसंहरति- तस्मादिति ।। किमु-तेति ।। सामान्याभावे विशेषस्यानाशङ्कनीयत्वादित्यर्थः । मिथ्येति ।। निरुपाख्यस्य कार्यकारणभावा-सम्भवादित्याशयः ।।