विशेषणानि यानीह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ।। २ ।।

ग्रन्थारम्भणीयत्वसमर्थनम्

मूलम्

विशेषणानि यानीह कथितानि सदुक्तिभिः ।

साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ।। २ ।।

तत्त्वमञ्जरी

वस्तु निर्दिशति - विशेषणानीत्यादिना ।। सदुक्तिभिः सदागमैः । निर्दोषोप-पत्त्युक्तिभिश्च । अत्र सज्जनसंविद इति सज्जनोऽधिकारी, मोक्षैकफला नारायणसंवित् प्रयोजनं चोच्यते । विषयस्तु नारायणमिति प्रथमत एव । सम्बन्धः संवेद्यसंवेदकादिलक्षणः ।

टीका  

स्यादेतत् । प्रकरणमेवेदं नाऽरम्भणीयं विषयप्रयोजनसम्बन्धशून्यत्वात् । प्रतीतघट-स्वरूपप्रतिपादकवाक्यवत् काकदन्तपरीक्षाग्रन्थवच्च । स हि शास्त्रस्य विषयो भवति, योऽज्ञातः सन्दिग्धो विपर्यस्तो वा । अस्य च विषयत्वेन अभिमतो नारायणः सर्वसम्मत एव । नहि नारायणपदमनर्थकं कोऽप्यङ्गीकरोति । नाप्यस्य प्रकरणस्य प्रयोजनमस्ति, ऐहिकपारत्रिकयोः कृष्यादियागादिसाधनान्तरसाध्यत्वात्, एतेन सम्बन्धाभावाच्च । मोक्षस्यापि कर्मसाध्यत्वात्, एतत्सम्बन्धाभावाच्च, सकलैहिकपारत्रिकभोगपरित्यागात्मकस्य तस्य अपुरुषार्थत्वेन निरधि-कारिकत्वापत्तेश्चेत्यत आह- विशेषणानीति ।। लक्षणत्वेन निर्दोषत्वम्, अशेषसद्गुणत्वम्, यथा कामधेनुप्रभृतीनां लोकविलक्षणत्वात् प्रासादोद्गिरणादिकं नासम्भवि, तथा भगवतोऽपीति दर्शनार्थं सर्वतोऽत्यन्तविलक्षणत्वम्,  तत्र प्रमाणाकाङ्क्षायां वेदादिवेद्यत्वं, तस्य विरोधपरिहाराय दुरागमाद्यवेद्यत्वमिति यानि इह आद्यपद्ये नारायणस्य विशेषणानि कथितानि तान्येव इह ग्रन्थे साधयिष्यामि, तत्प्रसक्तं चान्यत् । न तु स्वरूपमात्रम् । एतद्विशेषणवति च नारायणे सन्त्येव अज्ञानसन्देहविप्रतिपत्तय इत्यनेन विषयो दर्शितः । प्रकरणस्य विषयेण सह प्रतिपाद्यप्रति-पादकत्वलक्षणः सम्बन्धश्चोक्तः । स तु न युक्तः । साधकप्रमाणाभावात् । न तावदनुमानादिना सदागमैकविज्ञेयत्वादिविशिष्टतया नारायणः साधयितुं शक्यते स्ववचनविरोधात् । नापि वेदादिभिः सदागमैः, तत्प्रामाण्यमनभ्युपगच्छतः सौगतार्हतादीन् प्रति तदुपन्यासायोगाद् इत्यत आह- सदुक्तिभिरिति ।। सदागमैः । तत्प्रामाण्यं च साधयिष्यामीति भावः ।

अथवा सत्यो वेदाद्या उक्तयः अनुग्राहिका येषामनुमानादीनां तानि सदुक्तीनि तैरपि । सदागमैकविज्ञेयमिति च वेदादिविरुद्धानुमानाद्यवेद्यत्वमेवोक्तमिति हृदयम् । क्रमादिति मन्दानां मनस्समाधानायोक्तम् । अन्यथा कुत्र किं साधितमिति मन्दा व्याकुलाः स्युः । निर्देशक्रम एवात्र विवक्षितो न त्वाकाङ्क्षाक्रमः । संविदे इति प्रयोजनाभिधानम् । ननु न व्युत्पाद्यार्थसंविन्मात्रं प्रयोजनं सुखदुःखावाप्तिहान्योरन्यतरत्वाभावात्, काकदन्तपरीक्षाग्रन्थसाधारण्याच्चेत्यत उक्तम्- सज्ज-नेति ।। सन्ति हि तथाविधाः पुरुषाः, येषां सुखावाप्त्यादिकमपि न प्रार्थ्यं, किन्तु परमेष्टस्य नारायणस्य संविदेव । तान् प्रति इदं साधनमुपपद्यते । नहि सर्वाधिकारिकं किमपि शास्त्रमस्ति । अथवा संविच्छब्देन तत्साध्यो मोक्ष उपलक्ष्यते । मोक्षस्य कर्मसाध्यत्वं निराकर्तुं, प्रकरणस्य प्रयोजनेन सम्बन्धमुपपादयितुं च लाक्षणिकप्रयोगः  । एवं तर्हि निरधिकारिकत्वमित्यत उक्तम्- सज्ज-नेति ।। ये खलु सात्त्विकप्रकृतयोऽधीतसाङ्गाम्नायाः, शमदमादिसम्पन्नाः, नित्यानित्यवस्तुविवेक-वन्तोऽखिलसांसारिकभोगेभ्यो विरक्ता मुमुक्षवो, भगवत्संविदेकसाध्यत्वात् मोक्षस्य, तामेवार्थ-यन्ते तेषां  संविदे    तस्मात्  विषयप्रयोजनसम्बन्धाधिकारिसम्पन्नत्वादारम्भणीयं  प्रकरणमिति स्थितम् ।

भावबोधः

।। प्रतीतघटेति ।। यथाक्रममनयोर्विषयप्रयोजनाभावोदाहरणत्वं द्रष्टव्यम् । एतयोरेव सम्बन्धा-भावोदाहरणत्वान्न पृथक् वक्तव्यमिति भावः ।। एतेनेति ।। शास्त्रेणैहिकपारत्रिकयोः सम्बन्धाभावादित्यर्थः। ननु संविच्छब्देन मोक्षः कुत उपलक्षणीयः, सज्जनमुक्तय इत्येव किं नोच्यत इत्यत आह- मोक्षस्य कर्म-साध्यत्वमिति ।। तथा च शक्यसम्बन्धान्वेषणे संविन्मोक्षयोर्जन्यजनकभावलाभेन मोक्षस्य कर्मसाध्यत्व-निराकरणं संविद्विषयप्रतिपादकस्यास्य प्रकरणस्य संवित्साध्यमुक्त्या सह परम्परया साध्यसाधनभाव-सम्बन्धोपपादनं च कृतं भवति । मुख्यप्रयोगे तदसिद्धेरिति भावः । पूर्वोक्तनिरधिकारित्वशङ्कापरिहारकत्वेन सज्जनपदमवतारयति- एवं तर्हीति ।।

भावदीपः

उत्तरपद्यस्य व्यर्थतामाशङ्क्य तन्निवर्तकतया तदवतारयति- स्यादेतदित्यादिना ।। एतद् वक्ष्यमाणं चोद्यं स्यादित्यर्थः । तदाह-प्रकरणमेवेदमिति ।। यद्वा एतद्मङ्गलाचरणरूपं वन्दनं प्रकरणस्यारभ्यत्वे स्यात् । तदेव अनारम्भणीयमित्यर्थः ।। विषयेति ।। विषयशून्यत्वात्, प्रयोजनशून्यत्वात्, विषयेण च प्रयोजनतया अभिमतेन चास्य प्रकरणस्य सम्बन्धशून्यत्वादित्यभिप्रेत्य, आद्यहेतुद्वये क्रमाद् दृष्टान्तावाह- प्रतीतेति ।। विषयस्वरूपं वदन्नेव आद्यहेतोः पक्षधर्मतामाह- स हीत्यादिना अङ्गीकरोतीत्यन्तेन ।। एतच्च ‘इह तान्येव विशेषणानि साधयिष्यामि’ इत्यस्य व्यावर्त्यं ज्ञेयम् । अज्ञातोऽनिश्चित इत्यर्थः । ज्ञात इति वा विभागः, सामान्यतो ज्ञातः, विशेषतः सन्दिग्धो विपर्यस्तो वा इत्यर्थः ।। अस्य चेति ।।  प्रकरणस्येत्यर्थः ।। सम्मत एवेति ।। नारायणपदवाच्योऽर्थः कश्चिदस्तीति सर्वजनसम्मत एव । न कस्यापि तत्र संशयो विपर्ययो वाऽस्तीति भावेन सम्मतत्वं व्यनक्ति- न हीत्यादिना ।। एतेन विषयेणास्य सम्बन्धाभावो व्युत्पादितो भवति । द्वितीयादिहेतोः पक्षधर्मतां व्यनक्ति-नापीत्यादिना । एतेनेति ।। प्रकरणेनेत्यर्थः । ऐहिकपारत्रिकयोरित्यनुषङ्गः । मोक्षोऽस्तु प्रयोजनमित्यत  आह- मोक्षस्यापीति ।।  ‘अपाम सोमममृता अभूम’ इत्यादेरिति भावः ।। एतत्सम्बन्धे-ति ।। प्रकरणेन मोक्षस्य सम्बन्धाभावाच्चेत्यर्थः । तदेतत् लाक्षणिकसंवित्पदकृत्यं बोध्यम् । न्यायमतरीत्या आह- सकलेति ।। तस्येति ।। मोक्षस्येत्यर्थः ।। निरधिकारिकत्वेति ।। तादृशमोक्षप्रयोजकस्यास्य प्रकरणस्येति योज्यम् । तदेतत् सज्जनपदव्यावर्त्यम् । उक्तसर्वशङ्कानिवर्तकतया आद्यपद्यं व्याचश्व्े- लक्षणत्वे-नेत्यादिना । विलक्षणत्वमिति ।। समतीतेत्यादिनोक्तमिति योज्यम् । तत्रेति ।। निर्दोषत्वादिलक्षणे सर्वतोऽत्यन्तविलक्षणत्वे चेत्यर्थः । आगमैकविज्ञेयमित्यस्यार्थो वेदादीति । सत्पदार्थस्तस्येत्यादि । इहेत्यनुवादः। आद्यपद्य इति व्याख्या । इहेत्यनुवृत्त्या अर्थान्तरं तस्याह- इह ग्रन्थ इति ।। अन्यदिति ।। वेदप्रामाण्य-तन्नित्यत्वतद्विभागाक्षप्राबल्यादिकमित्यर्थः ।। अज्ञानेति ।। यथावन्निश्चयाभाव इत्यर्थः ।। इत्यनेनेति ।। साधयिष्यामि तान्येवेत्यर्थः । सदुक्तिभिरित्यस्य व्यावर्त्यमाह- स तु न युक्त इति ।। स इत्यस्योक्त-विशेषणविशिश्वे नारायणोऽस्य विषय इत्ययमर्थ इत्यर्थः ।। स्ववचनेति ।। आगमैकविज्ञेयत्वोक्ति-रूपस्ववचनविरोधात् । ‘न चानुमानात् तत्सिद्धिः’ इत्यादिवक्ष्यमाणस्ववचनविरोधाद्वेत्यर्थः । स्वतन्त्रत्वाद्यनु-मानानां श्रुतिपुराणोक्तानामग्रे्रऽभिधानादाह- अथ वेति ।। स्ववचनविरोधं निराह- सदागमेति ।। न त्वाकाङ्क्षाक्रम इति ।।  तथात्वे त्रयाणामपि परिच्छेदानां मध्येऽन्त्यस्य प्राथम्यं प्रथमस्यान्त्यताप्रसङ्ग इति भावः ।। व्युत्पाद्यार्थेति ।। उक्तविशेषणयुक्तनारायणरूपार्थसंविन्मात्रमि-त्यर्थः । तज्ज्ञानस्यापुमर्थत्वेऽपि विप्रतिपन्नोऽर्थोऽवश्यं व्युत्पाद्य एवेत्यत आह- काकदन्तेति ।। तथात्वेऽनारम्भणीय एवायं ग्रन्थः स्यादिति भावः ।। सन्ति हीति ।। ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत् तदर्थकम्’ इति  वचनादिति भावः । सर्वाधिकारिकत्वलाभायाऽह- अथ वेति ।। सम्बन्धमिति ।। प्रकरणजन्यसंवित्साध्यत्वरूपसम्बन्ध-मित्यर्थः ।। एवं तर्हीति ।। ऐहिकामुष्मिकभोगहीनमोक्षफलकत्व इत्यर्थः । निरधिकारिकत्वं प्रकरणस्येत्यनु-षङ्गः । सांसारिकेभ्यो भोगेभ्यो विरक्ता  मुमुक्षव  इत्युक्त्या मोक्षस्य परमपुमर्थत्वं सूचितम् ।। तेषां संविद इति ।। स्वतोऽपुमर्थत्वेऽपि परमपुमर्थमोक्षहेतुत्वात् पुमर्थ एव संविदिति भावः । एतेन सात्त्विकप्रकृतित्वाद्युक्त-विशेषणविशिष्टा अत्र ग्रन्थेऽधिकारिण इत्युक्तं भवति ।

वाक्यार्थदीपिका

(श्री.टि.)

।। प्रकरणमेवेदमिति ।। यस्य निर्विघ्नेन परिसमाप्त्यर्थं मङ्गलाचरणं स्यादिति भावः ।। सम्बन्धे-ति ।। विषयप्रयोजनाभ्यां प्रकरणस्य, विषयप्रयोजनयोश्च परस्परं सम्बन्धाभावादित्यर्थः । विषयशून्यतयाऽ-नारम्भणीयत्वे दृष्टान्तमाह- प्रतीतेति ।। प्रयोजनशून्यत्वेनानारम्भणीयत्वे दृष्टान्तमाह- काकेति ।। ‘काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । कम्बले कति रोमाणि का वार्ता चोलमण्डले’ इत्यादिवदित्यर्थः । एतयोरेव सम्बन्धाभावोदाहरणत्वान्न पृथगुक्तमिति मन्तव्यम् । स्वरूपासिद्धिपरिहाराय विषयशून्यत्वमुप-पादयति- स हीति ।। योऽज्ञात इत्यादि ।। यथाऽऽहुः पदार्थविदः ‘सन्दिग्धविपर्यस्तान्यतरं प्रत्येव शास्त्रस्यार्थ-वत्त्वात्’ इति । अस्य प्रकरणस्य सर्वसम्मतत्वमुपपादयति- न हीति ।। तथात्वे पदत्वव्याघातादिति भावः । व्याघातसूचनार्थमेव ‘पदमनर्थकं कोऽपि न ह्यङ्गीकरोति’ इत्युक्तम् । तथा हि । ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति प्रातिपदिकसञ्ज्ञायाम्, ‘ङ्याप्प्रातिपदिकात्’ इति प्रातिपदिकोपरि स्वादिप्रत्यये, ‘सुप्तिङन्तं पदम्’ इति (श्री.टि.) पदत्वविधानात्, पदत्वाङ्गीकारेऽर्थवत्त्वप्राप्त्या अनर्थकत्वाङ्गीकारे च तद्व्याहन्येतेत्याशयः । प्रयोजन-शून्यत्वमुपपादयति- नापीति ।। प्रयोजनं भवदैहिकं वा स्यात् पारत्रिकं वा । द्वितीयेऽपि स्वर्गो मोक्षो वा । नाऽद्यद्वितीयावित्याह- ऐहिकेति ।। धान्यधनादिरूपैहिकेत्यर्थः । कृष्यादीत्यादिपदेन कुसीदादिग्रहणम् । यागादीत्यादिपदेन अन्नप्रपादानादिरूपपूर्तसङ्ग्रहः ।। एतेनेति ।। तयोः साधनान्तरसाध्यत्वेन एतेन प्रकरणेन जन्यजनकभावसम्बन्धाभावादित्यर्थः । एवमेवोत्तरत्राप्युपपादनं द्रष्टव्यम् । नापि तृतीय इत्याह- मोक्षस्या-पीति ।। ‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेरिति भावः ।। एतदिति ।। एतेन प्रकरणेनेत्यर्थः । विषय-प्रयोजनाभावादेवाधिकारी च दूरे निरस्त इत्याह- सकलेति ।। आत्मकस्येत्यनन्तरं मोक्षस्येति शेषः । एक-विंशतिदुःखध्वंसात्मनाशादिरूपत्वादिति भावः ।। अपुरुषार्थत्वेनेति ।। पुरुषेणार्थ्यमानत्वाभावेनेत्यर्थः । न ह्येतादृशे मोक्षेऽर्थिता कस्यापि सम्भवतीति भावः ।। निरधिकारिकत्वापत्तेरिति ।। यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैवाधिकारित्वादिति भावः । केवलार्थकैकशब्दार्थानुवादो दुरागमाद्यवेद्यत्वमिति । इहेत्यस्याऽवृत्तिमभिप्रेत्य इह ग्रन्थ इत्युक्तम्  । ननु वेदप्रामाण्यापौरुषेयत्वादेरप्यत्र साधनात्तान्येवेति कथमुच्यत इत्यत आह- तत्प्रसक्तं चेति ।। सदागमैकविज्ञेयत्वे कथिते वेदानामेवाप्रामाण्यात्तत्कथमेतदित्याशङ्कायां तत्प्रामाण्यादिसाधनं क्रियत इत्येवमादिरूपेण अन्यत् प्रामाण्यादिसाधनम्, सदागमैकविज्ञेयत्वादिकथनप्रसक्त-मित्यर्थः ।। न तु स्वरूपमात्रमिति ।। नारायणस्वरूपमात्रमित्यर्थः । येन तस्य सर्वसम्मतत्वेन विषयत्वं न स्यादिति भावः । विप्रतिपत्तिः विपरीतनिश्चयः ।। उक्त इति ।। इह साधयिष्यामीत्यनेनेत्यर्थः । शङ्कते- स त्विति ।। विषय इत्यर्थः । सदागमैकविज्ञेयत्वादिविशिष्टस्य नारायणस्य यद्विषयत्वमुक्तं तदयुक्तमिति यावत् ।। साधकेति ।। साधयिष्यामीति साधकं प्रमाणमुक्तं तदभावादित्यर्थः । अनुमानादिनेत्यत्राऽदिपदेन प्रत्यक्षं ग्राह्यम् ।। स्ववचनविरोधादिति ।। एतैर्लक्षणैरनया च सम्भावनया विशिष्टो भगवान् कुतः प्रतिपत्तव्य इत्या-शङ्कायां सदागमैकविज्ञेयत्वमुक्त्वाऽधुना अनुमानादिना  वेद्यत्वाङ्गीकारे सदागमैकविज्ञेयमिति स्ववचनविरोधः स्यादित्यर्थः । सदुक्तिभिरित्यस्य व्याख्यानम्- सदागमैरिति ।। वेदादिभिरित्यर्थः ।

ननु सौगतादिभिर्वेदादिसदागमानां प्रामाण्यानङ्गीकारात् कथं सौगतादीन् प्रति सदागमैकविज्ञेयत्वादिविशिष्ट-नारायणसाधनाय तदुपन्यास इत्यत आह- तत्प्रामाण्यं चेति ।। उक्तार्थस्यानुमानादिनाऽप्यग्रे साध्यमानत्वात् कथं सदुक्तिभिः साधयिष्यामीति प्रतिज्ञेत्यस्वरसादाह- अथ वेति ।। आदिपदेन यशोदादिप्रत्यक्षग्रहणम् । तैरपीति ।। वेदानुगृहीतानुमानादिभिरपीत्यर्थः । नन्वेवं परमात्मनोऽनुमानादिगम्यत्वं वक्तुं न शक्यते । सदागमैकविज्ञेयत्ववचनविरोधादित्यत आह- सदागमैकविज्ञेयमिति चेति ।। वेदादिविरुद्धेति ।। न तु वेदानुकूलानुमानाद्यवेद्यत्वम् । तादृशानुमानादिभिरेव च साधनमस्माभिः प्रतिज्ञातमिति भावः । ननु प्रथमपरिच्छेदे सदागमैकविज्ञेयत्वप्रतिपादनमयुक्तम् । नियामकाभावात् । न च निर्देशक्रमानुसारेण तदुपपादनं क्रियत इति स एव नियामक इति वाच्यम् । निर्देशक्रमापेक्षया आकाङ्क्षाक्रमस्य बलवत्त्वेन निर्दोषाशेषसद्गुणत्वस्यैव प्रथमपरिच्छेदे प्रतिपाद्यत्वौचित्यादित्यत आह- निर्देशेति ।।

(श्री.टि.) ननु बलवन्तमाकाङ्क्षाक्रमं विहाय निर्देशक्रमविवक्षायां किं बीजमिति चेदुच्यते । सदागमैक-विज्ञेयत्वोपपादनस्य वेदप्रामाण्याद्युपपादनसापेक्षत्वेनात्यायाससाध्यतया प्रथममेव तस्योपपाद्यत्वात् । किञ्च सदागमैकविज्ञेयत्वस्य प्रथमत उपपादनाभावे निर्दोषाशेषसद्गुणत्वं साधयितुं न शक्यते । आगमानामप्रामाण्य-शङ्काकलङ्कितत्वेन तज्ज्ञापकप्रमाणाभावात् । प्रथमतः सदागमैकविज्ञेयत्वोपपादने तु सदागमरूपप्रमाणसद्भावेन तेन निर्दोषाशेषसद्गुणत्वसाधनं सुशकमिति भावः । एतदभिप्रायेणैव निर्देशक्रम एवात्र विवक्षित इत्यवधारणमिति ज्ञातव्यम् ।

सदागमैकविज्ञेयत्वादिविशिष्टनारायणसंविन्मात्रस्य प्रयोजनत्वमुक्तं तदयुक्तमित्याशङ्कते- नन्विति ।। व्युत्पाद्यार्थसंविन्मात्रमिति ।। प्रतिपाद्यार्थज्ञानमात्रमित्यर्थः ।। काकदन्तेति ।। काकस्याष्टौ दन्ता इति काक-दन्तपरीक्षाग्रन्थेत्यर्थः । तथा च दन्ताष्टकरूपप्रतिपाद्यार्थज्ञानमात्रस्य तत्रापि जायमानत्वेन सप्रयोजनत्वापत्त्या निष्प्रयोजनत्वं सर्वसम्मतं न स्यादिति भावः ।। येषामित्यादि ।। ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’ इति वचनादिति भावः ।। संविदेवेति ।। प्रार्थ्येति लिङ्गविपरिणामेनानुवर्तते । तान् प्रति एकान्तभक्तान् प्रति । नन्वेवं सत्यस्मिञ्च्छास्त्रे एकान्तभक्तातिरिक्तभक्तानामधिकारो न स्यादित्यत आह- न हीति ।। तथा चेष्टापत्तिरिति भावः । एकान्तभक्तातिरिक्तभक्ताभिप्रायेणापि प्रयोजनाभिधानपरं संविद इति पदं योजयति- अथ वेति ।। तत्साध्य इति लक्षणाबीजभूतशक्यसम्बन्धोक्तिः । नन्वस्मदायत्ते वाक्यप्रयोगे सज्जनमुक्तय इति मुख्यप्रयोगमकृत्वा मोक्षावाचकसंवित्पदप्रयोगो न युक्तः । प्रयोजनाभावादित्यत आह- मोक्षस्येति ।। तथा च लक्षणाबीजशक्यसम्बन्धान्वेषणे संविन्मोक्षयोर्जन्यजनकभावलाभेन यत्पूर्वं शङ्कित मोक्षस्य कर्मसाध्यत्वं तन्निराकरणं संविद्विषयप्रतिपादकस्यास्य प्रकरणस्य संवित्साध्यमुक्त्या सह परम्परया साध्यसाधनभावसम्बन्धोपपादनं च कृतं भवति । मुख्यप्रयोगे तदसिद्धेरिति भावः । सज्जनपदमवतारयति- एवं तर्हीति ।। मोक्षस्य प्रयोजनत्वोक्तावित्यर्थः ।। निरधिकारिकत्वमिति ।।  एकान्तभक्तानां मोक्षापेक्षाया अभावात् । तदतिरिक्तभक्तानां चाप्रसिद्धत्वान्निरधिकारिकत्वमित्यर्थः । कथमनेन शङ्कापरिहार इत्यत एकान्त-भक्तातिरिक्ता अपि भक्ता मोक्षापेक्षिणस्सन्तीत्याह- ये खल्वित्यादिना ।। सात्त्विकप्रकृतयः सात्त्विक-स्वभावाः । साधनचतुष्टयसम्पन्न एवाधिकारीत्याशयेन साधनचतुष्टयं दर्शयति- शमादीति ।। मुमुक्षव इत्युक्तं मुमुक्षुत्वमेवैकान्तभक्तातिरिक्तभक्तस्वरूपज्ञापकम् । ‘एकान्तानां न कस्य-चित् । अर्थे नारायणो देवः’ इति वचनात्तेषां मुमुक्षाया अभावादिति भावः । तां भगवत्संविदम् ।। तेषां संविद इति ।। मोक्षसाधनीभूतज्ञानाये-त्यर्थः । उपसंहरति- तस्मादिति ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

।। अनारम्भणीयमिति ।। प्रेक्षावदनुपादेयमित्यर्थः ।। विषयेति ।। विषयशून्यत्वात् सम्बन्ध-शून्यत्वाच्च इत्यर्थः । आद्यहेतोर्व्याप्त्यसिद्धिं दृष्टान्तोक्त्या परिहरति- प्रतीतेति ।। निश्चितेत्यर्थः । द्वितीयहेतोरपि दृष्टान्तोक्त्या तां परिहरति- काकेति ।। आद्यहेतोः स्वरूपासिद्धिमुद्धरति- स हीति ।। द्वितीयस्यापि तां परि-(पां.टि.) हरति- नापीति ।। ननु ऐहिकपारत्रिकयोः साधनान्तरसाध्यत्वेऽपि यागस्य यवव्रीह्युभय-साधनसाध्यत्ववत्, एतत्प्रकरणसाध्यत्वमपि किं न स्यात् इत्यत आह- एतेनेति ।। प्रकरणेनेत्यर्थः ।। अपुरु-षार्थत्वेनेति ।। पुरुषकामनाऽविषयत्वेनेत्यर्थः ।। निरधिकारिकत्वापत्तेरिति ।। प्रकरणस्येति शेषः । फल-कामनावत एव अधिकारित्वात्, अत्र च फलस्याकाम्यत्वेन तत्कामनारूपाधिकारिविशेषणविरहात् नाधि-कारित्वमिति भावः ।

।। एतेन विषयो दर्शित इति ।। विशेषणानि यानीह कथितानि साधयिष्यामि तान्येव इत्येतावतांऽशेने-त्यर्थः ।। स त्विति ।। विषय इत्यर्थः ।। स्ववचनविरोधादिति ।। पूर्वं सदागमैकविज्ञेयत्वस्य उक्ततया अनु-मानावेद्यत्वोक्तेः, तद्विरुद्धत्वादिति भावः ।। सदागमैरिति ।। अनेन सत्यश्च ता उक्तयश्च सदुक्तय इति कर्मधारय इति सूचितं भवति । ननु चात्रोक्तो दोषः, वेदादिप्रामाण्यमनभ्युपगच्छतः सौगतार्हतादीन् प्रति तदुपन्यासायोगाद् इति तत्राऽह- तत्प्रामाण्यं चेति ।। उक्तार्थस्य अनुमानादिनाऽपि अग्रे साध्यमानत्वात् कथं सदागमैः साधयिष्यामीति प्रतिज्ञेत्यत आह- अथ वेति ।। नन्वेवं ‘सदागमैकविज्ञेयम्’ इति वचनविरोध इत्यत आह- सदागमेति ।। आकाङ्क्षाक्रमस्यापि क्रमशब्दार्थत्वात् तस्य च प्रकृते असत्त्वादाह- निर्देशेति ।। संविदेवेति ।। अत्र प्रार्थ्यमित्येतत् प्रकृतमर्थवशात् लिङ्गविपरिणामेन प्रार्थ्येति सम्बध्यते । नन्वेवं अत्र प्रकरणे अनेकान्तानाम् अधिकारो न स्यादित्यत आह- अथ वा संविच्छब्देनेति ।। तत्साध्य इति ।। लक्षणा-बीजभूतसम्बन्धोक्तिः । नन्वेवं सज्जनमुक्तय इति वाचकपदप्रयोगम् अकृत्वा अवाचकपदप्रयोगे स्वायत्त-न्यायविरोध इत्यत आह- मोक्षस्येति ।। तथा च संविद इति लाक्षणिकपदप्रयोगे हि लक्षणाहेतुशक्यसम्बन्धान्वेषणे संविन्मोक्षयोर्जन्यजनकभावलाभेन मोक्षस्य कर्मसाध्यत्वनिराकरणसिद्धिः । संविद्विषयप्रतिपादकस्यास्य प्रकरणस्य तत्साध्यमुक्त्या संविद्द्वारा साध्यसाधनभावसम्बन्धोपपादनस्य च सिद्धिः, न तु सज्जनमुक्तय इति वाचकपदप्रयोगे । अतो वाचकं हित्वा लाक्षणिकस्यैव प्रयोग इति भावः ।। निरधिकारिकत्वमिति ।। सकलैहिकपारत्रिकभोगविरागात्मकत्वात् मोक्षस्यापुरुषार्थत्वाद् इति भावः ।

लघुप्रभा

(व्या.टि.)

प्रायः स्पष्टानि वाक्यानि बहुभिर्व्याकृतानि च ।

अतोऽस्पष्टास्पृष्टवाक्यभाव एवोच्यते मया ।।

ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते’ इत्युक्त्या विषयादिसम्बन्धवत एव प्रेक्षावदुपादित्सागोचरत्वेन, अत्रोपादानप्रयोजकं तद्द्वारा आरम्भणीयताप्रयोजकं विषयादिसम्बन्धादिकमाक्षिपति- स्यादेतदिति ।। एतद् वन्दननिबन्धनादिकं स्याद्, युक्तमिति शेषः ।। प्रकरणमेवेति ।। यदि प्रकरणमारम्भणीयं भवेत् तदेदं युक्तं स्यात्, तदेव नेति बुद्ध्या विवेकेन एवकारस्य प्रकरणारम्भणीयत्वनिष्ठव्यापकतासूचकत्वं मन्तव्यम् ।। विषय-प्रयोजनसम्बन्धेति ।। विषयसम्बन्धशून्यत्वात्, प्रयोजनसम्बन्धशून्यत्वाद् इति हेतुद्वयम् । विशिष्टस्य हेतुत्वे (व्या.टि.) वैयर्थ्यम् । प्रतिपादकताप्रयोजकतादिसम्बन्धेन विषयाद्यभावस्य सम्बन्धाभावत्वविवक्षया इत्थ-मुक्तिः । सम्बद्धयोर्विषयप्रयोजनयोरारम्भणीयताप्रयोजकत्वे सम्बन्धप्राधान्यविवक्षया वा सम्बन्धाभावस्य हेतूकरणम् । हेतुद्वयमपि सामान्याभावरूपम् । अस्य च सम्भावितो विशेषो विरोधी । शङ्किते विशेषे विषय-लक्षणाभावे प्रयोजनलक्षणाभावे वा सम्बन्धस्याभावे वा विशेषत्वमेव नास्तीति न सामान्याभावरूपहेत्व-सिद्ध्यापादकत्वमित्यवधेयम् । आद्ये निदर्शनम्- प्रतीतेति ।। द्वितीये- काकदन्तेति ।। विषयलक्षणासम्भवेन तत्त्वाभावं वक्तुं तल्लक्षणमाह-स हीति ।। अज्ञात इति ।। अप्राप्ते शास्त्रमर्थवदिति न्यायादिति भावः ।।सम्मत एवेति ।। स्वरूपमात्रे विवादाभावादिति भावः ।। पदमनर्थकमिति ।। इतरथा प्रातिपादिकसञ्ज्ञाऽभावेन सुबनुत्पत्तेः पदत्वव्याघात इति भावः । द्वितीयमुपपादयति- नापीति ।। प्रयोजनं भवद् ऐहिकं पारत्रिकं मोक्षो वेति त्रेधा विकल्प्य आद्यद्वितीयौ निराह- ऐहिकपारत्रिकयोरिति ।। इहपरत्रशब्दाभ्यां प्राग्वहतेष्ठकि रूपम् । कृष्यादियागादीति ।। कृष्यादि च यागादि च, ते च ते साधनान्तरे च इति विग्रहः । उत्तरपदेनैव कर्मधारये पूर्वपदेन समासानुपपत्तेरिति भावः । एतेन प्रकरणेन । तृतीयं निराह-मोक्षस्येति ।। कर्मेति ।। ‘अपाम सोमम्’ इति श्रुतेरित्यर्थः ।। भोगपरित्यागेति ।। ‘केन कं पश्येत्’ इति श्रुतेरित्यर्थः । सम्भावकेन लक्षणासम्भावनानिवृत्तिं दर्शयति- उद्गिरणेति ।। गिरतेर्ल्युट् । दानमित्यर्थः । इहेति आवृत्त्या योजयति- आद्यपद्य इत्यादिना ।। अन्यत् वेदप्रामाण्यस्वतस्त्वादि  ।। विषय इति ।।  प्रकरणस्येति शेषः । तेन आद्यहेतोरसिद्धिरुक्ता वेदि-तव्या ।। स त्विति ।। सम्बन्ध इत्यर्थः । साधनं किम् अनुमानादिना सदागमैर्वा इति विकल्प्य आद्यं निराह- न तावदिति ।। स्ववचनेति ।। सदागमैकविज्ञेयम् इत्युक्तिविरोधाद् इत्यर्थः । द्वितीयं पराह- नापीति ।। द्वितीयपक्षपरिग्रहाय सदुक्तिभिरित्येतत् कर्मधारयाभिप्रायेण व्याचश्व्े- सदागमैरिति ।। इत्यर्थ इति शेषः । सदुक्त्युपन्यासायोगशङ्कायाः सदुक्तिभिरित्येतद् असङ्गतम् अनुत्तरत्वाद् इत्यत आह- तत्प्रामाण्यं चेति ।। अप्रामाण्यं च निरसिष्यामीत्यर्थः । यद्वक्ष्यति एतच्छङ्कानिराससमुच्चितस्येति । प्रथमपक्षपरिग्रहाय बहुव्रीहिं स्पष्टयति- सत्य इति ।। सर्वं विषयाभिधानम् इति भ्रान्तिं वारयति- प्रयोजनाभिधानमिति ।। तेन द्वितीय-स्याप्यसिद्धिरुक्ता । तथाविधाः एकान्तभक्ताः । सर्वाधिकारिसाधारणफल दर्शयितुमाह-अथ वेति ।। लाक्षणिकप्रयोगे  प्रयोजनं  दर्शयति-मोक्षस्येति ।। निरधिकारिकत्वमिति ।। मुमुक्षुमात्रस्य अभावादिति भावः । सत्त्वं व्यनक्ति- ये खल्विति ।। संविदेकेति ।। ‘नान्यः पन्थाः’ इति श्रुतेरिति भावः ।