न हि शुक्तिज्ञो ..
आरोपाधिष्ठानत्वपक्षे ब्रह्मणो ज्ञानेन सर्वविज्ञान स्यासम्भवोपपादनम्
मूलम्
- न हि शुक्तिज्ञो रजतज्ञ इत्युच्यते । विरोधात्तयोर्ज्ञानयोः । नेदं रजतमित्य-रजतज्ञो हि शुक्तिज्ञो भवति । रजतज्ञश्चेन्न शुक्तिज्ञः । न हि तज्ज्ञस्तदभावज्ञो भवति । तदभावस्य तज्ज्ञानपूर्वकत्वं चान्यत्र तस्य सत्त्वादेव दृष्टम् । तदनङ्गीकारे तदेव न युज्यते ।
तत्त्वमञ्जरी
न हि शुक्तिज्ञस्तदध्यस्तरजतज्ञ इत्युच्यते । तयोर्ज्ञानयोर्विरोधं प्रतिपादयति- नेद-मिति ।। न हि तज्ज्ञस्तदभावज्ञो भवति । अयमर्थः- न हि भ्रान्त्या रजतानुभवी तत्काल एव नेदं रजतमिति तदभावज्ञो भवति । नन्वस्ति घटाख्यप्रतियोगिज्ञानपूर्वकत्वं घटाभावज्ञानस्येत्यत आह- तदभावस्येति ।। तदभावस्य तज्ज्ञानपूर्वकत्वमेव न युज्यते, न हि जगतः क्वापि सद्भावमङ्गीकरोति मायावादीति । स्यादेतत् । खरविषाणं नास्तीत्यत्र तदभावस्य तज्ज्ञानपूर्वकत्वमन्यत्र तस्य सत्त्वाभावेऽपि दृष्टम् । अतः कथं सा व्याप्तिः स्यादित्युच्यते । तज्ज्ञानं नाम तद्भावज्ञानं हि विव-क्षितम् । न हि खरविषाणाभावज्ञानं कुत्रापि तद्भावज्ञानपूर्वकम् ।
टीका
नन्वारोपस्य तावदुद्बुद्धसंस्कारकारणकत्वमन्वयव्यतिरेकसिद्धम् । संस्कारोद्बोधस्य चाधिष्ठानज्ञानं कारणम् । किञ्चाध्यस्तं ज्ञायमानमधिष्ठानसम्भिन्नतयैव ज्ञायते न तु केवलम् । तत्कथं सत्यज्ञानेन मिथ्याज्ञानं न भवतीत्युच्यत इत्यत आह- न हि शुक्तिज्ञ इति ।।
अयमभिसन्धिः- अत्र हि ब्रह्मज्ञानं नाम तद्याथात्म्यज्ञानमेव विवक्षितं न तु साधारणाकारम् । तस्य सर्वार्थज्ञानेषु स्वभावसिद्धत्वात् । अत्र चापूर्वज्ञानोत्पादनायाभिमुखीकर्तुमर्थवादस्योपन्या-सात् । ततश्च येन ब्रह्मणा नित्यशुद्धबुद्धाद्वितीयतया विज्ञातेन सर्वं विज्ञातं भवतीति वाक्यार्थः स्यात् । न चासावारोपपक्षे सम्भवतीति । अधिष्ठानयाथात्म्यज्ञानेऽध्यस्तज्ञानस्य क्वाप्यदर्शना-दिति ।
शुक्तिज्ञः शुक्तिरिति ज्ञानवान् । रजतज्ञः तत्रारोपितरजतज्ञः । ननु यः शुक्तियाथात्म्यं जानाति स रजतं नास्तीति जानात्येव । तत्कथमेतदित्याशङ्कानिरासार्थं ‘न हि शुक्तिज्ञो रजतज्ञो भवति’ इति वक्तव्य इत्युच्यत इत्युक्तम् । एवं सति रजताभावज्ञोऽसौ न रजतज्ञ इत्युच्येत । एवं ब्रह्मज्ञानेन सर्वाभावज्ञ इत्युच्येत न तु सर्वज्ञ इति । अन्यथोपचारप्रसङ्गादिति । ननु ब्रह्मज्ञानं नाम यथा ब्रह्मयाथात्म्यज्ञानं तथा सर्वज्ञानमपि । सर्वस्य याथात्म्यं च मिथ्यात्वमिति तथाज्ञानमेव सर्वज्ञानम् । मैवम् । कर्मादिज्ञानार्थमनेकवेदाभ्यासादिना वृथा श्रान्तोऽसि । किन्तु ब्रह्मैव सम्यग् ज्ञातव्यम् । तेनैव ज्ञातेन सर्वं कर्मादिकं ज्ञायत इति कर्मादिविषयवेदज्ञानफलस्य ब्रह्मज्ञानसाध्यत्वं ह्यत्रोच्यते । न हि कर्मादिविषयस्य वेदस्य कर्मादिमिथ्यात्वज्ञानं फलम् । अन्यथा वृथा कर्मादिज्ञानेन श्रान्तोऽसि तस्य मिथ्यात्वादित्येव वक्तव्यं स्यात् । किमनेन बहुनोक्तेनेति ।
नन्वधिष्ठानयाथात्म्यज्ञानेऽध्यस्तज्ञानं न भवतीत्यसत् । बीजाभावात्, अदर्शनमात्रस्यान्यथा-सिद्धत्वादित्यत आह- विरोधादिति ।। विरोधमेव प्रकटयति- नेदमिति ।। यः शुक्तिज्ञः शुक्तिकेयमिति ज्ञानवानिति यावत्, सोऽरजतज्ञो हि भवति । तत्रारोपितं रजतं न पश्यतीति यावत् । किन्तु नेदं रजतमित्येव पश्यतीति योजना । सोपाधिकभ्रमेष्वधिष्ठानयाथात्म्य-ज्ञानेऽध्यस्तदर्शने विद्यमानेऽपि नेतिज्ञानानुवृत्तिरस्तीति ज्ञापयितुमिदमुक्तम् । एवमधिष्ठान-ज्ञानवतोऽध्यस्तज्ञानाभावमुक्त्वाऽध्यस्तज्ञानवतोऽधिष्ठानयाथात्म्यज्ञानाभावमाह- रजतज्ञश्चे-दिति ।। एवमनयोर्ज्ञानयोः परस्परपरिहारेणैव वृत्तेर्विरोध इति । नन्वेतयोः परस्परपरिहारेणैव वृत्तेरपि किं निबन्धनमित्यत आह- न हीति ।। भावभावयोर्हि साक्षाद्विरोधो व्याघातप्रसङ्गात् । तद्द्वारान्ययोरिति हि स्थितिः । शुक्तिकारजते चान्योन्याभावरूपे । अतस्तद्द्वारा तज्ज्ञानयोरपि विरोध इति ।
ननु घटाभावो हि घटज्ञाने सत्येव ज्ञायते । प्रतियोगिज्ञानकार्यत्वादभावज्ञानस्य । तत्कथमुच्यते ‘न हि तज्ज्ञस्तदभावज्ञो भवति’ इति, तत्राह- तदभावस्येति ।। ज्ञानोपलक्षणमेतत् । अन्यत्र देशान्तरे कालान्तरे च । तस्य प्रतियोगिनः सत्त्वादेव । देशकालान्तरस्थितप्रतियोगिज्ञानमेव देशकालान्तरस्थिताभावज्ञानस्य कारणं न तु तत्रैव देशे काले चेत्यर्थः ।
एतदुक्तं भवति- शुक्तिकारजतयोरन्योन्याभावरूपयोस्तादात्म्यं विरुद्धम् । तद्द्वारा तज्ज्ञानयोरपि विरोध इति हि प्रागभिप्रेतम् । तथा च यस्य यदा यत्र शुक्तिरितिज्ञानं तस्यैव तदैव तत्रैव रजतज्ञानं न सम्भवतीत्युक्तं स्यात् । न चास्य देशान्तरादिव्यवस्थितप्रतियोग्यभाव-ज्ञानयोर्व्यभिचारः शङ्कार्ह इति । अन्यत्र तस्य सत्त्वादेवेति कुत इत्यत आह- तदिति ।। देश-कालान्तरस्थितप्रतियोगिज्ञानं देशकालान्तरस्थिताभावज्ञानकारणमित्यनङ्गीकारे तद्देशकाल-योरेव प्रतियोगिज्ञानाङ्गीकारे तदभावज्ञानमेव न युज्यते । ये ह्यभावज्ञानस्यानुपलब्धिं स्वरूपेण कारणमाचक्षते तेषामनुपलब्धेरभावात् । अनुमानपक्षे स्वरूपासिद्धेः । प्रत्यक्षाभाववादिभिरपि सत्यामेवानुपलब्धाविन्द्रियस्याभावे सामर्थ्याभ्युपगमात् । न हि तत्रैव घटं पश्यंस्तदभावं पश्यति । तथात्वे वा न कुत्रापि विरोधः स्यादिति । तदेवं नोपादानोपादेयभावेनैकविज्ञानेन सर्व-विज्ञानं भवतीति स्थितम् ।
भावबोधः
सत्यज्ञानेन मिथ्याज्ञानं न भवतीत्यनेन सत्यमिथ्याविषयकज्ञानयोः कार्यकारणभावो निषिध्यते तथ्यमिथ्याभूतयोरेकज्ञानविषयत्वं वा । आद्य आह- आरोपस्येति ।। द्वितीये त्वाह- किञ्चेति ।। सर्वार्थज्ञाने-ष्विति ।। परमते सन् घटः सन् पट इत्यादिप्रतीतेरनुगतसद्रूपब्रह्मविषयत्वादिति भावः । ननु सर्वाभावज्ञोऽपि प्रतियोगितया सर्वं जानात्येव । अतो ब्रह्मज्ञानेन सर्वज्ञानं भवतीति श्रुतौ वक्तुं शक्यत इत्यत आह- अन्य-थेति ।। सदसत्त्वा(त्ता)विवक्षया सर्वविषयकत्वरूपगुणयोगेन सर्वाभावज्ञान एव सर्वविज्ञानपदप्रयोगे उपचार-प्रसङ्गादित्यर्थः । औपचारिकत्वपरिहाराय शङ्कते- ननु ब्रह्मज्ञानमिति ।। इति योजनेति ।। तथा च यत्र गोत्वं न तत्राश्वत्वं यत्र चाश्वत्वं न तत्र गोत्वमितिवत्, यः शुक्तिरिति ज्ञानवान् नासौ तत्रारोपितरजतज्ञान-वान् । यः शुक्तिकारोपितरजतज्ञानवान् नासौ शुक्तिरिति ज्ञानवानिति विरोधः प्रकटनीयः । अत्र तु यो रजतज्ञो न भवति स शुक्तिज्ञ इत्युच्यत इति कथमनेन विरोधप्रकटनमिति शङ्कावकाशो नेति भावः । नन्वरजतज्ञ इत्यादिनैव विरोधस्य प्रकटितत्वात् नेदं रजतमितीत्यंशः किमर्थ इत्यत आह- सोपाधिकभ्रमेष्विति ।। क्वाप्य-दर्शनेऽपि दोषानुवृत्त्याऽनिवृत्तभ्रमेष्वित्यर्थः । तथा चाधिष्ठानयाथात्म्यज्ञानेन पटुभूताध्यस्तज्ञानस्य विरोधः प्राग्विवक्षित इत्युक्तं भवतीति भावः । अन्यत्रेत्यस्य देशमात्रपरत्वे समानदेशभिन्नकालीनप्रतियोगिज्ञानस्य कारणत्वेनावधारणानुपपत्तिः । कालमात्रपरत्वे समानकालभिन्नदेशप्रतियोगिज्ञानस्य जनकत्वेन सैवानुप-पत्तिरित्यत आह- देशान्तरे कालान्तरे चेति ।। न तु तत्रैवेति ।। अनेनान्यत्रैवेत्येवकारसम्बन्धः सूचितो भवति । अत्र ह्यभावदेशकालयोः प्रतियोगिसत्त्वं व्यवच्छेद्यं न तु देशकालान्तरयोस्तदसत्त्वम् । देशकालान्तरयोः सतोऽपि प्रतियोगिनो ज्ञानस्य कारणत्वादिति भावः । नन्वनेन तज्ज्ञस्तदभावज्ञो नेत्यत्र शङ्कितो व्यभिचारो न परिहृत एवेत्यत आह- एतदुक्तं भवतीति ।। भिन्नदेशकालीनाभावप्रतियोगिज्ञानयोः कार्यकारणभावाङ्गी-कारस्यानुपलब्धिरूपकारणविघटकाभावेनाभावज्ञानाभावापादकत्वायोगादाह- तद्देशकालयोरेवेति ।। अभाव इति ।। अभावज्ञाने कारणत्वाभ्युपगमादित्यर्थः ।
भावदीपः
अधिष्ठानज्ञानेनाध्यस्तज्ञानं नेति कोऽर्थः, अधिष्ठानज्ञानमध्यस्तज्ञाने हेतुर्नेति वा अधिष्ठानज्ञान-मध्यस्तविषयकं नेति वा । न द्वयमपि युक्तमिति शङ्कते- नन्वारोपस्येति ।। किञ्चेति च ।। सम्भिन्नतयै-वेति ।। अभेदेनैवेत्यर्थः । शङ्कानिरासस्यास्फुटत्वादाह- अयमभिसन्धिरिति ।। तस्येति ।। साधारणाकारब्रह्म-ज्ञानस्य सर्वपदार्थविषकज्ञानेष्वधिष्ठानज्ञानत्वहेतुना स्वभावसिद्धत्वादित्यर्थः । अस्तु तादृशज्ञानमेव ज्ञानं येनाश्रुतं श्रुतमित्यर्थवादे विवक्षितमित्यत आह- अत्र चेति ।। गुरूपदिष्टज्ञानान्यज्ञानोत्पादनायेत्यर्थः । इत्युच्यत इत्यस्य शङ्कापूर्वं कृत्यमाह- ननु यः शुक्तीत्यादिना ।। अन्यथेति ।। ब्रह्मज्ञानेन सर्वज्ञानं नाम सर्वं नास्तीति ज्ञानाभिप्राये अश्रुतं श्रुतं भवतीत्यादेर्नास्तीति श्रुतमित्यर्थप्राप्त्योपचारप्रसङ्ग इत्यर्थः । नोपचारप्रसङ्गोऽस्यैवार्थस्य मुख्यत्वादिति भावेन शङ्कते- ननु ब्रह्मज्ञानं नामेति ।। सर्वज्ञानमपीति ।। सर्वयाथात्म्यज्ञानमित्यनुकर्षः । किमनेनेति ।। नवकृत्व उपदेशकथनेनेत्यर्थः । अन्यथासिद्धत्वादिति ।। अधिष्ठानयाथात्म्यज्ञाने नाध्यस्तज्ञानमित्यस्यादर्शन-मात्रस्याध्यस्तवस्तुनोऽभावादेव युक्तत्वादित्यर्थः । अधिष्ठानाध्यस्तज्ञानयोर्विरोधस्य स्पष्टत्वान्नेदमित्यादिना तदुपपादनं (किमर्थं कृतं इ) कुत इत्यत आह- सोपाधिकेति ।। इदमुक्तमिति ।। नेदमित्यादिकमुक्तमि-त्यर्थः । यद्वा न हि सत्यज्ञानेन मिथ्याज्ञानं भवतीत्येतावतैव पूर्तौ न हि शुक्तिज्ञ इत्याद्युक्तिः किमर्थेत्यत आह- सोपाधिकभ्रमेष्विति ।। व्याघातेति ।। परस्परविरहानात्मकत्वे प्रतियोग्यनुयोगिभावव्याहतिप्रसङ्गादि-त्यर्थः । यद्वा तयोः साक्षाद्विरोधाभावेऽपि तन्मूलत्वात्सर्वविरोधानां विरोधमात्रं व्याहन्येतेत्यर्थः । अन्ययो-रिति ।। परस्परविरहव्याप्ययोरित्यर्थः । यद्वा भावाभावविषयकज्ञानयोरित्यर्थः । अन्योन्याभावरूपेति ।। भेदो ह्यत्रान्योन्याभावशब्दार्थः । ननु देशान्तरादौ क्वाप्यसतोऽपि नृशृङ्गादेरभावोऽन्यत्र ज्ञायत एव, तत्कथमन्यत्र सत्त्वादेव दृष्टमित्युक्तिरित्यतो भावमाह- एतदुक्तं भवतीति ।। रजतज्ञानमिति ।। रजततादात्म्यज्ञानमि-त्यर्थः । न चास्येति ।। यस्य यदा यत्रेत्यादिना, इत्युक्तं स्यादित्यन्तेनोक्तस्येत्यर्थः । मूलोक्तापाद्यापादक-योर्व्याप्तेरस्फुटत्वात्तदभिप्रेतापादकं स्वयमाह- तद्देशकालयोरित्यादिना ।। अन्यत्र सत्त्वादेवेत्यस्यायमेवाभिप्राय इति नृशृङ्गाद्यभावज्ञानाभावापादनानवकाशः । न युज्यते इत्यत्रापि हेतून् स्वयमाह- ये हीति ।। तार्किका इत्यर्थः । भट्टमतेनाह- अनुमानपक्ष इति ।। अनुपलब्धिरनुमानतयाऽभावज्ञानस्य कारणमिति पक्ष इत्यर्थः । अभाव इति ।। अभावज्ञानजनने सामर्थ्याभ्युपगमादित्यर्थः । अभावग्रहदेश एव प्रतियोग्युपलम्भे को दोष इत्यत आह- न हीति ।। उपादानेति ।। अधिष्ठानाध्यस्तरूपोपादानोपादेयभावेनेत्यर्थः । एकविज्ञानेन सर्वविज्ञाने पराभिप्रेतोपादानोपादेयभावरूपहेतुनिरासः ।
वाक्यार्थदीपिका
(श्री.टि.)
ननु सत्यज्ञानेन मिथ्याज्ञानं न भवतीत्यनेन सत्यमिथ्यावस्तुविषयकज्ञानयोः कार्यकारणभावो निषिध्यते सत्यमिथ्ययोरेकज्ञानविषयत्वं वा । नाद्य इत्याह- नन्वारोपस्येति ।। उद्बुद्धसंस्कारेति ।। रजतसंस्कारे-त्यर्थः । अधिष्ठानज्ञानमिति ।। ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति वचनादिति भावः । द्वितीये त्वाह- किञ्चेति ।। सम्भिन्नतया मिश्रतया इदं रजतमित्यधिष्ठानसम्बद्धत्वेनेति यावत् । केवलमिति ।। (श्री.टि.) रजतमित्येवेत्यर्थः । साधारणाकारमिति ।। इदन्त्वादिनाधिष्ठानज्ञानवत्सत्यत्वादिना रूपेण ब्रह्मज्ञानमित्यर्थः । येन सत्यज्ञानेन मिथ्याज्ञानं न भवतीत्युक्तमयुक्तं स्यादिति भावः । सर्वार्थज्ञानेष्विति ।। परमते सन्घटः सन्पट इत्यादिप्रतीतेरनुगतसद्रूपब्रह्मविषयकत्वात्, ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति तद्वचनादिति भावः । इतोऽपि साधारणाकारज्ञानमत्र न विवक्षितं प्रकृतानुपयोगादित्याह- अत्र चेति ।। अपूर्वज्ञानोत्पादनायेति ।। साधारणाकारभिन्नयाथात्म्यविषयकापूर्वज्ञानोत्पादनायेत्यर्थः । अभिमुखीकर्तु-मिति ।। श्वेतकेतुमिति शेषः । अर्थवादस्येति ।। ‘येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इत्यर्थवादस्येत्यर्थः । शुक्तिरितीति ।। शुक्तित्वप्रकारकज्ञानवानित्यर्थः । ननु शुक्तिज्ञोऽपि तत्समीपस्थरजतज्ञो भवत्येवेत्यत आह- तत्रारोपितरजतज्ञ इति ।। रजतज्ञानवान् रजततया सत्त्वेन च जानातीत्यर्थः । रजतं नास्तीति जानातीति ।। निषेध्यत्वेन जानातीत्यर्थः । इत्युच्यत इति ।। व्यवह्रियत इत्यर्थः । ननु सर्वाभावज्ञोऽपि प्रतियोगितया सर्वं जानात्येवातः कथं ब्रह्मयाथात्म्यज्ञानेन सर्वाभावं जानतः सर्वज्ञत्वाभावो वक्तुं शक्यत इत्यत आह- अन्यथेति ।। उपचारेति ।। सर्वाभावज्ञाने सर्वविज्ञानपदप्रयोगस्य सर्वविषयकत्वगुणयोगेनोपचार-प्रसङ्ग इत्यर्थः । औपचारिकत्वपरिहारमाशङ्कते- नन्विति ।। सर्वज्ञानमपीति ।। सर्वयाथात्म्यज्ञानमेवेत्यर्थः । किं तत्सर्वयाथात्म्यज्ञानमित्यत आह- सर्वस्येति ।। तथाज्ञानं मिथ्यात्वेन ज्ञानम् । कर्मादिविषयेति ।। कर्मादिप्रतिपादकेत्यर्थः । ज्ञानस्य कर्मादिज्ञानस्य । अन्यथेति ।। कर्मादिमिथ्यात्वज्ञानस्यैव कर्मादिप्रतिपादक-वेदफलत्व इत्यर्थः । बहुनेति ।। येनाश्रुतमित्यादिनेत्यर्थः । न त्वधिष्ठानयाथात्म्ये ज्ञाते सत्यध्यस्तज्ञानं भवत्क्वापि नोपलब्धमित्यदर्शनमेव तद्बीजमिति चेत्तत्राह- अदर्शनमात्रस्येति ।। अदर्शनमात्रस्य सामग्य्रन्तराभाव-प्रयुक्तत्वेनाप्यन्यथासिद्ध्या प्रमेयाभावनिश्चायकत्वाभावात् । अन्यथा धर्माद्यतीन्द्रियपदार्थाभाव एव स्यादिति भावः । विरोधप्रकटनाय योजनामाह- यः शुक्तिज्ञ इति ।।
ननु योऽधिष्ठानयाथात्म्यज्ञानवान् स तत्रारोपितं न पश्यतीत्यसत् । विशेषदर्शनानिवर्त्ये पीतः शङ्ख इत्यादि-सोपाधिकभ्रमे शङ्खः श्वेतः शङ्खत्वादित्याद्यानुमानिकेऽधिष्ठानयाथात्म्यज्ञाने विद्यमानेऽपि तत्रारोपितं पैत्यमेव पश्यतीति व्यभिचार इत्यतो मूले नेदं रजतमितीत्यंश उपात्त इत्याशयवानाह- सोपाधिकभ्रमेष्विति ।। नेति ज्ञानेति ।। एवं च योऽधिष्ठानयाथात्म्यज्ञानवान् स इदं तन्नेति ज्ञानवानिति व्याप्तेर्विवक्षिततया पीतः शङ्ख इत्यादावपि दोषवशादेवैवं मम प्रतीयते, वस्तुतः पीतं नेति ज्ञानानुवृत्तिरस्त्येवेति न व्यभिचार इति भावः । तथा च नेदं रजतमिति पश्यतीत्यस्य नेदं रजतमिति जानातीत्यर्थोऽवगन्तव्यः । परस्परपरिहारेणेति ।। एकस्य सत्त्वदशायामपरं नास्तीत्येवं परस्परपरिहारेणेत्यर्थः । साक्षादिति ।। परस्परपरिहाररूपत्वेनेत्यर्थः । तदनङ्गीकारे बाधकमाह- व्याघातेति ।। अन्यथेति शेषः । भावाभावयोः साक्षाद्विरोधानङ्गीकारे प्रतियोग्यनुयोगिभाव-व्याघातप्रसङ्गः प्रतियोग्यनुयोगिभावो न स्यादिति यावदित्यर्थः । अन्ययोः तद्विषयकज्ञानयोः । प्रकृते कथं विरोध इत्यत आह- शुक्तिकेति ।। शुक्तिप्रतियोगिकान्योन्याभावरूपं रजतं, तत्प्रतियोगिकान्योन्याभावरूपा (श्री.टि.) च शुक्तिः । अन्योन्याभावस्य धर्मिस्वरूपत्वादित्यर्थः । तज्ज्ञानयोरपीति ।। शुक्तिकारजत-ज्ञानयोरपीत्यर्थः । ज्ञानोपलक्षणमिति ।। तदभावज्ञानस्येत्यर्थः । यत्र देशे । अस्य नियमस्य । तत्फलितमाह- तद्देशकालयोरेवेति ।। अङ्गीकार इत्यनन्तरम् इति यावदिति शेषः । कुतो न युज्यत इत्यतस्तत्सामग्य्र-भावादित्याह- ये हीत्यादिना ।। आचक्षते षष्ठप्रमाणवादिनो भाट्टाः । स्वरूपेणेति ।। न लिङ्गतयेत्यर्थः । येन तज्ज्ञानापेक्षायां तस्याप्युपलब्ध्यभावरूपतयाऽनुपलब्ध्यन्तरापेक्षायामनवस्था स्यादिति भावः । अनुपलब्धे-रभावादिति ।। तदानी प्रतियोगिन एव सत्त्वेन तदनुपलब्धेरभावादित्यर्थः । अनुपलब्धेर्लिङ्गत्वेनाभावज्ञान-कारणत्वमिति पक्षे त्वाह-अनुमानपक्ष इति ।। घटोऽत्रेदानी नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादित्यनुमातव्यं, तत्र स्वरूपासिद्धिरित्यर्थः । नन्वभावज्ञानं प्रत्यक्षेण भवतीति मतेऽनुपलब्धेरनपेक्षितत्वेनेन्द्रियेणैव तत्र तदानी तदभावज्ञानं सम्पत्स्यत इत्यत आह- (अ)प्रत्यक्षेति ।। वादिभिरपि तार्किकैरपि । सत्यामेवेति ।। इन्द्रियेणाभावग्रहणे योग्यानुपलब्धेः सहकारित्वाङ्गीकारादित्यर्थः । सहकारिभूता सा चानुपलब्धिरत्र नास्तीत्याह- न हीति ।। तथात्वे वेत्यनन्तरं तन्न्यायेनेति शेषः । कुत्रापि जगति । तथा च प्रतियोगितदभावयोर्विरोधवार्तैव जगति लुप्येतेत्यर्थः । उपसंहरति- तदेवमिति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
सम्भिन्नतयेति ।। तत्तादात्म्येनेत्यर्थः । सर्वार्थज्ञानेष्विति ।। परमते सन् घटः, सन् पट इत्यादेरनुगतसद्रूपब्रह्मविषयत्वादिति भावः । तथा सर्वज्ञानमपीति ।। सर्वयाथात्म्यज्ञानमेव सर्वज्ञानमि-त्यर्थः । अस्तु सर्वज्ञानशब्देन सर्वयाथात्म्यज्ञानलाभः । तथापि तन्मिथ्यात्वज्ञानस्य तेन कथं लाभ इत्यत आह- सर्वस्येति ।। साक्षादिति ।। भावाभावरूपत्वेनेत्यर्थः । अन्यथेति ।। भावाभावयोरपि परस्परविरोधा-नभ्युपगम इत्यर्थः । परस्पराभावौ च तद्विरुद्धौ च न इत्यस्य विप्रतिषिद्धत्वादिति भावः । तद्द्वारेति ।। भावाभाव-विरोधद्वारेत्यर्थः । अन्ययोरिति ।। परस्पराभावानात्मकयोरित्यर्थः ।
(व्या.टि.) ननु सत्यज्ञानेन मिथ्याज्ञानं न जायत इति, उत सत्यज्ञानेन मिथ्या न विषयीक्रियत इत्येवं द्वेधा विकल्पाद्यं निराचिकीर्षुराह- नन्वित्यादिना ।। अधिष्ठानज्ञानमिति ।। सदृशतयेति भावः । यथाऽऽहुः- ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति । द्वितीयं पराह- किञ्चेति ।। सम्भिन्नतयेति ।। इदमभिन्न-तयेत्यर्थः । केवलमिति ।। रजतमित्येवाप्रतीतेरित्यर्थः । उक्तमाक्षिपति- तत्कथमिति ।। अनेन न हीत्युक्ताशयः प्रकाशित इत्याह- अयमभिसन्धिरिति ।। विवक्षितमिति ।। प्रश्नोत्तरजननीयत्वेनेत्यर्थः । तस्येति ।। प्रमेयत्वादिप्रकारकज्ञानस्येत्यर्थः । सिद्धत्वादिति ।। सिद्धस्य साधनायोगादित्यर्थः । एवं युक्तिविरोधेन पराकृतं साधारणज्ञानं प्रकृतविरोधेनापि पराचश्व्े- अत्र चेति ।। अभिमुखीकर्तुमिति ।। श्वेतकेतुमिति शेषः । अर्थवादस्येति ।। स्तुतिरूपस्येत्यर्थः । ब्रह्मयाथात्म्यमाह- नित्यशुद्धेत्यादिना ।। तदनुरोधेन मूलं योजयति- शुक्तिरिति ज्ञानवानिति ।। रजतमिति द्वितीयैकवचनम् । अभावप्रतियोगितयेत्यर्थः । उक्तिलब्धमाह- एवं सतीति ।। न रजत इति ।। रजतस्याभावप्रतियोगितया ज्ञानविषयत्वेऽपि मुख्यविशेष्यत्वाभावात् । मुख्य-(व्या.टि.) विशेष्येणैव ज्ञाज्ञ(न)व्यवहारादिति भावः । अस्य प्रकृतसङ्गतिमाह- एवमिति ।। नन्वभाव-प्रतियोगितया सर्वं जानात्येवेत्यत आह- अन्यथेति ।। उपचारेति ।। अभावज्ञे प्रतियोगिज्ञव्यवहारस्य गौणत्व-प्रसङ्गादित्यर्थः । प्रक्रमानानुगुण्यान्नैवमित्याह- मैवमिति ।। फलमिति ।। साध्यमित्यर्थः । बहुनेति ।। व्यर्थोक्तेरपर्यवसानादित्यर्थः । अन्यथेति ।। सतोऽप्यदर्शनसम्भवादित्यर्थः । आहेति ।। बीजमिति शेषः । प्रकटयतीति ।। अधिष्ठानज्ञानवतोऽध्यस्तज्ञानाभावोदाहरणेनेति शेषः । सोपाधिकभ्रमेष्वपीति ।। अनेन योऽधिष्ठानयाथात्म्यज्ञानवान् स तत्रारोपितदर्शनवान्न भवतीत्यत्रारोपितभेदज्ञानासध्रीचीनत्वविशेषितारोपित-दर्शनाभावस्य व्यापकत्वम् । तेन सोपाधिकभ्रमे न व्यभिचार इति सूचयति । यद्वाऽध्यस्तदर्शनाभावस्य निरुपाधिक-भ्रमस्थलीयाधिष्ठानयाथात्म्यज्ञानव्यापकता । अध्यस्तभेददर्शनस्य त्वधिष्ठानयाथात्म्यज्ञानमात्रव्यापकता । तेन सोपाधिकभ्रमस्थलेऽधिष्ठानयाथात्म्यज्ञानेऽध्यस्तदर्शने च सत्यपि न दोष इति भावः । परस्परपरिहारेणै-वेति ।। परस्परविरहव्याप्यत्वादित्यर्थः । आहेति ।। ज्ञानविरोधेऽर्थविरोधं बीजमिति शेषः । साक्षादिति ।। अन्याद्वारेत्यर्थः । व्याघातेति ।। अन्यथेति शेषः । अविरोधे भावाभावरूपत्वस्य व्याघातप्रसङ्गादिति, भावेऽप्य-भावशङ्कायां व्याघातप्रसङ्गादिति वाऽर्थः। शुक्तिकारजते चेति भावप्रधानो निर्देशः । शुक्तिकात्वरजतत्वे इत्यर्थः। अन्योन्याभावरूपे इति ।। अन्योन्यस्य अभावे विरहे(सति) रूपं स्वरूपं ययोस्ते तथोक्ते । परस्परविरहव्याप्ये इत्यर्थः । यथाश्रुतार्थत्वे बाधात् । मिथ्यासत्ययोः परस्परभेदेऽपि परस्परविरहत्वाभावादिति ध्येयम् । अथ वा अन्योन्याभावरूपे भेदस्वरूपे इत्यर्थः । तद्द्वारा ज्ञानयोरपि विरोध इति ।। तद्धर्मावच्छिन्नप्रतियोगिक-भेदधर्मितावच्छेदकत्वेन ज्ञातशुक्तिकात्वरूपेण ज्ञाते तादात्म्येन रजतत्वावच्छिन्नज्ञानं विरुद्धम् । एवं रजतत्वेन ज्ञाते धर्मिणि तादात्म्येन शुक्तिज्ञानं विरुद्धमित्यर्थः ।
भावज्ञानस्याभावज्ञानाभावेनाभावज्ञानस्य भावज्ञानाभावेन तु व्याप्तेर्व्यभिचारमाशङ्कते- नन्विति ।। अभावस्य ज्ञानजन्यत्वबाधादाह- ज्ञानोपलक्षणमिति ।। अभावज्ञानस्येत्यर्थः । एतदिति ।। तदभावस्येति तस्येति च पदद्वयमित्यर्थः । तस्य प्रतियोगिन इति ।। प्रतियोगिज्ञानस्य चेत्यर्थः । न चैवमध्यस्ताभावज्ञानं न स्यात् । तस्यान्यत्रासत्त्वात् । अन्यथा अन्यथाख्यात्यापातः । तथाऽत्यन्तासदभावबोधो न स्यात् । तस्य क्वाप्यसत्त्वादिति वाच्यम् । अस्यापि ज्ञानोपलक्षणतया व्याख्यातत्वात् । एवकारव्यवच्छेद्यं दर्शयति- न त्विति ।। शुक्तिका-रजतयोरिति भावप्रधानः । अन्योन्याभावरूपयोरिति ।। व्याख्यातमेतदधस्तात् । तादात्म्यमिति ।। स आत्मा आधारो ययोस्ते तदात्मनी तयोर्भावस्तादात्म्यम् । सामानाधिकरण्यमित्यर्थः । शङ्कार्ह इति ।। व्यधिकरणत्वेनारोपमात्रत्वादित्यर्थः । अयोगप्रकारं दर्शयति- ये हीति ।। भाट्टाः । नैयायिकमतमाह- अनुमान-पक्ष इति ।। सिद्धान्ते आह- अन्यथेति ।। तथात्व इति ।। भावाभावविरोधाभाव इत्यर्थः । न कुत्रापीति ।। तन्मूलत्वादन्यविरोधस्येत्यर्थः । परपक्षप्रतिक्षेपं निगमयति- तदेवमिति ।।