आत्माधिष्ठानभ्रमस्यैवादृष्टे..
दुर्घटत्वस्यापि भूषणत्वाङ्गीकारेऽतिप्रसङ्गोक्तिः
मूलम्
- आत्माधिष्ठानभ्रमस्यैवादृष्टेस्तस्याधिष्ठानत्वमपि न युज्यते । दुर्घटत्वस्य च भूषणत्वे दुर्घटमप्यात्ममिथ्यात्वं स्यादेव । प्रतीतेरप्यविद्याकार्यत्वाङ्गीकारात् । तस्याश्च दुर्घटत्वस्य भूषणत्वात्सत्यस्य च युक्त्यपेक्षत्वाद् घटादीनां द्रष्टृत्वमात्मनश्च जडत्वं, द्रष्टुरभावे च प्रतीतिः, अधिष्ठानं विनैव भ्रम इत्यादि विरुद्धं सर्वमपि स्यात् ।।
तत्त्वमञ्जरी
ननु मिथ्यावस्तुनो हि दुर्घटत्वं भूषणम् । न सत्यस्याऽत्मनः । तस्मात् कथमात्मनो मिथ्यात्वमिति । सत्यम् । आत्मनो मिथ्यात्वधर्मस्य मिथ्यावस्तुत्वात् । दुर्घटत्वाच्च । सत्यस्य च युक्त्यपेक्षत्वात् । घटादीनां द्रष्टृत्वं प्रतीतिमत्त्वमापाद्यते । (ताव--?) तत्र दुर्घटत्वमस्ति । युक्तिश्च नास्तीति विरोधः । विषयापेक्षा प्रतीतिरविद्यामयीति ह्यभ्युपगच्छन्ति । विषयनिरपेक्षा तर्हि शिलावत् प्रतीतिरेव न स्यात् । अविद्यायाश्च दुर्घटत्वस्य भूषणत्वात् । सत्यस्यैव युक्त्यपेक्षत्वात् । आत्मनस्तु घटादिविलक्षणत्वाङ्गीकारात् जडत्वं स्यात् । आत्मनो जडत्वे द्रष्टुरभाव एवेति चेत्, स्यात् द्रष्ट्रभावेऽपि प्रतीतिः । जगद्भ्रमान्यथाऽनुपपत्त्या अधिष्ठानत्वेनात्माऽभ्युपगम्यत इति चेत् । मैवम् । अविद्या-त्वादधिष्ठानं विना भ्रमः स्यात् । आदिशब्दात् भ्रमस्य ज्ञानान्निवृत्तिरपि न स्यात् ।
टीका
नन्वात्मनो मिथ्यात्वं साधयताऽऽत्मनोऽन्यस्य सर्वस्य मिथ्यात्वमङ्गीकार्यम् । अन्यथा वस्तुत्वादेस्तत्र व्यभिचारापत्तेः । मिथ्यात्वे कथं प्रतीतिरिति पृष्टेन भ्रम इति वक्तव्यम् । तत्र भ्रमे चाऽत्मन एवाधिष्ठानत्वं स्वीकार्यम् । तस्यापि मिथ्यात्वेऽधिष्ठानान्तरकल्पनया अनवस्था स्यात् । तत्परिहारार्थमन्ततो यस्य सत्यत्वमभ्युपगम्यते स एवात्मेति सर्वथाऽऽत्मनः सत्यत्वेऽ-भ्युपगन्तव्ये कथं तन्मिथ्यात्वमनुमीयत इति चेदुच्यते- किं यो भ्रमः स सर्वोऽपि आत्माधिष्ठानक इति व्याप्तेः विश्वभ्रमस्याऽत्माऽधिष्ठानत्वेन स्वीकार्यः, किं वा यो भ्रमः स साधिष्ठानः न चाऽत्मातिरिक्तं तदस्तीति सामान्यसिद्धिपरिशेषाभ्याम् । आद्यं दूषयति- आत्मेति ।। दृष्टान्ताभावेन व्याप्त्यसिद्धेः विश्वभ्रमे नाऽत्मनोऽधिष्ठानत्वं युज्यत इत्यर्थः । न द्वितीयः । सर्वभ्रमाणां शून्यवादिना निरधिष्ठानत्वेनाङ्गीकृतत्वात्तं प्रति व्याप्त्यसिद्धेः । तदिदमुक्तमपिशब्देन । अथ वा दूषणान्तर-समीकरणेऽपिशब्दः । तच्चोक्तं पुरस्तात् ।
यत एवमनुभवसिद्धस्यापि विश्वस्यानुमानेन मिथ्यात्वसाधने सत्यत्वेनाभिमतस्याप्यात्मनो मिथ्यात्वं प्रसज्येत । अतः परेणाप्यनुभव एवानुमानस्य बाधकः, जात्या धर्म्यादिग्राहकत्वेन प्रामाण्यग्राहकत्वेन चोपजीव्यतया च प्राबल्यात्, न त्वनुमानमनुभवस्य बाधकं, दुर्बलत्वादिति वक्तव्यम् । तत्समं प्रकृतेऽपीति नानुमानेन विश्वमिथ्यात्वसिद्धिः । ज्ञानाद् बन्धनिवृत्तिस्त्व-सिद्धैवेत्यन्यत्रोक्तम् ।
यो लौकिकी मर्यादामनतिक्रम्य वर्तते तं प्रति पृथिव्या अपि पृथिवीत्वं न स्यादित्यतिप्रसङ्ग उक्तः । यस्तु लोकमर्यादामप्यतिक्रम्य वैतालिकत्वमवलम्ब्य वर्तते तं प्रत्ययमिति ज्ञातव्यम् ।
एवमुपाध्यादेः प्रपञ्चस्य मिथ्यात्वाभावादन्योन्याश्रयत्वादिकं भूषणमिति वक्तुं न शक्य-मित्युक्तम् । अथाप्रामाणिकं प्रमाणविरुद्धमपि विश्वमिथ्यात्वमङ्गीकृत्य दूषणमपि भूषण-त्वेनाङ्गीकुर्वाणस्यातिप्रसङ्गमाह- दुर्घटत्वस्येति ।। अङ्गीकारानर्हस्याप्यन्योन्याश्रयत्वादि-दुष्टत्वस्येत्यर्थः । आत्मनोऽपि मिथ्यात्वमङ्गीकृत्य तत्र यद् दूषणमापतति तत्सर्वं भूषणत्वे-नाङ्गीकर्तव्यमित्यर्थः । एतदेव प्रपञ्चयति- प्रतीतेरपीति ।।
अयमर्थः- विश्वस्येवाऽत्मनोऽपि मिथ्यात्वं तावदङ्गीकार्यम् । तत्र दूषणमापतति । घटा-दयस्तावदारोपिताः । आरोपरूपायाश्च प्रतीतेः प्रत्येत्रा भवितव्यम् ।तत्राऽत्मनो मिथ्यात्वे प्रतीतेरसाक्षिकत्वं प्रसज्येत । न च क्रिया कर्तृरहिता युक्ता । किञ्चाऽरोपस्याधिष्ठानवत्त्व-नियमाद्घटाद्यारोपेऽधिष्ठानेन भाव्यम् । आत्मा चेन्मिथ्या तदा निरधिष्ठानो भ्रमः प्रसज्येत । न च तद्युक्तम् । इदमित्थमिति सर्वत्र भ्रमे द्व्यंशताप्रतीतेः । अपि च भ्रमस्य बाधेन भवितव्यम् । बाधश्च सर्वत्र सावधिको दृष्टः । ततश्चाऽत्मनो मिथ्यात्वे प्रपञ्चबाधो निरवधिकः प्रसज्येत । न च तद्यु-ज्यते । इदमेवं न तथेति सर्वबाधानां सावधिकत्वदर्शनादिति । तत्र परेण वक्तव्यम् । आत्मनो जडत्वं प्रतीतिं प्रति कर्तृत्वाभाव एव । किन्त्वारोपितानां घटादीनामेव द्रष्टृत्वमारोपसाक्षित्व-मिति । अथवा प्रतीतेः प्रत्येतृसाहित्यनियममङ्गीकृत्येदमुक्तम् । वस्तुतस्तु द्रष्टुरभावेऽप्यारोपरूपा प्रतीतिः भवतीति वक्तव्यम् । द्वितीयदूषणेऽधिष्ठानं विनैव भ्रमोऽयमिति वाच्यम् । तृतीयदूषणे निरवधिक एवायं बाधो भवतीति वक्तव्यम् । नन्वेतत्सर्वं प्रतीत्यादिविरुद्धं कथमङ्गीक्रियत इति वदन्तं प्रति विरुद्धमपि सर्वं भवत्विति वक्तव्यं स्यादङ्गीकार्यमिति शेषः । कथमेतत्सर्वमङ्गीकार्यमिति चेदारोप्यवदारोपरूपायाः प्रतीतेरप्यविद्यामयत्वाङ्गीकारात् । साक्षिरूपत्वेऽपि अविद्यां विनाऽ-सङ्गत्वेन आरोप्यसम्बन्धानुपपत्तेः । अविद्यामय्याश्च प्रतीतेर्दुर्घटत्वस्य भूषणत्वात् मिथ्यात्व-स्योपोद्बलकत्वात् । तथाऽपि निष्प्रमाणकं कथमेतत्सर्वमङ्गीकार्यमिति चेन्न । सत्यस्यैव युक्त्यपेक्ष-त्वात् प्रमाणापेक्षत्वात् । मिथ्याभूतस्य प्रमाणापेक्षत्वे मिथ्यात्वहानेः । तन्मिथ्यात्वस्यापि मिथ्या-त्वाङ्गीकारादिति । यत एवं प्रमाणसिद्धस्यापि प्रपञ्चस्य मिथ्यात्वमङ्गीकृत्य प्राप्तदूषणानि भूषणत्वेनाङ्गीकुर्वतोऽतिप्रसङ्गः, तस्मादात्मवत्सत्यत्वमेवाङ्गीकर्तव्यम् । किमनेन साधन-दूषणोपन्यासपरिहाराभ्यां कियन्तमध्वानं गत्वा ततः परं दूषणपरिहारासामर्थ्ये सति उपहासविषयेण भूषणत्वाङ्गीकारेणेति । अथवाऽऽत्ममिथ्यात्वं स्यादेवेत्येकोऽतिप्रसङ्गः । तत्र श्रुतिविरोधादिकं दौर्घट्यं घटादीनां द्रष्टृत्वमित्यादिकमतिप्रसङ्गान्तरमिति बोद्धव्यम् ।।
भावबोधः
तदिदमुक्तमपिशब्देनेति ।। अनेनाऽत्मनोऽपीत्यपिशब्दसम्बन्धः सूचितो भवति । अथ वेति ।। अनेन युज्यतेऽपीत्यपिशब्दसम्बन्धो ज्ञापितो भवति । पुरस्तादिति ।। ‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’ इत्यत्रेत्यर्थः । ज्ञानाद् बन्धनिवृत्तिस्त्वसिद्धैवेति ।। तथा चानुमानादिनैवेत्यादिपदोक्तार्थापत्तिर्न विश्वसत्य-त्वावगाहिप्रत्यक्षस्य बाधिका भवतीति भावः । नन्वनुभवसिद्धस्यैवेत्यादिनैवालम् । किं तर्कमात्रत इत्यादिनेत्यत(त्र)आह- यो लौकिकीमिति ।। अङ्गीकारानर्हस्यापीति ।। अनेन दुर्घटमपीत्यपिपदाभिप्राय उक्तो भवति । नन्वात्मनो मिथ्यात्वे जगदारोपं प्रति साक्षित्वाभाव एव प्राप्तो न जडत्वमित्यतो जडत्वमित्येतद् व्याचश्व्े- प्रतीतिं प्रति साक्षित्वाभाव एवेति ।। अनेन चशब्दोऽवधारणार्थः सन् जडत्वं चेति सम्बध्यत इत्युक्तं भवति । ननु जगदारोपे घटादीनां साक्षित्वस्योक्तत्वात् ‘द्रष्टुरभावेऽपि प्रतीतिः’ इत्येतत्पूर्वविरुद्धमित्यतः पक्षान्तर प्रदर्शकत्वेन तद्व्याचष्टे- अथवेति ।। निरवधिक एवायमिति ।। अनेन इत्यादीत्यादिपदं व्याख्यातं भवति । एतदनुरोधेनैव प्राग् अपि चेत्याद्युक्तमिति ज्ञातव्यम् । आरोप्यवदिति ।। अनेन प्रतीतेरपि इत्यपि-पदमुक्ततात्पर्यं भवति । ननु मिथ्याभूतस्य प्रपञ्चस्य प्रमाणानपेक्षत्वेऽपि तन्मिथ्यात्वस्य प्रमाणेनोपपादनीयत्वात्कथं घटादीनां द्रष्टृत्वमित्यादिदोषः । तद्दोषापरिहारे प्रपञ्चमिथ्यात्वासिद्धेरित्यत आह- तन्मिथ्यात्वस्यापीति ।। अथ वाऽऽत्ममिथ्यात्वमिति ।। अनेन सर्वमपीत्यपिशब्दो यथाश्रुत एव दार्ढ्यादिसमुच्चायक इत्युक्तं भवति । पूर्वव्याख्याने तु इत्यादिकमपीत्यन्वितः सन् घटादिद्रष्टृत्वसमुच्चायक इति ज्ञातव्यम् ।
भावदीपः
आत्मान्यसर्वमिथ्यात्वाभ्युपगमान्यथाऽनुपपत्तिरूपतर्कपराहतमात्ममिथ्यात्वानुमानमिति शङ्कते- नन्वात्मन इत्यादिना ।। कथं प्रतीतिरिति ।। आत्मान्यस्य मिथ्यात्व इत्यनुषङ्गः । भ्रम इतीति ।। प्रतीति-रित्यनुषङ्गः । तत्र भ्रमे चेति ।। आत्मान्यस्य सर्वस्य भ्रमे चेत्यर्थः । उक्तसमुच्चयानुपलम्भात्सर्वभ्रमाणां निरधिष्ठानत्वस्य शून्यवादिनोपगमादपीत्यनुक्तसमुच्चय इति भावेनाऽह- तदिदमुक्तमपिशब्देनेति ।। अपि न युज्यते न युज्यतेऽपीत्यन्वयमुपेत्याऽह- अथ वेति ।। पुरस्तादिति ।। ‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’ इत्यादिना विरुद्धधर्मवत्त्वेन प्रतीतस्य नाधिष्ठानादिभाव इति प्रागुक्तत्वादिति भावः । ‘न च प्रत्यक्षदृष्टस्य ततो बलवत्प्रत्यक्षम्’ इत्यादिना उक्तम्, तथा ‘अनुभवसिद्धस्य ततो बलवदनुभवं विना’ इत्यादिनोक्त-मुपसंहरन् तस्योपयोगमाह- यत एवमनुभवसिद्धस्येति ।। नन्वनुमानेन विश्वमिथ्यात्वासिद्धावपि भूयश्चान्ते विश्वमायानिवृत्तिरिति श्रूयते, तदन्यथाऽनुपपत्त्याऽस्तु मिथ्यात्वसिद्धिरित्यत आह- ज्ञानादिति ।। अन्यत्रोक्त-मिति ।।
‘नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित्’
इत्यनुव्याख्यानसुधयोरित्यर्थः । तथा च प्राक् ‘अनुमानादिनैव बाधो दृष्टः’ इत्यादिपदगृहीतार्थापत्तिरपि न विश्वसत्यत्वप्रत्यक्षबाधिकेत्युक्तं भवति ।
ननु पूर्वं ‘तर्कमात्रतः प्रत्यक्षबाधने भूतचतुष्टयस्य पृथिवीत्वादृश्व्ेः’ इत्यादिनैवास्यार्थस्योक्तेः पुनरत्रानुभव-सिद्धस्येत्यादिनाऽतिप्रसङ्गान्तरोक्तिः किमर्थेत्यत आह- यो लौकिकीमिति ।। वैतालिकत्वं वितण्डावादित्वम्, परोक्तखण्डनमात्रकारित्वमालम्ब्येत्यर्थः । तं प्रत्ययमिति ।। अनुभवसिद्धस्येत्यादिनाऽतिप्रसङ्ग इत्यर्थः । उत्तरवाक्यं सङ्गमयितुमाह- एवमुपाध्यादेरिति ।। अन्योन्याश्रयत्वादीति ।। अज्ञानसिद्धावित्यादिनोक्तेति भावः । अस्फुटत्वादाह- अयमर्थ इति ।। इदमिति ।। इदं शुक्त्यादिकम् । इत्थं रजतत्वादिप्रकारोपेतम् इत्यधि-ष्ठानाध्यस्तरूपद्व्यंशतेत्यर्थः । एवमिति ।। शुक्तित्वादिप्रकारोपेतम् । न तथा रजतत्वादिप्रकारोपेतं नेत्यर्थः । जडत्वमित्यनुवादः, प्रतीतिं प्रति कर्तृत्वाभाव एवेति व्याख्या । द्रश्व्ृत्वमित्यनुवादः, आरोपसाक्षित्वमिति व्याख्या । वाक्यशेषस्यार्थमाह- अथ वेति ।। द्वितीयदूषण इति ।। आत्मा चेन्मिथ्या तदा निरधिष्ठानो भ्रमः प्रसज्येतेति दूषण इत्यर्थः । तृतीय इति ।। प्रपञ्चबाधो निरवधिक इति प्रसज्येतेति दूषण इत्यर्थः । प्रतीते-रित्यादिपूर्ववाक्यं योजयति- आरोप्यवदित्यादिना ।। अनेन प्रतीतेरपीत्यपिपदार्थो व्यक्तीकृतो भवति । साक्षिरूपत्वेऽपीति ।। प्रतीतेरित्यनुषङ्गः । चैतन्यज्ञानरूपत्वेऽपीत्यर्थः । आरोप्यसम्बन्धानुपपत्तेरिति ।। अतोऽविद्यामयत्वमुपेयमिति भावः । ततः किमित्यत आह- अविद्यामय्याश्चेति ।। भूषणत्वादित्यनुवादः, मिथ्यात्वस्योपोद्बलकत्वादिति व्याख्या । युक्तिपदमुपलक्षणमिति भावेनोक्तम्- प्रमाणापेक्षत्वादिति ।। मिथ्याभूतप्रपञ्चस्य प्रमाणानपेक्षत्वेऽपि तन्मिथ्यात्वं प्रमाणापेक्षितमित्यत आह- तन्मिथ्यात्वस्यापीति ।। एकप्रसङ्गपरतया प्राग्योजितम् । अधुना प्रसङ्गभेदपरतया योजनामाह- अथ वेति ।। व्याख्यानं तु प्राग्वदेवेति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
यो भ्रमः स साधिष्ठान इति सामान्यसिद्धिः । न चाऽत्मातिरिक्तं तदस्तीति परिशेषः । तदिदमुक्त-मिति ।। सामान्यसिद्धिपरिशेषाभ्यां विश्वभ्रमस्याऽत्माधिष्ठानकत्वमिति द्वितीयपक्षदूषणमपिशब्देनोक्तमि-त्यर्थः । दूषणान्तरेति ।। आत्ममिथ्यात्वानुमाने । नन्वात्मनो वस्तुत्वादिधर्मानङ्गीकारादसिद्धो हेतुरित्यादि (श्री.टि.) यद्दूषणं त्वयाऽभिधीयते तस्य सर्वस्य विश्वमिथ्यात्वानुमानेऽपि समीकरणसमुच्चयेऽपिशब्द इत्यर्थः। तच्चेति ।। समीकरणं च, ‘तर्हि दृश्यत्वादेरपि सत्यत्वाभावादसिद्धिः स्यात्’ इत्यादिना पुरस्तादस्माभिः प्रदर्शित-मित्यर्थः । पुरस्तात् ‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’ इत्यत्रोक्तमित्यर्थ इति भावबोधे व्याख्यातम् । परेणा-पीति ।। वक्तव्यमिति सम्बन्धः । अनुभव एवेति ।। आत्मस्वरूपसत्यताग्राही साक्षिरूपानुभव एवेत्यर्थः । अनुमानस्य आत्ममिथ्यात्वानुमानस्य । प्रामाण्येति ।। अनुमानप्रामाण्येत्यर्थः । प्रकृतेऽपीति ।। ज्ञानाज्ञान-सुखदुःखादिविषयकानुभवेऽपीत्यर्थः । सत्यं प्रत्यक्षदृष्टस्य मिथ्यात्वकल्पनं बाधकप्रमाणाधीनमिति । तथाऽप्युपपद्यते जगतो मिथ्यात्वकल्पनम् । दृश्यत्वाद्यनुमानस्य, ज्ञाननिवर्त्यत्वान्यथाऽनुपपत्तेश्च बाधकस्य सत्त्वादिति प्राक् शङ्कितम् । तत्रानुमानं दूषयित्वोपसंहरति- नानुमानेन विश्वमिथ्यात्वसिद्धिरिति ।। ननु तथापि ज्ञाननिवर्त्यत्वान्यथाऽनुपपत्तिरेव विश्वसत्यत्वावगाहिप्रत्यक्षस्य बाधिका भविष्यतीत्यत आह- ज्ञानाद् बन्धनिवृत्तिस्त्विति ।। या प्राक् ‘अनुमानादिनैव बाधो न दृष्टः’ इत्यत्राऽदिपदगृहीतेत्यर्थः । असिद्धैवेति ।। स्यादेवं यदि विश्वस्य ज्ञाननिवर्त्यत्वं स्यात्, न चैवं, किं नाम प्रसादनिवर्त्यत्वमेव । ‘यस्य प्रसादात्परमार्ति-रूपादस्मात्संसारान्मुच्यते नापरेण’ इति श्रुतेः । किं च ‘बन्धको भवपाशेन भवपाशाच्च मोचकः’ इति श्रुतौ भगवतो बन्धनिवृत्तिसाधनत्वं तावच्छ्रूयते । साधनं च द्विविधम् । सिद्धमसिद्धं चेति । तत्र सिद्धं सव्यापारीकरणी-यम् । यथा कुठारादि । असिद्धं प्रयत्नोत्पाद्यम् । यथा यागादि । सिद्धं च साधनं भगवान्, अतः स सव्यापारीकर-णीयः । व्यापारश्च प्रसन्नतैव । व्यापारिव्यापारप्राधान्यविवक्षया ‘भवपाशाच्च मोचकः’ ‘यस्य प्रसादाद्’ इति वाक्यद्वयमप्युपपद्यते । तच्च ज्ञाननिवर्त्यत्वं सत्यस्यापि निगडबन्धादेरिव सम्भवतीत्येवं
‘यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् ।
एवं दृष्टस्स भगवान् कुर्याद्बन्धविभेदनम् ।।’
इत्यनुव्याख्याने उक्तमित्यर्थः । प्रत्यक्षसिद्धस्य बलवता प्रत्यक्षादिना विना युक्तिमात्रेण बाधो नास्तीति प्रतिपादितम् । तत्र विपक्षे बाधकाकाङ्क्षायां भूतचतुष्टयस्येत्यादिना बाधकं प्रागुक्तम् । तत्र पृथिव्याः पृथिवी-त्वाभावादेः सर्वमिथ्यात्ववादिनोऽभीष्टत्वादितीष्टापत्तौ चोदितायामनुभवसिद्धस्य बलवदनुभवं विनेत्यादिना प्रत्यक्षसिद्धस्य युक्तिमात्रेण बाधाङ्गीकारे आत्मनोऽपि मिथ्यात्वं स्यादित्यतिप्रसङ्गान्तरमुक्तम् । तत्र अनेनै-वातिप्रसङ्गेनालं, किं ‘तर्कमात्रतः’ इत्यादिनोक्तेन प्राचीनातिप्रसङ्गेनेत्यत आह- यो लौकिकीमिति ।। वैतालिकत्वमिति ।। वेतालः पिशाचः । तत्समानधर्मवत्त्वं वैतालिकत्वमित्यर्थः । अन्यथा लोकमर्यादानतिक्रमेण वैतालिकत्वानालम्बने पृथिव्याः पृथिवीत्वाभावादेरिष्टत्वादिति कथमाशङ्केतेति भावः । अयमिति ।। अनुभवसिद्धस्येत्यनेनोक्तमात्ममिथ्यात्वरूप इत्यर्थः । दुर्घटत्वस्य चेत्यत्र चशब्दोऽप्यर्थः, स च गर्हायाम् । ‘अपिःपदार्थ’ इत्यादिसूत्रात् । अतस्तदभिप्रायमाह- अङ्गीकारानर्हस्यापीति ।। आत्मनो मिथ्यात्वाङ्गीकारे आपतितं दूषणमेव दर्शयति- घटादय इत्यादिना ।। असाक्षित्वम् असाक्षिकत्वम् । अत्र साक्षिशब्दः प्रत्येतृ-(श्री.टि.) परः । इष्टापत्तिं परिहरति- न च क्रियेति ।। क्रिया प्रतीतिरूपा । द्व्यंशतेति ।। अधिष्ठानारोप्य-रूपद्व्यंशतेत्यर्थः । अवधिः पर्यन्तः । इदं पुरोवर्ति । एवं शुक्तिरेव । तथा रजताकारेण नेत्यर्थः । दर्शना-दिति । दूषणमापततीत्यन्वयः । कर्तृत्वाभावः अप्रमातृत्वमित्यर्थः । एवेत्युक्त्या आत्मनश्चेति चशब्दोऽव-धारणार्थ इत्युक्तं भवति । इदमुक्तं घटादीनां द्रश्व्ृत्वमित्युक्तम् । इत्यादीत्यादिपदं व्याख्याति- निरवधिक एवायमिति ।। एतदनुरोधेनैव प्रागपि च भ्रमस्येत्याद्युक्तमित्यवगन्तव्यम् । सर्वमपीत्यत्रापिशब्दस्य विरुद्ध-पदेनान्वय इत्याह- विरुद्धमपीति ।।
ननु सर्वं भवत्विति वक्तव्यमित्येतन्मूले कथं लब्धमित्यतः स्यादित्यनन्तरमङ्गीकार्यमिति शेषपूरणेने-त्याशयेनाऽह- स्यादिति ।। प्रतीतेरपीत्यपिशब्दाभिप्रायमाह- आरोप्यवदिति ।। अर्थज्ञानात्मकोभय-विधभ्रमाङ्गीकारादिति भावः । नन्वारोपरूपायाः प्रतीतेः साक्षिरूपत्वाङ्गीकारान्नाविद्यामयत्वमित्यत आह- साक्षिरूपत्वेऽपीति ।। नन्वविद्यां विना कुतः साक्षिण आरोप्यसम्बन्धानुपपत्तिरित्यतस्तत्र हेतुरुक्तोऽसङ्गत्वे-नेति । साक्षिण इति शेषः । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेरित्यर्थः । तथा चाविद्यामयत्वमेव प्राप्तप्रायमिति भावः । ततः किमित्यत आह- अविद्यामय्याश्चेति ।। भूषणत्वादित्यस्यार्थमाह- मिथ्यात्वस्येति ।। मिथ्या-त्वोपपादकत्वादित्यर्थः । मिथ्यात्वहानेरिति ।। मिथ्याभूतस्य प्रमाणापेक्षत्वे प्रामाणिकत्वप्राप्त्या मिथ्यात्व-हानेरित्यर्थः । ननु मिथ्यात्वहानिभिया मिथ्याभूतस्य प्रपञ्चस्य प्रमाणानपेक्षत्वेऽपि प्रपञ्चनिष्ठं यन्मिथ्यात्वं तत्तावत्प्रमाणेनोपपादनीयमेव । तथा चाधिष्ठानं विना भ्रमः द्रश्व््रभावेऽप्यारोपरूपा प्रतीतिः स्यादित्यादिरूपो दोषः परिहर्तव्य एव । अन्यथा द्रष्टारमधिष्ठानं च विना भ्रमाद्यङ्गीकारे प्रपञ्चे मिथ्यात्वस्य प्रमाणेनोप-पादयितुमशक्यत्वेन तदसिद्धिप्रसङ्गादित्यत आह- तन्मिथ्यात्वस्यापीति ।। स्यादिदं प्रपञ्चमिथ्यात्वस्य प्रमाणेनोपपादनीयत्वं यदि च प्रपञ्चनिष्ठं मिथ्यात्वं सत्यं स्यात्, न चैवम् । तस्य ब्रह्मभिन्नत्वेऽद्वैतहानेः । नापि ब्रह्ममात्रम् । सोपाधिकनिरुपाधिकयोरैक्यायोगात् । अतस्तन्मिथ्याभूतमेवेत्यङ्गीकृतमिति न तत्प्रमाणेनोप-पादनीयमिति न द्रश्व््रभावेऽपि प्रतीतिरित्यादिदोषः परिहर्तव्य इति भावः । किमनेन भूषणत्वाङ्गीकारेणेत्य-न्वयः । पूर्वं घटादीनां द्रश्व्ृत्वमित्यादिकं पूर्वोक्तार्थप्रपञ्चनपरमिति व्याख्यायेदानी प्रकारान्तरेण व्याख्याति- अथ वेति ।। एकोऽतिप्रसङ्ग इति अप्रामाणिकं प्रमाणविरुद्धमपि विश्वमिथात्वमङ्गीकृत्य दूषणमपि भूषणत्वे-नाङ्गीकुर्वाणस्य दुर्घटमप्यात्ममिथ्यात्वं स्यादित्येकोऽतिप्रसङ्ग उक्त इत्यर्थः । ननु तत्राऽत्ममिथ्यात्वस्य दुर्घटत्वं नाम कीदृशमित्यत आह- तत्रेति ।। तथा च दुर्घटमपीत्यस्य ‘तत्सत्यं स आत्मा’ इति श्रुतिविरोधादिना दुर्घटमपीत्यर्थो द्रष्टव्यः । घटादीनामिति ।। दूषणमपि भूषणत्वेनाङ्गीकुर्वाणस्यैव घटादीनां द्रश्व्ृत्व-मित्यादिनाऽतिप्रसङ्गान्तरमुच्यते इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
तदिदमिति ।। अनेनाऽत्मनोऽपीत्यपिशब्दसम्बन्धः सूचितो भवति । अथ वेति ।। अनेन युज्यतेऽपीत्यपिशब्दसम्बन्धो दर्शितो भवति । किं तद् दूषणान्तरं यत्समीकरणेऽपिशब्द इत्यत आह-तच्चेति ।। (पां.टि.) पुरस्तादिति ।। ‘नचाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’ इत्यादिनेति शेषः । नन्वेवमप्यनु-मानादिनेत्यादिपदसङ्गृहीता ज्ञानाद्बन्धनिवृत्त्यन्यथाऽनुपपत्तिर्विश्वसत्यत्वग्राहकप्रत्यक्षस्य बाधिका स्यादेवेत्यत आह- ज्ञानादिति ।। न ज्ञानमात्राद्बन्धनिवृत्तिः, किन्तु तज्जन्यभगवत्प्रसादादेवेति अन्यत्र समर्थितत्वान्न साऽपि तद्बाधिकेति भावः । नन्वनुभवसिद्धस्येत्युक्तप्रसङ्गेनैव पूर्तेः किं ‘तर्कमात्रतः’ इति पूर्वग्रन्थोक्तप्रसङ्गेनेत्यत आह- य इति ।। तं प्रत्ययमिति ।। प्रत्यगात्मनोऽपि मिथ्यात्वं स्यादित्ययं प्रसङ्ग इत्यर्थः । अङ्गीकारानर्हस्या-पीति ।। अनेन दुर्घटत्वस्य चेति चशब्दस्याप्यर्थस्याभिप्राय उक्तो भवति । आत्मनोऽपीति ।। अनेन दुर्घट-मपीत्यपिपदस्य सम्बन्धो दर्शितो भवति । आपतितदूषणमेव दर्शयति-घटादयस्तावदिति ।। इष्टापत्तिमाशङ्क्य परिहरति- न च क्रियेति ।। तस्याः सकर्तृकत्वनियमादिति भावः । सावधिक इति ।। साधिष्ठानक इत्यर्थः । इदमेवमिति ।। इदं शुक्त्यादिकम्, एवं रजतादिकमित्यर्थः । नन्वेकस्य विरुद्धस्याङ्गीकारे विरुद्धान्तराङ्गीकार-स्यैवाऽपादनीयत्वात्कथं विरुद्धं स्यादित्यापादनमित्यतो विरुद्धान्तराङ्गीकारस्यैवाऽपादनीयतयाऽभिप्रेतत्वा-न्नानुपपत्तिरिति भावेनानुरूपशेषपूरणेन तदुपपादयति-स्यादङ्गीकार्यमिति शेष इति ।। स्यादित्यतः पूर्वमङ्गीकार्यमिति शेषः पूरणीय इत्यर्थः । प्रतीतेरपीत्यपिपदस्याऽरोप्यसमुच्चयार्थत्वमभिप्रेत्याऽह- आरोप्य-वदिति ।। ननु मिथ्यात्वहानिभिया मिथ्याभूतस्य प्रपञ्चस्य प्रमाणानपेक्षत्वेऽपि तन्मिथ्यात्वस्य प्रमाणेनोप-पादनीयत्वाद् द्रष्टुरभावे कथं तन्मिथ्यात्वसिद्धिरित्यत आह- तन्मिथ्यात्वस्यापीति ।। अस्मिन्पक्षे दुर्घटत्व-मपीत्यस्य घटादीनामित्युत्तरग्रन्थस्य च प्रपञ्च्यप्रपञ्चकभावाश्रयणं कर्तव्यं भवति । तथेत्याद्यपीत्यन्वितस्य सतोऽपिशब्दस्य घटादिद्रष्टृत्वसमुच्चायकत्वं चाऽश्रयणीयं भवतीत्यपरितोषात्पक्षान्तरमाह- अथ वेति ।। अत्र च यथाश्रुतस्यैव दौर्घट्यादिसमुच्चायकत्वान्नोक्तकुसृष्ट्याश्रयणप्रसङ्ग इति भावः ।
लघुप्रभा
(व्या.टि.)
भ्रमाधिष्ठानत्वेनाऽत्मसत्यत्वानुमानमभिसन्धायाऽत्ममिथ्यात्वानुमानं दूषयितुमुपक्रमते- नन्वित्यादिना ।। आत्ममिथ्यात्वेऽन्यमिथ्यात्वस्याप्रयोजकत्वात्कुतस्तस्याङ्गीकार इत्यत आह- अन्य-थेति ।। तत्रेति ।। सत्यत्वेनाभिमतेऽन्यस्मिन् । मिथ्यात्वे । अन्यस्येति शेषः । अधिष्ठानत्वेऽपि सत्यत्वं कुत इत्यत आह- तस्यापीति ।। अधिष्ठानस्य सत्यत्वेऽप्यात्मनः किमायातमित्यत उक्तम्- स एवेति ।। किमात्माधिष्ठानत्वं विशेषानुमानेनोत परिशेषानुमानेनेति विकल्पं हृद्यवरुध्य पृच्छति- किमिति ।। अदृष्टेरिति पञ्चम्युक्तं हेतुत्वं दर्शयति- दृष्टान्ताभावेनेति ।। अपिशब्देनेति ।। शून्यवादिनं प्रति यो भ्रमः स साधिष्ठान इति व्याप्त्यसिद्ध्या सामान्यसिद्ध्यभावात्परिशेषोऽपि न युज्यत इत्यर्थः । दूषणान्तरसमीकरण इति ।। एतस्यैतद्दोषस्य दूषणान्तरस्यात्र प्राप्त्या समीकरणे वर्तते । एतदिव तदप्यत्र प्राप्नोतीत्यर्थः । तत्किमित्यत आह- उक्तं पुरस्तादिति ।। नाऽत्मा विश्वभ्रमाधिष्ठनं तद्विरुद्धतया तद्भिन्नतया प्रतीयमानत्वादित्युक्तमित्यर्थः । प्रकृतमुपसंहरति- यत एवमिति ।। जात्येति ।। उत्सर्गत इत्यर्थः । प्रकृतेऽपीति ।। विश्वानुभवेऽपीत्यर्थः । असिद्धैवेति । प्रसादाद्बन्धनिवृत्तेरभ्युपगमादित्यर्थः । अन्यत्रेति ।। अनुभाष्य इत्यर्थः । उक्तपुनरुक्तिं वादि-(व्या.टि.) व्यवस्थयाऽपाकरोति- य इत्यादिना ।। लौकिकीमिति ।। अनुभवानुरोधिनीमित्यर्थः । तद्धर्मस्य तत्र स्थितिरन्यत्रावृत्तिरिति व्यवस्थामित्यर्थः । अतिक्रम्येति ।। सर्वमिथ्यात्वमुपेत्येत्यर्थः । १ वैतण्डिकत्व-मिति ।। स्वपक्षस्थापनां विना कथकत्वमित्यर्थः । वृत्तेन वर्तिष्यमाणं सङ्गमयितुं वृत्तमर्थमनुवक्ति- एव-मिति ।। भूषणमिति ।। अभिहिताभिमतहितहेतुरित्यर्थः । अङ्गीकारानर्हस्येति ।। अङ्गीकारः अनर्हः यस्मादिति व्युत्पत्त्या तच्छब्देनानर्हताहेतुरुच्यते, तस्येत्यर्थः । अनेन ‘अप्रामाणिकं प्रमाणविरुद्धमपि विश्वमिथ्यात्वमङ्गी-कृत्य’ इत्यवतारिकाविरोधो निरस्तः । अथ वा भूषणत्वेनेति शेषः । मूले स्यादित्यापादनस्याङ्गीकार्यमिति शेषं मत्वा तस्य विश्वमिथ्यात्वोपपादकापाद्यत्वेऽपि भूषणत्वापादकापाद्यत्वाभावेन तन्मात्रेणाऽपादनापर्यवसाना-दधिकं विवक्षुराह- अङ्गीकृत्येति ।। इत्यर्थ इति ।। विश्वमिथ्यात्वे आत्मनि मिथ्यात्वमापाद्य तद्दूषणभूषणत्व-मित्यापादनद्वये तात्पर्यमित्यर्थः । आत्ममिथ्यात्वाऽङ्गीकृतौ किं दूषणम् । तत्कथम्भूषणत्वेनाङ्गीकार्यमित्यत आह- एतदेवेति ।। कथमुक्तस्यायं प्रपञ्च इत्यत अस्य प्रपञ्चतां प्रपञ्चयति- अयमर्थ इत्यादिना ।। दूषण-मिति ।। सामान्ये नपुंसकम् । प्रतीतौ कर्त्रभावः भ्रम अधिष्ठानाभावः बाधेऽवध्यभावश्चेति दूषणत्रयमित्यर्थः । प्रतिश्रुते प्रथममभिनीय दर्शयति- घटादय इति ।। असाक्षिकत्वमिति ।। अकर्तृकत्वमित्यर्थः । क्रियायाः कर्मादिकारकविशेषव्यभिचारदर्शनात्कर्तृव्यभिचारोऽपि किं न स्यादित्यत आह- न चेति ।। अकर्मकाऽसनादि-क्रियावदकर्तृकक्रियायाः क्वाप्यदर्शनादित्यर्थः । प्रतिश्रुते द्वितीयं प्रपञ्चयति- किञ्चेति ।। द्व्यंशतेति ।। इदमित्यधिष्ठानोल्लेखः, इत्थमिति प्रकारोल्लेख इति द्व्यंशतेत्यर्थः । तृतीयं प्रपञ्चयति- अपि चेति ।। सावधिक इति ।। ‘शेषाद्विभाषा’ इति कप् । सर्वत्रेत्यव्यभिचारप्रदर्शनम् ।
आत्ममिथ्यात्वे प्राप्तदूषणं प्रपञ्च्य तद्दू(द्भू)षणत्वं प्रपञ्चयति- तत्रेति ।। अर्थक्रमेण व्याचष्टे- जडत्व-मिति ।। द्रष्टुरभावेऽपीत्यादि पूर्वपक्षे विरुद्धत्वात्पक्षान्तरपरतया योजयति- अथ वेति ।। प्रतीतिरित्यन्तं प्रथमपक्षदूषणत्वपरतया व्याख्याय, अधिष्ठानं विनेत्यादि द्वितीयदूषणभूषणतापरतया, इत्यादीति तृतीय-दूषणभूषणत्वपरतया व्याचश्व्े- द्वितीयदूषण इत्यादिना ।। स्यादित्यतः परमित्यतः परमिति शेषः । इति शेष इति ।। अङ्गीकार एवाऽपाद्यो न सत्त्वमिति भावः । प्रतीतेरित्यादि दुर्घटत्वस्य भूषणत्वे हेतूक्तिपरतया योजयितुमवतारयति- कथमेतदिति ।। अङ्गीकारादिति ।। अन्यथाऽऽत्मभिन्नसत्त्वेऽद्वैतहानिः, आत्मरूपत्वे ब्रह्मणो भ्रमत्वापत्तिः, असार्वज्ञापत्तिः, बद्धतापत्तिः, नित्यमुक्तिश्रुत्यप्रामाण्यापत्तिः, अज्ञानोपादेयत्वापत्तिः, इत्यादिबहुविप्लवापत्तिं सूचयति । दुराग्रहदण्डेन खण्डयति- साक्षिरूपत्वेऽपीति ।। अविद्यामय्या इति ।। मयटष्टित्त्वात् ‘टिड्ढाण्’ इति ङीबिति भावः । कथमस्य भूषणत्वमित्यतोऽभिमतहितहेतुत्वादित्याशयेन हित-मातनोति- मिथ्यात्वस्येति ।। सत्यस्येत्याद्यङ्गीकारहेतुपरतया योजयितुमवतारयति- तथापीति ।। हाने-रिति ।। प्रामाणिकस्य सत्यत्वाविनाभावादिति भावः । मिथ्याभूतस्य तदनपेक्षयामपि तन्मिथ्यात्वप्रतिपत्तये (व्या.टि.) तदपेक्ष्यतामित्यत आह- तन्मिथ्यात्वस्यापीति ।। परमप्रकृतविश्वसत्यत्वं परिशेषयन्नुपसंहरति- यत एवमिति ।। अध्वानमिति ।। कथामार्गमित्यर्थः । विरुद्धमिति ।। प्रतीतिविरोधादिना दुर्घटमिति दौर्घट्योपपादनम् । एवमात्ममिथ्यात्वे प्रतीतिविरोधादिदौर्घट्यस्य परमते भूषणत्वोपपादनपरतया प्रतीतेरित्यादि-मूलं संयोज्याधुना प्रसङ्गान्तरपरतया व्याचश्व्े- अथ वेति ।। दौर्घट्यमिति ।। बहिरेवोहनीयमिति शेषः । इतीति ।। प्रतीतेरित्यादिपूर्ववाक्यमेतच्छेषतया योजनीयमित्यर्थः ।