अविनाशी वा ..

यत्र त्वस्येतिश्रुतिवाक्यस्य मुक्तावभेदे ज्ञानाभावप्रसङ्गपरत्वस्य समर्थनम्

मूलम्

- ‘अविनाशी वा ओऽयमात्माऽनुच्छित्तिधर्मा’ इति तद्धर्माणामप्यनुच्छित्तेः प्रस्तुतत्वात्, ‘अत्रैव मा भगवान् मोहान्तमापिपत् न प्रेत्य सञ्ज्ञाऽस्ति’ इति सञ्ज्ञा-नाशस्य दोषत्वेनोक्तत्वात्, ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’ इति ह्याक्षेप एव ।

तत्त्वमञ्जरी

ननु यत्र हि द्वैतमित्यादि संसारकथनम् । यत्रत्विति मोक्षं प्रस्तुत्य तत्केनेत्यादिना भोग एवाक्षिप्यते, नायमैक्यपक्षाक्षेप इत्यत आह- अविनाशीति ।। मोहान्तं मोहसामग्य्रम् । मुक्तानां अमुक्तप्रज्ञाविषयत्वं नास्तीत्यभिप्रायेण प्रेत्य संज्ञा नास्तीति याज्ञवल्क्येनोक्ते सति प्रज्ञाश्रयत्व-निधेधाशङ्कावती मैत्रेयी प्रति हि याज्ञवल्क्यो ‘न वा ओहं मोहं ब्रवीमि अविनाशी’ इति प्रज्ञादिधर्मानाशमाह । अहमिति वेद्य एव मोक्षस्य पात्रमिति वचनेनापि विज्ञातुरात्मनोऽ-विज्ञानमनुपपन्नम् ।

टीका 

ननु मोक्षानन्तरमपि भेदसद्भावप्रतिपादनाय यत्र त्वस्येति वाक्योदाहरणमयुक्तं, विरुद्धार्थ-त्वात् । क्रियाकारकफलसम्बन्धस्यात्यन्तमुच्छेदो ह्यत्र मुक्तस्योच्यते । तथा हि- ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यादिनाऽविद्यामयी संसारावस्थां प्रदर्श्य ‘यत्र त्वस्य’ इत्यादिना तद्विलक्षणां मुक्त्यवस्थां दर्शयति । यत्र यदाऽविद्यायां स्थितायां द्वैतमिव भवति शरीरेन्द्रिय-विषयादिरूपं स्वव्यतिरिक्तं किमप्यपारमार्थिकं भवति तत् तदा इतरः कर्ता इतरं घटम् इतरेण चक्षुषा पश्यतीत्यादि युज्यते । यत्र तु मुक्तावविद्यायां निवृत्तायाम् अस्य विदुषः सर्वं करणादिकम् आत्मैवाभूत् स्वव्यतिरेकेण किमपि नाभूत् तत् तस्यामवस्थायां केन करणेन कं विषयं पश्येत्, न केनापि किमपि पश्यतीत्यादि । येन करणसमूहेनेदं विषयजातं सर्वं विजानाति संसारी तमपि मुक्तौ केन विजानीयात् । न केनापि । किञ्च प्राक् विज्ञातारम् आत्मानञ्च ओ मैत्रेयि केन विजानीयात् न केनापि । तदेवं विरुद्धार्थस्य  वाक्यस्योदाहरणमयुक्तम् इत्यतो  यत्र त्वस्येत्यादि-वाक्यं व्याख्याति- अविनाशीति ।। यत्र त्वस्येत्याक्षेप एव न तु वस्तुस्थितिकथनम् । हि यस्मात् तस्मात् अत्रास्योदाहरणं युक्तमेव । नन्वत्र प्रश्नायोगात्किंशब्दस्य आक्षेपार्थत्वं परेणाप्यङ्गिकृत-मेव । तत्किमनेनाधिकमाचरितम् । उच्यते- नात्र किंशब्दस्याक्षेपार्थत्वमुच्यते । तस्योभयवादि-सिद्धत्वात् । किन्तु आक्षेपशब्दोऽत्र प्रसङ्गार्थः । यत्र त्वस्येत्यादिना मुक्तौ भेदानङ्गीकारे प्रसङ्ग आपदनात्मा क्रियत इत्यर्थः । मुक्तौ करणाद्यभावाद्दर्शनादिकं नास्तीति वस्तुस्थितिकथनमेव किं न भवति । इदं कुतः प्रसङ्गार्थतया व्याख्यानं क्रियत इत्यत उक्तम्- अत्रैवेति ।। भगवान् अत्रैव अवश्यवेदितव्य एव विषये मा मां मोहान्तं मोहाख्यं विनाशम् आपिपत् प्रापितवान् । कथं प्रेत्य मोक्षानन्तरं संज्ञा ज्ञानं नास्तीति । न चेदं सम्यग्ज्ञानम् । परमपुरुषार्थे मोक्षे ज्ञानाभाव-स्यासम्यक्त्वादिति मुक्तौ ज्ञाननाशस्य पूर्ववाक्ये दोषत्वेनोक्तत्वात् ।

ननु पूर्वपक्षस्थितया मैत्रेय्या दूषितत्वेऽपि कथं प्रतिपादकस्य याज्ञवल्क्यस्य वाक्यमन्यथयितुं शक्यमिति चेन्न । मोक्षस्यापुरुषार्थत्वप्रसङ्गो हि मैत्रेयीवाक्यस्यार्थः । यदि चोत्तरवाक्ये मुक्तस्य ज्ञानाभाव एव सिद्धान्तः स्यात्तदा मैत्रेय्युक्तप्रसङ्गस्योत्तरं वक्तव्यम् । न चोक्तम् । तेन गम्यते मुक्तस्य ज्ञानाभावो नोत्तरवाक्येऽभिप्रेत इति । न केवलं पूर्वपक्षस्थितया मैत्रेय्योक्तस्य दोषस्यापरि-हृतत्वान्यथाऽनुपपत्त्याऽभ्युपगतत्वावगमादाक्षेपोऽयं व्याख्यायते । किं तर्हीत्यत उक्तम्- अवि-नाशीति ।। न विद्यते उच्छित्तिर्येषां तेऽनुच्छित्तयः    अनुच्छित्तयो धर्मा यस्यासौ अनुच्छित्ति-धर्मेति मुक्तस्य । ज्ञानादीनां धर्माणामपि न केवलं स्वरूपस्य । अनुच्छित्तेः प्रस्तुतत्वात् पूर्ववाक्ये प्रतिपादकेनैवोक्तत्वात्प्रसङ्ग एवायमिति ज्ञायते । अन्यथा पूर्वोत्तरविरोधप्रसङ्गात् । ननुअत्रैव मा भगवान्’ इति न मोक्षस्यापुरुषार्थत्वप्रसङ्गाभिप्रायः । किन्तु विज्ञानघन इत्युक्त्वा पुनः ‘न प्रेत्य सञ्ज्ञाऽस्ति’ इत्युक्ते व्याहत्यभिप्रायेण ‘अत्रैव’ इत्युक्तम्  । तत्र, संसारे विज्ञानघनो मोक्षे तु केन कं पश्येदिति परिहारः सङ्गत एवेति । मैवम् । तथा सति ‘अत्रैव मा भगवान् मोहान्तमापिपद्यद्विज्ञानघन’ इति ‘न प्रेत्य सञ्ज्ञाऽस्ति’ इति चेति वाक्यद्वयोपादानप्रसङ्गात् । व्याघातस्य उभयाश्रितत्वात्    एकस्यैव  तु  वाक्यस्योपादानात्तद्विषयमेव दोषोद्भावनमिति ज्ञायते । न चान्योऽभिप्रायो दृश्यत इत्युक्ताभिप्रायमेवेदम् ।

ननूच्छित्तिर्धर्मो यस्यासावुच्छित्तिधर्मा, नोच्छित्तिधर्मा अनुच्छित्तिधर्मेति स्वरूपाविनाश एवोच्यते, न तु धर्मानुच्छित्तिरिति चेन्न । स्वरूपाविनाशस्याविनाशीत्यनेनैवोक्तत्वात् । निर्विकारत्वं तेनोक्तमिति चेत्, तथाऽप्यनुच्छित्तिरिति बहुव्रीहिणैव पूर्णत्वाद्धर्मपदवैयर्थ्यम् । तस्मात् ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ इति संसारे ज्ञानरूपस्य जीवस्य भूतोत्पत्तिविनाश-निमित्तावुत्पत्तिविनाशावित्यभिधाय ‘न प्रेत्य सञ्ज्ञाऽस्ति ’ इति मुक्तस्य तु भूतानां विनिवृत्तत्वात् तन्निमित्तं वृत्तिज्ञानम्, उपलक्षणमेतद्, उत्पत्त्यादिकञ्च नास्तीति याज्ञवल्क्येनोक्तम् । ततो मोक्षस्वरूपं सम्यग्ज्ञातुकामा मैत्रेयी सर्वथा ज्ञानाभावोऽनेनोक्त इत्यारोप्य ‘अत्रैव मा भगवान्’ इत्याह । अथ याज्ञवल्क्यो, न वा ओ अहं मोहं ब्रवीमि इति- नाहं मोहकं वाक्यं ब्रवीमि, त्वन्तु भूतेभ्य इति प्रकरणमननुसन्धायान्यथा कल्पयसीत्युवाच । पुनस्तस्या विशेषजिज्ञासां ज्ञात्वा मोक्षविषया वादिविप्रतिपत्तीर्निराकुर्वन् शून्यवाद्यभिमतमात्मविनाशलक्षणं मोक्षम् ‘अविनाशी वा ओऽयमात्मा’ इति निराकृत्य विशेषगुणोच्छेदलक्षणं वैशेषिकाद्यभिमतमपि मोक्षं निराकृत-वान् । अनन्तरं ये अद्वितीयचैतन्यमात्रावस्थानं मोक्षमास्थितास्तन्मतेऽनिष्टप्रसङ्गं वक्तुं तस्य व्याप्तिसापेक्षत्वात् तामादाववादीत्- यत्र हि द्वैतमिति । द्वयोर्भावो द्विता, भेद इति यावत्, तस्या इदं धर्मि द्वैतं, भिन्नं वस्त्वित्यर्थः । यद्वा ‘द्वि’ इति भावप्रधानम् । द्वित्वेनेतं प्राप्तं द्वीतम् । ततः स्वार्थिकाऽण् । द्वैतं- भेदवत् । अथ वा द्वाभ्यां विरुद्धधर्माभ्यामितं द्वीतम् । तत्र भवं द्वैतम् । भेद इति यावत् । यद्वा द्वितेत्यनेकत्वसङ्ख्योच्यते । तत्र भवं द्वैतं, भेद एव । द्वित्वेन सङ्ख्यया इतं, तत्र भवम् । द्वित्वसङ्ख्यया युते भवमिति वा । तत्र भेदिनां भेदस्य च पारतन्त्र्यादिवशब्दः  । यदा द्वैतसद्भावस्तदैव दर्शनादिभोगो दृष्ट इति ।

भावदीपः

क्रियेति ।। क्रियाकारकफलैस्सम्बन्धस्येत्यर्थः । तानि चागे्र व्यक्तानि । अत्रेति ।। ‘यत्र त्वस्य’ इति वाक्ये । मुक्तौ विज्ञातुरभावादाह- प्राग्विज्ञातारमिति ।। आकाङ्क्षाक्रमेण वाक्यं व्याचश्व्े- यत्र त्वस्येत्याक्षेप एवेत्यादिना ।। आक्षेपपदस्याभिप्रेतार्थमुक्त्वा मूलवाक्यस्यार्थमाह- यत्र त्वस्येत्यादिना ।। आदिपदेन मूलोक्त-कृत्स्नवाक्यग्रहः । दोषत्वेनोक्तत्वादिति ।। कारणाद्यभावाद्दर्शनादिकं नास्तीति वस्तुस्थितिकथनपरतया न व्याख्यातव्यमिति वाक्यशेषः । प्रतिपादकस्येति ।। सिद्धान्तिन इत्यर्थः । यदि चोत्तरवाक्य इति ।। यत्र त्वस्येति वाक्य इत्यर्थः । आक्षेपोऽयमिति ।। यत्र त्वस्येत्यनेनोक्तोऽर्थ आपादनरूपप्रसङ्गात्मेत्यर्थः । धर्माणा-मनुच्छित्तिलाभाय बहुव्रीहिगर्भबहुव्रीहिमाह- न विद्यत इति ।। ‘धर्मादनिच्केवलात्’ इत्यनिच्प्रत्यये अनुच्छित्ति-धर्मा इति रूपमिति भावः । मूलस्थापिपदार्थं व्यनक्ति- न केवलमिति ।। प्रस्तुतत्वादित्यनुवादः । पूर्वेत्यादि-व्याख्या । प्रतिपादकेनेति ।। याज्ञवल्क्येनेत्यनुषङ्गः । अत्रैवेत्युक्तमिति ।। ‘अत्रैव मा भगवान्’ इत्यादि-वाक्यमुक्तं मैत्रेय्येत्यर्थः । व्याहतिपरिहारार्थं यत्र त्वस्येत्याद्युत्तरवाक्यमिति भावेनावस्थाभेदेन व्याहतिनिरासप्रकारं व्यनक्ति- तत्रेति ।। परोक्ताभिप्रायकत्वे मैत्रेयीवाक्यस्योक्ते सतीत्यर्थः । एकस्येति ।। ‘न प्रेत्य सञ्ज्ञाऽस्ति’ इत्येवंरूपस्येत्यर्थः । न चान्य इति ।। त्वदुत्प्रेक्षितादस्माभिर्दूषितादन्योऽभिप्राय इत्यर्थः । परिशेषार्थमिय-मुक्तिः । इतिर्हेत्वर्थः । इदमिति ।। वाक्यमिति योज्यम् । ननूच्छित्तिरिति ।। उच्छित्तिर्विनाशो धर्मो यस्य स नेत्यनुच्छित्तिधर्मा इत्यर्थः । तर्हि कोऽर्थोऽस्य वाक्यस्येत्यत आह- तस्मादिति ।। परोक्तार्थस्यायुक्तत्वादित्यस्य आपादनात्मकाऽक्षेप एवास्य वाक्यस्यार्थ इत्यनेनान्वयः । अत्रैव मा भगवानित्यतः पूर्ववाक्यमनूद्य तस्यार्थ-मनुवदति- विज्ञानेत्यादिना अभिधायेत्यन्तेन । भूतोत्पत्तीति भूतपदं भौतिकदेहपरम् । एतेन समुत्था-येत्यस्योत्पद्येत्यर्थ उक्तो भवति । अभिधायेति ।। बृहदारण्यके पञ्चमेऽध्याये मैत्रेयीब्राह्मण इति योज्यम् ।

अनुविनश्यतीत्यनन्तरस्थवाक्यमुदाहृत्य तस्यार्थमाह- न प्रेत्य सञ्ज्ञाऽस्तीति ।। प्रेत्येत्यस्यार्थो मुक्त-स्येति । संज्ञेत्यस्यार्थो वृत्तिज्ञानमिति । संज्ञाऽस्तीत्यनन्तरं श्रुतौ पठितस्य मूलकृदुदाहृतस्य अत्रैवेति वाक्यस्य सङ्गतिमाह- ततो मोक्षस्वरूपमिति ।। इत्याहेति ।। इत्यादि न प्रेत्य सञ्ज्ञाऽस्तीत्यन्तं वाक्यमाहेत्यर्थः । ‘न वा ओ अहं मोहं ब्रवीम्यलं वै विज्ञानाय’ इति तदुत्तरवाक्यस्य तात्पर्यार्थमाह- अथेति ।। अनन्तरमित्यर्थः । तदनन्तरपठितस्याविनाशीत्यादिवाक्यस्य सङ्गतिं वदन्नर्थमाह- पुनस्तया इति ।। निराकृतवानिति ।। अनुच्छित्तिधर्मेत्यनेनेति योज्यम् । यदा द्वैतसद्भाव इत्यादिना व्याप्तिं दर्शयिष्यन् द्वैतशब्दार्थं पञ्चधा निरुच्य दर्शयति- द्वयोर्भाव इत्यादिना ।। यद्यपि भेदो न युगधर्मः । तथाऽपि तद्भेदोऽत्रैतद्भेदस्तत्रेत्येवं द्वयोर्धर्मत्वं ज्ञेयम् । एकवचनं तु घटपटयोः स्वरूपमितिवत्समुदायाशयम् । द्वितेति ।। ‘तस्य भावस्त्वतलौ’ इत्येकवचनस्या-तन्त्रत्वादिति भावः । तस्या इदमिति ।। धर्मधर्मिभावसम्बन्धेन ‘तस्येदम्’ इति सूत्रेणाण्प्रत्यये ‘तद्धितेष्वचामादेः’ इत्यादिवृद्धौ द्वैतमिति रूपम् । भेदस्य स्वरूपत्वेऽपि भेदप्रतिनिधिविशेषेण धर्मधर्मिभावो युक्त इति भावः । द्वित्वेनेतमिति ।। धर्मिप्रतियोगिनिरूप्यत्वात्तदुभयगतद्वित्वेनेतमित्यर्थः । स्वार्थिकोऽणिति ।। प्रज्ञादेराकृति-गणत्वात् ‘प्रज्ञादिभ्यश्च’ इत्यनेनेति भावः । तत्र भवमिति ।। विरुद्धधर्माधिकरणयोर्वस्तुनोर्विद्यमानमित्यर्थः। ‘तत्र भवः’ इति सूत्रेण भवार्थेऽण्प्रत्यय इति सूचनाय तत्र भवमित्युक्तम्- तत्र भवमिति ।। अनेकसङ्ख्यायां भवम् । एकान्यद्वित्वबहुत्वादिसङ्ख्यासमानाधिकरणमित्यर्थः । द्विशब्दं भावप्रधानमुपेत्य द्वीते भवं द्वैतमिति भावेनाऽह- द्वित्वसङ्ख्यया युते भवमिति वेति ।। तत्रेति ।। द्वैतपदस्य भेदिभेदोभयपरत्वे सतीति वा व्याप्तिप्रदर्शकवाक्य इति वाऽर्थः । यत्रेत्यस्य तदित्यस्य चार्थो यदा तदैवेति । द्वैतसद्भावो भेदिभेदसद्भाव इत्यर्थः । ‘दृष्ट इति’ इतिपदस्य तां व्याप्तिमादाववादीदिति पूर्वोक्तेनान्वयः ।।

वाक्यार्थदीपिका

(श्री.टि.)

अविद्यामयीमिति ।। यत्र हि द्वैतमिवेति इवशब्दस्य द्वैतप्रपञ्चेऽपारमार्थिकत्वरूपमायामयत्वार्थ-कत्वादिति भावः । मुक्त्यवस्थायां जीवस्य विज्ञातृत्वाभावादाह- प्राग्विज्ञातारमिति ।। वस्तुस्थितीति ।। केन कं पश्येन्न केनापि किमपि पश्यतीत्यादीत्युक्तरीत्येत्यर्थः । प्रश्नायोगादिति ।। प्रश्नार्थत्वायोगादित्यर्थः । उत्तराभावादिति भावः । परेणापीति ।। न केनापि किमपीत्युक्तत्वादिति भावः । न चेदमिति ।। मोक्षानन्तरं ज्ञानं नास्तीति यत्तदित्यर्थः । दूषितत्वेऽपीति ।। मोक्षानन्तरं ज्ञानाभाववचनस्य मोहकत्वोक्त्या दूषितत्वेऽपी-त्यर्थः । प्रतिपादकस्येति ।। सिद्धान्तयितुरित्यर्थः । वाक्यं यत्र त्वस्येति वाक्यम् । मैत्रेय्या दोषत्वोक्त्यनुरोधेनेति शेषः । अन्यथयितुं प्रसङ्गार्थतया व्याख्यातुम् । मोक्षस्येति ।। अत्रैव मा भगवानिति मैत्रेयीवाक्यस्य मोक्षानन्तरं ज्ञानं नास्तीत्यस्य मोहकत्वकथनमेव नार्थः । किन्तु मोक्षानन्तरं ज्ञानाभावे तस्यापुरुषार्थत्वं स्यादित्यपुरुषार्थ-त्वापादनमपीत्यर्थः । अन्यथा निर्दलपूर्वपक्षकरणे मैत्रेय्या असुज्ञत्वप्रसङ्गादिति भावः । ‘मैत्रेय्युक्तोत्तरं च किम्’ (श्री.टि.) इत्यनुव्याख्यानं हृदि निधायाऽह- यदि चेति ।। उत्तरवाक्ये यत्र त्वस्येति वाक्ये । सिद्धान्तो याज्ञवल्क्यस्य । मैत्रेय्युक्तप्रसङ्गस्य ज्ञानाभावे मोक्षस्यापुरुषार्थत्वापादनस्य । उत्तरं वक्तव्यमित्यादि ।। यदि मुक्तस्य ज्ञानाभाव एव याज्ञवल्क्यसिद्धान्तस्स्यात् तदा ज्ञानाभावेऽपुरुषर्थत्वं स्यादिति मैत्रेय्या कृतापादनस्य ज्ञानाभावेऽपि पुरुषार्थत्वं सम्भवतीत्यपुरुषार्थत्वपरिहारेण तर्केऽप्रयोजकत्वोक्त्योत्तरं वक्तव्यं स्यात् । न चोक्त-मित्यर्थः । अभ्युपगतत्वेति ।। ज्ञानाभावेऽपुरुषार्थत्वप्रसङ्गो यो मैत्रेय्योक्तः स याज्ञवल्क्येनाऽभ्युपगत इत्यव-गमादित्यर्थः । अयं यत्र त्वस्येत्यादिवाक्यसमुदायः । प्रतिपादकेन सिद्धान्तयित्रा याज्ञवल्क्येन । अन्यथा यत्र त्वस्येत्यादेर्वस्तुस्थितिकथनपरत्वे । पूर्वोत्तरेति ।। पूर्वमनुच्छित्तिधर्मेति ज्ञानादिधर्माणामनुच्छित्तिं प्रतिपाद्य वस्तुस्थितिकथनपरेण यत्र त्वस्येत्यादिनोत्तरेण वाक्येन ज्ञानाभावप्रतिपादने याज्ञवल्क्यवाक्यस्य पूर्वोत्तरविरोधः स्यादित्यर्थः । व्याहत्यभिप्रायेणेति ।। तथा च मोहान्तमित्यस्य चित्तभ्रंशरूपम् अन्तं विनाशमित्यर्थो द्रष्टव्यः। विज्ञानघन इत्युक्तप्रकारेण जीवस्य ज्ञानरूपत्वं वा न प्रेत्य सञ्ज्ञाऽस्तीत्युक्तरीत्या ज्ञानाभावो वेति चित्तविभ्रंशरूपं मोहं प्रापितवानित्युक्त्या तव व्याहतिः प्राप्नोतीत्यभिप्रायः ।  ‘मुह वैचित्त्ये’ इति धातुः । उपादानप्रसङ्गा-दिति ।। मैत्रेय्येति शेषः । कुत इत्यत आह-व्याघातस्येति ।। उभयाश्रितत्वादिति ।। वाक्यद्वयनिरूप्यत्वादि-त्यर्थः । तद्विषयमेवेत्यादि ।। मोक्षे ज्ञानानङ्गीकारे मोक्षस्यापुरुर्ष्थत्वापादनरूपदोषोद्भावनं मैत्रेय्याऽभिप्रेतमि-त्यर्थः । अन्योऽभिप्राय इति ।। मैत्रेयीवाक्यस्यैवमभिप्राये सिद्धे सति यत्र त्वस्येत्यादियाज्ञवल्क्यवाक्यस्य वस्तुस्थितिकथनपरत्वरूपान्योऽभिप्रायो न दृश्यत इत्यर्थः । तथात्वे मैत्रेय्युक्तापुरुषार्थत्वरूपदोषस्यापरिहार-प्रसङ्गादिति भावः । उक्ताभिप्रायमेवेदमिति ।। यत्र त्वस्येति वाक्यमस्मदुक्तरीत्याऽऽक्षेपाभिप्रायकमेवेत्यर्थः ।

अनुच्छित्तिधर्मेति तद्धर्माणामनुच्छित्तेः प्रस्तुतत्वादित्युक्तमयुक्तमित्याशङ्कते- ननूच्छित्तिर्धर्म इति ।। अनुच्छित्तिधर्मेति ।। विनाशाभावाख्यधर्मवानित्यर्थः । उक्तत्वादिति ।। तथा च पुनरुक्तिरिति भावः । निर्विकारत्वमिति ।। विनाशशब्देन विकारस्य विवक्षितत्वात् तदभावोऽविकारित्वमिति यावत् अविनाशीति पदेनोच्यते । अनुच्छित्तिधर्मेत्यनेन तु स्वरूपानाशरूपं नित्यत्वमुच्यत इति न पुनरुक्तिरिति भावः । तथाऽ-पीति ।। यद्यप्येवं पुनरुक्तिपरिहारः । तथापि स्वरूपानाशरूपनित्यत्वप्रतिपादनायानुच्छित्तिरित्येतावता पूर्णत्वेन धर्मपदवैयर्थ्यमित्यर्थः । नन्वनुच्छित्तिरित्येवोक्तौ न उच्छित्तिः अनुच्छित्तिरिति नञ्समासेनोच्छित्तिरूपविनाश-भिन्नत्वमेव प्राप्नोति न तु स्वरूपस्यानाश इत्यत उक्तम्- बहुव्रीहिणैवेति ।। न विद्यत उच्छित्तिर्यस्यासावनु-च्छित्तिरिति बहुव्रीहिणैव स्वरूपानाशलाभादित्यर्थः । एवं परपक्षेऽनुपपत्तिं प्रदर्श्य मैत्रेय्या आक्षेपकरणे प्रसक्तिं दर्शयन् प्रकरणशुद्ध्या व्याचश्व्े- तस्मादित्यादिना ।। तस्मादित्यस्याऽऽपादनात्मकाक्षेप एवास्य वाक्यस्यार्थ इत्युत्तरेण सम्बन्धः ।

आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।

भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।

(श्री.टि.) इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।

ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ।

इति शून्यमतोच्छित्त्यै .......... ।।’

इत्यनुव्याख्यानं हृदि निधायाऽह- विज्ञानघन एवेत्यादिना ।। याज्ञवल्क्येनोक्तमित्यन्तेन मैत्रेय्या आक्षेपकरणे प्रसक्तिर्दर्शितेति ज्ञातव्यम् । प्रकरणमननुसन्धायेति ।। ‘भूतेभ्यः समुत्थाय’ इति प्रकरणानुसन्धाने वृत्ति-ज्ञानाभावस्यैव प्राप्तेरिति भावः । अन्यथा कल्पयसीति ।। सर्वथा ज्ञानाभावोऽनेनोक्त इति कल्पयसीत्यर्थः ।

पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान्’

इत्यनुव्याख्यानं हृदि निधायाऽह- विशेषगुणोच्छेदेति ।। अशेषविशेषगुणोच्छेदेत्यर्थः । निराकृतवान् अनु-च्छित्तिधर्मेत्यनेनेत्यर्थः ।

आचिक्षेप मतं तच्च यस्मिन्न विषयादिकम् ।

घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।।’

इत्यनुव्याख्यानं मनसि निधायाऽह- अद्वितीयचैतन्येति ।। अनिष्टप्रसङ्गं वक्तुमिति ।। यदि निर्विशेष-चैतन्यमात्रावस्थानं मोक्षस्स्यात्तदा दर्शनाऽघ्राणादिभोगो न स्यादित्यनिष्टप्रसङ्गं यत्र त्वस्येत्यादिना वाक्येन वक्तुमित्यर्थः । तामादाविति ।। तत्र व्यतिरेकव्याप्तिं आदाववादीदित्यर्थः । द्वयोर्भेदवतोः । भावो धर्मः । तस्याः भेदाख्यद्वितायाः । धर्मीति ।। तदुपेतमित्यर्थः । तथा च द्विताशब्दादण्प्रत्यये णित्त्वादादिवृद्धौ द्वैतमिति रूपमिति भावः । द्वित्वेन भेदेन । स्वार्थिकोऽणिति ।। तथा च द्वीतशब्दात् स्वार्थिकाण्प्रत्यये णित्त्वादादिवृद्धौ द्वीतमेव द्वैतमित्यर्थः । तत्र भवमिति ।। विरुद्धधर्मद्वयोपेतवस्तुनोर्विद्यमानमित्यर्थः । तथा चात्र ‘तत्र भवः’ इति सूत्रेण भवार्थेऽण्प्रत्यय इति भावः । अनेकत्वसङ्ख्योच्यत इति ।। द्वित्वसङ्ख्यामारभ्य परार्धपर्यन्तसङ्ख्या-सङ्ग्रहोऽनेकत्वसंख्येत्यनेन कृत इति ज्ञातव्यम् । तत्र भवमिति ।। अनेकत्वसङ्ख्योपेते  वस्तुनि विद्यमानमि-त्यर्थः । पुनः प्रकारान्तरमाह- द्वित्वसङ्ख्ययेति ।। द्वित्वरूपसङ्खयया इते युक्ते वस्तुनि भवमिति व्युत्पत्त्या द्वैतं भेद एवेत्यर्थः । ननु यत्र हि द्वैतमिवेतीवशब्दाद्भेदस्य मिथ्यात्वं प्रतीयत इत्यतः ‘अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित्’ इत्यनुव्याख्यानं मनसि निधायाऽह- तत्र भेदिनामिति ।। तथा च यत्र हि द्वैतमिव भवतीत्यस्य पराधीनोऽपि भेदो यत्र वर्तत इत्यर्थो दृष्टव्यः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

प्रश्नायोगादिति ।। उत्तराभावेन प्रश्नार्थत्वायोगादिति भावः । न विद्यत इत्यादि ।। अत्र च न विद्यते उच्छित्तिर्येषान्ते तथोक्ताः । अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति बहुव्रीहिपूर्वपदो बहुव्रीहिः धर्माणामनुच्छित्तित्वलाभार्थम् अनिच्प्रत्ययनिर्वाहार्थं च समाश्रितः । एवं सत्येव ‘धर्मादनिच् केवलात्’ इति धर्मान्ताद्बहुव्रीहेः समासान्तोऽनिच्प्रत्यय उपपद्यते । तथा हि- बहुव्रीहिणा पूर्वपदमाक्षिप्यते । तस्य केवलादिति (पां.टि.) विशेषणम् । तेन पूर्वपदीभवतः केवलाद् अन्यनिरपेक्षात्परो यो धर्मशब्दः तदन्ताद्बहुव्रीहेः समा-सान्तोऽनिच्प्रत्ययः भवतीति सूत्रार्थः सम्पद्यते । अत एव, परमः स्वः धर्मो यस्येति परमस्वधर्म इति त्रिपदे बहुव्रीहौ नानिच्प्रत्ययः प्रसज्यते । तत्र स्वशब्दस्य मध्यत्वादन्यसापेक्षत्वेन केवलस्य तस्य पूर्वपदत्वाभावात् । यदा च स्वो धर्मः स्वधर्मः, परमः स्वधर्मो यस्येति परमस्वधर्म इति बहुव्रीहिस्तदा यद्यपि पूर्वपदमन्यानपेक्षरूपकेवलं भवति । तथाऽपि स्वशब्देन व्यवायान्न ततः परो धर्मशब्द इति न भवति समासान्तः । ततश्चात्रानुच्छित्तिशब्दो बहुव्रीहेः पूर्वपदं भवन्नान्यमपेक्षत इति केवलात्परो धर्मशब्द इति भवत्येवात्र समासान्तोऽनिच्प्रत्ययः । अत एव ‘निवृत्तिधर्मा स्थानी भवति’ इति प्राचां प्रयोगः सङ्गच्छते । एवमेव ‘साध्यसमानधर्मा धर्मी सपक्षः’ इति टीकाकारीयोक्तिरपि निर्वाह्या । इयांस्तु विशेषः । यदत्र बहुव्रीहिपूर्वपदो बहुव्रीहिः, तत्र ‘साध्येन समानः साध्यसमानः, स धर्मो यस्य’ इति तृतीयातत्पुरुषपूर्वपदो बहुव्रीहिरिति । एवम् ‘सन्दिग्धसाध्यधर्मा धर्मी पक्षः’ इत्याद्यपि निर्वाह्यम् । नन्वेवं बहुव्रीहिणा पूर्वपदमाक्षिप्यते । तच्च केवलादित्यनेन विशिष्यत इत्यङ्गीकारे केवलपदमनर्थकं स्यात् । पूर्वपदशब्दस्य समासप्रथमावयवे रूढत्वेन मध्यमपदव्यावृत्तिसम्भवादिति चेन्न । पूर्वपदाक्षेपे तात्पर्यग्राहकत्वेन सार्थक्यसम्भवादिति । केचित्तु केवलं पदान्तरेणाविशिश्व्ं समासानात्मकमिति यावत्, यत्पूर्वपदं तस्मात्परो धर्मशब्द इत्येव सूत्रार्थः । ततश्च उच्छित्तिर्धर्मो यस्येत्युच्छित्तिधर्मा न उच्छित्तिधर्मा अनुच्छित्तिधर्मा इत्येव विग्रहोऽत्राभिमतः । न विद्यते उच्छित्तिर्येषान्ते अनुच्छित्तयः, अनुच्छित्तयो धर्मा यस्येति तु तात्पर्यकथनमात्रं टीकायां कृतम् । न तु विग्रहप्रदर्शनमेतत् । धर्माणामविनाशसिद्धिस्त्वार्थिक्येव । ‘सन्दिग्धसाध्यधर्मा धर्मी पक्षः’ इत्यादावपि साध्यं धर्मो यस्येति साध्यधर्मेति व्युत्पाद्य सन्दिग्धश्चासौ साध्यधर्मा चेति कर्मधारयः । स च सन्देहः साध्यधर्मद्वारक एव पर्यवस्यतीति न कश्चिद्दोष इत्याहुः । तन्न । उक्तरीत्या धर्माणामविनाशित्वस्य साध्यसन्दिग्धतायाश्च साक्षाल्लाभसम्भवे क्लिष्टकल्पनानवकाशात् । भवदुक्तार्थकल्पनाया आकरग्रन्थानारूढत्वात् । ‘निवृत्तिधर्मा स्थानी भवति’ इत्याद्यभियुक्तप्रयोगप्रत्यनुकूलत्वाच्च । अस्मदुक्तार्थस्य भ्वादिगणे धृञ् धारण इति धातौ माधवग्रन्थे स्पष्टत्वादिति दिक् ।

यत्तु ‘अनुच्छित्तिर्धर्मो यस्येति विग्रहे अविनाशीत्यनेन पुनरुक्तिः’ इत्यत्र पुनरुक्तिरित्युपलक्षणम् । अनिच्प्रत्ययानुपपत्तिश्च द्रष्टव्येति व्याख्याय, ‘धर्मादनिच् केवलात्’ इति केवलोपपदपूर्वात् केवलाच्च धर्मशब्दात् तद्विधानादित्युपपादनं तरङ्गिणीकारैः कृतम्, तत्तु ‘केवलादिति धर्मशब्दस्य च विशेषणमित्याह’ इति, ‘केवलादिति कैवल्यं धर्मप्राक्पदयोः संमतम्’ इति प्रसादपाणिनीयमतदर्पणदर्शनमात्रमूलकं न परामर्शमूलकमित्ययुक्तत्वा-दुपेक्ष्यम् । आत्मविनाशलक्षणमिति ।। ‘विमोक्षस्तस्य तापिनः’ इति तद्वचनादिति भावः । द्वयोर्भावो द्वि-तेति ।। द्विशब्दाद्भावे अभिधेये ‘तस्य भावस्त्वतलौ’ इति तल्प्रत्यये तलन्तत्वात् स्त्रीप्रत्यये च सति द्वितेति रूपनिष्पत्तिरिति भावः । तस्या इदमिति ।। द्विताशब्दाद् इदमर्थे ‘तस्येदम्’ इत्यणि आदिवृद्धौ ‘यस्येति च’ इति आकारलोपे द्वैतशब्दनिष्पत्तिरिति भावः । द्वीति भावप्रधानमिति ।। धर्मिवाचको द्विशब्दो लक्षणया (पां.टि.)द्वित्वरूपधर्मपर इत्यर्थः । स्वार्थिकोऽणिति ।। प्रज्ञादित्वाद् द्वीतमेव द्वैतमिति स्वार्थिके अणि णित्त्वादादिवृद्धौ ‘यस्येति च’ इत्यकारलोपे तच्छब्दनिष्पत्तिरिति भावः । भेद इति तत्र भवमिति ।। विरुद्धधर्मवति विद्यमानमित्यर्थः । द्वीतशब्दात् तत्र भव इत्यस्मिन्नर्थे अणि णित्त्वादादिवृद्धौ ‘यस्येति च’ इत्यकारलोपे तच्छब्दनिष्पत्तिरिति भावः  । भेद इति यावदिति ।। एवं च पक्षद्वयेऽपि नार्थभेदः,  अपि तु शब्दभेद एवेति भावः । तत्र भवं द्वैतमिति ।। ‘तत्र भवः’ इत्यनेन अणि पूर्ववत् शब्दनिष्पत्तिः । युते भवमिति ।। प्रज्ञादित्वात्स्वार्थिकेऽणि द्वैतशब्दनिष्पत्तिरिति भावः । पारतन्त्र्यादिवशब्द इति ।

अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित्’

इति अन्यत्र तत्समर्थनादिति भावः । एवं सति सिद्धां प्रसङ्गव्याप्तिं दर्शयति- यदेति ।। अत्र यदा द्वैताभावः तदा भोगाभावः इति प्रसङ्गाङ्गभूता व्याप्तिरवधारणबलेन फलितेत्यर्थः ।

लघुप्रभा

(व्या.टि.)

विरुद्धेति ।। भेदविरुद्धेत्यर्थः । तमेव दर्शयति- अत्यन्तमुच्छेद इति ।। तदानुगुण्येन व्याख्याति-  तथा हीति ।। वाक्यद्वयाभिप्रायमुक्त्वाऽन्वयं प्रदर्शयति- यत्र यदेत्यादि ।। अपारमार्थिकमिति इवशब्दार्थ-प्रदर्शनम् । इत्यादीति ।। क्रियाकारकभावादीत्यर्थः । जडाभेदाभावादाह- १स्वातिरेकेणेति ।। विषयाज्ञानमुक्त्वा करणाज्ञानमाह- तस्मादिति ।। गूढाभिसन्धेरुत्तरमविद्वान् शङ्कते- नन्वत्रापीति ।। आशयमुद्घाटयति- उच्यत इति ।। बृहद्भाष्यमनुरुन्धान आह- प्रसङ्गार्थ इति ।। हेतुपरतया मूलं योजयितुं तमाकाङ्क्षते- मुक्ताविति ।। मैत्रेय्याशयमनुवदति- भगवानित्यादिना ।। आपिपदिति ।। आप्नोतेर्णिचि चङन्तम् । मैत्रेय्येति ।। अत्र मित्रयोरपत्यमिति विगृह्य ‘गृष्ट्यादिभ्यश्च’ इति ढञ् । न च तथात्वे ‘केकयमित्रयुप्रलयानां यादेरियः’ इति यकारादेरियादेशे मैत्रेयेयीति स्यादिति वाच्यम् । ‘दाण्डिनायन’ इति सूत्रे निपातनाद्युलोपः । ततः ‘टिड्ढाञ्’ इत्यादिना ङीबिति भावः । प्रतिपादकस्य प्रतिवक्तुरित्यर्थः । अभ्युपगतत्वेति ।। ‘यदप्रतिषिद्धं तदनुमतम्’ इति न्यायादिति भावः । अनुच्छित्तिपदं धर्मानुच्छित्तिवाचकतया व्याचश्व्े- न विद्यत इति ।। मौलापिपदसमुच्चेयं दर्शयति- न केवलमिति ।। प्रस्तुतत्वादिति पदस्वारस्यमाह- पूर्ववाक्य इति ।। मैत्रेय्याशयमन्यथा योजयति- नन्वित्यादिना ।। उक्त इति व्याघातस्फोरणाय । वाक्यद्वयमवस्थाभेदेन व्यवतिष्ठत इति व्याघातप्रतिघात इति भावेनाऽह- संसार इति ।। मोक्ष इति च ।। योजनामूलं विच्छिनत्ति- वाक्यद्वयेति ।। विपर्ययपर्यव-सानलब्धमाह- एकस्यैवेति ।। एवं प्रसक्तं प्रतिषिध्यान्यस्याप्रसङ्गमप्याह- न चान्य इति ।। परिशेषयति- इत्युक्तेति ।। समासान्तरेणाभिमतालाभं शङ्कते- ननूच्छित्तिरिति ।। पुनरुक्त्या प्रतिविधत्ते- स्वरूपेति ।। उक्तत्वादिति ।। ‘उक्तार्थानामप्रयोगः’ इति महाभाष्ये उक्तस्यानुक्त्युक्तेरित्यर्थः । तात्पर्यभेदान्न पुनरुक्तिरित्याशङ्कते- निर्विकारत्वमिति ।। वैयर्थ्यादिति ।। अभिमतस्य तेन विनाऽपि लाभादित्यर्थः । एवं (व्या.टि.) परपक्षं प्रतिक्षिप्य स्वपक्षेण श्रुतिभावमभिधत्ते- तस्मादित्यादिना ।। भूतोत्पत्तिविनाशनिमित्ता-विति ।। ‘भूतेभ्यःसमुत्थाय तान्येवानुविनश्यति’ इति वाक्येनेति भावः । वृत्तिज्ञानमिति ।। मुक्तकर्तृकं अमुक्तकर्तृकं च ग्राह्यम् । ‘सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि’ इत्यनुभाष्योक्तेः । अर्थान्तरमप्याह- उपलक्षणमिति ।। आरोप्य ।। मिथ्योपदेशत्वमिति शेषः । यथोक्तमनुव्याख्याने-

आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।

भवानित्युक्तवत्या हि नाहं मोहं ब्रवीमि ते ।

इत्युक्त्या याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।।’ इति ।

तदनुरोधेन व्याकरोति- मोहं मोहकमिति ।। करणे घञिति भावः । निराकुर्वन्निति ।। ‘लक्षणहेत्वोः क्रियायाः’ इति लट् । निराकृत्येति ।। निरासप्रकारस्तु-

ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ।

इति शून्यमतोच्छित्त्यै ............. ।।’

इत्यनुभाष्यदिशाऽवसेयः । वैशेषिकेति ।। तथोक्तमनुभाष्ये-

पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान्’ इति ।

तत्र द्वैतपदं वैभवादनेकधा निर्वक्ति- द्वयोर्भाव इत्यादिना ।। स्वार्थिक इति ।। प्रज्ञादेराकृतिगणत्वादित्यर्थः। एवेति व्यापकत्वे । पारतन्त्र्यादिति ।। ‘अस्वातन्त्र्योपमाभेदभेदेष्विव उदाहृतः’ इत्यनुभाष्योक्तेरित्यर्थः ।