न चासत्यो भेदः ..

भेदस्य सत्यत्वेश्रुत्युदाहरणम्

मूलम्

- न चासत्यो भेदः ‘सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’, ‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ।’ ‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा । मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ ‘आत्मा हि परमस्वतन्त्रः सर्ववित्सर्वशक्तिः परमसुखः परमो, जीवस्तु तद्वशः अल्पज्ञः अल्पशक्तिः आर्तः अल्पकः’ इत्यादिश्रुतिभ्यः ।।

तत्त्वमञ्जरी

नन्वयमुच्यमानो भेदोऽसत्य इत्यत आह- न चासत्य इति ।। एनमनु विश्वे मदन्ति आनन्दन्ति इत्येतत् सत्यम् न मिथ्या । स्तुवत इन्द्रस्य रातिं दातारम् । शवः सुखम् । आरुभिः दोषशीलैः वननीयो भजनीयः- आरुवण्यो मैव । अभ्यासस्तात्पर्यार्थः ।

टीका 

श्रुतिस्मृत्योश्चेतनात्मकानां सर्वपदार्थानां परस्परमीश्वराच्च भेदः, तदन्तर्यामिणस्तु न कश्चिद्भेद इत्युक्तत्वादहमादिश्रुतयोऽपि तदनुसारेणैव योज्या इत्युक्तम् । तदयुक्तम् । श्रुतिस्मृतिभ्यामसत्यस्यैव भेदस्योच्यमानत्वात् । न ह्यतत्त्वावेदकानुसारेण तत्त्वावेदकं योजयितुं युक्तमित्यत आह- न चेति ।। श्रुत्यादिप्रतिपादित इति शेषः । कुतो नेत्यत आह- सत्यमिति ।। यद्यप्येषा शङ्का प्रागेव परिहृता । तथाऽपि युक्तिभिः परिहृतां श्रुतिभिरपि परिहर्तुं पुनरारम्भः ।

गृणतः  स्तुवतो मघोनो देवस्येन्द्रस्य रातिं मित्रमेनं विष्णुमनु तस्माद्धेतोरिति यावत्, विश्वे  सर्वेऽपि  प्राणिनो  मदन्ति  हृष्यन्ति  इत्येतदीश्वरस्य जीवानाञ्चोपजीव्योपजीवकत्वं सत्यम् । २. स प्रागुक्तोऽस्य विष्णोर्महिमा महत्त्वं सर्वोत्तमत्वमित्यर्थः सत्यः  । तं सत्यमहिमानमहं विप्रराज्यरूपेषु यज्ञेषु शवः सुखमुद्दिश्य गृणे स्तौमि । ३. आत्मा परमात्मा । तयोर्भिदा च सत्यं सत्या । शपथत्वेन त्रिरुक्तिः । केचिद्भेदमसत्यमाहुः । तत्कथमेतदित्यत उक्तम्- मैवेति ।। आरुभिर्दोषिभिर्वन्यो वननीयो भजनीयो मैव तदुक्तप्रकारो न भवति परमात्मेति यावत् । ४. कथं जीवपरमात्मनोर्भेद इत्यत उक्तम्- आत्मा हीति ।। परमस्वतन्त्रः इत्यस्य विरोधित्वेनोक्तम्- तद्वश इति । सर्वविदित्यस्य अल्पज्ञ इति । सर्वशक्तिरित्यस्याल्पशक्तिरिति । परमसुखम् इत्यस्याऽर्त इति । परम इत्यस्याल्पक इति । श्रुतिभ्यो भेदसत्यत्वावगमादिति शेषः ।

भावदीपः

अस्फुटत्वात्किमनेनोक्तं भवतीत्यतोऽत्रानुवादमुखेन व्यनक्ति- श्रुतिस्मृत्योरिति ।। स्वोक्त-शङ्कानिरासपरत्वलाभायाऽह- इति शेष इति ।। एतेन तद्वशत्वज्ञापनार्थमेव सृष्ट्यादिकथनमित्यदिना मिथ्यात्व-श्रुतीर्व्याख्याय ‘अतो न कुत्रापि जगतो मिथ्यात्वमुच्यते’ इत्युपसंहृत्य तत्सत्यत्वे ‘कविर्मनीषी परिभूः’ इत्यादि-वचनान्युक्त्वा भेदभेदिनां सत्यत्वस्य पूर्वग्रन्थेन स्थापनात्, तथा ‘न च परमार्थतो भेदाभावो व्यावहारिकः सोऽस्ति’ इत्यादिना व्यवहितपूर्वग्रन्थेन च भेदसत्यत्वोक्तेः पुनरुक्तिरिति निरस्तम् । स यश्चायमित्यादिश्रुति-स्मृत्युक्तभेदविशेषपरत्वादस्य, प्राचीनस्य तु सामान्यपरत्वादिति तात्पर्यात् । एतदेवाऽशङ्क्य समाध्यन्तरमाह- यद्यपीति ।। युक्तिभिरिति ।। सामान्यश्रुतिभिश्चेत्युपलक्ष्यते । श्रुतिभिरिति ।। विशिष्य भेदसत्यत्वश्रुतिभिरि-त्यर्थः । यद्वा ‘तद्वशत्वज्ञापनार्थम्’ इत्यादिग्रन्थो जगन्मिथ्यात्वनिरासमात्रपरः । ‘न च परमार्थत’ इत्यादिग्रन्थस्तु भेदसत्यत्वसाधनपर इति भावेन तदभिप्रायेण यद्यपीत्यादिग्रन्थप्रवृत्तिः । अस्मिन्पक्षे युक्तिभिरित्यस्य सदसद्वै-लक्षण्ये प्रमाणाभावादित्यादियुक्तिभिरिति, श्रुतिभिरित्यस्य सत्यं भिदेत्यादिश्रुतिभिरित्येवार्थः । श्रौतपदाना-मन्वयपूर्वमर्थमाह- गृणतः स्तुवत इति ।। ‘गॄ निगरणे’ इति धातोरिति भावः । लक्षणे कर्मप्रवचनीयोऽयमनुशब्द इत्युपेत्य जपमनु प्रावर्षदित्यादाविवार्थमाह- विष्णुमनु तस्माद्धेतोरिति ।। सत्य इति श्रुत्यर्थमाह- स इति ।। एकवचनं बहुवचनार्थ इत्युपेत्यार्थमाह- विप्रराज्यरूपेष्विति ।। लिङ्गव्यत्ययः छान्दस इति भावेनाऽह- सत्यं सत्येति ।।  ‘रषाभ्यां नो णः’, ‘अट्कुप्वाङ्नुम्व्यवायेऽपि’ इति णत्वमिति भावेनाऽह-वन्य इति भजनीय इति ।। ‘वन सम्भक्तौ’ इति धातोरिति भावः । पुंलिङ्गानुरोधादाह- परमात्मेति यावदिति ।। तस्य प्रकृत-त्वात् । भिदाविशेषणत्वे तु वन्येति स्त्रीलिङ्गेन भाव्यम् । परमात्मभजनं च भेदेनैवेति भेदासत्यत्वनिरासः फलि-ष्यतीति भावः । अत्रापि शपथेन त्रिरुक्तिरित्युक्तप्रायम् । कथमिति ।। केन प्रकारेण केन भेदकधर्मेणेत्यर्थः । विरोधित्वेनोक्तमिति सर्वत्रान्वेति । श्रुतिभ्य इत्यस्य ‘न चासत्यो भेदः’ इत्यनेन साक्षादनन्वयादाह- इति शेष इति ।।

वाक्यार्थदीपिका

(श्री.टि.)

पूर्वग्रन्थफलितार्थं वदन्नुत्तरग्रन्थमवतारयति- श्रुतिस्मृत्योरित्यादिना ।। परस्परमिति ।। विभक्ते-ष्विति सर्वपदार्थानां परस्परं भेद उक्त इति भावः । प्रागेव परिहृतेति ।। ‘न च परमार्थतो भेदाभावो व्यावहारिकः सोऽस्तीति वाच्यम्’इत्यादिना भेदस्य पारमार्थिकसत्यत्वोपपादनेन तच्छ्रतीनां तत्त्वावेदकत्वस्योक्तत्वादि-त्यर्थः । एकवचनं बहुवचनार्थ इत्यभिप्रेत्य विप्रराज्यरूपेष्वित्युक्तम् । यज्ञो हि ब्राह्मणानां राज्यम् । ब्राह्मणै रञ्जनीयः शोभनीयः । ब्राह्मणैर्हि यज्ञः शोभते । रञ्ज रागे । अपेक्षणीयो वा । तथा च विप्रप्रधानकेष्विति फलितार्थो द्रष्टव्यः । आरुभिर्दोषिभिरिति ।। दोषारच्छिद्रशब्दानां पर्यायत्वात् । अरा दोषा एषां सन्तीत्यर्थे अरशब्दादुण्प्रत्यये ‘यस्येति च’ इति रकारस्थाकारलोपे णित्त्वादादिवृद्धौ सत्यां निष्पन्नस्य उकारान्ताऽरुशब्दस्य तृतीयाबहुवचनमारुभिरिति भवतीत्यभिप्रेत्य दोषिभिरिति तदर्थ उक्त इति द्रष्टव्यम् । भजनीय इति ।। ‘वन षण सम्भक्तौ’ इति धातोरिति भावः । कथमनेन शङ्कापरिहार इत्यत आह- तदुक्तप्रकार इति ।। तदुक्तरीत्याऽ-सत्यभेदोपेत इत्यर्थः । परमस्वतन्त्रः निरवधिकस्वतन्त्र इत्यर्थः । आर्त इति ।। आर्तिर्दुःखं तद्वानार्त इत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां. टि.)

प्रागेवेति ।। ‘अतोऽनिर्वचनीयाभावादसतः प्रतीत्यनङ्गीकाराच्च प्रतीयमानत्वाच्च भेदस्य सत्त्वप्राप्तेर्न द्वितीयत्वं युज्यते’ इत्यादिना भेदं गोचरयतः प्रत्यक्षादेरसद्विषयकत्वसदसद्वैलक्षण्यरूपानिर्वचनीयविषयकत्व-रूपपक्षद्वयनिरासपूर्वकं परिशेषतः विषयभूतभेदादिप्रपञ्चस्य परमात्मसत्त्वसमर्थनेन तदतात्त्विकविषयकत्व-शङ्कायाः परिहृतत्वादित्यर्थः ।

लघुप्रभा

(व्या.टि.)

उक्तमनूद्याऽक्षिपति- श्रुतिस्मृत्योरित्यादिना ।। ननु मिथ्यावादित्वे च श्रुतेः कथमैक्यस्य सत्यत्वमिति पूर्वमेवास्या उद्धृतत्वात्पुनरुत्थानायोग इत्याङ्क्य परिहरति- यद्यपीति ।। अन्विति इत्थम्भूताख्याने कर्मप्रवचनीयसञ्ज्ञां विज्ञाय व्याचश्व्े- तस्माद्धेतोरिति ।। श्रुतसत्यपदविशेष्यमेतत्पदाध्याहारेण योजयति-इत्येत-दिति ।। वाक्यार्थपरामर्शोऽयमित्याह- ईश्वरस्येति ।। सत्यमिति ।। ‘सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः’ इति समाख्याश्रुतेरित्यर्थः । इति भेदकसत्यतोक्ता । श्रुतौ सो अस्येति ‘प्रकृत्याऽन्तःपादमव्यपरे’ इत्येङः प्रकृतिभावः । शवः सकारान्तमिदं सुखनामेत्याह- सुखमिति ।। गृणे स्तौमीति ।। यद्यपि ‘अवाद्ग्रः’ इत्युपसृष्टस्याऽत्मनेपदं विहितम् । तथाऽपि तस्य योगविभागाद्व्यत्ययाद्वा केवलादपि गृणातेरुपग्रहव्यत्ययात् साधु । दोषिभिरिति ।। ‘विचित्रा हि तद्धितगतिः’ इत्यरशब्दाद्दोषवाचकान्मतुबर्थे उण्प्रत्यय इत्युक्तं भवति ।