यदि चैकमेव ..

सत्योपाधिकृतसत्य भेदवादिनो भास्करस्य मते दोषोद्घाटनम्

मूलम्

- यदि चैकमेव ब्रह्मोपाधिभेदात्संसरति मुच्यते च तदा संसारिणां सर्वदा विद्यमानत्वात् सर्वदा संसार्येव ब्रह्म । अतस्तद्भावोऽपि न मुक्तिः सर्वदोपाधि-सम्बन्धत्वात्तस्य । न च शुद्धस्य नोपाधिसम्बन्ध इति वाच्यम् । उपाधिसम्बन्धस्योपाधि-सम्बन्धकल्पनेऽनवस्थाप्रसङ्गात् । न च तेनैव सम्बन्धेन सम्बद्धस्य । आत्माश्रय-प्रसङ्गात् ।।

तत्त्वमञ्जरी

बहुजीववादं विस्तरान्निराकरोति- यदीति ।। शुद्धस्यासङ्गत्वान्नोपाधिसम्बन्धः । किन्तु मायाशबलत्वेनाशुद्धस्यैवेति च न वाच्यम् । अशुद्धत्वस्योपाधिसम्बन्धापेक्षत्वात् उपाधि-सम्बन्धान्तरापेक्ष उपाधिसम्बन्ध इत्युक्तं स्यात् । तथा कल्पने चानवस्था । नोपाधिसम्बन्धान्तरापेक्ष उपाधिसम्बन्धः । किन्तु तेन उपाधिसम्बन्धेन स्वेन सम्बद्धस्य । ततः शुद्धस्यैव स्वसम्बन्ध इति च न स्यात् । उपाधेरात्मनः सम्बन्धानन्तरमात्मनः सम्बन्धो भवतीत्यात्माश्रयत्वप्रसङ्गात् ।

टीका 

एवमेकजीववादिनां मतस्योक्तान् दोषान् भेदस्य मिथ्यात्वं वदतां बहुजीववादिनां मतेऽप्यतिदिश्य तदुपपादनं कृतम् । इदानी येऽद्वैतवादिनः सत्यमेव जीवब्रह्मणोः बहूनां जीवानां च मिथो भेदमौपाधिकमाहुस्तन्मतमनूद्य युक्तिविरोधेन दूषयति- यदि चेति ।। एकं (कमेव) स्वभावतो भेदरहितम्(तमेव) । उपाधिभेदात् उपाधिकृताद्भेदात् । मयूरव्यंसकादित्वात्समासः। अनेकोपाधिसम्बन्धाद् अनेकजीवभावमापद्येत्यर्थः । संसरति मुच्यते चेति ।। यदुपाध्यवच्छिन्ने निवृत्तकर्मसमुच्चितमैक्यज्ञानं नोत्पन्नं तेन रूपेण संसरति दुःखादिकमनुभवति । यदुपाध्यवच्छिन्ने ज्ञानादिकमुत्पद्यते तेन रूपेण मुच्यते । आत्यन्तिकोपाधिनिवृत्तौ निर्दुःखपरमानन्दरूपब्रह्मभाव-मापद्यत इत्यर्थः ।

अयं च तन्मतोपन्यासोऽधिकाशङ्काप्रदर्शनार्थः । तथा हि । न तावदेकजीववादिनामिवैतेषां जीवेश्वरब्रह्मव्यवस्थाबद्धमुक्तव्यवस्थागुरुशिष्यादिव्यवस्थानामसिद्धिः । जीवेश्वरब्रह्मणां जीवानां चान्योन्यं भेदस्याङ्गीकृतत्वात् । न चाद्वैतश्रुतिविरोधः । भेदस्यौपाधिकत्वेन स्वभावतोऽद्वितीय-त्वात् । न चैवमपि बहुजीववादिनां मायावादिनामुक्तदोषाः प्राप्नुवन्ति । उपाधीनां भेदस्य, अन्यस्यापि प्रपञ्चस्य सत्यत्वाभ्युपगमात् । न च उपाध्यादिसत्यत्वे ज्ञानेन निवृत्त्यनुपपत्तिः । ज्ञानकर्मसमुच्चयनिवर्त्यत्वाङ्गीकारात् इति । यद्यपि तैरेवमुच्यते । तथापि न बद्धमुक्तव्यवस्था जीवब्रह्मव्यवस्था च तेषां सिद्ध्यति । कथम्? ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते’ इत्यादिश्रुतेः संसारिणां सर्वदा विद्यमानत्वाद् ब्रह्मापि संसार्येवेत्यापन्नम्  । तथा च तद्भावमापन्नस्यापि न मुक्तिः । न हि संसारिभावमापन्नो मुक्तो भवति । तथा च बद्धानां जीवानामेव भावो, न मुक्तस्य शुद्धस्य ब्रह्मण इति कथं व्यवस्थाद्वयसिद्धिः ।

ननु संसारिणां सर्वदा विद्यमानत्वेऽपि ब्रह्मणः सर्वदा संसारित्वं कुतः? हेतुहेतुमद्भावाप्रतीतेरित्यत आह- सर्वदेति ।। ब्रह्मैव ह्युपाधिसम्बन्धात् संसरतीति परस्य मतम् । ततश्च संसारिणां सर्वदा विद्यमानत्वात् सर्वदा ब्रह्मण एव उपाधिसम्बन्धोऽस्तीत्युक्तं भवति । उपाधिसम्बन्ध एव च संसारकारणम् । तत्कथं ब्रह्मणो न सर्वदा संसारित्वमिति ।

ननु भवेदेवं बद्धमुक्तव्यवस्थाया जीवब्रह्मव्यवस्थायाश्चानुपपत्तिः, यदि शुद्धस्यैव ब्रह्मण उपाधिसम्बन्धं संसारं च ब्रूमः । किन्तु शुद्धमुपाधिभिरसम्बद्धमेवावतिष्ठते । तत्कथं तद्भावो न मुक्तिरत्यत आह- न चेति ।। कुतो न वाच्यमिति चेदुच्यते-उपाधिसम्बन्धमङ्गीकुर्वाणेन तावद-वश्यं प्रतिसम्बन्धि वक्तव्यम् । न हि सम्बन्धिनौ विना सम्बन्धोऽस्ति । न च जडस्योपाधिसम्बन्धः, तस्य चेतनभेदकारित्वानुपपत्तेः । चेतनस्य शुद्धस्य चेन्नोपाधिसम्बन्धः, तदोपाधिसम्बद्धस्यैव असावङ्गीकार्यः प्रकारान्तराभावात् । उपाधिसम्बन्धरहितं हि शुद्धमुच्यते । अस्तूपाधिसम्बद्ध-स्यैवोपाधिसम्बन्धः को दोष इत्यत आह- उपाधीति ।। जीवभेदनिमित्तोपाधिसम्बन्धार्थत्वेन कल्प्यमान उपाधिसम्बन्धः किमस्मादन्य उतायमेव । नाऽद्यः । सोऽपि सम्बन्धः उपाध्यन्तर-सम्बद्धस्यैवेत्यनवस्थाप्रसङ्गात् । अन्यथाऽयमेवोपाधिसम्बन्धः शुद्धस्य किं नाङ्गीक्रियते । सर्वेऽप्युपाधयः तत्सम्बन्धाश्च अनादय एव, तत्कथमनवस्थेति चेत्, तेषां सम्बन्धानां निमित्त-निमित्तिभावोऽस्ति न वा । आद्ये कथं नानवस्था । द्वितीये तु सम्बन्धाः सर्वेऽपि शुद्ध एवेत्या-पन्नम् । सिद्धविषयत्वान्नानवस्थादोष इति चेन्न । निमित्तनिमित्तिभावावस्थितानन्तोपाधिसम्बन्ध-सद्भावे प्रमाणाभावेन कल्पनामात्रत्वात् । तदिदमुक्तम्- कल्पन इति ।।

द्वितीयं निषेधति- न चेति ।। यो जीवभेदनिमित्तभूत उपाधिसम्बन्धः,  तेनैव सम्बन्धेन सम्बद्धस्य स एव सम्बन्ध इति च नेत्यर्थः । कुत इत्यत आह- आत्मेति ।। उत्पत्तिज्ञप्त्यप्रतिबन्धकत्वान्नायं दोष इति चेन्न । निमित्तनिमित्तिभावाभ्युपगमात् । अन्यथा शुद्धस्यैवोपाधिसम्बन्ध इत्यापत्तेः । किं च तदुपाधिसम्बन्धवति तदुपाधिसम्बन्ध इत्यङ्गीकारे तदुपाधिसम्बन्धस्य आधारे प्रवेश आधेयत्वं चाङ्गीकृतम् । तथा च स्वोत्पत्त्यपेक्षोत्पत्तिवत् स्वज्ञानापेक्षज्ञानवत् स्वस्यैव आधाराधेयत्वेऽपि आत्माश्रयत्वं भवत्येव । अन्यथा यज्ञदत्तः किमिति न स्वात्मानमारोहेत् । केवले स्वस्मिन्नवर्तमा-नाददोष इति चेत्, तर्हि कुण्डलिनि स्वस्मिन् स्वयं वर्तेत । रूपविशिश्व्े च रूपस्य वृत्तिः स्यात् । तस्मात् उपाधिसम्बद्धस्यैव उपाधिसम्बन्धाङ्गीकारेऽनवस्थादिप्रसङ्गात् शुद्धस्यैव उपाधिसम्बन्ध इत्यङ्गीकार्यम् । तथा च न बद्धमुक्तादिव्यवस्थासिद्धिरिति व्यर्थ एव बहुजीवाभ्युपगमः ।

भावबोधः

भास्करमते जीवब्रह्मणोर्भेदस्य सत्यत्वादेकमेवेत्येतद्व्याचश्व्े- स्वभावत इति ।। ननु कथमुपाधि-भेदादित्यस्योपाधिकृतभेदादिति व्याख्यानम् । ‘शाकपार्थिवादीनाम्’ इत्येतदविषयत्वेन समासानुपपत्तेरित्यत आह- मयूरव्यंसकादित्वादिति ।। उपाधिभेदेनापि कथं शुद्धस्य संसार इत्यतस्तात्पर्यमाह- अनेकेति ।। ज्ञान-कर्मेति ।। यद्यपि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमेनाऽविद्यकत्वलक्षणमिथ्यात्वाभावे प्रपञ्चस्य ज्ञानेन निवृत्त्ययोगः । तथापि कर्मरूपसहकारिसामर्थ्यात् तत्समुच्चितं ज्ञानं सत्यमपि निवर्तयतीति भावः । न बद्धमुक्त-व्यवस्था जीवब्रह्मव्यवस्था चेति ।। ‘सर्वदा संसार्येव ब्रह्म’ इत्यनेन जीवब्रह्मव्यवस्थाऽनुपपत्तेः, ‘अतस्तद्भा-वोऽपि न मुक्तिः’ इत्यनेन बद्धमुक्तव्यवस्थाऽनुपपत्तेश्चोक्तत्वादिति भावः । ननु शुद्धातिरिक्तस्योपाधि-सम्बन्धरहितस्य चेतनस्योपाधिसम्बन्धो भविष्यति । अतः कथं प्रकारान्तराभाव इत्यत आह- उपाधिसम्बन्ध-रहितमिति ।। अनादय एवेति ।। तथा चोत्पत्त्यप्रतिबन्धकत्वादनवस्था न दोष इति भावः । नन्वन्यविशिश्व्े स्वस्य वृत्त्यसम्भवेऽपि स्वविशिष्टेऽन्यस्मिन्नुपाधिसम्बन्धस्य वृत्तिः स्यादित्यत आह- रूपविशिश्व्े चेति ।।

भावदीपः

एकत्वगुणकमिति भ्रमनिरासायाऽह- एकं स्वभावतो भेदरहितमिति ।। मयूरेति ।। द्वितीयाद्यपादे ‘मयूरव्यंसकादयश्च’ इति सूत्रे मयूरव्यंसकादयः शब्दास्तत्पुरुषसंज्ञा भवन्तीत्युक्तेरिति भावः । ननु जीवगतौ बन्धमोक्षाविति प्रसिद्धिः  कथमित्यत  आह- अनेकेति ।।  निवृत्तकर्मसमुच्चितमिति ।।  एतस्य कृत्यमग्रे व्यक्तम् । संसरति मुच्यते चेत्येतद्व्याहतिनिरासाय कारणोक्तिपूर्वं व्याचश्व्े- यदुपाधीति ।। संसरतीत्यस्य व्याख्या- दुःखादिकमनुभवतीति ।। मुच्यत इत्यस्य व्याख्या- आत्यन्तिकेति ।। सत्यभेदाभेदवादिमतेऽप्युक्ता एव दोषा इति वाच्ये तन्मतोपन्यासः कुत इत्यत आह- अयं चेति ।। भेदेत्यादिवाक्यं व्याचष्टे- यद्यपीत्या-दिना ।। ब्रह्मापि संसार्येवेत्यापन्नमिति ।। तथा च कथं जीवब्रह्मव्यवस्था, जीव एवास्ति न ब्रह्मेत्यापन्नमिति भावः । ‘अतस्तद्भावोऽपि न मुक्तिः’ इत्यंशोक्तां बद्धाद्यव्यवस्थां च व्यनक्ति- तथा च तद्भावमिति ।। उत्तरवाक्यमवतारयति- ननु भवेदेवमिति ।। प्रकारान्तराभावादिति ।। जडस्य, उपाधिसम्बद्धस्य चेतनस्य वोपाधिसम्बन्ध इत्युक्तप्रकारद्वयात्प्रकारान्तराभावादित्यर्थः । ननूपाधिसम्बन्धहीनस्यास्तूपाधिसम्बन्धः । अतः कथं प्रकारान्तराभाव इत्यत आह- उपाधिसम्बन्धरहितं हि शुद्धमुच्यत इति ।। ‘शुद्धमुपाधिसम्बन्ध-रहितमेवावतिष्ठते’ इति त्वयैवोक्तेरिति भावः । ननु त्रिचतुरोपाधिसम्बन्धानन्तरमुपाधिसम्बन्धः शुद्धस्यास्तु ततो नानवस्थेत्यत आह- अन्यथेति ।। त्रिचतुरकक्षानन्तरं शुद्धस्यैवोपाधिसम्बन्धाङ्गीकारे । अयमेव प्राथमिक एवेत्यर्थः । सिद्धविषयत्वादिति ।। बीजाङ्कुरानवस्थावत्प्रमितविषयत्वादित्यर्थः । द्वितीयमिति ।। उतायमेवेति प्राग्विकल्पितमित्यर्थः । फलितार्थमाह- स एव सम्बन्ध इति ।। जीवभेदकोपाधिसम्बन्ध एव तदुपाधिसम्बन्धो नोपाध्यन्तरसम्बन्धे तदन्योपाधिसम्बन्धकल्पनेत्यर्थः । अन्यथेति ।। सर्वोपाधिसम्बन्धानामन्योन्यानपेक्षत्वे शुद्धेनैव सर्वेषां सम्बन्धः इत्यस्याऽपन्नत्वादिति भावः । यत्किञ्चिद्वस्तुना विशिश्व्े स्वस्य वर्तनं न दोषायेति भावेन शङ्कते- केवल इति ।। यत्किञ्चिद्विशिष्ट इत्यत्र स्वान्ययत्किञ्चिद्विशेषणविशिष्टेति वाऽर्थः । स्वविशिश्व्े स्वस्य वर्तनं न दोषायेति वा । आद्य आह- कुण्डलिनीति ।। अन्त्य आह- रूपविशिष्ट इति ।।

वाक्यार्थदीपिका

(श्री.टि.) 

ननु भास्करमते जीवब्रह्मणोर्भेदस्य सत्यत्वादेकमेवेति कथमुक्तमित्यतस्तद्व्याचश्व्े- स्वभावत इति ।। उपाधीनां भेदादित्यन्यथाप्रतीतिनिवारणाय मयूरवद्व्यंसको मयूरव्यंसक इतिवन्मध्यमपदलोपी समा-सोऽयमित्याह-उपाधिकृतादिति ।। मयूरव्यंसकादित्वात् तद्गणस्थत्वात् । तस्याऽकृतिगणत्वादिति भावः । ननूपाधिकृतभेदेनापि कथं शुद्धस्य संसार इत्यत आह- अनेकेति ।। तामेवाधिकाशङ्कां दर्शयति- तथा हीत्या-दिना ।। उक्तदोषा इति ।। ‘न च मिथ्योपाधिकृतो भेदः क्वापि दृष्टः’ इत्यादिनोक्ता इत्यर्थः । निवृत्त्यनुपपत्ति-रिति ।। यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमित्यङ्गीकारादिति भावः । सत्यं यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमिति नियमेन अज्ञानकार्यत्वलक्षणमिथ्यात्वाभावे प्रपञ्चस्य ज्ञानेन निवर्त्यत्वायोग इति । तथापि कर्मरूपसहकारिसामर्थ्यात्तत्समुच्चितं ज्ञानं सत्यमपि निवर्तयिष्यत्येव । दूरगमनादिनियमविशेषविशिष्टं सेतुदर्शनं ब्रह्महत्यादेरिवेत्याशयेनाऽह- ज्ञानकर्मसमुच्चयेति ।। इत्यधिकाशङ्काप्रदर्शनार्थमिति सम्बन्धः । तथा च बद्धानामित्यादि ।। जीवानामेव भावो न ब्रह्मण इत्यनेन जीवब्रह्मव्यवस्थाया असिद्धिस्सर्वदा संसार्येव ब्रह्मेत्यनेन सूचिता । बद्धानामेव भावो न मुक्तस्येत्यनेन बद्धमुक्तव्यवस्थाया असिद्धिरतस्तद्भावोऽपि न मुक्तिरित्यनेन सूचितेति ज्ञातव्यम् । अवतिष्ठत इत्यनन्तरमितीति शेषः । प्रतिसम्बन्धीति ।। उपाधिसम्बन्धः कस्येति पृश्व्े अस्येति प्रतिसम्बन्धि किमपि वक्तव्यमित्यर्थः । जडस्येति ।। तथा च तदेव प्रतिसम्बन्धीति भावः । तस्य उपाधिसम्बद्धस्य जडस्य । अनुपपत्तेरिति ।। व्यधिकरणत्वादिति भावः । ननु शुद्धातिरिक्तस्योपाधिसम्बन्ध-रहितस्य चेतनस्योपाधिसम्बन्धो भविष्यति । अतः कथं प्रकारान्तराभाव इत्यत आह- उपाधिसम्बन्धरहितं हीति ।। तथा च यदुपाधिसम्बन्धरहितं तस्यैव शुद्धत्वेन शुद्धातिरिक्तस्योपाधिसम्बन्धरहितस्य चेतनस्यैवाभावा-दुपाधिसम्बद्धस्यैवोपाधिसम्बन्धोऽङ्गीकार्य  इत्यर्थः  । अस्माद्  जीवभेदनिमित्तोपाधिसम्बन्धात् । ननु किञ्चिद्दूरं गत्वा स उपाधिसम्बन्धः शुद्धस्येत्यङ्गीक्रियते, अतो नानवस्थेत्यत आह- अन्यथेति ।। अयमेवेति ।। प्राथमिको जीवभेदनिमित्तोपाधिसम्बन्ध एवेत्यर्थः । अनादय एवेति ।। तथा चोत्पत्त्यप्रतिबन्धकत्वान्नानवस्थादोष इति भावः । कथं नानवस्थेति ।। निमित्तनिमित्तिभावोपेतोपाधिसम्बन्धपरम्परयेत्यर्थः । द्वितीये त्विति ।। निमित्तनिमित्तिभावमनङ्गीकृत्य उपाध्यन्तरसम्बन्धे उपाधिसम्बन्धस्यानङ्गीकारे सर्वेऽप्युपाधिसम्बन्धाः शुद्ध एवेत्यापन्नं, ततश्च तद्भावमापन्नस्य न मुक्तिरिति भावः । सिद्धेति ।। प्रामाणिकेत्यर्थः । अभ्युपगमादिति ।। तथा च तत्प्रतिबन्धकत्वेनैवाऽत्माश्रयत्वं दोष इति भावः । अन्यथेति ।। निमित्तनिमित्तिभावानभ्युपगम इत्यर्थः। स्वस्यैवाधाराधेयत्वेऽपीति ।। तथा चाधाराधेयभावप्रतिबन्धकत्वेनैवात्माश्रयत्वस्य दोषत्वमिति भावः । तदनङ्गीकारे बाधकमाह- अन्यथेति ।। नन्वन्याविशिश्व्े केवले यज्ञदत्ते यज्ञदत्तस्यावर्तनात्तत्र तदङ्गीकारे आत्माश्रयत्वं दोषस्स्यादेव । न चैवं प्रकृते । उपाधिसम्बन्धविशिश्व्े उपाधिसम्बन्धाङ्गीकारेण केवले उपाधि-सम्बन्धरहिते स्वस्मिन्नुपाधिसम्बन्धस्यावर्तनात् तत्सद्भावानङ्गीकारादिति यावत्, आत्माश्रयत्वं न दोष इति शङ्कते- केवल इति ।। तर्हीति ।। अन्याविशिश्व्े केवले यज्ञदत्ते यज्ञदत्तस्यावर्तनात्तत्र तदङ्गीकारे आत्माश्रयत्वं दोषश्चेत्तर्हि कुण्डलविशिष्टे स्वस्मिन् स्वयं वर्तेत । तथा च प्रकृत इव तत्राप्यात्माश्रयत्वं न दोषः स्यात् । यदि (श्री.टि.) तत्र आत्माश्रयत्वं दोषः तर्हि प्रकृतेऽपि तथेति भावः । नन्वन्यविशिश्व्े स्वस्मिन् स्वस्य वृत्त्यसम्भवेऽपि स्वविशिष्टेऽन्यस्मिन् स्वयं वर्तताम् । तथाचोपाधिसम्बन्धविशिष्टेऽन्यस्मिन् शुद्धे उपाधिसम्बन्धस्य वृत्तिः स्यादित्यत आह- रूपविशिष्ट इति ।। रूपविशिष्टेऽन्यस्मिन् घट इत्यर्थः । तथा च तत्राऽत्माश्रत्वं यथा दोषस्तथा प्रकृतेऽपीति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.) 

एकमेवेत्येवशब्दस्य तन्मते भेदस्य तत्सत्यतायाश्च सत्त्वेन तन्निरासार्थकत्वासम्भवादेवशब्दं प्रकारान्तरेण व्याचष्टे- स्वभावतो भेदरहितमेवेति ।। ननु कथमुपाधिभेदादित्यस्योपाधिकृतभेदादिति व्याख्या-नम् । शाकपार्थिवादित्वाभावेन ‘शाकपार्थिवादीनाम्’ इत्येतदविषयत्वेन समासानुपपत्तेरित्यत आह- मयूर-व्यंसकादित्वादिति ।। ननूपाधिकृतभेदादपि शुद्धस्य कथं संसार इत्यतस्तात्पर्यमाह- अनेकेति ।। अधिका-शङ्केति ।। सत्यामेव तस्यामतिदेशनियमनात्तदप्रदर्शनेऽतिदेशानुपपत्तेरिति भावः । ज्ञानकर्मसमुच्चयेति ।। यद्यपि ज्ञानमज्ञानस्यैव निवर्तकमिति परेण नियमाङ्गीकारान्न सत्यस्य तन्निवर्त्यत्वं सम्भवति । तथापि कर्मरूप-सहकारिसामर्थ्यात्सत्यस्यापि ज्ञानं निवर्तकं भवत्येव दूरगमनादिविशिष्टसेतुदर्शनेन सत्यस्यापि ब्रह्महत्यादिपापस्य निवृत्तिदर्शनादिति भावः । न बद्धमुक्तव्यवस्थेति । सर्वदा संसार्येव ब्रह्मेत्यनेन जीवब्रह्मव्यवस्थाया, अतस्तद्भावो न मुक्तिरिति बद्धमुक्तव्यवस्थायाश्चानुपपत्तेर्मूले उक्तत्वेन द्वयोरुपादानमित्याशयः । न हीति ।। अन्यथा सर्वदा तद्भावापन्नत्वेन सर्वदा मुक्तत्वप्रसङ्गादिति भावः । न हीति ।। अन्यथा शशशृङ्गनृशृङ्गयोरपि तत्प्रसङ्गादिति भावः । असाविति ।। उपाधिसम्बन्ध इत्यर्थः । ननु शुद्धभिन्नस्योपाधिसम्बन्धरहितस्योपाधिसम्बन्धो भविष्यतीत्यत आह- प्रकारान्तरेति ।। उपाधिसम्बन्धरहितत्वे शुद्धाद्भेदस्यैवानुपपत्तेरित्यर्थः । एतदेवाऽह- उपाधिसम्बन्धरहितं हीति ।। ननु शुद्धस्यैव तदुपाधिसम्बन्धाङ्गीकारेणोपाधिसम्बन्धस्यैवोपाधिसम्बन्धानङ्गी-कारान्नानवस्थेत्यत आह- अन्यथेति ।। अविशेषादिति भावः । तत्कथमिति ।। उत्पत्त्यप्रतिबन्धकत्वादिति भावः । कथमिति ।। निमित्तनैमित्तिकभावप्रतिबन्धकत्वेनैव तस्यादूषणत्वसम्भवादिति भावः । सिद्धेति ।। तस्या अपि दूषणत्वे बीजाङ्कुरपरम्पराया अपि तत्प्रसङ्गादिति भावः । विशिष्टरूपेण भेदसत्त्वाद्विषमोऽयं दृष्टान्त इति शङ्कते- केवल इति ।। ननु कुण्डलिनि स्वस्मिन् स्वस्य वृत्तिप्रसङ्गस्तदा प्रसज्येत, यद्यन्यविशिश्व्े स्वस्मिन् स्वस्य वृत्तिमभ्युपगच्छामः । किं नाम स्वविशिष्टेऽन्यस्मिन् स्वस्येत्यत आह- रूपविशिश्व्े चेति ।।

लघुप्रभा

(व्या.टि.)

सत्योपाधिकृतभेदवादिनां बहुजीववादित्वेऽप्युक्तैकजीववादिदोषाविषयत्वात्पृथग्युक्तिविरोधेन दूषयिष्यन् वृत्तमनुवक्ति- एवमिति ।। उपाधिभेदाङ्गीकारादेकमेवेत्यवधारणमनभिमतस्वाभाविकभेदव्यावृत्ति-परतया व्याचश्व्े- स्वभावत इति ।। उपाधीनां भेदादिति भ्रमं वारयति- उपाधिकृतादिति ।। नन्वेवं कृतपदलोपेन कथं भेदपदेन समास इत्यत आह- मयूरव्यंसकादित्वादिति ।। ‘अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु बोध्यः’ इति  वैयाकरणाभियुक्तप्रयोगात्तस्य चाऽकृतिगणत्वात्समाससम्भवः    वस्तुतस्तु दिङ्मात्रदर्शन-(व्या.टि.) मिदम् । शाकपार्थिवादित्वान्मध्यमपदलोपीह समासो बोध्य इति रहस्यम् । उपाधिसम्बन्धस्य साक्षात्संसारान्मुक्त्यहेतुत्वादपेक्षितं पूरयति- अनेकजीवभावमिति ।। संसारमुक्ती विरुद्धे कथमेकत्र स्याता-मित्यतो व्यवस्थापयति- यदुपाध्यवच्छिन्न इति ।। मुच्यत इति व्याचश्व्े- आत्यन्तिकेति ।। अधिकेति ।। एकजीववादादिति शेषः । अधिकशङ्कां प्रदिदर्शयिषुरुक्तदोषानधरीकरोति- न तावदित्यादिना ।। एकजीव-वादिनामिवेति व्यतिरेकदृष्टान्तः । असिद्धिविरहहेतुं दर्शयति- भेदस्येति ।। अद्वितीयत्वादिति ।। श्रुत्यर्थस्यैव-मेवोपगमान्न विरोध इति भावः । उक्तदोषाप्राप्तियुक्तयुक्तिं दर्शयति- सत्त्वाभ्युपगमादिति ।। समुच्चयेति ।। क्रमुकपर्णचूर्णसमुदायस्य  मदकारितावत्समुदायस्य  कार्यविशेषहेतुतोपपत्तिरिति  भावः    शङ्काशङ्कूनुद्धरति- यद्यपीति ।। न हीति ।। व्याघातादिति भावः । न संसारिसत्त्वमात्रेण ब्रह्मणः संसार आपाद्यते । किन्तु तत्कारणोपाधिसम्बन्धप्रसञ्जनद्वारेति नानुपपत्तिरित्याह- ब्रह्मैव हीति ।। ब्रह्मण उपाधिसम्बन्धेऽपि न शुद्धस्योपाधिसम्बन्ध इति व्यवस्थाद्वयोपपत्तिं शङ्कते- नन्विति ।। आवश्यकतामुपपादयति- न हीति ।। चेतनभेदेति ।। व्यधिकरणस्य कार्यजननाशक्तेरित्यर्थः । प्रकारान्तरेति ।। ‘परस्परविरोधे तु न प्रकारान्तर-स्थितिः’ इति न्यायादित्यर्थः । व्याघाताच्चेत्याह- उपाधीति ।। अन्यथेति ।। शुद्धस्योपाधिसम्बन्धाङ्गीकार इत्यर्थः । अयमेवेति ।। आद्य एवेत्यर्थः । तत्कथमिति ।। उत्पत्तिज्ञप्त्यप्रतिबन्धादित्यर्थः । कथं नेति ।। निमित्तनिमित्तिभावे परस्परापेक्षासद्भावादिति भावः । उपाधिसम्बन्धानां निमित्तनिमित्तिभावाभावे सम्बन्धस्य सम्बन्ध इति रिक्तं स्यादित्याह- शुद्ध एवेत्यापन्नमिति ।। आद्यमङ्गीकृत्यानवस्थां परिहरति- सिद्धेति ।। कल्पनामात्रत्वादिति मात्रपदेन प्रमाणं व्यवच्छिनत्ति । इतिशब्दाध्याहारेण योजयति- इति नेति ।। आत्माश्रय-मुद्दिधीर्षुः शङ्कते- उत्पत्तीति ।। अन्यथेति ।। तद्भावानभ्युपम इत्यर्थः । भवत्येवेति ।। स्थितावपि स्वापेक्षाया-मात्माश्रय इत्यर्थः । विपक्षे बाधकमाह- अन्यथेति ।। विशिश्व्े शुद्धस्य वृत्तावपि शुद्धे शुद्धस्य वृत्तेर्नाऽत्माश्रय इति शङ्कते- केवलेति ।। अनिश्व्ं प्रसञ्जयित्वोपसंहरति- तस्मादिति ।। शुद्धस्यैवोपाधिसम्बन्ध इति पक्षं परिशेष्य तमपि दूषयति- तथा चेति ।। व्यर्थ एवेति ।। विगतप्रयोजनो विरुद्धप्रयोजनश्चेत्यर्थः ।