प्रामाण्यं च स्वत एव ..
प्रामाण्यस्वतस्त्वसमर्थनम्
मूलम्
- प्रामाण्यं च स्वत एव । अन्यथाऽनवस्थानात् ।
तत्त्वमञ्जरी
ननु वेदस्यापौरुषेयत्वे प्रामाण्यनिश्चयो न स्यात् । पौरुषेयत्वे तु तदाप्तिमूलत्वेन सम्भवतीत्यत आह - प्रामाण्यं चेति ।। अन्यथा, प्रमाणस्य परतःप्रामाण्याङ्गीकारे तस्यापि परतस्तस्यापि परत इत्यनवस्था स्यात् ।
टीका
यदुक्तं वाक्यत्वाद्यनुमानं विपक्षे बाधकाभावादप्रयोजकमिति । तदसत् । तथाहि । संवादेन खलु प्रमाणानां प्रामाण्यमनुमातव्यम् । संवादश्च सजातीयेन विजातीयेन वा भवति । तत्र वेदस्य न तावत्सजातीयसंवादोऽस्ति । ‘सदागमैकविज्ञेयम्’ इति तद्विषयस्य प्रमाणान्तरागोचरत्वा-भ्युपगमात् । नाप्यर्थक्रियासामर्थ्यादिकं विजातीयमस्ति । मोक्षादेः प्रत्यक्षाद्यवेद्यत्वात् । तथाचाऽप्तोक्तत्वेनैव तत्प्रामाण्यमनुमातव्यम् । प्रमाणजन्यत्वेनैव तज्जन्यज्ञानप्रामाण्यमपि । तथाचाऽह कणादः ‘तद्वचनादाम्नायप्रामाण्यम्’ इति । अक्षपादोऽपि ‘तत्प्रामाण्यमाप्तप्रामाण्यात्’ इति । ततश्च वेदस्याकर्तृकत्वे प्रामाण्यासिद्धिप्रसङ्गस्य बाधकस्य विद्यमानत्वात् कथमप्रयोजकत्वं वाक्यत्वाद्यनुमानस्य । अत एवाकर्तृकत्वाद्यनुमानमपि प्रतिकूलतर्कपराहतम् । उपाधेरपि साध्यव्यापकताभङ्गः सिद्ध्यति । यथोक्तम्-
‘अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ।।’ इति ।
तत्राऽह- प्रामाण्यं चेति ।। सर्वेषामपि ज्ञानानां यथार्थत्वलक्षणं प्रामाण्यं स्वत एव ज्ञान-ग्राहकेणैव गृह्यत इति शेषः ।
एतदुक्तं भवति । भवेदेवं यदि ज्ञानं मनसाऽवसेयं तदीयं याथार्थ्यमुक्तविधया संवादेनानुमेय-मिति परतः प्रामाण्यग्रहणं स्यात् । न चैवम् । किं नाम, ज्ञानं साक्षिप्रत्यक्षवेद्यम् । तच्च वक्ष्यते । तत्प्रामाण्यमपि साक्षिप्रत्यक्षवेद्यमेव । इन्द्रियलिङ्गशब्दानां तु यथार्थज्ञानसाधनत्वलक्षणं प्रामाण्य-मन्वयव्यतिरेका(क समधिगम्यं)वसेयम् । तथाच कुत्रापि प्रामाण्यग्रहणे नाऽप्तोक्तत्वादेरुपयोग इति ।
ज्ञानग्राहकमात्रेणैव तत्प्रामाण्यग्रहणमित्येतत् कुत इत्यत आह- अन्यथेति ।। प्रामाण्यं तावदवश्यं केनचित्प्रमाणेन ज्ञातव्यम् । अन्यथा तदभावप्रसङ्गात् । नच ज्ञानग्राहकातिरिक्तेन तद्ग्रहणं सम्भवति । तत्प्रामाण्यस्याप्यन्येन ग्रहणाङ्गीकारेऽनवस्थानात् । तस्य स्वतस्त्वे प्रथमस्यैव तथात्वाङ्गीकारोपपत्तेः । अतः परिशेषात् स्वतस्त्वसिद्धिः ।
तथा च प्रयोगः । ज्ञानगतं याथार्थ्यं तद्ग्राहकेणैव ग्राह्यम् । ग्राहकान्तरानुपपत्तौ सत्यां गृह्यमाण-त्वात् । यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव ग्राह्यम् । यथा चक्षुषोऽन्येनानुपपद्यमान-साक्षात्कारं साक्षात्क्रियमाणं रूपं चक्षुषैव साक्षात्क्रियत इति । नच विशेषणासिद्धिः । ग्राहकान्तर-स्यानवस्थाप्रसङ्गेन निरस्तत्वात् । नच साक्षिवेद्यत्वेऽप्यनवस्थाप्रसङ्गः समान एवेति वाच्यम् । साक्षी स्वयंप्रकाशः स्वात्मानं स्वप्रामाण्यं च गोचरयतीत्यङ्गीकारात् । ज्ञानस्यैव तथाभावोऽभ्युप-गम्यतामिति चेत्, अन्तःकरणवृत्तेर्ज्ञानस्य जडत्वेन स्वयम्प्रकाशत्वायोगादिति ।
ननु प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशयिकत्वादप्रामाण्यवत् । अप्रामाण्यं हि ज्ञानग्राहकातिरिक्तेन विसंवादादिना लिङ्गेनानुमेयमित्यतो वाऽह- अन्यथेति ।। अनवस्थालक्षण-प्रतिकूलतर्कपराहतमनुमानमित्यर्थः ।
भावबोधः
।। संवादश्च सजातीयेन विजातीयेन वा भवतीति ।। सजातीयसंवादो नाम साक्षात्स्वविषय-विषयकप्रमाणान्तरव्यवस्थापितविषयत्वम् । विजातीयसंवादो नाम स्वविषयघटितस्वगतप्रामाण्यग्राहकप्रमाण-व्यवस्थापितविषयत्वमिति द्रष्टव्यम् । ननु वेदस्याऽप्तोक्तत्वाभावेऽपि यथार्थज्ञानजनकत्वलक्षणं प्रामाण्यं यथार्थज्ञानान्वयव्यतिरेकाभ्यामनुमातुं शक्यत इति (कथम्) न वेदप्रामाण्यसिद्धिः तत्सकर्तृकत्वमाक्षिपतीत्यत आह- प्रमाणजन्यत्वेनैवेति ।। स्यादेतदेवम्, यदि वेदजन्यज्ञानप्रामाण्यस्य प्रमाणभूतवेदजन्यत्वं विनाऽन्यतः सिद्धिः स्यात् । न चैवम् । प्रमाणभूतवेदजन्यत्वेनैव तत्सिद्धेः । तथा च तदन्वयव्यतिरेकाभ्यां वेदप्रामाण्यानु-मानेऽन्योन्याश्रयः स्यादित्यर्थः ।। साक्षिप्रत्यक्षवेद्यमेवेति ।। तथा च नान्योन्याश्रय इ(त्यर्थः)ति भावः । अंशे बाधनिवारणार्थं प्रामाण्यं विशिनश्व्-ि ज्ञानगतमिति ।। ज्ञानग्राहकेणैव ग्राह्यमिति ।। पद्धत्युक्तरीत्या ज्ञानज्ञापकातिरिक्तज्ञापकानपेक्षत्वं यदि स्वतस्त्वं तदा एवकारोऽन्ययोगव्यवच्छेदपरः । तेनात्रापि ज्ञानग्राहकाति-रिक्ताग्राह्यत्वं पर्यवस्यति । अत्र च ग्राहकपदं संशयविरोध्यलौकिकप्रत्यासत्त्यजन्यप्रत्यक्षपरम् । तदतिरिक्ता-ग्राह्यत्वं तु नियमेन तदतिरिक्तग्राह्यत्वाभावः । एतेनानुमित्यादिवेद्यत्वेऽपि प्रामाण्यस्य नानुपपत्तिः । अत्र यद्यप्येवकारं विना उक्तप्रत्यक्षग्राह्यत्वसाधनेनैव स्वतस्त्वसिद्धिः । तथाऽपि परमतनिषेधार्थं विशिष्टसाध्यकर-णम् । तद्धि त(था)दा भवति, यदि यद्रूपं परतस्त्वे साध्यतावच्छेदकं तद्रूपावच्छिन्नाभावः साध्यते (ध्येत) । परेण तु (तूत्तरत्र) ‘लौकिकप्रत्यक्षातिरिक्तनियतग्राहकग्राह्यत्वं परतस्त्वम्’ इत्युक्तम् । अत एवोक्तं पद्धतौ ‘ज्ञानज्ञापकातिरिक्तप्रमाणापेक्षत्वं ज्ञप्तौ परतस्त्वम्’ इति । अन्यथा स्वतस्त्वनिरुक्तौ तदभावस्य परतस्त्वरूपत्वे पृथक् परतस्त्वनिर्वचनायोगः । अत्रापि ‘प्रामाण्यं स्वतः’ इत्यंशलब्धप्रामाण्यस्वतस्त्वे हेतुविशेष(णसिद्ध्यर्थ)-णासिद्धिनिरासार्थत्वेन ‘अन्यथाऽनवस्थानात्’ इति वाक्यं व्याख्याय एवशब्दसूचितपरतस्त्वनिषेधसाधकत्वेन तद्वाक्यं व्याख्यातम् । स्वमते तु प्रामाण्ये स्वतस्त्वं संशयविरोध्यलौकिकप्रत्यासत्त्यजन्यप्रत्यक्षवेद्यत्वम् । अत्रेश्वरप्रत्यक्षवेद्यत्वेन सिद्धसाधनं स्यादिति प्रत्यक्षे संशयविरोधीति विशेषणम् । योगिज्ञानादिना तन्मा भूदित्य-लौकिकप्रत्यासत्त्यजन्येति विशेषणम् । अनुमित्यादिना तद्वारणाय प्रत्यक्षपदम् । एतादृशं च प्रत्यक्षं स्वमते साक्षिरूपं परमते त्वनुव्यवसायादिरूपमित्यन्यदेतत् । यदि तु ग्रन्थान्तररीत्या ज्ञानग्राहकेण गृह्यत एवेति स्वतस्त्वनिर्वचनं तदा एवकारो भिन्नक्रमः सन् यावदर्थको बोद्धव्यः । ज्ञानग्राहकञ्चोभयसिद्ध-प्रामाण्यग्राहकभिन्नत्वेन विवक्षितम् । तेन दोषाभावे सति ज्ञानप्रत्यक्षवेद्यत्वं स्वतस्त्वं पर्यवस्यतीति दिक् ।
भावदीपः
।। सजातीयेन विजातीयेन वेति ।। साक्षात्स्वविषयं प्रमाणान्तरं सजातीयम् । तदन्यन्मानं विजातीयं ज्ञेयम् ।। अर्थक्रियेति ।। फलनिष्पादनशक्तत्वमर्थक्रियासामर्थ्यम् । फलवत्प्रवृत्तिजनकत्वादृष्ट-करणकत्वादिरादिपदार्थः ।। प्रत्यक्षाद्यवेद्यत्वादिति ।। आगमैकवेद्यत्वात्तस्य । तथा च तज्जननशक्तिर्दुर्ज्ञेयेति भावः ।। प्रामाण्यमपीति ।। अनुमातव्यमित्यनुषङ्गः ।। तद्वचनादिति ।। ईश्वरवचनादित्यर्थः ।। ततश्चेति ।। आप्तोक्तत्वेनैव वेदप्रामाण्यस्यानुमातव्यत्वे सतीत्यर्थः ।। अत एवेति ।। अपौरुषेयत्वे प्रामाण्यासिद्धि-प्रसङ्गादेवेत्यर्थः ।। अकर्तृकत्वाद्यनुमानमपीति ।। अप्रमितकर्तृकत्वाविच्छिन्नपरम्परत्वनियतैकप्रकारकत्वा-प्रणीतत्वाद्यनुमानमपीत्यर्थः ।। उपाधेरिति ।। अकर्तृकत्वप्रसिद्ध्यभावरूपोपाधेरपीत्यर्थः । अत एवेत्यनुषङ्गः। कथमित्यतस्तार्किकोक्तमाह- यथोक्तमिति ।। साध्यव्यापकताभङ्गात्पक्ष इति ।। अनुकूलतर्कसनाथसाधनेन पक्षे साध्यनिश्चये सति तत्रोपाधेस्साध्य-व्यापकत्वाभावादिति भावः । करणप्रामाण्यस्य धर्मिग्राहकग्राह्यत्वरूप-स्वतस्त्वाभावादाह- सर्वेषामपि ज्ञानानामिति ।। यथार्थत्वेति ।। साक्षाद्यथावस्थितज्ञेयविषयीकारित्व-रूपमित्यर्थः । तावता कथमुक्तशङ्कापरिहार इत्यत आह- एतदुक्तमिति ।। भवेदेवमिति ।। अपौरुषेयत्वे वेदस्य प्रामाण्यासिद्धिप्रसङ्गरूपो दोषो भवेदित्यर्थः ।। वक्ष्यत इति ।। बुद्धिदोषेति वाक्यव्याख्यावसरे ‘अयमभिसन्धिः’ इत्यादिग्रन्थेनेति वा ‘ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य’ इति मूलकृतैव परिच्छेदान्ते वा वक्ष्यत इत्यर्थः ।। अन्वयेति ।। प्रमान्वयव्यतिरेकेति वा अपवादाभावे केवलज्ञानान्वयव्यति-रेकावसेयमित्यर्थः ।। परिशेषादिति ।। अवश्यग्राह्यत्वस्य परतः स्वतो वेति सम्भावितकोटिद्वयमध्येऽनवस्था-दोषेण परतोऽसम्भवे ज्ञानग्राहकमात्रग्राह्यत्वरूपस्वतस्त्वे पर्यवसानेन परिशेषप्रमाणात् स्वतस्त्वसिद्धिरित्यर्थः। तथा चेति ।। अनुकूलतर्कादौ सतीत्यर्थः । अप्रामाण्येऽनैकान्त्यनिरासाय ग्राहकान्तरानुपपत्तौ सत्यामित्युक्तिः। अनुपपद्यमानग्रहणमिति बहुव्रीहिः । एवमग्रेऽपि ज्ञेयम् । ग्रहणमित्यत्र साक्षात्कारमित्यत्र च सदिति शेषः । ज्ञानस्यैवेति ।। वृत्तिरूपज्ञानस्यैवेत्यर्थः ।। परत इति ।। ज्ञानग्राहकादन्येनेत्यर्थः ।। अनभ्यासेति ।। परिचित्यभाववेलायां दूरे जलादिज्ञाने सतीदं ज्ञानं प्रमाणं न वेति संशयविषयत्वादित्यर्थः । अभ्यासदशापन्न-ज्ञानप्रामाण्येऽसिद्धिनिरासाय विशेषणम् । दृष्टान्ते साध्यानुगतिं व्यनक्ति- अप्रामाण्यं हीति ।। विसंवादि-नेति ।। दुष्टकरणजन्यत्वादिरादिपदार्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
।। संवादश्च सजातीयेन विजातीयेन वेति ।। साक्षात्स्वविषयविषयकमानान्तरसंवादो हि सजातीयसंवादः । स्वशब्देनेदं जलमिति ज्ञानं, तद्विषयो जलं, तद्विषयकं यन्मानान्तरम् इदं जलमिति ज्ञानान्तरं, तत्संवादस्सजातीयसंवादः । स्वनिष्ठप्रामाण्यव्यवस्थापनद्वारा स्वविषयविषयकमानान्तरसंवादो विजातीय-संवादः । स्वशब्देनेदं जलमिति ज्ञानम् । तन्निष्ठं यत्प्रामाण्यं यथावस्थितार्थज्ञेयविषयीकारित्वरूपं तद्व्यवस्थापन-(श्री.टि.) द्वारा, इदं जलमिति ज्ञानविषयभूतं जलविषयकं यन्मानान्तरम्, इदं जलमिति ज्ञानं प्रमाणं समर्थ-प्रवृत्तिजनकत्वादित्यनुमानरूपं तत्संवादो हि विजातीयसंवादः । इदमनुमानं यथावस्थितार्थज्ञेयविषयीकारित्वरूप-प्रामाण्यविषयीकरणद्वारा जलसत्तावगाहि । उक्तरूपप्रामाण्यस्यार्थसत्ताघटितत्वादिति द्रष्टव्यम् ।। तद्विषय-स्येति ।। वेदप्रतिपाद्यस्येश्वरादेरित्यर्थः ।। अर्थक्रियासामर्थ्येति ।। समर्थप्रवृत्तिजनकत्वमित्यर्थः । मोक्षादे-रिति ।। मोक्षस्वर्गादिरूपार्थक्रियाया इत्यर्थः । प्रमाणजन्यत्वेनैवेति ।। वेदप्रामाण्यस्याऽप्तोक्तत्वेनैवानुमेयत्वाद् वेदस्याकर्तृकत्व आप्तोक्तत्वगुणाभावेन तत्प्रामाण्यासिद्धौ प्रमाणजन्यत्वाभावेन वेदजन्यज्ञानप्रामाण्यमपि न सिद्ध्येत् । न चान्यत एव तत्सिद्धिरिति वाच्यम् । प्रमाणजन्यत्वेनैव तस्यानुमेयतया तदतिरिक्तोपायान्तरा-भावादित्यर्थः । अत एव सिद्धान्ते ज्ञानग्राहकग्राह्यत्वोक्त्योपायान्तरं वक्ष्यत इति द्रष्टव्यम् ।
भावबोधे तु ‘‘ननु वेदस्याऽप्तोक्तत्वाभावेऽपि यथार्थज्ञानजनकत्वलक्षणं प्रामाण्यं यथार्थज्ञानान्वय-व्यतिरेकाभ्यामनुमातुं शक्यत इति न वेदप्रामाण्यसिद्धिस्तत्सकर्तृकत्वमाक्षिपतीत्यत आह- प्रमाणजन्यत्वेनै-वेति ।। स्यादेतदेवं यदि वेदजन्यज्ञानप्रामाण्यस्य प्रमाणभूतवेदजन्यत्वं विनाऽन्यतस्सिद्धिः स्यात् । न चैवं, प्रमाणभूतवेदजन्यत्वेनैव तत्सिद्धेः । तथा च तदन्वयव्यतिरेकाभ्यां वेदप्रामाण्यानुमानेऽन्योन्याश्रयः स्यादित्यर्थः’ इति व्याख्यातम् ।
।। तद्वचनादिति ।। ईश्वरवचनत्वादित्यर्थः । तेनेश्वरेण प्रणयनादिति वा ।। तत्प्रामाण्यमिति ।। आप्तस्ये-श्वरस्य प्रामाण्यात् प्रमाश्रयतया प्रमाणभूतेनाऽप्तेनोक्तत्वादिति यावत्, तस्य वेदस्य प्रामाण्यं सिद्धमित्यर्थः । अत एवेति ।। सकर्तृकत्वानुमानेऽप्रयोजकत्वाभावादेवेत्यर्थः ।। प्रतिकूलतर्केति ।। सकर्तृकत्वानुमानेऽ-प्रयोजकत्वशङ्कापरिहारकबाधकतर्कस्यैवाकर्तृकत्वानुमाने प्रतिकूलतर्कत्वादित्यर्थः ।। उपाधेरपीति ।। अनुकूल-तर्केण पक्षीभूते वेदे सकर्तृकत्वस्यैव सिद्धत्वेनाकर्तृकत्वप्रसिद्ध्यभावरूपोपाधेः पक्ष एव व्यभिचारात्साध्य-व्यापकताभङ्गः सिद्ध्यतीत्यर्थः । नन्वनुकूलतर्कसिद्धसकर्तृकत्वोपेते पक्षीभूते वेदे कथमेतदुपाध्यभावसिद्धिः । अकर्तृकत्वप्रसिद्ध्यभावाभावेऽकर्तृकत्वप्रसिद्धिमत्त्वस्यैव प्राप्त्या विरोधादिति चेन्न । अकर्तृकत्वप्रसिद्धि-मत्त्वस्यानुपलभ्यमानप्रत्यक्षादिप्रमाणमूलकत्वरूपत्वेन व्याख्यातत्वात् । अस्य च सकर्तृकत्वेऽप्युपपत्तेः । ईश्वरप्रत्यक्षस्य प्रमाणत्वाभावादित्यवगन्तव्यम् । १मानसं मनः ।। तच्चेति ।। ज्ञानस्य साक्षिवेद्यत्वमित्यर्थः ।। अन्वयेति ।। सति निर्दुष्टेन्द्रियादौ यथार्थं ज्ञानमुत्पद्यतेऽन्यथा तु नेत्यन्वयव्यतिरेकगम्यमित्यर्थः ।। कुत्रा-पीति ।। ज्ञाने करणे वेत्यर्थः ।
वक्ष्यमाणानुमाने विशेष्यासिद्धिं परिहरति- प्रामाण्यमिति ।। तदभावेति ।। वस्तुसिद्धेर्ज्ञानाधीनत्वादिति भावः । वक्ष्यमाणप्रयोगे विशेषणासिद्धिं परिहरति- न चेति ।। अतिरिक्तेन अनुमानादिना । ननु कियद्दूरं (श्री.टि.) गत्वा तत्प्रामाण्यस्य स्वतस्त्वमङ्गीक्रियत इति नानवस्थेत्यत आह- तस्येति ।। अनुपपद्यमानग्रहणं सत् । ज्ञानस्यैवेति ।। त्रिपुटीप्रत्यक्षवादिनः प्राभाकरस्य मते आत्मांशः स्वात्मांशो वेद्यांशश्चेत्यंशत्रयं ज्ञाने प्रतीयते । इदमहं जानामीति हि तन्मते ज्ञानाकारः । तथा च ज्ञानस्यैव स्वप्रकाशत्वमङ्गीकृत्य तथाभावः स्वात्मगोचरत्वं स्वप्रामाण्यगोचरत्वं च कस्मान्नाभ्युपगम्यते । किं साक्षिणस्तदभ्युपगमेनेत्यर्थः ।। जडत्वे-नेति ।। एतावन्तं कालं सुखमहमस्वाप्समित्यौत्तरिकानुस्मृतिसिद्धात्मादिविषयकसौषुप्तिकानुभवस्ताव-दस्ति । स च न तावन्मनआदीन्द्रियैर्भवितुं युक्तः । तेषामुपरतत्वात् । तस्मात्साक्षिरूप एवेति साक्षिरूप-चैतन्यज्ञानस्य स्वप्रकाशत्वसाधिका युक्तिरस्ति । सेयं युक्तिरन्तःकरणवृत्तिरूपे जडे ज्ञाने न प्रवर्तत इत्यर्थः । ‘अप्रकाशस्वरूपत्वाज्जडे ज्ञानं न मन्यते’ इत्युक्तेः । एतद्युक्त्यभावसूचनार्थमेव जडत्वेनेत्युक्तमिति ज्ञात-व्यम् ।। सांशयिकत्वादिति ।। स्वतस्त्वे ज्ञानग्राहकेणैव प्रामाण्यस्यापि गृहीतत्वात्संशयो न स्याद्, अतस्तदन्यथाऽनुपपत्त्या परतस्त्वमित्याशयः । अभ्यासदशापन्नज्ञानप्रामाण्ये सांशयिकत्वाभावेनासिद्धिवारणार्थम् अनभ्यासदशायामित्युक्तम् । व्यभिचारवारकविशेषणवद्, असिद्धिवारकविशेषणस्याप्यसिद्धिपरिहारद्वारा व्याप्तिग्रहोपयुक्तत्वस्य ‘चक्षुस्तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्’ इत्यत्र दर्शनाददोषः । तत्र हि रूपत्वस्यापि व्यञ्जकत्वेनासिद्धिपरिहाराय रूपादिषु पञ्चसु मध्य इत्युक्तमस्तीति द्रष्टव्यम् । यद्वा पक्षविशेषणमेतत् । अनभ्यासदशापन्नज्ञानप्रामाण्यं पक्ष इति भावः । दृष्टान्ते साध्यमुपपादयति- अप्रामाण्य-मिति ।। अनवस्थेति ।। प्रामाण्यस्यानुमेयत्वे प्रामाण्यानुमितिप्रामाण्यमपि पुनरनुमित्यन्तरेण ग्राह्यम् । एवं तत्प्रामाण्यमपीत्येवं फलमुखी । एवं प्रामाण्यस्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यनिश्चयार्थं लिङ्गान्तरं तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः । एवं तत्र तत्रापीति कारणमुखीत्यनवस्थाद्वयलक्षणप्रतितर्कपराहतमित्यर्थः।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
।। संवादश्च सजातीयेन विजातीयेन वा भवतीति ।। तत्र वेदसमानविषयकत्वे सति वेदप्रामाण्य-ग्राहकत्वं संवादस्य सजातीयत्वम् । वेदसमानार्थकत्वाभावे सति वेदप्रामाण्यग्राहकत्वं विजातीयत्वमिति विवेकः। अभ्युपगमादिति ।। वेदसमानार्थकत्वे सति वेदप्रामाण्यग्राहकत्वस्यैव सजातीयसंवादतया प्रकृते वेदसमान-विषयकप्रमाणान्तराभावेनोक्तरूपसंवादानुपपत्तेरित्यर्थः ।। नापीति ।। अर्थक्रियासामर्थ्यस्य वेदसमानार्थ-कत्वाभावे सति वेदप्रामाण्यग्राहकत्वाद्विजातीयत्वमिति भावः ।। प्रत्यक्षाद्यवेद्यत्वादिति ।। तथा च मोक्षादि-रूपार्थक्रियासामर्थ्यरूपलिङ्गस्यासिद्धत्वान्न तेन प्रामाण्यानुमानं सम्भवतीति भावः । ननु प्रमाजनकत्वेनापि वेदस्य प्रामाण्यानुमानसम्भवाद् आप्तोक्तत्वेनैव प्रामाण्यस्यानुमेयत्वमित्यत्रानुकूलतर्काभावस्तदवस्थ इत्यतः, तथा सति प्रमाणजन्यत्वेन ज्ञानप्रामाण्यस्य ज्ञानप्रामाण्येन च करणप्रामाण्यस्यानुमेयत्वेन वेदप्रामाण्यस्य तज्जन्यज्ञानप्रामाण्यस्य चान्योन्यसिद्ध्यधीनसिद्धिकत्वेनान्योन्याश्रयापत्त्या प्रमाजनकत्वेन तत्प्रामाण्यानुमाना-सम्भवेनाऽप्तोक्तत्वेनैव तस्यानुमेयत्वेन नानुकूलतर्काभाव इत्याशयेनाऽह- प्रमाणजन्यत्वेनैवेति ।। वेद-प्रामाण्यस्याऽप्तोक्तत्वेनैवानुमेयत्वं युक्त्योपपाद्याभियुक्तसम्मत्याऽपि द्रढयति- तथा चाऽहेति ।। यद्यपि तदिति (पां.टि.) सन्निहितत्वाद्धर्मस्य परामर्शः । तथा च तस्य धर्मस्य वचनात् प्रतिपादनाद् आम्नायस्य वेदस्य प्रामाण्यम् । यत्प्रामाणिकार्थप्रतिपादकं वाक्यं तत्प्रमाणमेवेति नियमात्, इत्यर्थकत्वादस्य सूत्रस्य प्रामाण्यज्ञानस्य गुणजन्यत्वासिद्धेर्नास्य विवक्षितार्थसाधकत्वम् । तथाऽपि ग्रन्थेऽनुपक्रान्तस्यापि वेदस्य ‘तदप्रामाण्यमनृत-व्याघातपुनरुक्तदोषेभ्यः’ इति गौतमीयसूत्रे यथा प्रसिद्ध्या सिद्धत्वात्तदिति परामर्शः, तथेहानुपक्रान्त-स्यापीश्वरस्य प्रसिद्ध्या सिद्धत्वात्तदिति परामर्शः । ततश्च तद्वचनात् तेनेश्वरेण वचनात् प्रणयनाद् आम्नायस्य वेदस्य प्रामाण्यमित्येतत्सूत्रस्य परकीययोजनाश्रयणेन विवक्षितार्थसाधकत्वादस्योदाहरण-मिति । यद्यपि च ‘मन्त्राऽयुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्’ इति समग्रसूत्रस्योदाहर्तव्यत्वात्समग्रसूत्रमनुदाहृत्य तदेकदेशमात्रोदाहरणमयुक्तम् । तथाऽप्येकदेशस्यैव विवक्षितार्थप्रतिपादकत्वेन प्रकृतोपयोगित्वात्तन्मात्रमेवोदा-हृतम् । तस्यादृष्टार्थस्य वेदस्य प्रामाण्यम् आप्तप्रामाण्याद् आप्तोक्तत्वात् । अदृष्टार्थं वेदवाक्यं प्रमाणम् आप्तोक्तत्वात् । दृष्टार्थमन्त्राऽयुर्वेदवाक्यवदित्युदाहृतसूत्रार्थः । वाक्यत्वाद्यनुमानस्येत्यत्राऽदिपदेन ‘वेदाः सर्वज्ञ-प्रणीता वेदत्वात्’ इति प्रागुक्तव्यतिरेक्यनुमानपरिग्रहः ।। उपाधेरिति ।। अनुकूलेन तर्केण हेतोः साध्य-व्याप्यत्वनिर्णयेनोपाधेः साध्यव्याप्यहेत्वव्यापकतया पक्ष एव साध्यव्यापकताभङ्गः सिद्ध्यतीत्यर्थः । सम्मतिग्रन्थे पक्षे साध्यव्यापकताभङ्गादिति सम्बन्धः ।
ननु किमिदं प्रमाणानां प्रामाण्यस्य स्वतस्त्वमित्यतः फलकरणभेदेन प्रामाण्यस्य द्वैविध्यात् फलतत्प्रामाण्य-स्वतस्त्वोपदर्शनेन तत्परतया वाक्यं व्याचश्व्े- सर्वेषामिति ।। इन्द्रियलिङ्गशब्दजन्यानामित्यर्थः ।। यथार्थत्व-लक्षणमिति ।। यथार्थज्ञानत्वलक्षणमित्यर्थः ।। ज्ञानग्राहकेणैव गृह्यत इति ।। अत्र ज्ञानग्राहकशब्देन ग्राह्य-प्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानस्य, गृह्यत इत्यनेन तद्विषयत्वस्य, एवकारेण कार्त्स्न्यपरेण तन्नैयत्यस्य, अवधारणपरेण प्रतिबन्धव्यवच्छेदस्य च लाभाद् ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग््रयसमवहितग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वनैयत्यमित्यर्थपर्यवसानान्न कश्चित्क्षुद्रोपद्रवः । ननु यदुकतमित्यादि-प्राचीनाप्रयोजकत्वशङ्काग्रन्थानुरोधेन करणप्रामाण्यस्वतस्त्वोपदर्शनपरतयैवैतद्ग्रन्थव्याख्यानमुचितम् । अन्यथोक्तशङ्काया अनिरासप्रसङ्गात् । तत्किमिति करणप्रामाण्यस्वतस्त्वपरत्वपरित्यागेन फलप्रामाण्यस्वतस्त्व-परत्वाश्रयणमित्यतः करणप्रामाण्यस्वतस्त्वव्युत्पादनेन करणप्रामाण्यस्वतस्त्वस्य ज्ञानप्रामाण्यस्य ज्ञान-ग्राहकातिरिक्तग्राह्यत्वेऽनुपपत्त्या तत्स्वतस्त्वाधीनत्वात्, ज्ञानप्रामाण्यस्वतस्त्वव्युत्पादनेन करणप्रामाण्य-स्वतस्त्वव्युत्पादने सौलभ्याद्युक्तं करणप्रामाण्यस्वतस्त्वपरत्वपरित्यागेन फलप्रामाण्यस्वतस्त्वपरत्वाश्रय-णमित्याशयेन करणप्रामाण्यस्वतस्त्वस्य फलप्रामाण्यस्वतस्त्वाधीनत्वमुपदर्शयन् यदुक्तमित्यादिशङ्कापरि-हाराय करणप्रामाण्यस्वतस्त्वसिद्धिमप्येतद्ग्रन्थाभिप्रायतया दर्शयितुमाह- एतदुक्तं भवतीति ।। तच्च वक्ष्यत इति ।। ‘ज्ञानं स्वरूपेणैव प्रवृत्तिहेतुः’ इत्यादिनेति शेषः ।। अन्वयव्यतिरेकसमधिगम्यमिति ।। ज्ञानसाधनत्व-ग्राहकान्वयव्यतिरेकसमधिगम्यमित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
वक्ष्यमाणपरिशेषानुमाने उपोद्घातसङ्गत्या विशेष्यासिद्धिमुद्धरति- प्रामाण्यं तावदिति ।। विशेषणा-सिद्धिं परिहरति- न चेति ।। तत्प्रामाण्यस्येति ।। प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमिति-रूपेणान्येन ज्ञानेन ग्राह्यम् । एवं तत्प्रामाण्यमपीति फलमुखा । एवं प्रामाण्यस्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञान-प्रामाण्यानिश्चयेऽतिप्रसङ्गेन तन्निश्चयार्थं लिङ्गान्तरं तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः । एवं तत्रापीति करणमुखा चानवस्था स्यादित्यर्थः ।। प्रथमस्यैवेति ।। लाघवात्, प्रथमपरित्यागे कारणाभावाच्चेत्यर्थः ।। ज्ञानगतं याथार्थ्य-मिति ।। करणगतयाथार्थ्यस्य पक्षत्वभ्रमनिरासाय ज्ञानगतमिति विशेषणम् । साध्यार्थस्तु पूर्वमेवोक्तः । ज्ञानस्यैवेति ।। लाघवादिति भावः ।। अन्तःकरणवृत्तेरिति ।। ननु जडत्वं न स्वप्रकाशत्वाभावे प्रयोजकम् । अन्यथा साक्षिणोऽपि चेतनत्वात्स्वप्रकाशत्वं न स्यादिति चेन्न । क्रियायाः कारकप्रयोज्यत्वस्य सकलवादि-सम्मतत्वेन प्रयोजकस्य च प्रयोज्यापेक्षया पूर्ववृत्तित्वनियमाज्ज्ञप्तिरूपवृत्तिक्रियायाः स्वकर्मकत्वे स्वापेक्षया स्वस्य पूर्वभावित्वरूपाऽत्माश्रयाऽऽपत्त्या स्वकर्मकप्रकाशत्वरूपस्वप्रकाशत्वमनुपपन्नमेव । जडत्वं चात्र जन्यत्व-रूपं ग्राह्यम् । साक्षिणस्त्वनादिनित्यत्वेनोत्पत्त्यर्थमन्यानपेक्षणादनादितः स्वविषयकत्वे न काऽप्यनुपपत्तिः । एतच्च ‘कर्मकर्तृव्यपदेशाच्च’ इत्येतत्सुधाग्रन्थे स्पष्टम् । केचित्तु जडत्वेऽपि स्वप्रकाशत्वं भवत्विति व्याहतत्वान्न शङ्कोदयः । जडत्वस्याप्रकाशत्वरूपत्वात् । अप्रकाशस्यापि स्वप्रकाशत्वमित्यस्य व्याहतत्वात् । न चैवं साध्या-वैशिष्ट्यम् । व्यवहारस्य साध्यत्वाङ्गीकारेण तदप्रसक्तेरित्याहुः । हेतौ चासिद्धिवारणायानभ्यासदशायामिति विशेषणम् । दृष्टान्ते साध्यवैकल्यं परिहरति- अप्रामाण्यं हीति ।। प्रतिकूलतर्कपराहतमनुमानमितीति ।। तथा चासमानबलत्वान्नैतदनुमानं प्रतिपक्ष इति भावः ।
लघुप्रभा
(व्या.टि.)
वेदस्य यथार्थज्ञानसाधनत्वरूपं प्रामाण्यमाप्तोक्तत्वेनैवानुमातव्यम् । तज्जन्यज्ञानगतं याथार्थ्यरूपं तु (प्रामाण्यम्) प्रमाणजन्यत्वेनैवेति सकर्तृकत्वाभावे वेदे प्रामाण्यसिद्धिर्न स्यात् । तत्र प्रामाण्यसिद्ध्यभावे तज्जन्यज्ञानेऽपि तत्सिद्धिर्न स्यादिति वक्तुं संवादेन तत्सिद्धिं सम्भाव्य वेदे तदनुपपत्तिमाह- संवादेन खल्वित्यादिना ।। निरूपकद्वैविध्येन संवादद्वैविध्यमाह- संवादश्चेति ।। वेदे उभयाभावं दर्शयति- न तावत् सजातीयेति ।। ननु सजातीयत्वं केन धर्मेण, प्रमाणत्वेन तद्विभाजकेन वा । नाऽद्यः । अर्थक्रियासामर्थ्यादेरपि प्रमाणत्वेन सजातीयत्वापत्तेः । न द्वितीयः । ब्रह्मसूत्रलक्षणागमस्य ‘युक्तिमूलतयेति सजातीयसंवादाभिधानम्’ इति सुधाविरोधादिति चेन्न । एकधर्मिकं मानान्तरं सजातीयम् । तेन संवादः, एकप्रकारकत्वम् । तथा च इदं जलमिति ज्ञानजनकेन्द्रियादेस्तादृशज्ञानजनकेन्द्रियेणानुमानादिना वा तुल्यप्रकारकत्वेन प्रामाण्यानुमितिः । तत्र द्रव्यत्वप्रकारकज्ञानजनकं तु मानान्तरं सजातीयं भवति । परं तु न संवादि, नापि विसंवादि । तत्रैवेदमर्थे धर्मिणि जलत्वाभावज्ञानजनकं तु सजातीयमपि विसंवादि । समानधर्मिकभिन्नं सविषयं निर्विषयं वा विजाती-यम् । तेन संवादो यथायथं प्रामाण्यानुमित्यौपयिकः सम्बन्धः । तथा फलनिष्पादनशक्तत्वरूपमर्थक्रियासामर्थ्यं विजातीयम् । तेन संवादश्च ज्ञाने तद्वद्विषयकत्वम् । ज्ञानजनके च तादृशज्ञानजनकत्वम् इत्यादि बोध्यम् । (व्या.टि.) अधिकं तु गुरुप्रभायाम् । तद्विषयस्य वेदबोध्यप्रकारस्य ब्रह्मधर्मिकमानान्तरस्य वेदबोध्यप्रकारकज्ञान-जनकत्वाभावेन सजातीयसंवादो नास्तीति भावः ।। नापीति ।। अर्थक्रियासामर्थ्यं फलनिष्पादनशक्तत्वम् । आदिपदेन फलवत्प्रवृत्तिजनकत्वादिकं ग्राह्यम् ।। मोक्षादेरिति ।। तथा च वेदजन्यज्ञानविषये मोक्षजननशक्तत्वस्य ज्ञाने वा, मोक्षवत्प्रवृत्तिजनकत्वस्य वेदे वा तादृशज्ञानकरणत्वस्यानिश्चितत्वेन न विजातीयसंवादेन प्रामाण्यानुमितिरिति भावः । संवादानुपपत्तौ च पर्यवसितमाह- तथा चेति ।। तद्वचनादिति ।। कणादसूत्रे भावप्रधानो निर्देशः । तच्छब्देन चेश्वरस्य परामर्शः । अक्षपादसूत्रे तत्पदेन वेदपरामर्शः । आप्तप्रामाण्यादिति कर्तरि ल्युट् । ‘यदसौ प्रमाणं तत्र चान्यत्र च’ इति महाभाष्यप्रयोगाद् बहुलग्रहणाद्वा साधुः । ‘तज्ज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते’ इति सुधारीत्यौपचारिको वा प्रमाणशब्दः ।। ततश्चेति ।। आप्तोक्तत्वेनैव वेदप्रामाण्यस्यानुमातव्यत्वे सतीत्यर्थः । वाक्यत्वादीत्यादिपदेन वेदत्वपरिग्रहः ।। अकर्तृ-कत्वाद्यनुमानमिति ।। तत्साधकमप्रमितकर्तृकत्वा(त्वसाधनम)नुमानमित्यर्थः । तर्केण साध्यव्यापकता-भङ्गेऽभियुक्तसम्मतिमाह- यथोक्तमिति ।। सनाथे साध्यसाधनसमर्थे सतीत्यर्थः । तथा च पक्षे साध्यसिद्धौ तत्रैवोपाधेः साध्यव्यापकताभङ्गः । केचित्तु साध्यव्याप्यहेत्वव्यापकत्वात् साध्यव्यापकताभङ्ग इति व्याचख्युः । तन्न स्वरसम् । साध्यव्यापकोपाधिव्यभिचारात् साध्यव्यभिचारं चोदयतस्तस्य साध्यव्याप्यत्वासिद्धेः । तदर्थं पक्षे साध्यनिश्चयानुसरणं तु बकबन्धरीतिमनुसरतीति ।
फलगतस्य याथार्थ्यलक्षणस्य करणगतस्य तत्साधनत्वलक्षणस्य च प्रामाण्यस्य स्वतस्त्वं सिषाधयिषुरादौ तावज्ज्ञानप्रामाण्यस्य ज्ञप्तौ स्वतस्त्वं मूले प्रतिज्ञातमित्यभिप्रेत्य व्याचश्व्े- सर्वेषामपीति ।। तत्र स्वपदस्याऽ-त्मीयपरत्वमुपेत्य स्वतस्त्वं निर्वक्ति- ज्ञानेति ।। क्रियापदमुपस्करोति- गृह्यत इतीति ।। ज्ञानग्राहकमात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वमित्यर्थः । तदेतत् त्रेधा निरुक्तं तर्कताण्डवे । ‘ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग््रयसमवहित-ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानग्राहकसाक्षिज्ञानविषयत्वनैयत्यं स्वतस्त्वम्, ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानग्राहक-साक्षिज्ञानविषयत्वयोग्यत्वं वा स्वतस्त्वम् । उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यं वा स्वतस्त्वम्’ इति । तत्त्रितयमपि सुधायामिवात्राप्यभिसंहितम् । तथाहि । अत्र ज्ञानग्राहकपदेन ग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानं विवक्षितमिति स्पष्टमवगम्यते । यद्वक्ष्यति, ‘ज्ञानं साक्षिप्रत्यक्षवेद्यम्’ इत्युक्त्वा ‘तत्प्रामाण्यमपि साक्षिवेद्यमेव’ इति । गृह्यत इति कर्मलकारेण वेद्यमिति कृत्यप्रत्ययान्तेन च तद्विषयत्वम् । एवेत्यनेन ज्ञानग्राहकमात्रेणैवेत्यनुवादस्थमात्रशब्देन च कार्त्स्न्यपरेण तन्नियमः । अवधारणेन प्रतिबद्धव्यवच्छेदश्च विवक्षित इति । एवमर्हार्थकृत्यप्रत्ययान्तेन वेद्यशब्देनोक्तसाक्षिज्ञानविषयत्वयोग्यतेति । एवं ज्ञानग्राहकशब्देन साक्षितदितरसाधारणज्ञानं, मात्रशब्देनावधारणेन चोभयसिद्धप्रामाण्याविषयकव्यवच्छेदः । कार्त्स्न्यार्थेनाप्रति-बद्धसर्वानुव्यवसायग्रहश्च विवक्षित इति ज्ञायत इति ।
ननु कथमनेन प्रतिज्ञामात्रेणोक्तशङ्कानिवृत्तिरित्यतोऽभिसन्धिमुद्घाटयति- एतदुक्तं भवतीति ।। वक्ष्यत (व्या.टि.) इति ।। ‘ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य’ इति मूल इति शेषः । करणगतस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग्य्रासमवहितज्ञानजनकत्वग्राहक-मात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वम् । तदप्यत्र प्रतिज्ञातमित्यभिप्रेत्य व्याचश्व्े- इन्द्रियेति ।। प्रामाण्यमित्यतः परं स्वत इति शेषः । अवसेयमित्यतः परं यत इति च । तथा च ज्ञानकरणत्वग्राहकानुमानेनैव प्रमाकरणत्वग्रहात् स्वतस्त्वसिद्धिरित्यर्थः । न चैवं पद्धतिविरोधः । तत्र ‘करणप्रामाण्यज्ञप्तिस्तु परत एव । इन्द्रियलिङ्गशब्दानां यथायथमनुमानादिवेद्यत्वात् । यथार्थज्ञानजनकत्वस्यानुमानवेद्यत्वात्’ इत्युक्तेरिति वाच्यम् । अभिप्रायसद्भा-वात् । करणग्राहकमात्रग्राह्यत्वाभावाभिप्रायेण तत्प्रवृत्तेः । अत एव न्यायसुधायां तत्पक्षमुट्टङ्क्य ‘अथ वा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वम्’ इति पक्षान्तरमुक्तम् । ननु तथाऽपि सूत्रभाष्यटीकाविरोधः । तत्र न विलक्षणत्वाधिकरणे स्वतश्च प्रामाण्यमिति वैलक्षण्यहेतुवर्णकान्तरे ‘वेदादिप्रामाण्यस्य संवादनिरपेक्षतज्ज्ञानादेव सिद्ध्यङ्गीकारात्’ इति करणप्रामाण्यस्यापि धर्मिग्राहकमात्रग्राह्यता-स्वीकारादिति चेत् । गूढभावसद्भावात् । तथा हि । नात्र करणग्राहकमात्रग्राह्यत्वं स्वतस्त्वं विवक्षितम् । किन्तु प्रामाण्यव्याप्यनिर्दोषत्वतदनुसारित्वादिग्राहकमात्रग्राह्यत्वं स्वतस्त्वमिति पक्षान्तरमुपेत्य प्रवृत्तम् । अत एव तत्रैव ‘न हि निर्दोषतदनुसारितत्तत्स्वरूपग्रहे पुनः प्रामाण्योपलब्धौ संवादसापेक्षताऽनुभूयते’ इति तदेव स्पष्टमिति न कश्चिदपि विरोधगन्ध इत्यलम् । उत्पत्तौ तु ज्ञानजननशक्त्यभिन्नप्रमाजननशक्तिमत्त्वम्, उभयोः सहजत्वं वा करणप्रामाण्यस्य स्वतस्त्वम् । निष्कृषति- तथा चेति ।। कुत्रापि फले करणे चेत्यर्थः । आदिपदेन प्रमाणजन्यत्वग्रहः ।
निष्कृष्यानूद्य शङ्कते- ज्ञानेति ।। परिशेषं वक्तुं सामान्यसिद्धिं दर्शयति- प्रामाण्यमिति ।। प्रवर्तकज्ञान-प्रामाण्यमित्यर्थः । अवश्यमित्युक्ताऽवश्यकत्वं दर्शयति- अन्यथेति । तदभावेति ।। प्रामाण्याभावेत्यर्थः । प्रमाणं विनाऽर्थसत्त्वानिश्चयादिति भावः । यद्वा प्रामाण्याध्यवसायाभावे निष्कम्पप्रवृत्त्यभावप्रसङ्गादित्यर्थः । ग्राहकान्तरानुपपत्तिं दर्शयति - न चेति ।। ज्ञानग्राहकातिरिक्तेन संवादादिलिङ्गेनेत्यर्थः । फलमुखीमनवस्थां दर्शयति- तत्प्रामाण्यस्यापीति ।। प्रामाण्यानुमितिप्रामाण्यस्यापीत्यर्थः । तस्य प्रामाण्यानुमितिप्रामाण्यस्य स्वतस्त्वे स्वाश्रयग्राहकग्राह्यत्वे । प्रथमस्य प्रवर्तकज्ञानप्रामाण्यस्य । करणमुखीमपि तां दर्शयति- तत्प्रामाण्य-स्यापीति ।। लिङ्गान्तरज्ञानप्रामाण्यस्यापीत्यर्थः । अनेन लिङ्गान्तरेण । तस्य लिङ्गान्तरज्ञानप्रामाण्यस्य । परिशेषं दर्शयति- तथा चेति ।। सामान्यतो व्याप्तिं दर्शयति- यद्यतोऽन्येनेति ।। विशेषणेति ।। सत्यन्त-विशेषणेत्यर्थः ।। ज्ञानस्यैवेति ।। ग्राह्यप्रामाण्याश्रयज्ञानस्यैवेत्यर्थः । तथाभावः स्वप्रकाशत्वम् ।। अन्तः-करणवृत्तेरिति ।। स्वरूपज्ञानव्यावृत्त्यर्थम् ।
।। जडत्वेनेति ।। अत्रेयमाशङ्का । किं जडत्वं स्वप्रकाशत्वविरोधीति तत्त्वात्तदभावः, उतास्वप्रकाशत्व-व्याप्यमिति तत्त्वात्तत्त्वमिति । आद्ये किं विरोधः सहानवस्थाननियमलक्षण उत भावाभावलक्षण आहोस्विद् (व्या.टि.) वध्यघातकभावलक्षणः । नाऽद्यः । जडेऽप्यालोके स्वप्रकाशत्वदर्शनात् । न च स्वविषयत्वं स्वप्रकाशत्वम् । ‘स्वविषयप्रकाशत्वं स्वप्रकाशत्वमिति स्वमतेऽङ्गीकारात्’ इति टीकोक्तेः । जडे त्वालोकादौ प्रकाशान्तरानपेक्षत्वरूपस्वप्रकाशत्वसत्त्वेऽपीच्छादिवत् सविषयकपदार्थत्वाभावेन विषयविषयिभावगर्भ-स्वविषयत्वासम्भव इति वाच्यम् । अनुप्रमाणस्यापि साक्षात्स्वजन्यप्रमाविषयविषयकत्वस्यान्यत्र समर्थितत्वेन आप्त-वाक्यं शब्द इत्यादिशब्दे, सामान्यसाध(ध्यक)के विशेषे लिङ्गे, ज्ञानसामान्यविषयकानुमितिशाब्दादिरूपे मानसज्ञाने च जडे स्वविषयकत्वदर्शनेन तन्नियमाभावात् । न द्वितीयः । सत्त्वासत्त्वादिवत् परस्परविरह-रूपत्वाभावात् । जडेऽपि स्वप्रकाशत्वोपपादनेन परस्परविरहव्याप्यत्वस्याप्यभावाच्च । नापि तृतीयः । ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायेन सहावस्थानस्यैव प्राप्त्या तेन तन्निषेधायोगात् । नान्त्यः । उक्तभङ्ग्या बहुस्थलेषु व्यभिचारदर्शनेन जडत्वस्यास्वप्रकाशत्वेन व्याप्त्यसिद्धेः । जडत्वेऽपि स्वप्रकाशत्वोपपत्त्या विपक्षे बाधकाभावादप्रयोजकत्वाच्चेति चेत् । अत्रेदं समाधीयते । जडत्वेन स्वप्रकाशत्वं व्यासेधता यज्जडत्वव्यावृत्तं तदिह विवक्षितम् । न स्वविषयत्वमात्रम् । तच्च स्वप्रमातृत्वम् । जडत्वस्याप्रमातृत्वरूपत्वात् । यथोक्तमन्यत्र ‘जडत्वं चाप्रमातृत्वमेव’ इति । तथा चाप्रमातृत्वेन स्वप्रमातृत्वाभावसाधनं युक्तम् । सामान्याभावस्य विशेषा-भावव्याप्यत्वेन तेन तत्साधनसौलभ्यात् । इत्थं च मनोवृत्तिर्न स्वप्रमात्री अप्रमातृत्वात्, यदेवं तदेवं यथा घट इति युक्तेरभिप्रेतत्वात् न काऽप्यनुपपत्तिरिति ।
वस्तुतस्तु प्रवर्तकज्ञानविषयकत्वं तत्प्रामाण्यविषयकत्वं च यादृशं साक्षिणस्तादृशं प्रवर्तकज्ञानस्य शङ्क-नीयम् । तच्च ज्ञात्रादिव्यवहारनिर्वाहकम् । विशिष्य स्वकर्मकापरोक्षत्वम् । एतच्च न क्वापि जडे सम्मतम् । अनु-प्रमाणस्य, गमनादेर्ग्रामादिविषयकत्ववत्, सविषयकत्वेऽपि तस्य ज्ञात्रादिव्यवहारनिर्वाहकत्वाभावात् । विशिष्य स्वगतविषयताभावाच्च । ज्ञानं गुण इत्यादिशाब्दानुमित्यादेः शक्यतावच्छेदकपक्षतावच्छेदकसाध्यतावच्छेदका-वच्छिन्नान्तःपातिततया सामान्यतः स्वगतपरोक्षविषयताकत्वेऽपि विशिष्य स्वकर्मकापरोक्षत्वाभावात् । एवं च मनोवृत्तेर्जडत्वेन हेतुना घटादिदृश्वन्तेनैतादृशस्वप्रकाशत्वाभावः साध्यते । न च चेतनत्वेन साक्षिणोऽप्येवं साध्येतेति वाच्यम् । दृश्वन्ताभावात् । सुप्तिकाले मनस उपरतत्वेन ‘एतावन्तं कालं सुखमहमस्वाप्सम्’ इत्यौत्तर-कालिकपरामर्शबलेन चेतनस्वरूपज्ञानस्य तत्स्वरूपप्रकाशत्वस्य तत्वप्रकाशिकायां समर्थितत्वाच्च । श्रुत्यादिक-मप्यत्रार्थानुकूलमाकरे द्रष्टव्यम् ।
केचित्तु जडत्वेन जन्यत्वेन स्वकर्मकत्वमनुपपन्नम् । कर्मकारकस्य कारणत्वेन स्वस्य स्वपूर्ववृत्तित्वे आत्मा-श्रयापत्तेरित्याहुः । तदस्वरसम् । भविष्यत इवाकारणत्वेऽपि कर्मकारकत्वोपपत्तेः । अपरे तु जडत्वमस्वप्रकाशत्व-रूपमिति व्याघातादेव जडस्य स्वप्रकाशत्वशङ्कानुदयः । व्यवहारस्य साध्यत्वेन साध्याविशिष्टता नास्तीत्याहुः। तदपि न चारु । स्वप्रकाशत्वे शङ्कितेऽस्वप्रकाशत्वव्यवहारसाधनस्यानुचितत्वात् । हेतोरसम्मतेश्च । अस्मदुक्त-परिष्कारानङ्गीकारे उक्तस्थले जडत्वस्याप्यव्याप्त्यापत्तेश्च । ज्ञानप्रामाण्यस्य ज्ञप्तौ परतस्त्वे परकीयानुमानं शङ्कते- नन्विति ।। अनभ्यासदशायामिति पक्षविशेषणम् । अनभ्यासदशापन्नमित्यर्थः । तथैव ह्यनुवदिष्यति ‘अनभ्यास-दशापन्नज्ञानप्रामाण्यस्यापि’ इति ।। सांशयिकत्वादिति ।। संशयमापन्न इत्यर्थे ठगिति बोध्यम् । निदर्शने साध्यं निदर्शयति- अप्रामाण्यं हीति ।। ज्ञानाप्रामाण्यमित्यर्थः ।। अनवस्थेति ।। उक्तानवस्थाद्वयेत्यर्थः ।