सर्वे वेदा हरेर्भेदं ..
सर्वागमानां विष्णुभेदोभयपरत्वेऽप्येकवाक्यत्व समर्थनम्
मूलम्
- ‘सर्वे वेदा हरेर्भेदं सर्वस्माज्ज्ञापयन्ति हि ।
भेदः स्वातन्त्र्यसार्वज्ञसर्वैश्वर्यादिकश्च सः ।
स्वरूपमेव भेदोऽयं व्यावृत्तिश्च स्वरूपता ।
सर्वव्यावृत्तये यस्मात् स्वशब्दोऽयं प्रयुज्यते ।
सर्वव्यावृत्ततामेव नेति नेत्यादिका श्रुतिः ।
विष्णोरतो वदेदन्या अपि सर्वा न संशयः ।’ इति नारायणश्रुतिः ।
तत्त्वमञ्जरी
स च भेदो नान्यत्वमात्रम् । स्वातन्त्र्यसार्वज्ञ्यादिरूपो विलक्षणभावो हि विवक्षितः । भेदाङ्गीकारे भेदस्य भेदान्तरापेक्षयाऽनवस्थेत्यत आह- स्वरूपमिति ।। व्यावृत्तिर्वैलक्षण्यमेव स्वरूपतेति यत् तस्मात् स्वरूपमेव भेदः । कथं वैलक्षण्यमेव स्वरूपतेत्यत आह- सर्वेति ।।
टीका
एवं जीवेश्वरभेदे अतत्त्वमसीत्यागमस्तावत्प्रमाणमित्युक्तमुपपादितम् । तथाऽपि सर्वागमा भेदविषया इत्येतत्कुत इत्यतः सर्वागमानां प्रत्येकमुदाहरणेन भेदपरत्वप्रतिपादनम् अल्पे ग्रन्थे दुःशकमित्यभिप्रायवान् सर्वेऽपि वेदा भगवतः सर्वस्माद्भेदमेव बोधयन्तीत्यत्र श्रुतिमेव पठति- सर्व इति ।।
सर्वे वेदा हरेः सर्वस्माज्जीवजडात्मकाद्भेदं ज्ञापयन्तीत्ययुक्तम् । ‘सर्वोत्कर्षे देवदेवस्य विष्णोः’ इति तद्गुणोत्कर्षे सर्ववेदानां महातात्पर्यस्योक्तत्वेन तद्विरोधात् । न ह्येकस्योभयत्र महातात्पर्यमुप-पद्यते । एकवाक्यत्वस्यार्थैकत्वाधीनत्वादित्यत आह- भेद इति ।। स च भेदः स्वातन्त्र्यादिरूप इत्यन्वयः । गुणोत्कर्षो भेद इत्येक एवार्थः । अतो न विरोधः । यदि स्वातन्त्र्याद्युत्कृष्टगुणलक्षणे हरेः सर्वस्माद्भेदे सर्वेषां वेदानां महातात्पर्यं तदा वक्तव्यं हरिः कुतः सिद्ध इति । वेदेभ्य एवेति चेन्न । उभयत्र महातात्पर्यविरोधादित्यत आह- स्वरूपमेवेति ।। हरेरिति वर्तते । अयं स्वातन्त्र्यादिलक्षणः । तथा च स्वातन्त्र्यादिरूपभेदस्वरूपे हरौ तात्पर्यमित्यर्थः ।
ननु भेदशब्दो भावसाधनः करणसाधनश्च । तत्र भेदनं भेद इति भावसाधनेनान्योन्याभावो व्यावृत्तिरूपोऽभिधीयते । भिद्यतेऽनेनेति भेद इति करणसाधनेन स्वातन्त्र्यादिरसाधारणो धर्मः कथ्यते । तत्राद्य एवात्र प्रकृतः । द्वितीयस्तु तादर्थ्येन । तथा च हरेः सर्वतो व्यावृत्तावसाधारण-धर्मस्वरूपे हरौ च वेदानां महातात्पर्याङ्गीकारे पुनर्वाक्यभेदः स्यादित्यत आह- व्यावृत्तिश्चेति ।। वस्तुनो याऽन्यस्माद्व्यावृत्तिर्या च स्वरूपता तदुभयं तावदेकमेवेत्यर्थः । तत्कुत इत्यत आह- सर्वेति ।। अयं स्वरूपशब्दान्तर्गतो रूपशब्दो हि वस्तुपर्यायः, स्वपरसाधारण इति स्वशब्दस्य प्रयोगः । ततश्च ‘सिद्धे सत्यारम्भो नियमार्थः’ इतीतरसर्वव्यावृत्तिबोधनाय स्वशब्दः प्रयुज्यत इति लभ्यते । एवं च सर्वतो व्यावृत्तं रूपं स्वरूपमित्यर्थः सम्पद्यते । धर्मवचनानां धर्म्यभिधायक-त्वात् । स्वरूपस्य भावस्स्वरूपता । प्रवृत्तिनिमित्तमेव शब्दस्य तद्धितवाच्यो भाव इति स्वरूपता व्यावृत्तिश्चेत्येक एवार्थ इत्यर्थः । न चात्र भावभवित्रोर्भेदोऽस्ति । केवलं विशेषबलेनैव भाव-भवितृभावः । अतः सर्वस्माद्व्यावृत्तिरपि हरेः स्वरूपमेवेति द्विविधे भेदे हरौ च तात्पर्यमित्येतन्न विरुध्यते । विशेषविवक्षायान्तु स्वातन्त्र्यादिगुणैस्तन्निमित्तया सर्वतो व्यावृत्त्या च विशिश्व्े हरौ तात्पर्यमिति भावः । अस्त्वेवं विरोधाभावः । तथाप्युभयविधभेदप्रतिपादकवाक्यानां वेदेऽदर्शनात् कथं तत्र तात्पर्यमुच्यत इत्यत आह- सर्वेति ।। एवशब्देन सर्वासत्त्ववादित्वं व्यावर्तयति । अतः, अन्याः ‘यः सर्वज्ञः’ इत्याद्याः सर्वा अपि श्रुतयो विष्णोरसाधारणधर्मान् वदन्तीति शेषः । तदेवं ‘सन्ति च भेदे सर्वागमाः’ इत्येतत्सिद्धमिति ।
भावबोधः
ननु स्वरूपशब्दान्तर्गतस्य स्वशब्दस्य व्यावृत्त्यर्थत्वात्कथं व्यावृत्तवस्तुलाभ इत्यत आह- धर्म-वचनानामिति ।। स्वशब्दस्य व्यावृत्त्यर्थत्वेऽपि कथं स्वरूपताव्यावृत्त्योरैक्यमित्यत आह- प्रवृत्तिनिमित्तमे-वेति ।। न चैवं स्वभावव्यावृत्त्योरैक्यं स्यात्, न स्वरूपताव्यावृत्त्योरिति वाच्यम् । रूपशब्दसमभिव्याहृतस्यैव स्वशब्दस्य ‘सिद्धे सत्यारम्भो नियमार्थः’ इति न्यायेन व्यावृत्त्यर्थत्वाङ्गीकारात् । अत एवायमित्येतत्स्वरूप-शब्दान्तर्गत इति व्याख्यातम् । नन्वेवमपि व्यावृत्तिविष्णुस्वरूपतयोरभेदोऽस्तु, विष्णुव्यावृत्त्योः कथमभेद इत्यत आह- न चात्रेति ।। नन्वेवं विष्णुतद्गतस्वातन्त्र्यादिधर्मतन्निमित्तकव्यावृत्तीनामभेदे ‘सर्वस्माद्भिन्नत्वेन सर्वस्माद्विशिष्टत्वेन ज्ञेयम्’ इत्यादि कथमित्यत आह- विशेषविवक्षायान्त्विति ।।
भावदीपः
सर्वागमा भेदविषया इत्येतदिति ।। ‘सन्ति च भेदे सर्वागमाः’ इति प्रागुक्तमित्यर्थः । कुतो विरोध इत्यत उपपादयति- न हीति ।। एकस्येति ।। एकवाक्यतापन्नस्य, उभयत्र भेदे गुणोत्कर्षे चेत्यर्थः । वाक्यभेदप्रसङ्गादिति भावः । कुत इत्यत आह- एकेति ।। अर्थैकत्वेति ।। ‘अर्थैकत्वादेकं वाक्यम्’ इति जैमिनिसूत्रोक्तेरिति भावः । तच्छब्दचशब्दयोरन्वयेन अनुवादोऽयम्- स च भेद इति ।। भावसाधन इति ।।
‘धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते’
इत्युक्तो धात्वर्थरूपो भावः साधनं प्रत्ययोत्पत्तौ अस्य शब्दस्य स भावसाधनः । एवं करणसाधन इत्यत्रापि ज्ञेयम् । ‘भिदिर् विदारणे’ इत्यतो भावे करणे च ‘अकर्तरि च कारके’ इति सूत्रेण घञ्प्रत्यये ‘पुगन्तलघूपधस्य च’ इति गुणे भेदशब्दरूपमिति भावः । व्यावृत्तिरूप इत्युत्तरोपयोगायोक्तम् । तादर्थ्येनेति ।। भेदसिद्ध्यर्थत्वे-नेत्यर्थः । भेदकाभावे भेदस्यासिद्धेरिति भावः । स्वशब्दोक्त्या कथमिष्टसिद्धिरित्यत आह- ततश्चेति ।। स्वपरसाधारणरूपपदेनैव स्वस्वकीयरूपग्रहणसिद्धावपि पुनः स्वेतिशब्दः स्वस्यैव रूपं न पररूपमिति नियमार्थः सन् रूपस्येतरसर्वव्यावृत्तिबोधनाय प्रयुज्यत इत्यर्थः । अत एव पाणिनीये ‘स्वं रूपं शब्दस्याशब्दसंज्ञा’ इति सूत्रे स्वमिति रूपविशेषणोक्तिः । फलितमाह- एवमिति ।। व्यावृत्त्यर्थं स्वेति प्रयोगे सतीत्यर्थः । व्यावृत्तं व्यावृत्तिधर्मकम् । व्यावृत्तिवाचिनः स्वशब्दस्य कथं व्यावृत्तिमत्त्वमित्यत आह- धर्मवचनानामिति ।। तावता कथं स्वरूपताव्यावृत्त्योरैक्यमित्यत आह- स्वरूपस्य भाव इति ।। को भावपदार्थ इत्यत उक्तम्- प्रवृत्तिनिमित्त-मेव शब्दस्येति ।। स्वरूपशब्दस्य प्रवृत्तिनिमित्तं स्वरूपतेति तल्प्रत्ययरूपतद्धितवाच्यो भावपदार्थः । इतीतिशब्दो हेत्वर्थः । स्वशब्दस्य व्यावृत्तिवाचिनो रूपपदसमभिव्याहारेण धर्मिपरतया व्यावृत्तं रूपं स्वरूपमित्यर्थः । स्वरूपस्य भावः स्वरूपतेत्युक्त्या व्यावृत्तरूपस्य भावो व्यावृत्ततेत्युक्तं भवति । व्यावृत्तस्य भावश्च व्यावृत्तशब्द-प्रवृत्तिनिमित्तं व्यावृत्तिरेव । तथा च व्यावृत्तिः स्वरूपतेत्येक एव अर्थ इत्यर्थः। ननु व्यावृत्तेः स्वरूपतायाश्चैक्यमस्तु, विष्णुनैक्यं कथं, येन वाक्यभेददोषोद्धार इत्यत आह- न चात्रेति ।। हरावित्यर्थः । भावेति ।। धर्मधर्मिणोरि-त्यर्थः । विशेषेति ।। भेदकार्यनिर्वाहकत्वेन भेदप्रतिनिधिविशेषबलेनेत्यर्थः । नन्वेवं ‘सदागमैकविज्ञेयम्’ इत्युक्तस्य ‘अतः सदागमैरेव सर्वस्माद्भिन्नत्वेन सर्वस्माद्विशिष्टत्वेन च ज्ञेयो भगवान्’ इति परिच्छेदान्ते कथं भेदेनोपसंहार इत्यत आह- विशेषविवक्षायां त्विति ।। भेदप्रतिनिधिविशेषेत्यर्थः । अतोऽन्या इति ।। ‘नेति नेति’ इति श्रुतितोऽन्या इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
इत्युक्तमिति ।। ‘तथा हि- अतत्त्वमसीति नवकृत्व उपदेशः सदृष्टान्तकः’ इति प्रतिज्ञातमि-त्यर्थः । उपपादितमिति ।। न हि शकुनिसूत्रयोरित्यारभ्यैतावता ग्रन्थेनेत्यर्थः । अर्थैकत्वेति ।। ‘अर्थैकत्वादेकं वाक्यम्’ इति जैमिनिसूत्रादित्यर्थः । ननु कथमनेनोक्तविरोधपरिहार इत्यत आह- गुणोत्कर्ष इति ।। भावसाधन इति ।। भावो धात्वर्थः तं साधयति प्रतिपादयतीति भावसाधन इत्यर्थः । करणसाधन इति ।। करणत्वप्रतिपादक इत्यर्थः । तादर्थ्येनेति ।। भेदसिद्ध्यर्थत्वेनेत्यर्थः । वस्तुपर्याय इति ।। अभिधेयार्थक इत्यर्थः । स्वपरसाधारण इति ।। स्वपराभिधायक इत्यर्थः । ननु स्वशब्दप्रयोगेण कथमितरसर्वव्यावृत्तिबोध इत्यत उक्तम्- सिद्धे (श्री.टि.) सतीति ।। स्वपरसाधारणरूपशब्देनैव स्वस्मिन् सिद्धे प्राप्ते सति पुनरारम्भो नियमार्थः, स्वशब्देन पुनः प्रतिपादनं स्वाख्यमेव रूपम् अभिधेयमिति नियमार्थमित्यर्थः । एवं च स्वशब्दः स्वेतरसमस्तवस्तुव्यावृत्तिं प्रतिपादयतीति भावः । नन्वितरसर्वव्यावृत्तिबोधनाय यदि स्वशब्दः प्रयुज्यते तर्हि स्वरूपशब्दान्तर्गतस्य स्वशब्दस्य व्यावृत्त्यर्थकत्वमेव प्राप्तं तत्कथं व्यावृत्तवस्तुवाचकत्वम् । तथा च सर्वतो व्यावृत्तं रूपं स्वरूपमित्युक्तमसदित्यत आह - धर्मवचनानामिति ।। एवं च व्यावृत्तिरूपधर्मवाच्यपि शब्दो व्यावृत्तवस्तुरूपधर्म्यभिधायकोऽपि भवति । धर्मधर्मिणोरभेदादिति भावः ।
ननु स्वशब्दस्य व्यावृत्त्यर्थकत्वेऽपि व्यावृत्तिश्च स्वरूपतेत्युक्तं व्यावृत्तिस्वरूपतयोरैक्यं कथं प्राप्तमित्यतस्तदुप-पादयति- प्रवृत्तिनिमित्तमेव चेति ।। ‘तस्य भावस्त्वतलौ’ इति सूत्रोक्तत्वतल्प्रत्ययरूपतद्धितवाच्यो धर्मः शब्दस्य यत्प्रवृत्तिनिमित्तं तदेव यथा घटत्वादि । एवं च प्रकृते रूपशब्दसमभिव्याहृतस्वशब्दप्रवृत्तिनिमित्तभूतैव व्यावृत्तिः, स्वरूपतेत्यत्र स्वरूपस्य भावः स्वरूपतेति तद्धित(भूत)स्वरूपतल्प्रत्ययवाच्यो धर्म इति तयोर्भेदा-भावाद्व्यावृत्तिस्वरूपतयोरैक्यमित्यर्थः । ननु व्यावृत्तिस्वरूपतयोरैक्येऽपि विष्णुस्वरूपव्यावृत्त्योः कथमैक्य-मित्यत आह- न चात्रेति ।। तथा च धर्मधर्मिणोरभेदाद्भगवद्धर्मभूतव्यावृत्तिभगवत्स्वरूपयोरैक्यमिति भावः । ननु भगवत्स्वरूपव्यावृत्त्योरैक्ये भगवतस्सर्वस्माद्व्यावृत्तिरिति धर्मधर्मिभावायोग इत्यत आह- केवल-मिति ।। द्विविधे व्यावृत्तिरूपे व्यावर्तकधर्मरूपे च । ननु भेदकधर्मव्यावृत्त्योर्विष्णुस्वरूपेणाभेदे स्वातन्त्र्यादिगुण-विशिश्व्े सर्वव्यावृत्त्या च विशिश्व्े हरौ तात्पर्यमित्येतन्न युक्तं तस्याभेदसापेक्षत्वादित्यत आह- विशेषविव-क्षायामिति ।। अभेदे भेदकार्यकारिविशेषविवक्षयेति यावदित्यर्थः । उभयविधेति ।। व्यावृत्तिव्यावर्तकधर्म-रूपोभयविधेत्यर्थः । एवशब्देनेति ।। नेति नेतीत्यादिका श्रुतिः सर्वव्यावृत्ततामेव विष्णोर्वदति । न तु किमपि जगन्नास्तीति सर्वासत्त्वं प्रतिपादयतीत्येवं सर्वासत्त्ववादित्वम् एवशब्देन व्यावर्तयतीत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
एकवाक्यत्वस्येति ।।
‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्यात्’
इति जैमिनिवचनादिति भावः । विरोधादिति ।। वाक्यभेदप्रसङ्गादिति भावः । भावसाधन इति ।। भावो धात्वर्थः स साधनम् अभिधेयं यस्येति बहुव्रीहिः । ततश्च भावाभिधायक इत्यर्थः । एवं करणसाधन इत्यस्यापि करणाभिधायक इत्यर्थः । रूपशब्दो हीति ।। ‘स्वं रूपं शब्दस्य’ इत्यत्र रूपशब्देन प्रसक्तस्य बाह्यार्थस्य व्यावृत्तये स्वमित्युक्तत्वात्’ इति टीकाकृताऽन्यत्रोक्तत्वादिति भावः । अत्र शब्दस्येति ‘कृत्यानां कर्तरि वा’ इति कर्तरि षष्ठी । अस्य च अध्याहृतेन ग्राह्यमित्यनेन सम्बन्धः । ग्राह्यमिति च णिजन्ताद्यत् । तेन शब्दस्य स्वयमेव रूपं प्रत्यापयति । न लोकवद्बाह्यार्थमिति सूत्रार्थः सम्पद्यते । अत्र यद्यपि स्वात्मीयवाचिना स्वशब्देन तस्य शब्दस्येवार्थस्य प्रतिपादनेऽपि नार्थस्य सत्त्वम् । अर्थो हि स्वप्रतिपत्तौ सम्बन्धग्रहणमपेक्षते । पर्यायैरपि प्रतिपादनात् साधारणश्च । अनुकरणशब्दैरप्रत्यायनादनित्यसम्बन्धश्चेति । किं नाम प्रतीतौ उपदेशानपेक्ष-(पां.टि.) त्वादसाधारणत्वात् नित्यसम्बन्धित्वाच्च शब्दरूपमेव स्वं सिद्ध्यतीति । अर्थस्याप्रसङ्गात् किं रूपग्रहणेनेति वैयर्थ्यमाशङ्क्य सति तु व्यावर्त्ये तत्रैवोपक्षयाद्रूपग्रहणस्याज्ञापकत्वेऽपि प्रकृते रूपग्रहणस्य व्यावर्त्याभावेनानुपक्षीणं यद्रूपग्रहणं करोति तत् ज्ञापयत्याचार्यः । अस्त्यन्यच्छब्दरूपात् स्वं शब्दस्येति । किं पुनस्तत्? बाह्योऽर्थः । ततश्च शास्त्रे शब्दस्वरूपेण समानकक्ष्योऽर्थ इति सिद्धौ स्वशब्देन बाह्यार्थस्य प्रसक्तौ तद्व्यावृत्त्यर्थं रूपपदं प्रयुक्तम् । तच्च सामान्याकारवाचकम् । तत्र व्यापकत्वात् शब्दत्वादिसाधारणाकारस्यैव रूपपदेन विवक्षायामुक्तातिप्रसङ्गेन सूत्रस्यैवानर्थक्यापत्त्या असाधारणस्यैवाग्निशब्दत्वादे रूपस्य विवक्षणीयत्वे-नार्थस्य प्रसङ्गान्न तद्वाचिभ्यः सर्वशब्देभ्यः प्रत्ययोत्पत्तिप्रसङ्ग इति युक्तः सूत्रारम्भ इति मञ्जर्यादौ निर्णीतत्वान्न रूपशब्देन प्रसक्तस्य बाह्यार्थस्य स्वशब्देन व्यावृत्त्यभिधानमुचितम् । तथाप्युक्तातिप्रसङ्गनिरासार्थं प्रवृत्तत्वेऽप्यस्य सूत्रस्य रूप्यते निरूप्यते इति रूपमभिधेयम् । तच्चोभयोरपि शब्देन प्रतिभासात् शब्दोऽर्थश्चेति द्वयमपि । तत्रापि शब्दरूपमेव रूपं प्रतीतावुपदेशानपेक्षत्वादिहेतुभ्यः । न त्वर्थोऽपि प्रतीतावुपदेशादिसापेक्षत्वादिहेतुभ्यः । ततश्चान्तरेणापि स्वशब्दं रूपशब्देन स्वरूपस्यैव प्राप्तेरव्यावर्तकत्वान्न स्वशब्देन प्रयोजनमिति शङ्कायां सिद्धे सत्यपि यत्स्वग्रहणं करोति तज्ज्ञापयत्याचार्यः- अस्त्यन्यत् स्वाद्रूपं शब्दस्येति । किं तत्? अर्थः । ततश्चार्थस्यापि शब्दस्वरूपसमानकक्ष्यत्वसिद्ध्या रूपशब्देन प्रसक्तिसम्भवात्तद्व्यावृत्त्यर्थं स्वशब्दोपादानम् । ततश्च बाह्यार्थ-व्यावृत्तस्यासाधारणशब्दरूपस्यैव लाभात् न सर्वेभ्यः प्रत्ययोत्पत्तिप्रसङ्ग इति तत्सूत्रवर्णकान्तराभिप्रायेणायं ग्रन्थः प्रवृत्त इति द्रष्टव्यम् ।
ननूक्तरीत्या स्वरूपशब्दान्तर्गतस्य स्वशब्दस्य व्यावृत्त्यर्थकत्वात् कथं व्यावृत्तवस्तुलाभ इत्यत आह- धर्म-वचनानामिति ।। धर्मधर्मिणोरभेदेन व्यावृत्तिरूपधर्मवाचकस्य व्यावृत्तिविशिष्टधर्म्यभिधायकत्वादित्यर्थः । नन्वेवं स्वशब्दस्य व्यावृत्त्यर्थकत्वे कथं व्यावृत्तिस्वरूपतयोरैक्यलाभ इत्यत आह- प्रवृत्तिनिमित्तमेवेति ।। न चैवं स्वताव्यावृत्त्योरैक्यं स्यात्, न स्वरूपताव्यावृत्त्योरैक्यमिति वाच्यम् । रूपशब्दसमभिव्याहृतस्य स्वशब्दस्यैव ‘सिद्धे सत्यारम्भो नियमार्थः’ इति न्यायेन व्यावृत्त्यर्थत्वाङ्गीकारात् । अत एवायमिति एतत्स्वरूपशब्दान्तर्गत इति व्याख्यातम् । नन्वेवमपि व्यावृत्तिविष्णुस्वरूपतयोरभेदेऽपि विष्णुव्यावृत्त्योः कथमभेद इत्यत आह- न चात्रेति ।। कथं तर्हि अयं भावः अयं भवितेति व्यवहार इत्यत आह- केवलमिति ।। द्विविध इति ।। अन्योन्याभावरूपे स्वातन्त्र्यादिरूपे चेति एवं द्विविधे इत्यर्थः । नन्वेवं विष्णुतद्गतस्वातन्त्र्यादिधर्मतन्निमित्त-कव्यावृत्तीनामभेदे ‘सर्वस्माद्भिन्नत्वेन सर्वस्माद्विशिष्टत्वेन च ज्ञेयम्’ इत्यादिकं कथमित्यत आह- विशेष-विवक्षायामिति ।।
लघुप्रभा
(व्या.टि.)
शिष्यशेमुषीमनुकूलयिष्यन् वृत्तवर्तिष्यमाणसङ्गतिं दर्शयति - एवमिति ।। दुश्शकमिति खलन्तम् । एक एवेति ।। भेदशब्दस्य करणसाधनत्वादित्यर्थः । प्रकृत इति ।। ऐक्यप्रतिषेधत्वेन साक्षात्प्रकृत इत्यर्थः । भावभवित्रोरभेदं वक्तुं व्यावृत्तेरपि भावप्रत्ययार्थतया भावत्वं साधयति- तदुभयमिति ।। उभयपद-(व्या.टि.)वाच्यमित्यर्थः । अतो न वाक्यभेद इति भावः । एतेन स्वरूपतामुपेत्य व्यावृत्तिमनङ्गीकुर्वाणस्याद्वैतिनो व्याहतिः सूचिता । ननु व्यावृत्तिवाचकस्य पदस्य कथं धर्मवाचिरूपपदसामानाधिकरण्यमित्यत आह- धर्म-वचनानामिति ।। नीलमुत्पलमित्यादिविशेषणपदानां सामानाधिकरण्यबलेन तद्द्वारा विशेष्यपरत्वादि-त्यर्थः । प्रवृत्तिनिमित्तमेवेति ।। प्रकृतिप्रवृत्तिनिमित्तमेव न धर्ममात्रं भावप्रत्ययार्थ इत्यर्थः । तथापि भावभवितृ-रूपार्थभेदाद्वाक्यभेदःइत्यत आह-न चात्रेति ।। ‘एवं धर्मान् पृथक्पश्यन्’ इति धर्मानुक्त्वा पृथक्त्वनिषेधादि-त्यर्थः । यथोक्तमनुव्याख्याने-
‘उक्त्वा धर्मान् पृथक्त्वस्य निषेधादत एव हि ।
विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ।।’ इति ।
अभेदे कथं भावभवितृभावः । तस्य भेदनिबन्धनत्वादित्यत आह- केवलमिति ।। प्रतिनिधेरपि मुख्यकार्य-करत्वादित्यर्थः । पृथक् स्वरूपमात्रतात्पर्ये अखण्डार्थता श्रुतीनामित्यत आह- विशेषविवक्षयेति ।। तथा च विशिष्टार्थपरत्वान्नाखण्डार्थतेति भावः । उभयविधेति ।। व्यावृत्तिव्यावर्तकरूपोभयविधेत्यर्थः । व्यावर्तय-तीति ।। ‘स वा एष नेति नेत्यात्मा’ इति प्रथमान्तपदसामानाधिकरण्यान्नञो व्यावृत्तिपरत्वमेव न निषेधपर-त्वम् । तथात्वेऽधिकरणवाचिनि सप्तमीप्रसङ्गादिति भावः । अतोऽन्या इत्यत्रापि पूर्वकर्मानुवृत्तावैकार्थ्य-प्राप्तेरपूर्वकर्माध्याहरति- असाधारणधर्मानिति ।। अखण्डार्थं निगमयति- तदेवमिति ।।