अर्थतः प्राप्तिरेवार्थापत्तिरित्यभिधीयते ..
पराङ्गीकृतार्थापत्त्युपमाऽभावप्रमाणानां निरूपणम्
मूलम्
- अर्थतः प्राप्तिरेवार्थापत्तिरित्यभिधीयते ।
दृष्ट्वा सदृशमेवान्यं पूर्वदृष्टे तु वस्तुनि ।
एतत्सदृशताज्ञानमुपमानं प्रकीर्तितम् ।
अभावस्य परिज्ञानं द्विविधं समुदाहृतम् ।
एकं तत्रानुभवतो योग्यस्यानुपलब्धितः ।
द्वितीयमपि विज्ञेयं सुखाद्ये च घटादिके ।।
तत्त्वमञ्जरी
अर्थापत्त्यादीनां लक्षणमाह- अर्थत इति ।। जीवन् देवदत्तो गृहे नास्तीति निश्चये सति गृहाभावान्यथानुपपत्त्या बहिरस्तीत्यर्थतः प्राप्तिरेव । गोसदृशगवयदर्शनाद् गवयसदृशो गौरिति ज्ञानमुपमानमुदाहरन्ति ।
टीका
नन्वर्थापत्त्यादीन्यपि प्रमाणानि सन्ति । तानि किमिति न व्युत्पाद्यन्त इत्यतस्तेषा-मत्रैवान्तर्भावादिति वक्तुमज्ञातस्वरूपस्यान्तर्भावो दुर्ज्ञान इति तत्स्वरूपं ज्ञापयन् अर्थापत्तिं तावद् दर्शयति- अर्थत इति ।। न चेदनुमानविभागप्रसङ्गे प्रमाणान्तर्भावकथनमसङ्गतम् । (त)अस्या-प्यनुमानप्रभेदकथनपरत्वात्, यद्वक्ष्यति ‘अनुमाभेद एव तु’ इति । अर्थतोऽनुपपद्यमानस्यार्थस्य दर्शनात् प्राप्तिः, तदुपपादकार्थान्तरप्रमितिरर्थापत्तिरित्यभिधीयते प्रामाणिकैः । यद्यन्या काचित् स्यात् तदाऽन्तर्भावकथने सङ्कट भवेत् । यदा त्वेषैव तदा किमशक्यमिति सूचयितुम् एवशब्दः । अथ वा प्रमाणद्वयविरोधोऽर्थापत्तिरित्यसत् । आपाततो व्याघातात् । अन्यथोक्तलक्षणा-बहिर्भावादिति एव अर्थः । यथा जीवतो देवदत्तस्य गृहेऽभावदर्शनेन बहिर्भावज्ञानम् ।
उपमानस्वरूपमाह- दृष्ट्वेति ।। नगरे गां दृष्टवतः पुरुषस्य वने तत्सदृशमन्यं गवयं दृष्ट्वा पूर्वदृष्टे स्मर्यमाणे वस्तुनि नगरस्थे गवि यदेतद्गवयसदृशताज्ञानं जायते तदेवोपमानं प्रकीर्तितं वृद्धैः । पूर्ववदन्तर्भावसौकर्यसूचनाय एवशब्दः । यच्चक्षुरादिव्यापारानन्तरं सदृशाविमाविति तत्सदृशोऽय-मिति वा सादृश्यज्ञानमुत्पद्यते, यच्च गोसदृशो गवय इति वाक्यश्रवणानन्तरम्, तदुभयव्यावृत्त्यर्थो वा एवशब्दः । तस्य स्फुटप्रत्यक्षादित्वेन पृथक्छङ्कानास्पदत्वात् ।
अभावप्रमितिसाधनमभावाख्यं प्रमाणम् । तदन्तर्भावकथनसौकर्याय विभागेन निरूपयति- अभावस्येति ।। द्विविधं द्विविधसाधनजन्यम् । द्वैविध्यं विवृणोति- एकमिति ।। अनुभवतो, जायते । उपचारेणेयमुक्तिः । उपलब्धियोग्यस्यानुपलब्ध्या करणेन द्वितीयं जायत इति विज्ञेयम् । द्वयोरुदाहरणमाह- सुखाद्ये चेति ।। सुखाद्ये साक्षिवेद्ये वस्तुनि प्रतियोगिनि सति यन्नास्तीदानी मम सुखमित्याद्यभावज्ञानमुत्पद्यते तत्साक्षिजन्यम् । यत्तु घटादिके चक्षुरादिवेद्ये वस्तुनि प्रतियोगिनि सति नास्त्यत्र घट इत्याद्यभावज्ञानं जायते तद्योग्यानुपलब्धिजन्यम् । आनुमानिकागमि-कार्थप्रतियोगिकाभावज्ञानस्यानुमानागमजन्यतायामविवादात् तन्नोपन्यस्तम् ।
भावबोधः
अस्याप्यनुमानेति ।। बाहुल्याभिप्रायेणेदम् । ‘एकं प्रत्यक्षरूपं स्यात्’ इत्यादिनाऽभावप्रमाणस्य प्रत्यक्षेऽन्तर्भावस्योक्तत्वात् । ‘अनुमाभेद एव तु’ इतीति ।। अन्यथाऽनुमैवेत्येवावक्ष्यत् । भेदग्रहणमनर्थकमिति भावः । अन्यथेति ।। बहिस्सत्त्वं कल्पयित्वा जीवनगृहाभावग्राहकप्रमाणयोरविरोधं सम्पाद्य व्याहतिपरिहार इत्यर्थः । उक्तलक्षणाबहिर्भावादिति ।। अनुपपद्यमानजीवनगृहाभावदर्शनाद्बहिस्सत्त्वं कल्पितमित्युक्त-लक्षणाबहिर्भावादित्यर्थः । यथाश्रुते एवशब्दस्य प्रयोजनाभावाद् ज्ञानमेवेति तस्य सम्बन्धमभिप्रेत्य द्वेधा प्रयोजनमाह- पूर्ववदित्यादिना ।। ‘एकं तत्र’ इत्युत्तरवाक्यानुरोधेन व्याचश्व्े- द्विविधसाधनजन्यमिति ।। द्वैविध्यमिति ।। द्विविधसाधनजन्यत्वमित्यर्थः । लाघवेनानुभवानुपलब्ध्युभयसाधारण्येन जायत इति शेषे पूरिते सुखाद्यभावज्ञानस्य साक्षिरूपत्वेनाजन्यत्वादाह- उपचारेणेति ।। अनुभवाख्यस्वरूपेन्द्रियेण सुखाद्यभावज्ञानमभिव्यज्यत इति जन्यज्ञानसाधारणव्यक्तत्वरूपगुणयोगादिति भावः ।
भावदीपः
(त)अस्यापीति ।। अर्थापत्त्यादिस्वरूपस्येति वा अन्तर्भावकथनस्येति वाऽर्थः । लक्षणान्तर-व्यावर्तकतयाऽपि योजयति- अथवेति ।। प्रमाणद्वयेति ।। शतवर्षजीवी चैत्र इत्येकं प्रमाणं गृहे नास्तीत्यपरं तयोरन्योन्यविरोध इत्यर्थः । आपातत इति ।। अविमर्शदशायामित्यर्थः । व्याघात इति ।। तदा प्रामाण्यबुद्धिरेव नेति कुतः प्रमाणद्वयविरोध इति भावः । अन्यथेति ।। शतवर्षजीविनो गृहेऽसत्त्वं ममेव क्वचित्सत्त्वेनोपपन्नमिति वा क्वचित्सत्त्वेन विना अनुपपद्यमानमिति वा विमर्शेनाव्याहतत्व इत्यर्थः । यद्वा(यदा) शतवर्षजीवीत्यस्य गृह एवेत्यर्थः स्यात् गृहे नास्तीत्यस्य च न जीवनवानित्यर्थः स्यात् तदा परं विरोधः । न च (सोऽर्थः) तत्रास्तीति विमर्शेनाविरोधोक्तावित्यर्थः । पूर्ववदिति ।। अर्थापत्तिलक्षण इवान्तर्भावसौकर्यसूचनमित्यर्थः । इदमेव खलूपमानम् । एवं तर्हि नान्तर्भावोक्तौ क्लेशः । यदि इतोऽन्यत् स्यात् तदा परं क्लेशः स्यादित्येवंरूपेण तत्सूचनमिति भावः । वाक्यश्रवणानन्तरमित्यत्र सादृश्यज्ञानमुत्पद्यत इत्यनुषङ्गः । प्रत्यक्षादित्वेनेति ।। शाब्दत्व-मादिशब्दार्थः । सामान्यलक्षणेन स्वरूपाज्ञानेऽन्तर्भावो न सुज्ञान इति प्रकरणप्राप्तं स्वयमाह- अभावेति ।। अग्रे साधनोक्त्यनुरोधादाह- द्विविधसाधनजन्यमिति ।। आकाङ्क्षां पूरयति- जायत इति ।। उपचारेण विषयीकरणरूपसम्बन्धजन्माभिप्रायेणेयमुक्तिरित्यर्थः । सप्तम्यर्थमाह- प्रतियोगिनि सतीति ।। प्रतियोगित्वेन वर्तमाने प्रतियोगिभूत इति यावत् । सतीत्यनेन तत्र सत्त्वं न भ्रमितव्यम् । एवमग्रेऽपि । साक्षिजन्यं साक्षिविषय इत्यर्थः । साक्षिरूपमिति यावत् । नोपन्यस्तमिति ।। तत्तु लक्षणादिग्रन्थे ध्येयमिति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
अस्याप्यनुमानेति ।। बाहुल्याभिप्रायेणेदम् । ‘एकं प्रत्यक्षरूपं स्यात्’ इत्यादिनाऽभावप्रमाणस्य प्रत्यक्षेऽप्यन्तर्भावस्योक्तत्वादिति ध्येयम् । अन्येति ।। लक्षणान्तरलक्षितेत्यर्थः । एषैवेति ।। एतल्लक्षण-लक्षितैवेत्यर्थः । किमशक्यमिति ।। अन्तर्भावकथने किं सङ्कटमित्यर्थः । एवकारस्य अर्थान्तरमाह- अथ वेति ।। प्रमाणद्वयविरोध इति ।। देवदत्तो गृहे नास्तीति गृहे अभावग्राहकं प्रत्यक्षरूपं प्रमाणमेकं शतवर्षजीवी देवदत्त इति जीवनग्राहकज्योतिःशास्त्ररूपं प्रमाणमपरं तदुभयविरोध इत्यर्थः । यद्यप्यत्र भिन्नविषयकत्वान्न जीवनग्राहकप्रमाणेन गृहेऽभावग्राहकप्रमाणस्य साक्षाद्विरोधोऽस्ति । तथाऽपि जीवी गृह एवेति नियमग्राहक-प्रमाणसचिवेन जीवनग्राहकप्रमाणेन विरोध इति द्रष्टव्यम् । आपातत इति ।। बहिःसत्त्वमकल्पयित्वेत्यर्थः । व्याघातादिति ।। गृहेऽभावग्राहकं प्रत्यक्षं जीवनग्राहकं ज्योतिःशास्त्रम् अनयोः प्रमाणत्वे भिन्नविषयत्वेन विरोधस्यैवाभावात् प्रमाणत्वमङ्गीकृत्य विरोधोक्तौ व्याघातः । ‘न मानयोर्विरोधोऽस्ति’ इत्यभियुक्तवच-नात् । यदि च गृहनियमग्राहकं प्रमाणं कल्पयित्वा तद्द्वारा विरोधोक्तौ पुनर्व्याघात एव विरुद्धयोः प्रामाण्यायोगात् ‘विरुद्धयोश्च न प्रामाण्यम्’ इत्यभियुक्तवचनादित्यर्थः । तथा चोभयथापि प्रमाणद्वयविरोध इत्युक्तमसदिति भावः । अन्यथेति ।। बहिःसत्त्वं कल्पयित्वा प्रमाणद्वयस्य अविरोधं सम्पाद्य व्याहतिपरिहार इत्यर्थः । उक्तलक्षणेति ।। अनुपपद्यमानजीवनगृहाभावदर्शनेन तदुपपादकबहिःसत्त्वस्य कल्प्यमानत्वेनानुपपद्यमानार्थ-दर्शनात्तदुपपादकभूतार्थान्तरकल्पनमर्थापत्तिरित्युक्तलक्षणाबहिर्भावादित्यर्थः । उदाहरति- यथेति ।। यथोक्तं मीमांसकैः ‘विद्यमानत्वसंसृष्टगेहाभावधियाऽनया । गेहादुत्कालिता सत्ता बहिरेवावगम्यते’ इति ।
नगर इत्यादि ।। गृह्यमाणे स्मर्यमाणप्रतियोगिकसादृश्यज्ञानात् स्मर्यमाणे गृह्यमाणप्रतियोगिक-सादृश्यज्ञानमुपमानमित्यर्थः । पूर्ववदिति ।। यद्यन्यत्किञ्चित्स्यात्तदाऽन्तर्भावकथने सङ्कट भवेत् । यदा त्वेतदेव तदा किमशक्यमिति सूचयितुमेवशब्द इत्यर्थः । एकस्यैव सादृश्यस्योभयनिष्ठत्वाभिप्रायेण सदृशाविमावित्यु-क्तम् । एकप्रतियोगिकमपरनिष्ठमित्यभिप्रायेणैतत्सदृशोऽयमित्युक्तमिति द्रश्व्व्यम् । वाक्यश्रवणानन्तरं तत्सदृशोऽयमिति ज्ञानमुत्पद्यत इत्यनुवर्तते । प्रत्यक्षादित्वेनेति ।। प्रत्यक्षागमजन्यत्वेनेत्यर्थः । आद्यं प्रत्यक्षजन्यं (श्री.टि.)द्वितीयमागमजन्यमिति विवेकः । मूले सामान्यलक्षणमनुक्त्वा विभागस्यैव कथनेन न्यूनतापरिहाराय स्वयं तदाह- अभावप्रमितीति ।। ‘एकं तत्रानुभवतः’ इत्युत्तरवाक्यानुरोधेन व्याचश्व्े - द्विविधसाधनजन्य-मिति ।। द्वैविध्यं द्विविधसाधनजन्यत्वम् । सुखाद्यभावज्ञानस्य साक्षिरूपत्वेन जन्यत्वाभावादनुभवतो जायत इत्युक्तमयुक्तमित्यत आह- उपचारेणेति ।। अनुभवाख्यस्वरूपेन्द्रियेण सुखाद्यभावज्ञानमभिव्यज्यत इति जन्यज्ञानसाधारणव्यक्तत्वरूपगुणयोगादित्यर्थः । ननु ‘अभावस्य परिज्ञानं द्विविधम्’ इति द्विविधसाधन-जन्यत्वकथनमयुक्तम् । अयं चक्षुष्मान् रूपज्ञत्वादिति रूपज्ञानानुमेयत्वेनानुमानिकं यच्चक्षुरादिकं तदभावज्ञानं नायं चक्षुष्मान् रूपाज्ञत्वादित्येवं रूपज्ञानाभावलिङ्गकानुमानेन भवति । तथा भारताद्यागमसिद्धकौरवाद्यभावज्ञानं भारताद्यागमाद्भवति । तदुभयं कस्मान्नोपन्यस्तमित्यत आह- आनुमानिकेति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
अर्थतोऽनुपपद्यमानस्येति ।। अनुपपद्यमानार्थदर्शनं करणांशः, उपपादकीभूतार्थान्तरप्रमितिः फलांशः । ततश्चोपपादकीभूतार्थान्तरप्रमितिसाधनीभूतानुपपद्यमानार्थप्रमितिरर्थापत्तिरित्युक्तं भवति । प्रमाण-द्वयविरोध इति ।। जीवति देवदत्त इति जीवनग्राहकप्रमाणस्य, नास्ति देवदत्तो गृह इति गृहाभावप्रमाणस्य च विरोध इत्यर्थः । प्रमाणद्वयविरोध इत्यस्य किं द्वयोः प्रमाणयोर्विरोध इत्यापातप्रतिपन्नार्थ एवाभिमतः, उतार्थान्तराकल्पने प्रमाणद्वयस्यानुपपद्यमानतारूपाऽघटना । नाऽद्य इत्याह- आपातत इति ।। आपाततः प्रतीयमानस्य लक्षणार्थत्व इति शेषः । व्याघातात्, द्वयोः प्रमाणत्वे विरुद्धत्वस्य, विरुद्धत्वे वा द्वयोः प्रमाणत्वस्य चासम्भवेन द्वयोः प्रामाण्यस्य विरुद्धत्वस्य च व्याहतत्वादित्यर्थः । अन्त्ये त्वाह- अन्यथेति ।। अर्थान्तरकल्पनां विना प्रमाणद्वयस्यानुपपद्यमानतारूपाऽघटना यदि प्रमाणद्वयविरोधशब्दार्थस्तदोक्तलक्षणाबहिर्भावः, अनुप-पद्यमानार्थदर्शनादर्थान्तरकल्पनमित्युक्तलक्षणाबहिर्भावः स्यादित्यर्थः । अर्थापत्तेरुदाहरणमाह- यथेति ।। नगर इत्यादि ।। अत्र गोसदृशोऽयं गवय इत्याकारं स्मर्यमाणगोप्रतियोगिकगृह्यमाणगवयगतसादृश्यज्ञानं करणांशः । एवं तत्सदृशो मदीयो गौरित्याकारं गृह्यमाणगवयप्रतियोगिकस्मर्यमाणगोनिष्ठसादृश्यज्ञानं फलांशः । ततश्च गृह्यमाणप्रतियोगिकस्मर्यमाणगतसादृश्यप्रमां प्रति साधनं यत्स्मर्यमाणप्रतियोगिक-गृह्यमाणगतसादृश्यज्ञानं तदुपमानमिति लक्षणं बोध्यम् । स्फुटप्रत्यक्षादित्वेनेति ।। आद्यस्य प्रत्यक्षताया द्वितीयस्यागमतायाश्च स्फुटत्वेनेत्यर्थः । ननु सुखाद्यभावज्ञानस्य साक्षिरूपत्वेनाजन्यत्वात् कथं ‘जायते’ इति जन्यत्वोक्तिरित्यत आह- उपचारेणेति ।। अनुभवाख्यस्वरूपेन्द्रियेणाभिव्यक्तसुखाद्यभावज्ञानस्य जन्यज्ञान-निष्ठाभिव्यक्तत्वरूपगुणयोगादिति भावः । अनुपलब्ध्या करणेनेति ।। अनेन मूलेऽनुपलब्धित इत्यदादि-त्वात्तृतीयान्तात्तसिरित्युक्तं भवति । ननु नास्त्यत्र घट इति प्रत्यक्षार्थप्रतियोगिकाभावज्ञानस्य प्रत्यक्षस्य च सत्त्वात् घटाद्यभावज्ञानस्य प्रत्यक्षानुमानजन्यत्वस्येव नास्ति चक्षुरिति चक्षुराद्यभावज्ञानस्य विमतश्चक्षूरहितो रूपाज्ञत्वाद्घटवदित्यनुमानजन्यतायाः वैधी हिंसा न पापसाधनमित्यागमिकार्थप्रतियोगिकाभावज्ञानस्यागम-जन्यतायाश्च वक्तव्यत्वात् कुतस्तदनुक्तिरित्यतो घटाद्यभावज्ञानस्य प्रत्यक्षानुमानजन्यत्वे वादिविप्रतिपत्तिवत् (पां.टि.) नास्ति चक्षुरित्याद्यभावज्ञानद्वयस्यानुमानागमजन्यतायां वादिनां विवादाभावाद्युक्तैवात्र तदनुक्ति-रित्याह- आनुमानिकेति ।। कथं वैधीहिंसायाः पापसाधनत्वस्यागमिकत्वम्, कथं च तदभावज्ञानस्यागम-जन्यत्वमिति चेत्, उच्यते । गतिनिवृत्त्यर्थकस्यापि स्थाधातोः प्रतिष्ठत इत्यत्र प्रोपसन्दानेन गमनार्थत्ववत् ‘न हिंस्यात्’ इति निषेधस्थले इष्टसाधनत्वार्थकस्यापि लिङो नञुपसन्दानेनानिष्टसाधनत्वार्थकतायाः सिद्धान्ते समर्थितत्वात्तदर्थकनिषेधवाक्यलभ्यत्वाद्धिंसायाः पापसाधनत्वस्याऽगमिकत्वम् । ‘अग्नीषोमीयं पशुमालभेत’ इत्यादौ इष्टसाधनत्वमात्रस्यैव विध्यर्थत्वेऽपि तस्य विषसम्पृक्तान्नभोजन इव निषेधवाक्यार्थेनानिष्टसाधनत्वेन सहाविरोधादग्नीषोमीयहिंसायामुभयसम्भवात् ‘न हिंस्यात्’ इति निषेधस्य तदतिरिक्तविषयत्वेन व्यवस्थाऽनुप-पत्तिप्रसङ्गात् तदुपपत्त्यर्थं निन्दार्थवादप्रायश्चित्तोपदेशाद्यसंवलितविध्यर्थस्यानिश्वसाधनत्वेन व्याप्ततयाऽ-निष्टसाधनत्वव्याप्तेष्टसाधनत्वरूपपर्यवस्यद्विध्यर्थेन सह निषेधवाक्यार्थस्यानिष्टसाधनत्वस्य विरुद्धत्वमनुसृत्य निषेधस्य तदतिरिक्तविषयत्वेन सङ्कोचनादग्नीषोमीयविधेर्विशिष्टार्थबोधकत्वेन हिंसायाः पापसाधनत्वाभाव-बोधकत्वस्यापि सत्त्वाद्धिंसायाः पापसाधनत्वाभावस्यागमिकत्वमिति ।
लघुप्रभा
(व्या.टि.)
यद्यप्यर्थतोऽनुपपद्यमानार्थादेवेति व्याख्येयम् । तथाऽपि लिङ्गस्य ज्ञातकरणत्वेन तज्ज्ञानापेक्षणादाह- अर्थस्य दर्शनादिति ।। एवकारमनभिमतव्यावृत्तिपरतया व्याचश्व्े - यद्यन्येति ।। परोक्तलक्षणनिराकरणपर-तयाऽपि व्याचश्व्े- अथ वेति ।। किमिदं लक्षणमनुपपत्त्यनुसन्धानशामकोपपादकविशेषणाप्रत्यक्षेणापरामर्शेनैव-मुच्यते तत्परामर्शेन वा । नाद्य इत्याह- आपातत इति ।। उपपादकापरामर्श इत्यर्थः । व्याघातादिति ।। प्रामाण्योक्तिविरोधोक्तिव्याघातादित्यर्थः । उक्तेति ।। ब्रह्मतर्कोक्तेत्यर्थः । अबहिर्भावादिति ।। प्रमेयानुप-पत्तिदर्शनादुपपादके बुद्धिरर्थापत्तिरित्यस्मात् प्रमाणद्वयविरोधात्तच्छामकबुद्धिरित्यस्यानतिभिन्नार्थत्वादि-त्यर्थः । ‘स्मर्यमाणे गृह्यमाणसादृश्यज्ञानमुपमानम्’ इति मीमांसकमतमनुवदति- नगर इत्यादिना ।। दृष्टवत इति क्तवत्वन्तम् । तदेवोपमानमिति ।। अर्थापत्तिशब्दवदयमप्युपमानशब्दः फलवचनो भावसाधनः । एव-शब्दार्थः एवशब्दप्रयोजनम् । पक्षप्रतिक्षेपार्थतामप्याह- व्यावृत्त्यर्थो वेति ।। तदपि कुतो न पृथगिति शङ्कितमित्यत आह- तस्येति ।। मूलस्य शेषं योजयति- जायत इति ।। इयमुक्तिर्जन्यजनकभावोक्तिरित्यर्थः । प्रतियोगिनि सतीति मूले शेषोक्तिः । नन्वपरमपि किन्नोपन्यस्तमित्यत आह- आनुमानिकेति ।।