अनेन जीवेनात्मनाऽनुप्रविश्य..
जीववृक्षदृष्टान्तवाक्यस्य जीवेश्वरभेदप्रतिपादकत्वस्य समर्थनम्
मूलम्
- ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति ‘स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति’ इत्यत्रापि जीवशब्देन परमात्मा अभिहितः । ‘जीव इति भगवतोऽनिरुद्धस्याख्या’ इति श्रुतेः ।
‘विष्णुर्जीव इति प्रोक्तः सततं प्राणधारणात् ।
स प्रविश्य शरीरं च स्थावरं जङ्गम तथा ।
महाभूतानि च विभुस्त्रिवृत्करणपूर्वकम् ।
संसारिणं भ्रामयति सदैवान्यत्वलक्षणम् ।
तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपि सन्’ इति च ।
‘तत्तेज ऐक्षत ता आप ऐक्षन्त इमास्तिस्रो देवताः’ इति पूर्वमेव चेतनत्वसिद्धेः, ‘अनेन जीवेनात्मना’ इति संसारिणः पुनः प्रवेशो न युक्तः । अतस्तत्र जीवशब्देन परमात्मैवाभिहितः ।
‘जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति’
इत्यत्रापि जीवशब्दोदितः पर एव । पेपीयमानो मोदमानस्तु संसारी । न हि चेतनादन्यस्य मोदभोगादिकं युज्यते ।
‘सुखस्य चाप्यायतनं शरीरं दुःखस्य चाप्यायतनं शरीरम् ।
अचेतनं प्राकृतमेतदाहुर्भोक्ता तयोश्चेतनकः शरीरी ।’ इति भारते ।
‘जीवापेतं वा व किलेदं म्रियते न जीवो म्रियते’ इत्यत्रापि जीवशब्दः परे । न हि संसारिणो मुख्यतः प्राणधारकत्वं युज्यते । ‘ब्रह्मणा त्यक्तदेहस्तु मृत इत्युच्यते नरः’ इति च ।
तत्त्वमञ्जरी
ननु ‘सेयं देवतैक्षत । हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मना’ इत्यादौ परमात्मनो जीवैक्यं प्रतीयत इत्यत आह- अनेन जीवेनेति ।।
तेजआदिषु जडेष्वभिमानिजीवस्य संसारिणोऽपि प्रवेशसम्भवान्न तत्र जीवशब्दः परमात्मविषय इत्यत आह- तत् तेज इति ।।
इदं म्रियते इदं जगत् प्राणांस्त्यजति । मृङ् प्राणत्याग इति धातुः । जीव प्राणधारण इति च ।
टीका
ननु जीववृक्षदृष्टान्तो न जीवपरमात्मभेदविषयः । तत्प्रत्यायकाभावात् । किन्तु समुद्रे प्रविष्टानां नदीनामिव सुप्तौ प्रलये च परमात्मनि प्रविष्टस्य जीवस्य विनाशशङ्कायां विनाशाभाव-प्रतिपादनार्थ एव । तत्कथं स्थाननवकेऽपीत्युक्तमित्यत आह- अनेनेति ।। व्याकरवाणीत्यतः परं ‘अत्रेव’ इति शेषः । ‘सेयं देवतैक्षत । हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि । तासां त्रिवृतं त्रिवृतमेकैकाङ्करवाणीति । सेयं देवतेमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इत्यत्र वाक्ये यथा जीवशब्देन परमात्मैवाभिहितो न संसारी । वृक्षशब्देन तु संसारी कथ्यते न तु जडशरीरमिति वाक्यशेषः । तथा च पूर्वोक्तप्रकारेण संसारिणः परमात्माधीनत्वमेव अत्रोक्तमिति भावः । जीवशब्दस्य परमात्मवाचित्वं कुत इत्यत आह- जीव इतीति ।।
एतेन एतदपि परिहृतम् । ‘यद्यत्र जीवशब्दः परमात्मपरः तदाऽऽत्मनेति व्यर्थं स्यात् । दृष्टान्तीकृते वाक्ये तु जीवेनात्मनेति द्वयमपि व्यर्थं स्यात्’ इति । जीवेन अनिरुद्धेन परमात्मनेत्यत्र अर्थोपपत्तेः। परस्यैवात्मनेति व्यर्थम् । तथा, दृष्टान्तीकृतेऽपि वाक्ये अनिरुद्धाख्येन स्वात्मनेत्यर्थसम्भवाच्च ।
दृष्टान्तीकरणं च प्रसङ्गात्तस्यापि वाक्यस्य व्याख्यानार्थम् । अन्यथा जीवेन स्वात्मनेति सामानाधिकरण्येन संसारिणः परदेवतायाश्च ऐक्यं प्रतीयेत । तथा च ‘न चाभेदे कश्चिदागमः’ इत्यसत् स्यादिति ।
अस्तु जीवशब्दस्य परमात्मनि शक्तिः । तथाप्येतयोर्वाक्ययोः तत्परत्वं कुत इत्यतः समाख्यारूपाद्वाक्यान्तरादित्यभिप्रेत्य तत्पठति- विष्णुरिति ।। प्राणानाम् इन्द्रियाणां शरीरे धारणात् स्थापनात् । ‘जीव प्राणधारणे’ इति हि पठन्ति । स विभुः महाभूतानि तेजोऽबन्नानि प्रविश्य त्रिवृत्करणपूर्वकं नामरूपे व्याकरोदिति शेषः । एतेन प्रथमवाक्यार्थो निर्णीयते । शेषेण द्वितीयवाक्यार्थः । तथाशब्दः समुच्चये । भ्रामयति जागराद्यवस्थासु । स्वस्वरूपं संसारिणं कथं भ्रामयतीत्यत उक्तम्- सदैवेति ।। चेतनत्वे सतीश्वरादन्यत्वमेव हि संसारिणो लक्षणम् । तेन परमेश्वरसन्निधानविशेषेण ।
दृष्टान्तीकृतवाक्ये जीवशब्दस्य परमात्मपरत्वे युक्तिं चाह- तत्तेज इति ।। इतिवचनादिति शेषः । पूर्वमेव जीवप्रवेशात् । इत्युच्यमानः । न युक्तो वैयर्थ्यात् । इदमुक्तं भवति- यदि तेजोऽ-बन्नान्यचेतनानि स्युः तदा तेषां चेतनानधिष्ठितानां कार्याक्षमत्वात् संसारिणो जीवशब्दोदितस्य तत्र प्रवेशो वक्तव्यः स्यात् । न चैवम् । ईक्षणलिङ्गेन देवताश्रुत्या च चेतनत्वावगमात् । अतो नात्र जीवशब्दः संसारिवाचीति गम्यत इति । ततः किमित्यत आह- अत इति ।। परिशेषादि-त्यर्थः । तत्र दृष्टान्तीकृते वाक्ये । चेतनानामपि स्वतः प्रवृत्त्यभावादीश्वरप्रवेशः सार्थक एव ।
एतमेव न्यायं दार्ष्टान्तिके वाक्येऽपि जीवशब्दस्य परमात्मपरत्वसिद्धयेऽतिदिशति- जीवे-नेति ।। एवमेवेत्युपस्कर्तव्यम् । न्यायसाम्यं दर्शयति- पेपीयमान इति ।। यत इति शेषः । पेपीयमानत्वादिलिङ्गेन वृक्षस्य संसारिचेतनत्वसिद्धेः जीवेनात्मनाऽनुप्रभूत इत्युच्यमानः पुनः संसारिप्रवेशो व्यर्थस्स्यात् । अतोऽत्रापि जीवशब्दस्य संसारिपरत्वानुपपत्तेः परिशेषात् परमात्मपरत्वं निश्चीयत इति । ननु पेपीयमानो मोदमान इति वृक्षशरीरं निर्दिश्यते । तस्य संसारिणाऽनुप्रभूतत्वं युक्तमेवेत्यत आह- न हीति ।। मोदो हि नाम सुखम् । पानशब्दोदितश्च भोगो विषयानुभवः । ताभ्यां च तत्कारणभूताविच्छाप्रयत्नौ लभ्येते । सुखादयश्च चेतनधर्मा एव प्रसिद्धाः । अन्तःकरण-परिणतित्वेऽपि चेतनस्वामिकत्वात् । ते कथं शरीरधर्माः स्युः ।
अनुभवसिद्धेऽर्थे भारतसंमतिं चाह- सुखस्येति ।। एतदधिष्ठानेन सुखदुःखे भुज्येते इति तयोरायतनम् । भोक्तृ किं न स्यात्, किमायतनत्वेनेत्यत उक्तम्- अचेतनमिति ।। तस्योपपादनम्- प्राकृतमिति ।। भूतान्यपि प्रकृतय इत्युच्यन्ते । कस्तर्हि भोक्तेत्यत आह- भोक्ता तयोः शरी-रीति ।। तस्य भोक्तृत्वोपपादनम्- चेतनक इति ।। कप्रत्ययः कुत्सायाम् । देहात्मविवेकरूपे चैतन्ये सति भोगासम्भवात् ।
जीवेनानुप्रभूतः= संसारिणा विशिष्टो देहः, पेपीयमान इत्यङ्गीकारेऽप्युपचारप्रसङ्गः । ननु जीवापेतमित्युपसंहारवाक्ये जीवस्याविनाशोक्तेस्तत्परमेव पूर्ववाक्यमित्यत आह- जीवापेत-मिति ।। परे परात्मविषय एव । ततश्च जीवेन परमात्मनाऽपेतं, त्यक्तदेहमिति यावत् । इदं संसारिजातं म्रियते प्राणैर्वियुज्यते । जीवः परमात्मा तु कदापि न म्रियत इत्येवमत्यन्तविलक्षणौ जीवपराविति वाक्यार्थः । अत्र जीवशब्दः संसारिवाची किं न स्यादिति चेन्न । तत्रार्थासम्भ-वादित्याह- न हीति ।। मुख्यतः स्वातन्त्र्येण । अन्यथाऽनिच्छया मरणासम्भवादिति भावः । तथाप्यस्य वाक्यस्य परमात्मपरत्वं कुत इति चेत् समाख्यानादित्यभिप्रायेणाह- ब्रह्मणेति ।।
भावबोधः
‘अनेन जीवेनात्मनानुप्रविश्य’ इति वाक्यस्योदाहृतदृष्टान्तवाक्येष्वभावात् किमर्थं तदुदाहरणमित्यत आह- करवाणीत्यतः परमिति ।। जीवशब्दस्य परमात्माभिधायकत्वेऽपि वृक्षपरमात्मनोरेव भेदः प्राप्नोति न जीवपरमात्मनोरित्यत आह- वृक्षशब्देन त्विति ।। अन्यथा
‘तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपि सन्’
इत्यस्योदाहरणमसङ्गत स्यादिति भावः । अन्यथेति ।। दृष्टान्तीकृतस्याव्याख्यान इति भावः । तेजोऽबन्ना-नीति ।। श्रुतौ त्रिवृदिति त्रिवृत्करणस्यैवोक्तत्वादिति भावः । शेषेणेति ।।
‘स प्रविश्य शरीरं च स्थावरं जङ्गम तथा ।
संसारिणं भ्रामयति ।’
इत्यादिनेत्यर्थः । अत एव तथाशब्दमिदानी व्याचश्व्े- तथाशब्द इति ।। सवितुरित्यादिना स प्रविश्येत्येतन्महा-भूतसम्बन्धित्वेनापि व्याख्यातमिति द्रष्टव्यम् । चेतनत्वे सतीति ।। अत्रेश्वरपदं नित्यमुक्तपरम् । तेन न लक्ष्मीतत्त्वेऽतिव्याप्तिरिति द्रष्टव्यम् । तेनायमित्यत्र तेन परमेश्वरेणेति व्याख्याने अनुप्रभूतपदं नोक्तार्थं स्यादित्यतो व्याचश्व्े- परमेश्वरसन्निधानविशेषेणेति ।। आदिपदार्थमाह- ताभ्यां चेति ।। शरीरस्य भौतिकत्वात्कथं प्राकृत-मित्युक्तमित्यत आह- भूतान्यपीति ।। भोगासम्भवादिति ।। रागादिरूपदोषनिमित्तकभोगासम्भवादि-त्यर्थः । उपचारप्रसङ्ग इति ।। भोगकारणत्वगुणयोगेन जीववाचकपेपीयमानादिशब्दस्य देहे उपचारप्रसङ्ग इत्यर्थः । प्राणैर्वियुज्यत इति ।। तथा चेदमित्यस्य जडशरीरपरत्वे नश्यतीति स्यान्न तु म्रियत इतीति भावः । अर्थासम्भवादिति ।। स्वातन्त्र्येण प्राणधारकत्वं विनाऽन्यमरणहेतुदेहत्यागकर्तृत्वं, स्वस्य मरणाभावश्च नोप-पद्यत इत्यस्वतन्त्रप्राणधारकसंसारिग्रहणे उक्तरूपवाक्यासम्भवादित्यर्थः । अस्तु स्वातन्त्र्येण प्राणधारकत्व-मपि संसारिण इत्यत आह- अन्यथेति ।।
भावदीपः
प्रतिज्ञावाक्ये त्रिवृत्करणवाक्ये चोभयत्रापि जीवात्मपदश्रवणाद्द्वयमप्युदाहरति- सेयं देवतेति ।। एतेनेत्युक्तं विवृणोति- जीवेनानिरुद्धेनेति ।। प्रत्युत परस्यैवायं वैयर्थ्यदोष इत्याह- परस्येति ।। विप्रतिपन्नस्य कथं दृष्टान्तीकरणमित्यत आह- दृष्टान्तीकरणं चेति ।। ‘धृ धारणे’ इत्यस्य ण्यन्तस्य रूपमुपेत्याह- शरीरे धारणात्स्थापनादिति ।। तेजोऽबन्नानीति ।। अन्नशब्देन पृथिवी । त्रिवृत्करणेति ।। मिश्रीकरणपूर्वकमि-त्यर्थः । नामरूपे शब्दार्थात्मकप्रपञ्चौ । शेषेणेति ।। संसारिणमित्यादिना, स एष जीवेनात्मनेति द्वितीयवाक्यार्थ इत्यर्थः । समुच्चय इति ।। न केवलं स्थावरं, जङ्गम चेति समुच्चय इत्यर्थः । जडेऽनतिव्याप्त्यर्थमाह- चेतनत्वे सतीति ।। श्रीतत्वं तु ईश्वरकोटिनिविष्टमिति भावः । तेनेति मूलानुवादः । परमेत्यादि व्याख्या । इतिशब्दानन्तरं शेषमाह- इतिवचनादिति ।। कस्मात्पूर्वमेवेत्यत आह- जीवप्रवेशादिति ।। आत्मनेति इतिपदानन्तरं शेषमुक्त्वा तस्यान्वयं तत्र हेतुं चाह- इत्युच्यमान इति ।। न युक्तो वैयर्थ्यादिति ।। ननु तेजः प्रभृतेः कुतश्चेतनत्वं तथापि कुतश्चेतने चेतनान्तरानुप्रवेशो व्यर्थ इत्यत आह- इदमुक्तम्भवतीति ।। १तत्प्रवेश इति ।। तेजःप्रभृतिजडप्रवेश इत्यर्थः । परिशेषादिति ।। संसारिपरमात्मार्थकत्वयोर्मध्ये संसारिपरत्वायोगे परमात्मार्थकत्वस्यैव परिशिष्टत्वादिति भावः । तत्रेति मूलानुवादः । वाक्यान्ता व्याख्या । नन्वेतेष्वपि जीवाख्य-परमात्मानुप्रवेशो व्यर्थ इत्यत आह- चेतनानामपीति ।। एतमेवेति ।। पूर्वमेवेत्यादिनोक्तमेव न्यायमित्यर्थः। दार्ष्टान्तिकत्वद्योतनायाह- इत्युपस्कर्तव्यमिति ।। आदिपदार्थविवरणायाह- तत्करणभूताविच्छाप्रयत्ना-विति ।। उत्तरार्धमवतारयति- भोक्तृ किं न स्यादिति ।। शरीरमिति योज्यम् । भौतिकत्वाच्छरीरस्य कथं प्राकृतत्वमित्यत आह- भूतान्यपीति ।। परम्परया तदुपादानकत्वादिति भावः । विवेकेति ।। स्फुटतरविवेके-त्यर्थः । भोगेति ।। उच्चत्वनीचत्वलक्षणात्मकविक्रियालक्षणभोगासम्भवादित्यर्थः । उपचारेति ।। भोक्तृजीवाधि-ष्ठितत्वस्यैव तदर्थत्वादिति भावः । परे इत्यनुवादः । श्रुत्यर्थमाह- ततश्चेति ।। जीवपदस्य परमात्मार्थकत्वे । ततश्चेत्यस्य इति वाक्यार्थ इत्यन्वयः । प्राणैरिति ।। इन्द्रियैः प्राणादिवायुभिश्चेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
विनाशाभावेति ।। न जीवो म्रियत इत्युक्तत्वादिति भावः । अनेन जीवेनात्मनाऽनुप्रविश्येति वाक्यस्योदाहृतदृष्टान्तवाक्येष्वभावात्किमर्थं तदुदाहरणमित्यत आह- व्याकरवाणीत्यतः परमत्रेवेति शेष इति ।। ननु जीवशब्दस्य परमात्मवाचकत्वेऽपि वृक्षपरमात्मनोरेव भेदस्सिद्ध्यति न जीवपरमात्मनोरित्यत आह- वृक्षशब्देनेति ।। अन्यथा
‘तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपि सन्’
इत्येतदयुक्तं स्यादिति भावः । अत्रेति ।। अनेन जीवेनात्मनाऽनुप्रभूत इति दार्ष्टान्तिकवाक्य इत्यर्थः । व्यर्थं स्यादिति ।। जीवेनानुप्रभूत इत्येतावता पूर्णत्वादिति भावः । द्वयमपि व्यर्थं स्यादिति ।। ‘हन्ताहमिमास्तिस्रो देवता अनुप्रविश्य नामरूपे व्याकरवाणि’ इत्येतावता पूर्णत्वादिति भावः । एतेनेत्युक्तं विशदयति- जीवेना-निरुद्धेनेति ।। आत्मनेत्यस्यार्थः परमात्मनेति । अत्र दार्ष्टान्तिकवाक्ये । तथा चानिरुद्धरूपेण प्रवेशकथनाय दार्ष्टान्तिकवाक्ये आत्मेत्येतत्सार्थकमेवेति भावः । आत्मनेति व्यर्थमिति ।। परेण वृक्षशब्देन जीवस्यागृहीत-त्वादनेन जीवेनानुप्रभूतोऽयं वृक्षः पेपीयमानो मोदमानस्तिष्ठतीत्येतावता पूर्णत्वादात्मनेति व्यर्थमिति भावः । (श्री.टि.)अर्थसम्भवादिति ।। तथा च जीवेनात्मनेति पदद्वयमपि सार्थकमिति भावः । ननु तद्वाक्यदृष्टान्तीकरणं किमर्थमित्यत आह- दृष्टान्तीकरणं चेति ।। प्रसङ्गादिति ।। एतद्वाक्यव्याख्यानेन तस्यापि स्मारितत्वादि-त्यर्थः । स्मृतस्योपेक्षानर्हत्वं प्रसङ्ग इति तल्लक्षणादिति भावः । एतद्वाक्यव्याख्यानाकरणे बाधकमाह- अन्य-थेति ।। नन्वैक्यं प्रतीयतां को दोष इत्यत आह- तथा चेति ।। श्रुतौ त्रिवृत्करणस्यैवोक्तत्वेन पञ्चीकरणानुक्ते-स्तदनुसारेण महाभूतानीत्यस्यार्थमाह- तेजोऽबन्नानीति ।। प्रथमवाक्यार्थो दृष्टान्तीकृतवाक्यस्यार्थः । शेषे-णेति ।। महाभूतानीत्यर्धव्यतिरिक्तसार्धश्लोकेनेत्यर्थः । जडव्यावृत्त्यर्थं चेतनत्वे सतीत्युक्तम् । ईश्वरव्यावृत्त्यर्थ-मीश्वरादन्यत्वमित्युक्तम् । न च महालक्ष्म्यामतिव्याप्तिरिति वाच्यम् । ईश्वरपदेन तस्या अपि ग्रहणादिति ज्ञातव्यम् । देवताश्रुत्या देवताशब्देनेत्यर्थः । ननु भवत्पक्षेऽपि तेजोऽबन्नानां चेतनत्वेन प्रवृत्त्युपपत्तेस्तेषु भगवत्प्रवेशोऽपि व्यर्थ इत्यत आह- चेतनानामपीति ।। स्वत इति ।। ‘न ऋते त्वत्क्रियते’ इति श्रुत्या ईश्वर-व्यतिरेकेण कस्यापि स्वतः प्रवृत्त्यभावस्योक्तत्वादिति भावः । वृक्षशरीरं जडभूतम् । पानशब्देति ।। पानप्रतिपादकपेपीयमानशब्दोदित इत्यर्थः । भोगादिकमित्युक्तादिपदार्थमाह- ताभ्यां चेति ।। ‘नन्वेतत्सर्वं मन एव’ इति श्रुत्या सुखादीनामन्तःकरणपरिणामत्वेन तद्धर्मत्वप्रतीतेः कथं चेतनधर्मत्वमित्यत आह- अन्तःकरणेति ।। चेतनस्वामिकत्वमेवात्र चेतनधर्मतया विवक्षितमिति भावः । एतदिति ।। शरीरेत्यर्थः । यथोक्तं परैरपि ‘यदवच्छिन्ने आत्मनि भोगस्तद्भोगायतनं शरीरम्’ इति ।
ननु भौतिकस्य शरीरस्य कथं प्रकृतिकार्यत्वमित्यत आह- भूतान्यपीति ।। नित्यानां चतुर्विंशतितत्त्व-सूक्ष्मरूपाणां प्रकृतिशब्दवाच्यतायाः पुराणेषु प्रसिद्धत्वेन भूतानामपि प्रकृतिशब्दवाच्यत्वादिति भावः । कुत्साया-मिति ।। तथा च चेतनकः कुत्सितज्ञानवानित्यर्थः । ज्ञानस्य कुत्सितत्वं कुत इत्यत आह- देहात्मेति ।। चैतन्ये सतीति ।। चेतयते जानातीति चेतनस्तस्य ज्ञानवतो भावो धर्मश्चैतन्यं ज्ञानं, तस्मिन् सतीत्यर्थः ।
‘जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ’
इत्यादिना देहात्मविवेकज्ञानस्य प्राणभृन्मात्रसिद्धत्वस्योपपादितत्वात् स्फुटतरविवेकरूपे चैतन्ये सतीति व्याख्येयम् । भोगसम्भवादिति ।। रागादिदोषनिमित्तकभोगसम्भवादित्यर्थः । तथा च देहात्मनोः स्फुटतर-विवेकज्ञानाभावप्रयुक्तदेहाभिमानसद्भावेन रागादिदोषवत्त्वेन कुत्सितज्ञानवत्त्वात्तत्प्रयुक्तसुखदुःखभोक्ताऽयं भवतीति भावः । संसारिणा विशिष्ट इति ।। केवलदेहस्य पेपीयमानत्वासम्भवेऽपि संसारिजीवविशिष्टस्य तत्सम्भवादिति भावः । उपचारप्रसङ्ग इति ।। भोगकारणत्वरूपगुणयोगेन जीववाचकपेपीयमानादिशब्दस्य देहे उपाचारप्रसङ्ग इत्यर्थः । अविनाशोक्तेरिति ।। न जीवो म्रियत इत्युक्तत्वादिति भावः । पूर्ववाक्यमिति ।। स एष जीवेनात्मनेति पूर्ववाक्यमित्यर्थः । प्राणैर्वियुज्यत इति ।। इदमित्यस्य संसारिजीवपरत्वमनङ्गीकृत्य जडशरीरपरत्वाङ्गीकारे जीवापेतं वाव किलेदं नश्यतीति प्रयोगः स्यान्न तु म्रियत इति । न हि घटो म्रियत इति प्रयोगः क्वचिद् दृष्ट इति भावः । अर्थासम्भवादिति ।। ‘जीव प्राणधारणे’ इति धातोर्जीवशब्दप्रवृत्तिनिमित्त-(श्री.टि.) भूतार्थस्य मुख्यतः प्राणधारकत्वस्य जीवेऽसम्भवादित्यर्थः । अस्तु स्वातन्त्र्येण प्राणधारकत्वमपि संसारिण इत्यत आह- अन्यथेति ।। अहं मृतः स्यामितीच्छाया अभावेऽपि मरणं भवति, तन्न स्यात् । प्राणधारणरूपजीवस्य स्वाधीनत्वादित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
मूले भ्रामयतीति ।। यद्यपि ‘मितां ह्रस्वः’ इति ह्रस्वत्वविधानाद् भ्रमयतीति वक्तव्यम् । तथापि ‘वा चित्तविरागे’ इत्यतो वेत्यनुवृत्त्या तद्विकल्पसिद्धेर्भ्रामयतीति रूपनिष्पत्तिरिति द्रष्टव्यम् । चेतनत्वे सतीति ।। अत्रेश्वरपदस्य नित्यमुक्तपरत्वेनेश्वरमात्रपरत्वाभावान्न श्रीतत्त्वेऽतिव्याप्तिरिति द्रष्टव्यम् । ईश्वरपदं लक्ष्म्या अप्युपलक्षणम् । ततश्च तदुभयान्यत्वस्य तल्लक्षणत्वलाभान्न तत्रातिप्रसङ्ग इत्यप्याहुः । चेतनत्वे ईश्वर-प्रवेशस्यापि वैयर्थ्यमित्यत आह- स्वत इति ।। जडवत्परतन्त्रतया स्वतः शक्तिमात्रशून्यत्वेनेश्वरप्रवेशं विना प्रवृत्त्यनुपपत्तेस्तत्सिद्ध्यर्थतयेश्वरप्रवेशः सार्थक इति भावः । उच्यन्त इति ।।
‘पृथिव्याद्याः प्रकृत्यन्ताः सर्वाः प्रकृतयः स्मृताः’
इति वचनादिति भावः । कथं तस्य कुत्सितचेतनत्वमित्यतो निमित्तोक्त्या तदुपपादयति- देहात्मेति ।। पर इत्यत्र प्रातिपदिकार्थमुक्त्वा सप्तम्यर्थमाह- परमात्मविषय एवेति ।।
लघुप्रभा
(व्या.टि.)
जीववृक्षदृष्टान्तवाक्ये अनेन जीवेनेति नामरूपव्याकरणसङ्कल्पवाक्याभावात् तद्ग्रहणासङ्गति-माशङ्क्याह- करवाणीत्यतः परमिति ।। तस्य दृष्टान्ततया ग्रहणान्नासङ्गतिरिति भावः । मूले अपेक्षितशेषं पूरयति- वृक्षशब्देनेति ।। पदार्थमुक्त्वा वाक्यार्थमाह- तथा चेति ।। मूलोदाहृताभिधानश्रुतेरानुषङ्गिकमर्थान्तरं चाह- एतेनेति ।। व्यर्थं स्यादिति ।। तस्य जीववाचिनः । तत्सामानाधिकरण्याभावाद्विरुद्धप्रयोजनमित्यर्थः। द्वयमपीति ।। सेयं देवतेति प्रकृतपरमात्मनः पदिन्यायेन प्रविश्येत्यत्र कर्तृतयान्वयप्रतीतेरित्यर्थः । अत्रेति ।। दृष्टान्तवाक्य इत्यर्थः । उपपत्तेरिति ।। द्वयोरपि पदयोः सामान्यविशेषभावेनैकार्थ्यात् शिंशुपावृक्ष इतिवत् सामानाधिकरण्योपपत्तेरित्यर्थः । परस्यैवेति ।। उभयोरैकार्थ्येन सहप्रयोगादित्यर्थः । अनिरुद्धाख्येनेति ।।
‘जीवाख्येनैवरूपेण योऽनिरुद्ध इति स्मृतः ।
तेन रूपेण लक्ष्म्यादीन् प्रविष्टो रूपनामनी ।
करिष्ये त्रिवृतश्चैनानेकैकं करवाणि च ।
इति मत्वा प्रविश्याथ’
इति तद्भाष्योदाहृतस्मृत्या तथैवोक्तेरित्यर्थः । ननु प्रकृतव्याख्याने अप्रकृतदृष्टान्ती-करणमफलमित्यत आह- दृष्टान्तीकरणं चेति ।। असत्स्यादिति ।। तद्व्याख्यानस्य सन्निहितप्रकृतसङ्गत्यभावेऽपि परमप्रकृतसङ्गतिरस्तीति नासङ्गतिरिति भावः । तत्परत्वमिति ।। न हि शक्तिस्तात्पर्यनियता । अन्यथा नानार्थादेरनेकार्थशक्त्याऽनेक-तात्पर्यापातेनानन्वयप्रसङ्गादित्यर्थः । स्थापनादिति ।। तच्च ‘प्राणादयो वाक्यशेषात्’ इति सूत्रे-
(व्या.टि.) ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नं मनसो मनः’
इति वाक्यशेषेण प्राणादिप्रवर्तकत्वेन पञ्चजनोक्तेरित्यर्थः । शक्तौ मानीभूतं धातुं पठति- जीवेति ।। यथाश्रुतो-त्तरान्वयभ्रमं वारयति- त्रिवृत्करणपूर्वकमिति ।। प्रथमेति ।। दृष्टान्तवाक्येत्यर्थः । तथाशब्द इति ।। अमुक्तावस्थाप्रेरकत्वस्येत्यर्थः । लक्षणमिति ।। न च लक्ष्मीमुक्तेष्वतिव्याप्तिः । ईश्वरपदस्य तदुपलक्षकत्वादिति हृदयम् । पूर्वशब्दस्य दिक्शब्दत्वेनावध्यपेक्षणात्तमाह- जीवप्रवेशादिति ।। इतीति ।। ईक्षितृत्वदेवतात्वप्रकारेणे-त्यर्थः । चेतनसिद्धावपि प्रवेशोक्तेः कथं वैयर्थ्यमित्यतः स्फुटयति- इदमुक्तं भवतीति ।। ईश्वरप्रवेशस्यापि वैयर्थ्यं समानमित्यत आह- चेतनानामपीति ।। अतिदेशज्ञापकपदाभावमाशङ्क्य निराह- एवमेवेत्युप-स्कर्तव्यमिति ।। ननु मोदो नाम हर्षः ‘मुद हर्षे’ इति धातोः । लोमहर्षणः, ‘लोम्नां हर्षणकारिणीम्’ इत्यादि-प्रयोगादचेतनानामपि लोम्नां हर्षो दृष्टः । पानमपि वृक्षे युक्तं, पादप इति प्रसिद्धेरित्यतो मोदभोगादिपदाभि-प्रायमाह- मोदो हीत्यादिना ।। श्रुतौ पानस्यादित्वेऽपि स्पष्टफलवाचित्वाद् विषयानुभवतात्पर्यद्योतकत्वाच्च क्रमव्यत्यय इति ध्येयम् । अनेन जीवेनानुप्रभूतः चेतनः, सुखित्वाद्भोगित्वादेषितृत्वाद् यतमानत्वाच्चेति प्रयोगा अनुसन्धेयाः । एषामप्रयोजकतामाशङ्क्य परिहरति- सुखादयश्चेति ।। ‘सर्वं मन एव’ इतिश्रुतेः अन्तःकरण-परिणामत्वात् सुखादेरवधारणानुपपत्तिमाशङ्क्य निराह- अन्तःकरणेति ।। स्वामिकत्वादिति ।। स्वामिभावो नाश्रयाश्रयिभाव इति भावः । अनेन परस्य छलमुक्तं भवति । आयतनपदमाश्रयत्वार्थभ्रमव्युदासाय व्याचश्व्े- तदधिष्ठानेनेति ।। ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’, ‘सुखदुःखमध्यसम्प्राप्तये’ इति भोगायतनत्वोक्तेरित्यर्थः ।
ननु ‘भूतेभ्यः समुत्थाय तान्येवानु विनश्यति’ इति शरीरस्य भौतिकत्वोक्तेः कथं प्राकृतत्वमित्यत आह- भूतान्यपीति ।।
‘पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ।।’
इति भागवते पञ्चपदेन भूतानामपि प्रकृतित्वोक्तेरित्यर्थः । देहात्मविवेकरूप इति ।। भागवते -
‘निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम् ।
प्रधानपरयो राजन्नविवेकेन कल्पितम् ।।’
इति, ‘नैषां ममाहमितिधीः श्वशृगालभक्ष्ये’ इति विवेके सति अभोगोक्तेः । ननु पेपीयमानेन जीवेनानुप्रविश्यत इति नार्थः । येन चेतनत्वात्प्रागेव जीवप्रवेशो व्यर्थः स्यात् । किन्तु अनुप्रभूत इति निष्ठाप्रत्ययानुरोधात् जीवप्रवेशानन्तरमेव पानादीत्याशङ्क्य निराह- जीवेनेति ।। उपचार इति ।। मुख्ययोगे गौणग्रहणमन्याय्यमिति भावः । पर इति विषयसप्तमीत्याह- परमात्मविषय इति ।। ननु जीवान्तर्यामिणोः ओयत्वादहंनाम्नोरशक्य-(व्या.टि.) त्यागत्वेन त्यागोक्तिरयुक्तेत्यत आह- त्यक्तदेहमिति ।। ननु ‘अकरणत्वाच्च न दोषस्तथा हि दर्शयति’ इति सूत्रभाष्ये-
‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् ।
श्रोत्रादिभिः कारयति करणानीत्यदो विदुः ।।’
इति प्राणानां कर्तृप्रयोज्यत्वरूपं करणत्वमुक्तमिति कथं जीवस्य मुख्यतः प्राणधारणाभाव इत्यत आह- स्वातन्त्र्येणेति ।। तदुक्तं छान्दोग्यभाष्ये-
‘प्राणाधारो हरेर्नान्यो जीवशब्दस्तथा हरौ ।
संसारिणो जीवता तु जननाद्धानतस्तथा’ इति ।
स्वातन्त्र्योपगमे बाधकमाह- अन्यथेति ।।