नचोक्तयुक्त्यधीनत्वं प्रामाण्यस्य ..
प्रामाण्यज्ञानस्य युक्त्यधीनत्वनिरासः
मूलम्
- नचोक्तयुक्त्यधीनत्वं प्रामाण्यस्य । बुद्धिदोषनिरासमात्रकारणत्वाद् युक्ती-नाम् । अदुष्टबुद्धीनां स्वत एव सिद्धत्वाच्च प्रामाण्यस्य ।
तत्त्वमञ्जरी
प्रामाण्यं परतश्चेदनवस्थेति ह्युक्तम् । एवं चानवस्थापरिहारान्यथाऽनुपपत्तियुक्त्यधीनत्वं प्रामाण्यस्येत्यत आह - न चोक्तेति ।।
टीका
ननु ‘अपौरुषेयत्वाद्वेदस्य’ इत्यपौरुषेयतया निर्दोषत्वेन वेदस्य तत एव तज्जन्यज्ञानस्यापि प्राक् प्रामाण्यमनुमितम् । तत्कथमिदानीम् ‘प्रामाण्यं च स्वत एव’ इत्युच्यत इत्यत आह- नचे-ति ।। प्रामाण्यस्येति विषयेण विषयिणो ज्ञानस्योपलक्षणम् । नचापौरुषेयत्वाद्युक्तयुक्त्या वेदप्रामाण्यं ज्ञापितं प्रागित्यर्थः । प्रामाण्यज्ञापनाय युक्तेरुपन्यस्तत्वात्कथं नेत्यत आह- बुद्धी-ति ।। अनृतव्याघातादिदर्शनेन वेदविषया याऽप्रामाण्यशङ्का सा बुद्धिदोषेत्युच्यते ।
अयमभिसन्धिः । साक्ष्येव ज्ञानं तत्प्रामाण्यं च विषयीकर्तुं क्षमः । किन्तु कारणान्तरोपनिपातजेन मानसापराधेन प्रतिबद्धो ज्ञानमात्रं गृहीत्वा तत्प्रामाण्यग्रहणस्य नेष्टे । यथा स्वयमेव गतिसमर्थोऽपि गजो गोक्षुरकादिना प्रतिबद्धो न चलितुं क्षमते । तत्र तु युक्त्यनुसन्धानलक्षणपरीक्षाऽवसरः । सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन्निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति । यथा गोक्षुरकाद्यपसरणे स्वयमेव गजो गच्छति । ततः प्राचीनो युक्त्युपन्यासः साक्षिणः प्रामाण्य-ग्रहणप्रतिबन्धकबुद्धिदोषनिरासार्थमेव कृतो नतु प्रामाण्यज्ञापनार्थ(ज्ञानार्थ)मिति न पूर्वोत्तरविरोध इति ।
एतेनैवैतदपि निरस्तम् । यदाहोदयनः- ‘यदि प्रामाण्यं स्वतो ज्ञायेत तदा कदाचिदपि प्रामाण्य-संशयो न स्यात् । ज्ञानत्वसंशयवत् । निश्चिते तदनवकाशात् । नहि साधकबाधकप्रमाणाभावमवधूय समानधर्मादिदर्शनादेवासौ । तथा सति तदनुच्छेदप्रसङ्गात् । अथ प्रमाणवदप्रमाणेऽपि तत्प्रत्ययदर्शनाद् विशेषादर्शनाद् भवति शङ्केत्यभिप्रायः । तत्किं प्रमाण(प्रामाण्य)ज्ञानोपलम्भेऽपि न तत्प्रामाण्यमुपलब्धं प्रमाणज्ञानमेव वा नोपलब्धम् । आद्ये कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः । द्वितीये कथं तत्र शङ्का; धर्मिण एवानुपलब्धेः’ इति । धर्म्युपलब्धावपि व्याघातादिदर्शनेन साक्षिणि प्रतिबद्धे प्रामाण्यविषये मनसि संशयाद्युपपत्तेः । युक्तीनां बुद्धिदोषनिरासमात्रकारणत्वं नतु वेदप्रामाण्यज्ञप्तिकारणत्वमित्येतत् कुत इत्यत आह- अदुष्टे-ति ।। यस्मिन् सत्येव यद्भवति नासति तत्खलु तस्य कारणम् । सतीष्वेव च युक्तिषु बुद्धिदोषनिरासो भवति नासतीषु । प्रामाण्यं त्वनृतपुनरुक्तव्याघाताद्यनुसन्धानरूपबुद्धिदोषरहितानां पुंसां स्वत एव युक्त्यपेक्षां विनैव सिद्धमित्यनुभवसिद्धम् । तस्मादुक्तव्यवस्थैव युक्तेति ।
संवादान्वयव्यतिरेकानुविधायित्वात् प्रामाण्यज्ञप्तेस्तत्कार्यत्वमित्येदप्यनेनैव निरस्तम्, व्यतिरेकाभावस्यानुभवसिद्धत्वात् । एतेनैवानभ्यासदशायां सांशयिकत्वस्यासिद्धिरप्युक्ता वेदि-तव्या । बुद्धिदोषाभावेऽनभ्यासदशाऽऽ-पन्नज्ञानप्रामाण्यस्यापि निष्कम्पस्यैव प्रतीयमानत्वात् । क्वचित्संशयस्यान्यथोपपन्नत्वादिति ।
भावबोधः
ननु ‘अपौरुषेयत्वाद्वेदस्य’ इति वेदरूपकरणप्रामाण्यमेवानुमितम् । न ज्ञानप्रामाण्यम् । इदानी ज्ञानप्रामाण्यस्य स्वतस्त्वमुच्यत इति न पूर्वोत्तरयोर्विरोध इत्यत आह- तत एव तज्जन्यज्ञानस्यापीति ।। बौद्धस्य वेदे यथार्थज्ञानजनकत्वविषयविवादो वेदजन्यज्ञानगतयाथार्थ्यविषयकएव । न तु वेदगतज्ञान-जनकत्वविषयः । तं (परं) प्रति वेदप्रामाण्यसाधनाय प्रयुक्तं निर्दोषत्वं तज्जन्यज्ञानगतयाथार्थ्यसाधनायैव प्रयुक्तं भवतीति भावः । प्रामाण्यस्य निश्चितत्वेन स्वारसिकसन्देहानुपपत्तावपि प्रामाण्यज्ञाने प्रामाण्यसन्देहात् प्रामाण्यसन्देहोपपत्तिरित्याह- अथ प्रमाणवदिति ।। तत्प्रत्ययदर्शनात् प्रामाण्यप्रत्ययदर्शनादित्यर्थः । प्रामाण्यज्ञानगतप्रामाण्यस्यापि स्वतस्त्वेनाऽधायकसंशय एव नोपपद्यत इत्याह- तत्किं प्रामाण्यज्ञानोप-लम्भेऽपीति ।। प्रमाणत्वेन प्रमाणविषयकज्ञानोपलम्भेऽपीत्यर्थः ।
भावदीपः
।। तत एवेति ।। वेदस्य निर्दोषत्वादेव, निर्दोषवेदजन्यत्वहेतुत एवेति वा, निर्दोषत्वादेवेति वाऽर्थः। लक्षणाबीजं सम्बन्धं दर्शयति- विषयेण विषयिण इति ।। तावता कथमुक्तशङ्कानिरास इत्यतो वा, साक्षिणो निर्दोषत्वात्कथं तत्र शङ्का यन्निरासार्थं युक्तिरित्यतो वाऽऽह- अयमभिसन्धिरिति । कारणान्तरेति ।। व्याघातादिरूपेत्यर्थः ।। मानसापराधेनेति ।। अप्रामाण्यशङ्कारूपेणेत्यर्थः । एतेन बुद्धिर्न साक्षी किन्तु मन इत्युक्तं भवति । मनोगताप्रामाण्यशङ्कारूपदोषेण प्रतिबद्ध इत्यर्थः ।। तत इति ।। साक्षिणस्स्वत एव प्रामाण्य-ग्रहणशक्तत्वादित्यर्थः । युक्त्युपन्यास इत्यस्य कृत इत्यनेनान्वयः ।। पूर्वोत्तरेति ।। ‘अपौरुषेयत्वाद्वेदस्य’ इत्यस्य ‘प्रामाण्यं च स्वत एव’ इत्यस्य च न विरोध इत्यर्थः ।। एतेनैवेति ।। बुद्धिदोषेत्यादि-कथनेनैवेत्यर्थः । स्वतो ज्ञायेतेति ।। ज्ञानग्राहकेणैव ज्ञायेतेत्यर्थः ।। निश्चित इति ।। प्रामाण्य इति योज्यम् । प्रामाण्यतदभावसाधारणज्ञानत्वधर्मदर्शनाद्भवेत्तदुभयकोटिकसन्देह इत्यत आह-न हीति । अवधूयेति ।। विहायेत्यर्थः ।। तथा सतीति ।। साधकबाधकयोरन्यतरस्मिन् विद्यमानेऽपि सन्देहोत्पादे सतीत्यर्थः । इह चास्ति साधकमिति भावः । निश्चितेऽपि प्रामाण्ये तन्निश्चयेऽपि प्रामाण्यसन्देहे तद्विषयीभूते प्रथमज्ञाने प्रामाण्य-सन्देहो भविष्यति । यथा घटादिज्ञाने प्रामाण्यसन्देहाद्धटादावर्थे सन्देहस्तथेति भावेन शङ्कते- अथेति ।। तत्प्रत्ययेति ।। प्रामाण्यप्रत्ययदर्शनादित्यर्थः । तथा च प्रामाण्यनिश्चयत्वस्य प्रामाण्यतदभावोभयसाधारण्यात् तत्प्रामाण्यादिसन्देहात् तद्विषयज्ञानप्रामाण्येऽपि सन्देहो युक्त इति भावः । प्रामाण्यनिश्चयेऽपि प्रामाण्यसन्देहो न युक्तः । येन तदाहितो ज्ञानप्रामाण्ये सन्देहो घटेतेत्यत आह- तत् किं प्रमाणज्ञानेति ।। प्रमाणज्ञानशब्दोऽत्र प्रामाण्यनिश्चयपरः ।। तत्प्रत्ययप्रतीतावपीति ।। प्रामाण्यनिश्चयस्य प्रतीतावपि तन्निष्ठप्रामाण्यस्याप्रतीतेः । तत्प्रतीतौ पुनः संशयायोगः । तत्राप्याहितसन्देहाङ्गीकारे चोक्तरीत्या तत्रापि तथेत्यनवस्थेति भावः ।। द्वितीय इति ।। प्रामाण्यनिश्चय एव नोपलब्ध इति पक्ष इत्यर्थः । इतिपदस्य इत्येतदपि निरस्तमिति पूर्वेणान्वयः ।
।। धर्म्युपलब्धावपीति ।। प्रामाण्याश्रयज्ञानोपलब्धावपीत्यर्थः ।। साक्षिणीति ।। ज्ञानग्राहके साक्षिणि प्रामाण्यविषये प्रतिबद्धे सतीत्यर्थः ।। मनसीति ।। ‘यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’ इत्युक्तेरिति भावः ।। संशयादीति ।। जातिव्यक्त्योरेकवित्तिवेद्यत्वनियमेऽपि भ्रमस्थले शुक्तिग्रहणेऽपि दोषवशाच्छुक्ति-त्वस्याग्रहणेन इदं शुक्तिर्वा रजतं वेति सन्देहो रजतमेवेति विपर्ययो वा यथा तथा ज्ञानतत्प्रामाण्ययोरेक-वित्तिवेद्यत्वनियमेऽपि दोषवशात्प्रामाण्याग्रहणेन संशयादेरुपपत्तेरित्यर्थः । विस्तरस्तु तर्कताण्डवे ।। वेद-प्रामाण्येति ।। वेदादिजन्यज्ञानप्रामाण्यज्ञप्तीत्यपि ग्राह्यम् ।। उक्तव्यवस्थैवेति ।। युक्तेः प्रतिबन्धनिरास एवोपयोगो न प्रामाण्यज्ञप्तावित्युक्तेत्यर्थः ।। अनुभवसिद्धत्वादिति ।। अभ्यासदशापन्नज्ञानस्थले संवादेन विना प्रामाण्यग्रहणदर्शनादिति भावः ।। एतेनैवेति ।। अदुश्व्बुद्धीनामित्यादिकथनेनैवेत्यर्थः । तदेव व्यनक्ति- बुद्धिदोषेति । अन्यथोपपन्नत्वादिति ।। धर्म्युपलब्धावपीत्यादिनोक्तदिशेति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
तत एव निर्दोषवेदजन्यत्वादेव । विषयेणेत्याद्युक्त्या लक्षणाबीजभूतशक्यार्थसम्बन्धो दर्शितः- ज्ञानस्येति ।। प्रामाण्यज्ञप्तेरित्यर्थः ।। कारणान्तरोपनिपातजेनेति ।। अनृतव्याघातादिदोषदर्शनरूप-कारणान्तरसन्निपातजन्येनेत्यर्थः । मानसापराधोऽप्रामाण्यशङ्कारूपः ।। प्रामाण्यज्ञानार्थमिति ।। प्रामाण्य-ज्ञापनार्थमित्यर्थः । नन्वेवं प्रामाण्यस्य स्वतस्त्वहानिः । अप्रामाण्यशङ्कादशायां साक्षी ज्ञानमात्रं गृहीत्वा प्रामाण्य-ग्रहणस्य नेष्टे इत्युक्तत्वेन ज्ञानग्राहकग्राह्यत्वालाभादिति चेन्न । अप्रामाण्यग्राहकसामग््रयसमवहितज्ञानग्राहक-सामग्रीग्राह्यत्वस्य विवक्षितत्वाददोषः ।(श्री.टि.)
स्वतो ज्ञानग्राहकेणैव ।। संशय इति ।। ज्ञान इति शेषः ।। ज्ञानत्वेति ।। ज्ञानरूपे धर्मिणि गृहीते सति ज्ञानत्वे संशयो न भवति । जातिभानसामग््रया व्यक्तिभानसामग्रीनियतत्वादिति भावः ।। निश्चित इति ।। प्रामाण्ये निश्चित इत्यर्थः । तदनवकाशात् संशयानवकाशात् । एककोटेर्निश्चितत्वादिति भावः । ननु ज्ञानत्वादिसाधारणधर्मदर्शनादेव संशयो भविष्यतीत्यत आह- नहीति ।। लोके साधारणधर्मदर्शनादेव न संशयः। किन्तु साधकबाधकप्रमाणाभावसहकृतादेव । स्थाणुत्वनिश्चायकप्रमाणाभावे स्थाणुत्वानङ्गीकारे पुरुषत्वाङ्गीकार इति यावत्, बाधकप्रमाणाभावे च सत्येव तत्सहकृतोर्ध्वत्वरूपसाधारणधर्मदर्शनादेव दृष्टः । न तु साधकप्रमाणाभावं बाधकप्रमाणाभावं चावधूय निराकृत्य विनेति यावत् । ऊर्ध्वत्वरूपसाधारणधर्मदर्शनादेव न दृष्ट इत्यर्थः । समानधर्मदर्शनमात्रादेव कुतो न संशय इत्यत आह- तथा सतीति ।। साधारणधर्मस्य सर्वत्र सत्त्वेन सर्वत्र संशयः स्यात् । तथा साधारणधर्मस्य विशेषदर्शनेनाप्यनिवृत्त्या संशयोच्छेद एव न स्यादित्यर्थः ।
इदमत्राऽकूतम् । अत्र प्रश्व्व्यं ज्ञानं गृहीतं न वेति । नेति पक्षे धर्मिज्ञानाभावादेव न संशयः । यदि गृहीतं तर्हि तत्र प्रामाण्यं निश्चितं न वा । नेति पक्षे स्वतस्त्वभङ्गः । निश्चितं चेत् सन्देह एव न युज्यते एककोटेर्निश्चित-त्वात् । संयुक्तसमवायसन्निकर्षरूपजातिभानसामग्य्र• व्यक्तिभानसामग्रीनियतत्वात् । ज्ञानरूपधर्मिप्रतीतौ ज्ञानत्वस्यापि निश्चितत्वेन तत्र यथा न सन्देहस्तद्वत् । भवति चायं संशयोऽतस्तदन्यथाऽनुपपत्त्या ज्ञानं गृहीतं तत्र प्रामाण्यं न गृहीतमतः संशयो युक्त इत्येवं परतस्त्वे सांशयिक(त्वयुक्तिरिति)त्वं युक्तमिति ज्ञातव्यम् । नन्विदं जलमिति ज्ञानप्रामाण्ये स्वारसिकसंशयाभावेऽप्याहितसंशयो भवत्येव । तथा हि- यत्प्रमाणभूतम् ‘अयं घटः’ इति ज्ञानं तत्रापीदं ज्ञानं प्रमाणमिति प्रामाण्यप्रत्ययो भवति, यदप्रमाणभूतं ‘इदं रजतम्’ इति ज्ञानं तत्रापीदं ज्ञानं प्रमाणमिति प्रामाण्यप्रत्ययो भवति । अत एवाऽहुः- ‘अप्रमाऽपि प्रमेत्येव गृह्यते’ इति । अन्यथा तज्ज्ञानात् प्रवृत्तिरेव न स्यात् । इयांस्तु विशेषः । अत्र प्रामाण्यज्ञानं भ्रमरूपं तत्र प्रमारूपमिति । यथाकथञ्चित् प्रामाण्यज्ञानं तु भवति । इदं च प्रामाण्यज्ञानम्, तस्मात्प्रमाणमप्रमाणं वेत्येवं जलज्ञाननिष्ठप्रामाण्यज्ञाने प्रामाण्या-प्रामाण्यसन्देहाहितोऽर्थे जलज्ञानप्रामाण्येऽपि सन्देहो भविष्यतीत्याशङ्कते- अथेति ।। प्रमाणवदिति ।। अयं घट इत्यादिप्रमाणभूतज्ञान इवेत्यर्थः ।। अप्रमाणेऽपीति ।। अप्रमाणभूते इदं रजतमिति ज्ञानेऽपीत्यर्थः । तत्प्रत्ययदर्शनादिति ।। प्रामाण्यप्रत्ययदर्शनादित्यर्थः । अन्यथा प्रवृत्तिरेव न स्यादिति भावः ।। विशेषा-दर्शनादिति ।। एककोटिनिश्चायकतद्व्याप्यधर्मादर्शनादित्यर्थः ।। भवति शङ्केति ।। जलज्ञानप्रामाण्येऽ-प्याहितशङ्का भवतीत्यर्थः । भवन्मते प्रामाण्यज्ञानगतप्रामाण्यस्यापि स्वतस्त्वेनाऽधायकसंशय एवाऽदौ नोपपद्यते यदाहितः संशयः स्यात् । तथा हि । अत्रापि पृच्छामो जलज्ञाननिष्ठप्रामाण्यज्ञानरूपं धर्मिज्ञानमस्ति वा न वेति । नेति पक्षे धर्मिज्ञानाभावादेव न संशयः । आद्ये तत्र प्रामाण्यं प्रतीतं न वा । आद्ये एककोटेर्निश्चितत्वान्न संशयः । द्वितीये स्वतस्त्वहानिरित्येवमाधायकः संशयो नोपपद्यत इत्याह- तत् किमित्यादिना ।। जलज्ञान-निष्ठप्रामाण्यज्ञानेऽपि प्रामाण्यसन्देहमङ्गीकुर्वतस्तव मत इत्यर्थः ।। प्रामाण्यज्ञानोपलम्भेऽपीति ।। इदं जलमिति (श्री.टि.) ज्ञाननिष्ठं यत्प्रामाण्यं तज्ज्ञानरूपधर्म्युपलम्भेऽपीत्यर्थः ।। न तत्प्रामाण्यमिति ।। प्रामाण्यज्ञान-निष्ठं प्रामाण्यं नोपलब्धमतः संशयो भवतीत्यर्थः । यद्युपलब्धं स्यात्तर्ह्येककोटेर्निश्चितत्वात्सन्देहो न भवतीति भावः ।। प्रमाणज्ञानमेवेति ।। धर्मिभूतं प्रामाण्यज्ञानमेवेत्यर्थः । कुत इत्यतो ज्ञानग्राहकग्राह्यत्वाभावादित्याह- प्रत्ययेति ।। प्रामाण्यज्ञानरूपधर्मिणः साक्षिणा प्रतीतावपीत्यर्थः । तदप्रतीतेः प्रामाण्या-प्रतीतेः । तत्र प्रामाण्यज्ञाने । अनुपलब्धेरित्येतदप्येतेनैव निरस्तमित्यन्वयः ।
एतेनेत्युक्तं विशदयति- धर्म्युपलब्धावपीति ।। साक्षिणि प्रतिबद्धे सति प्रामाण्यविषये संशयाद्युपपत्तेः । प्रामाण्यविषयसंशयादेर्मनस्युपपत्तेरित्यर्थः । तथा च प्रामाण्यज्ञानरूपं धर्मि साक्षिणा प्रतीतं प्रामाण्यं च न प्रतीतम् । न च स्वतस्त्वहानिः । असति प्रतिबन्धे साक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्व-मित्यङ्गीकारात् । प्रकृते च प्रामाण्यज्ञानरूपं धर्मिणं गृह्णता साक्षिणाऽनृतव्याघातादिदर्शनेन शक्तिप्रतिबन्धात् प्रामाण्याग्रहेऽप्यस्मदुक्तस्वतस्त्वाहान्या प्रामाण्यज्ञानरूपधर्मिज्ञानस्य प्रामाण्यनिश्चयस्य च सम्भवेन संशयो युक्त एव । न चैवं प्रतिबन्धकाभावरूपस्याधिकस्य हेतोरनुप्रवेशात्स्वतस्त्वहानिरिति वाच्यम् । उत्सर्गापवाद-न्यायभङ्गापत्त्या प्रतिबन्धकाभावस्य कारणत्वाभावादित्याशयः ।। उक्तव्यवस्थैवेति ।। युक्तीनां बुद्धिदोषनिरास-मात्रकारणत्वमेव न वेदप्रामाण्यज्ञप्तिकारणत्वमित्युक्त-व्यवस्थैवेत्यर्थः । अनेनेत्युक्तं विशदयति- व्यतिरेका-भावस्येति ।। संवादे सति प्रामाण्यज्ञप्तिस्तदभावे प्रामाण्यज्ञप्त्यभाव इति ह्यन्वयव्यतिरेकानुविधानं वक्त-व्यम् । तच्चासिद्धम् । संवादाभावेऽपि, युक्त्यपेक्षां विनैवेति यावत्, प्रामाण्यज्ञप्तेरदुष्टबुद्धीनामनुभवसिद्धत्वेन व्यतिरेकव्याप्त्यभाव इत्यर्थः । एतेनेत्युक्तमेव विशदयति- बुद्धिदोषाभाव इति ।। नन्वभ्यासदशापन्नज्ञानप्रामाण्ये कदाचित्संशयोऽपि दृश्यतेऽतस्तद्विरोध इत्यत आह- क्वचिदिति ।। कदाचिदिति शेषः ।। अन्यथेति ।। मनोदोषेणेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
यत्तु ‘अपौरुषेयत्वाद्वेदस्य’ इत्यस्य ‘प्रामाण्यं च स्वत एव’ इत्यस्य च विरोधाऽशङ्का न युक्ता । तत्र करणप्रामाण्यस्य परतस्त्वव्युत्पादनात् । अत्र च ज्ञानप्रामाण्यस्यैव स्वतस्त्वव्युत्पादनादित्याशङ्कानिवर्तकतया ‘तत एव’ इति ग्रन्थप्रवृत्त्युपवर्णनम्, तत्तु ‘प्रामाण्यं च स्वत एव’ इत्येतद्ग्रन्थीयव्याख्यानरूप‘एतदुक्तं भवति’ इत्यादिकरणप्रामाण्यस्वतस्त्वव्युत्पादनपरग्रन्थादर्शनमूलकत्वादुपेक्ष्यम् ।। मानसापराधेनेति ।। मानसा-प्रामाण्यशङ्कयेत्यर्थः ।। तदनुच्छेदप्रसङ्गादिति ।। समानधर्मस्य तदाऽप्यनिवृत्तेरिति भावः । ननु प्रामाण्य-स्यानिश्चितत्वात् स्वारसिकप्रामाण्यसंशयासम्भवेऽपि प्रामाण्यनिश्चये प्रामाण्यसंशयेन प्रामाण्यनिश्चयविषयीभूते प्रामाण्ये संशयः स्यादेवेति शङ्कते- अथेति ।। तत्प्रत्ययदर्शनात् प्रामाण्यप्रत्ययदर्शनात् । भवेदेतदेवं यदि प्रामाण्यनिश्चये प्रामाण्यसंशय उपपद्येत । न च स्वतस्त्वपक्षेऽसावुपपद्यते । तथा च न प्रामाण्यनिश्चये प्रामाण्यसंशयेनापि प्रामाण्यनिश्चयविषयप्रामाण्ये संशयः सम्भवतीत्याशयेन समाधत्ते- तत्किमिति ।। एतेनेति परामृष्टं दर्शयति- धर्म्युपलब्धावपीति ।। व्यतिरेकाभावस्येति ।। असत्यपि संवादेऽदुष्टबुद्धीनां प्रामाण्य-(पां.टि.) ग्रहदर्शनादिति भावः ।। बुद्धिदोषाभाव इति ।। एतच्च साक्षिविषयसुखादिकमभिप्रेत्योक्तम् । अन्यत्र बुद्धिदोषाभावस्यासिद्धत्वादिति द्रष्टव्यम् । ननु यत्र प्रामाण्ये संशयो दृश्यते तस्यैव पक्षत्वान्नासिद्धिरित्यत आह- क्वचिदिति ।। उक्तरीत्येति शेषः ।
लघुप्रभा
(व्या.टि.)
पूर्वोत्तरग्रन्थयोर्विरोधं शङ्कते- नन्विति ।। अनुमितमिति ।। वेदस्यापौरुषेयत्वेन निर्दोषत्वात् प्रामाण्यमनुमितम् । तज्जन्यज्ञानस्य निर्दोषकरणजन्यत्वात् प्रामाण्यमनुमितप्रायमित्यर्थः ।। कथमुच्यत इति ।। कथं करणफलोभयस्वतस्त्वं प्रतिज्ञायत इत्यर्थः । ‘विषयेण विषयिणः’ इति शक्यसम्बन्धप्रदर्शनम् । वेदप्रामाण्यमिति ।। उपलक्षणमेतत् । तज्जन्यज्ञानप्रामाण्यमपीत्यपि ग्राह्यम् । ननु कथं पूर्वोत्तरग्रन्थविरोधपरिहार इत्यतोऽभिसन्धिमुद्घाटयति- अयमभिसन्धिरित्यादिना ।। ननु पूर्वोत्तरग्रन्थविरोधो नास्ति । पूर्वमपौरुषेयत्वाद् वेदस्येत्यत्र ‘न चैतेषां वचनानामेवाप्रामाण्यम्’ इति प्रक्रमेण वेदस्येत्युक्त्या च करणप्रामाण्यस्यैवानुमितत्व-प्रतीतेः । स्वयमपि तथैव योजितत्वाच्च । ‘प्रामाण्यं च स्वत एव’ इत्यत्र तु ज्ञानप्रामाण्यस्यैव स्वतस्त्वं प्रति-ज्ञायते । ‘अन्यथाऽनवस्थानात्’ इति तत्रैव विपक्षे बाधकोक्तेः । स्वाश्रयग्राहकमात्रग्राह्यत्वस्य श्रोत्रादिग्राह्य-शब्दादिरूपकरणप्रामाण्येऽयोगाच्च । पद्धतौ करणप्रामाण्यं ज्ञप्तौ परत इत्युक्तेश्चेति चेदत्राहुः । ज्ञानप्रमात्वमुपेत्य करणाप्रामाण्यस्य अनृतव्याघातादिनाऽनुमानायोगेन दुष्टकरणजन्यत्वेन वेदजन्यज्ञानाप्रमात्वमपि पूर्वपक्षिणोऽ-भिलषितमिति, सिद्धान्तेऽपि ‘अपौरुषेयत्वाद्वेदस्य’ इत्यत्र अपौरुषेयत्वेन निर्दोषत्वेन वेदप्रामाण्यं, निर्दोषकरण-जन्यत्वेन तज्जन्यज्ञानप्रामाण्यमप्यनुमितमिति प्रतीयत एव । टीकायां तु स्फुटत्वादनुक्तिः । एवं च ‘प्रामाण्यं च स्वत एव’ इत्यत्रोत्तरत्रानवस्थाऽदिना ज्ञानप्रामाण्यस्वतस्त्वोपपादनेऽपि करणप्रामाण्यस्वतस्त्वमप्यभिमत-मेव । सकर्तृकत्वाभावे आप्तोक्तत्वरूपलिङ्गाभावेन वेदप्रामाण्यासिद्धावापादितायां तत्स्वतस्त्वस्यावश्यं वक्तव्य-त्वात् । उक्तापौरुषेयत्वयुक्त्यधीनताया निरासाच्च । ज्ञानप्रामाण्यस्येव स्वाश्रयग्राहकग्राह्यत्वायोगेऽपि ज्ञान-जनकत्वग्राहकान्वयव्यतिरेकग्राह्यत्वसम्भवात् । सुधायां पद्धत्युक्तं परतस्त्वमुक्त्वा ‘यद्वा ज्ञानजनकत्वग्राहक-ग्राह्यत्वमेव स्वतस्त्वम्’ इत्यस्यैव स्वतस्त्वशब्दार्थताया उक्तत्वात् । अतः पूर्वोत्तरविरोधशङ्का युक्तीनां दोष-निरासमात्रकारणत्वेन तत्परिहारश्च युक्त इति ।
यद्यपि युक्त्यज्ञेयत्वं ज्ञानप्रामाण्यस्य, युक्त्यन्तराज्ञेयत्वं करणप्रामाण्यस्य न युक्तम् । सर्वस्यापि वस्तुनो बह्वनुमानगम्यत्वेन युक्त्यगम्यत्वस्य युक्त्यन्तरागम्यत्वस्य चायोगात् । तथाऽपि ज्ञानप्रामाण्ये अगृहीतग्राहित्वं न युक्तेः । धर्मिज्ञानार्थं साक्षिण्यपेक्षिते तेन प्रामाण्यस्यापि सिद्धेः । एवं ज्ञानजनकत्वग्राहकस्य प्रथमोपस्थितत्वेन नेतरयुक्तेरगृहीतग्राहित्वम् । यद्यपि दोषशङ्कायां प्रामाण्यस्यागृहीतत्वेन, तद्ग्राहित्वं, शङ्कायां निरस्तायां, युक्तेः सम्भवति । तथाऽपि प्रत्यक्षसामग्य्रा बलवत्त्वेन ज्ञानप्रामाण्यस्य प्रत्यक्षत्वमेव । ज्ञानजनकत्वग्राहकस्य शङ्काऽ-भावस्थले प्रमाजनकत्वग्राहकतायाः क्लृप्तत्वेन शङ्कानिरासस्थलेऽपि तदित्यवधेयम् । यद्यपि करणज्ञानयोः प्रामाण्यस्य परतस्त्वेऽपि आप्तोक्तत्वस्य वेदेऽभावेऽपि निर्दोषत्वेन वेदे, निर्दोषकरणजन्यत्वेन ज्ञाने प्रामाण्यस्य (व्या.टि.) सिद्धेः, सकर्तृकत्वा(भावे न)भावेन प्रामाण्यासिद्ध्यापादनं न युक्तम् । तथाऽपि वस्तुस्थितिप्रदर्शनाय स्वतस्त्वं समर्थितम् । यद्यपि आप्तोक्तत्वाभावेन करणे प्रामाण्यासिद्धिमापाद्य प्रमाणजन्यत्वाभावेन ज्ञाने प्रामाण्यासिद्धिरापादितेति करणप्रामाण्यस्वतस्त्वमेव प्रथमत उपपादनीयम् । तथाऽपि ज्ञानप्रमात्वस्य स्वतस्त्व एव ज्ञानजनकत्वग्राहकग्राह्यत्वं प्रमाजनकत्वस्य भवतीति तत्स्वतस्त्वमेव प्रथमत उपपादितम् । वस्तुतस्तु ज्ञानप्रामाण्यस्यैव स्वतस्त्वं मूलाभिमतम् । स्वतो ज्ञानग्राहकेणेति व्याख्यातत्वात् । करणे आप्तोक्तत्वाभावेऽपि प्रामाण्यसिद्ध्यर्थमिन्द्रियलिङ्गशब्दानां त्विति वाक्यं प्रवृत्तम् । ‘न चोक्त’ इति मूलावतारिकायां निर्दोषत्वेन वेदप्रामाण्ये साधितेऽपि विरोधाभावादेव ‘तत एव तज्जन्यज्ञानस्यापि’ इत्युक्तम् । ‘नापौरुषेयत्वाद्युक्तयुक्त्या वेदप्रामाण्यं ज्ञापितम्’ इत्यत्रापि वेद(ज्ञप्तितज्ज्ञान)जनितज्ञानप्रामाण्यमित्यर्थः । वेदविषये वाऽप्रामाण्यशङ्केत्य-स्यापि तज्जन्यज्ञानविषय इत्यर्थः । अत एवायमभिसन्धिरित्याशयोद्घाटने ‘साक्ष्येव ज्ञानं तत्प्रामाण्यं च’ इत्युपक्रमः, ‘ततः प्राचीनो युक्त्युपन्यासः साक्षिणः प्रामाण्यग्रहणप्रतिबन्धकबुद्धिदोषनिरासार्थमेव कृतो न तु प्रामाण्यज्ञापनार्थमिति न पूर्वोत्तरविरोधः’ इत्युपसंहारश्च युज्यत इति दिक् । अधिकं तु गुरुप्रभायां द्रष्टव्यम् ।
।। क्षम इति ।। ज्ञानग्रहणशक्तिवत् प्रामाण्यग्रहणशक्तेरपि सहजत्वादिति भावः । शक्तेः सहजत्वे कुतो न फलमिति पृच्छति- किन्त्विति ।। उत्तरयति- कारणान्तरोपनिपातेति ।। मानसेति ।। अत्र शङ्क्यते । व्याघातदर्शनादिरूपकारणान्तरोपनिपातजेन अप्रामाण्यशङ्कारूपमानसापराधेन साक्षिणः प्रतिबन्धो न युक्तः। अप्रामाण्यशङ्का धर्मिज्ञानसापेक्षा वा तन्निरपेक्षा वा । आद्ये कारणीभूतं धर्मिज्ञानं प्रामाण्यं गृह्णाति न वा । नाऽद्यः । धर्मिज्ञानरूपप्रामाण्यनिश्चयस्य जातत्वेन भाव्यप्रामाण्यशङ्कायाः तत्प्रतिबन्धकत्वायोगात् । प्रामाण्यनिश्चये सत्यप्रामाण्यशङ्काया एव प्रतिबन्धेनायोगाच्च । न द्वितीयः । प्रतिबन्धकाभावेन प्रामाण्या-ग्रहणायोगात् । एवमपि प्रामाण्याग्रहणे स्वतस्त्वहानेश्च । नापि धर्मिज्ञाननिरपेक्षेति द्वितीयः । धर्मिज्ञानस्य संशयं प्रति कारणत्वेन तदभावे शङ्काया एवायोगात् । किञ्चाप्रामाण्यशङ्का साक्षिरूपा वा मानसरूपा वा । नाऽद्यः । साक्षिणः सुदृढनिर्णयरूपत्वेन शङ्कात्वायोगात् । बुद्धिदोषेत्युक्तिविरोधाच्च । द्वितीयेऽपि न तावदनु-मितिरूपा । लिङ्गनिश्चयाभावात् । संशयाकारानुमितेरनङ्गीकाराच्च । नापि शाब्दरूपा । शब्दरूपकारणाभा-वात् । शाब्दसंशयेऽपि विवादाच्च । तस्मात्प्रत्यक्षरूपेति वक्तव्यम् । तदप्ययुक्तम् । ज्ञानादीनां साक्षात्साक्षिवेद्यत्वेन तत्र मानसप्रत्यक्षायोगात् । अन्यथा सुखदुःखादीनामपि मानसप्रत्यक्षविषयत्वापत्तेः । द्रव्यस्यायोग्यत्वेऽपि तद्गतगन्धादेर्घ्राणादिग्राह्यत्ववत् प्रामाण्यस्य मानसविषयत्वमिति तु न शङ्क्यम् । धर्मिणमसाक्षात्कृत्य धर्ममात्रे मानसादर्शनात् । धर्मिणमविषयीकृत्य शङ्काऽयोगाच्च । साक्षिणोपनयने तु प्रामाण्यस्य निश्चयप्राप्त्या शङ्काऽयो-गाच्च । विशेष्यांश उपनयनानङ्गीकाराच्च । अपि च साक्षिवेद्यस्य प्रामाण्यस्य संशयविषयत्वे सुखत्वादेरपि तत्प्रसङ्गः। तस्मात् कथं मानसशङ्कया प्रतिबन्ध इति ।
अत्रोच्यते- धर्मिज्ञानसापेक्षा मानससाक्षात्काररूपा शङ्का प्रतिबन्धिकेत्युपगम्यते । धर्मिज्ञानं च न प्रामाण्यं (व्या.टि.) गृह्णाति । अप्रामाण्यग्रहणवत् तत्कारणव्याघातादिदर्शनस्यापि प्रतिबन्धकत्वोपगमात् । वक्ष्यति चानुपदमेव । ‘धर्म्युपलब्धावपि व्याघातादिदर्शनेन साक्षिणि प्रतिबद्धे प्रामाण्यविषये मनसि संशयाद्युपपत्तेः’ इति । प्रतिबन्धकत्वं तु फलबलाद्धर्मितया प्रामाण्यग्रहणं प्रति दोषदर्शनस्य स्वविषयवज्जन्यत्वेनेति विषयनिष्ठ-प्रत्यासत्त्या प्रकारान्तरेणाऽत्मनिष्ठप्रत्यासत्त्या वा बोध्यम् । न च साक्षिवेद्यस्य मानसत्वायोगः । साक्षिवेद्यस्य सुखादेः स्मृतिविषयत्वान्यथाऽनुपपत्त्या मानसत्वस्य वाच्यत्वात् । स्मृतेर्मानससाक्षात्काररूपायाः संस्कारद्वारा मनःपरिणतिरूपज्ञानजन्यत्वात् । स्वयं मानसत्वाच्च । विशेष्यांश उपनयने बाधकाभावाच्च । ‘मानसे त्वनियमः’ इति नैयायिकैरप्यङ्गीकाराच्च । स्मृतौ तत्तादिं प्रति विशेष्यांशे उपनयनस्याऽवश्यकत्वाच्च । प्रामाण्यांशे प्रतिबन्धकवत् सुखत्वाद्यंशे प्रतिबन्धकाभावेन साक्षिणा निश्चितत्वेन संशयविषयत्वं नाऽपादयितुं युक्तम् । तस्माद्युक्तं ‘मानसापराधेन प्रतिबद्धः’ इति । यद्वा व्याघातादिदर्शनानन्तरम् आकाङ्क्षादिमच्छब्दत्वादिना वेदो ज्ञानजनक इति तज्जन्यज्ञानमनुमाय तत्र दुश्व्करणजन्यत्वेनाप्रामाण्यशङ्कायां पूर्वं सत्यां ज्ञानं गृह्णन् साक्षी प्रतिबद्धः प्रामाण्यं न गृह्णातीति न कोऽपि दोषः । विस्तरस्तु गुरुप्रभायाम् ।
सहजाया अपि शक्तेः प्रतिबन्धकप्रतिबध्यत्वं निदर्शयति- यथेति ।। स्वमहिम्नेति ।। स्वाभाविकशक्येत्यर्थः। दोषनिरासार्थमेवेति ।। ननु प्रामाण्यज्ञप्त्यर्थं दोषनिरासार्थं वा परापेक्षायामनपेक्षत्वलक्षणस्वतस्त्वभङ्ग इति चेन्न । सर्वथा परीक्षाऽनपेक्षत्वलक्षणस्वतस्त्वं साक्षिण एव । यथोक्तं सुधायाम् । ‘यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात् प्रामाण्यस्य परतस्त्वमिति तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारेऽपि न कश्चिद्विरोधः’ इति । बाह्यकरणजज्ञानानां तु दोषनिरासे परापेक्षायामपि प्रामाण्यग्रहणे परानपेक्षत्वात्स्वत-स्त्वम् । तेषामपि शङ्काऽनुत्पादे सर्वथाऽनपेक्षत्वमस्त्येव । करणानां तु ज्ञानजनकत्वग्राहकग्राह्यप्रामाण्यकत्वं ज्ञप्तौ स्वतस्त्वमिति विवेको द्रष्टव्यः ।। एतेनेति ।। बुद्धिदोषस्य प्रतिबन्धकत्वकथनेनेत्यर्थः । उदयनः पूर्वोक्त-मापादकीकृत्यानिष्टं प्रसञ्जयति- यदीत्यादिना । कदाचिदिति ।। अनभ्यासदशायामपीत्यर्थः ।। प्रामाण्ये-ति ।। यद्यपि, यदि प्रामाण्यं स्वतो ज्ञायेत तर्हि संशयविषयो न स्यात् ज्ञानत्ववदित्येव ऋजुः पन्थाः । तथाऽपि स्फुटप्रतिभासाय वक्रोक्तिः ।। निश्चित इति ।। प्रामाण्य इति शेषः । धर्म्युपलब्धेरेव प्रामाण्यनिश्चयरूपत्वात्तस्य संशयविरोधित्वादिति भावः । साधारणधर्मदर्शनाद्भवति संशय इत्यतो भविष्यन् संशयोऽपि किं स्वारसिक उताऽहित इति विकल्प्याऽद्यं निराह- न हि साधकबाधकेति ।। साधकसत्त्वे तन्निर्णय एव बाधकसत्त्वे त्वभाव-निश्चय एवेत्युभयाभावविशिश्व्साधारणधर्मदर्शनं तद्बीजं न तन्मात्रमिति भावः ।। तथा सतीति ।। निर्णायके सत्यपि । तन्मात्रात्संशय इत्यर्थः । तदनुच्छेदः संशयानु(त्पादः)च्छेदः । साधारणधर्मस्य कदाऽप्यनिवृत्तेरिति हृदयम् ।
द्वितीयं दूषयितुमुपक्षिपति- अथेति ।। प्रमाणवदिति ।। सप्तम्यन्ताद्वतिः । अप्रमाणेऽपीत्यनाश्वासप्रदर्श-नम् । तत्प्रत्ययदर्शनात् प्रामाण्यप्रत्ययदर्शनादित्यर्थः ।। विशेषेति ।। प्रामाण्यव्याप्यादर्शनादित्यर्थः। भवति (व्या.टि.) शङ्केति ।। प्रामाण्यज्ञानेऽप्रामाण्यशङ्का ततस्तदाहिता प्रमाणज्ञानेऽप्यप्रामाण्यशङ्का इत्यावृत्त्या योज्यम् । तं कल्पं दूषयितुं विकल्पयति- तत्किमिति ।। प्रमाणज्ञानेति ।। प्रामाण्यज्ञानरूपप्रमाणज्ञाने-त्यर्थः । तत्प्रामाण्यं प्रामाण्यज्ञानप्रामाण्यम् ।। प्रमाणज्ञानमेव वेति ।। प्रामाण्यज्ञानरूपप्रमाणज्ञानमित्यर्थः। प्रत्ययेति ।। प्रामाण्यज्ञानरूपप्रत्ययेत्यर्थः ।। धर्मिण एवेति ।। प्रामाण्यज्ञानस्यैवेत्यर्थः । तत्राऽद्यं स्वारसिक-पक्षमभ्युपेत्य तद्दोषमुद्धरति- धर्म्युपलब्धावपीति ।। व्याघातादीति ।। आदिपदेन दुष्टकरणजन्यत्व-रूपज्ञानदोषपरिग्रहः । न चैवं स्वतस्त्वहानिः । असति प्रतिबन्धे साक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमित्युक्तम् । अत्र चाप्रामाण्यग्रहणसामग्री प्रामाण्यग्रहणप्रतिबन्धिका समवहितैवेति निरुक्त-स्वतस्त्वाहान्या स्वतस्त्वपक्षेऽपि धर्मिज्ञानप्रामाण्यानिश्चयश्च युक्त एवेति ।। मनसीति ।। साक्षिणो निर्णयात्म-कत्वादिति भावः । व्यवस्थापकाभावेन व्यवस्थाऽयोगं शङ्कते- युक्तीनामिति ।। अन्वयव्यतिरेकावेव कारणत्व-व्यवस्थापकौ । तौ च दोषनिरास एव स्तो न प्रामाण्यज्ञप्तौ इत्याशयेन तत्र तौ दर्शयति- यस्मिन्निति ।। प्रामाण्ये व्यतिरेकाभावं दर्शयति- प्रामाण्यं त्विति ।। युक्त्यपेक्षामिति ।। अपौरुषेयत्वादिति युक्त्यपेक्षामि-त्यर्थः ।। सिद्धमिति ।। ज्ञानकरणत्वग्राहकान्वयव्यतिरेकसिद्धं करणे, ज्ञाने च साक्षिसिद्धमित्यर्थः ।। उक्त-व्यवस्थेति ।। दोषनिरास एव कारणत्वं न प्रामाण्यज्ञप्तावित्युक्तव्यवस्थेत्यर्थः । आनुषङ्गिकमर्थान्तरं दर्शयति- संवादेति ।। व्यतिरेकेति ।। नासतीति व्यतिरेकाभावस्येत्यर्थः । अर्थसिद्धमर्थान्तरं दर्शयति- एतेनेति ।। निष्कम्पस्यैवेति ।। असन्दिग्धस्यैवेत्यर्थः ।। अन्यथेति ।। स्वतस्त्वेऽपि प्रामाण्यज्ञप्तिप्रतिबन्धकदोषानु-सन्धानेनेत्यर्थः ।