नचानुभवविरोधे..
निरवकाशसाक्ष्यादिबहुप्रमाणविरोधेनाभेदाऽगमाप्रामाण्यसमर्थनम्
मूलम्
- नचानुभवविरोधे आगमस्य प्रामाण्यम् ; आगमप्रामाण्यानुभवस्या-प्यप्रामाण्यप्राप्तेः । बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव ; बहूनां वचने तस्यैव दर्शने च दार्ढ्यस्यैव दृष्टेः ।
तत्त्वमञ्जरी
अनुभवविरोधेऽतिप्रसङ्गमाह- नचानुभवेति ।। साक्षिणा हि प्रमाणानां प्रामाण्यं गृह्यते । इतश्च नानुवादित्वं दूषणं भेदागमस्येत्याह- बह्विति ।। तस्यैव च दर्शने उच्यमानस्यैव दर्शने वा ।
टीका
इतश्चाभेदागमस्याप्रामाण्यमित्याह- नचेति ।। पूर्वमुपजीव्यत्वेन प्राबल्यमाश्रित्यैक्या-गमस्य साक्ष्यनुभवविरोधेनाप्रामाण्यमुक्तम् । इदानी तूपजीव्यत्वानपेक्षप्राबल्यमाश्रित्योच्यते । विरोधप्रकारस्तु प्राग् व्युत्पादित एव । साक्ष्यनुभवविरोधेनैक्यागमस्याप्रामाण्यं कुत इति चेत्, न तावद्विरुद्धयोरुभयोः प्रामाण्यमप्रामाण्यं वोपपद्यत इत्युक्तम् । ततोऽन्यतरस्यैवाप्रामा-ण्येऽवश्यमङ्गीकरणीये न तावदैक्यागमविरोधेन साक्ष्यनुभवस्याप्रामाण्यमङ्गीकर्तुमुचितम् । कुत इत्यत आह- आगमेति ।। साक्ष्यनुभवः खलु सर्वप्रमाणप्रामाण्यनिश्चायकः । तथाच तस्य जीवेश्वरभेदविषयेऽप्रामाण्ये सत्यभेदागमप्रामाण्यविषयेऽपि प्रामाण्यमविश्वसनीयं स्यात् । ततश्चैक्यागमप्रामाण्यं न सिद्ध्येत् । न चासिद्धप्रामाण्यमन्यदप्रमाणीकर्तुं प्रभवतीत्यतः परिशेषात् साक्ष्यनुभवविरोधिनोऽभेदागमस्यैवाप्रामाण्यं वाच्यमिति । आगमप्रामाण्यानुभवस्यापीति विषयभेदेनैव भेदोपचारः । आगमप्रामाण्यविषयेऽपीति यावत् । अनेनाव्यभिचरितत्वनियमः साक्ष्यनुभवस्य प्राबल्यहेतुरित्युक्तं भवति ।
एवमुपजीव्यत्वनिरवकाशत्वलक्षणस्वभावबलवत्प्रमाणबाधितत्वादैक्यागमस्याप्रामाण्य-मित्युक्तम् । न केवलमेतावत् किन्तु बहुत्वलक्षणबलवद्भिरेतैरेव प्रमाणैर्बाधितत्वाच्च । ननु बहूनि प्रमाणान्येकविषयाणि वा भिन्नविषयाणि वा । आद्येऽधिगतमेवार्थमभिगमयतां द्वितीयादीनां वैयर्थ्यलक्षणेनानुवादकत्वेनाप्रामाण्यम् । द्वितीये स्वे स्वे विषये तेषामेकैकत्वान्न बहुत्वम् । तत् कथं बहुप्रमाणबाधितत्वं ? बहुत्वे प्रामाण्याभावात् प्रामाण्ये बहुत्वाभावादित्यत आह- बहुप्रमा-णेति ।। अत्र संवादग्रहणेनैकविषयतापक्षमङ्गीकरोति । दार्ढ्यहेतुरेवेति प्रयोजनवत्त्वाभि-धानेनानुवादकत्वं निराकरोति ।
यद्यपि भेदविषयाणि प्रमाणानि सर्वाण्यप्येकाकारनियतानि तथाऽपि प्रथमप्रमाणेन भेदे परिच्छिन्ने विप्रतिपत्त्यादिना कारणान्तरेण पुनः शङ्कायां तत्रैव प्रवृत्तेन प्रमाणान्तरेण निःशङ्का प्रतीतिर्भव-तीति । ननु द्वितीयादिप्रमाणान्यपि प्रथमप्रमाणतुल्यानि । तत् कथं प्रथमप्रवृत्तावपि शङ्का द्वितीयादिप्रवृत्तौ तु निःशङ्कतेति चेन्न, सहकारिकृतसामर्थ्यातिशयस्यानुभवसिद्धत्वादित्याह- बहूनामिति ।। पर्वतोऽग्निमानित्येकस्य वचने श्रुते तस्मिन्नज्ञानादिशङ्कयाऽर्थविश्वासाभावे द्वितीयस्यापि वचनं शृृणोति, तत्रापि कारणान्तरोपनिपातेन शङ्कानुवृत्तौ तृतीयस्यापि, एवं बहूनां वचने श्रुते पर्वतं प्रत्यासीदतस्तस्यैवाग्नेः प्रत्यक्षेण दर्शने सति विश्वास एव दृश्यते, नतु द्वितीयादिष्व-प्रामाण्यबुद्धिरिति । अनेनापरोक्षत्वरूपं विशेषमभिदधताऽपौरुषेयत्वादिरूपोऽपि विशेषः सूचितः। अत एव वचनमादावुक्त्वा दर्शनं पश्चादुक्तम् ।
भावबोधः
इदानी त्विति ।। तथा चास्य ‘प्रत्यक्षादेरागमस्य’ इत्यनेन न पौनरुक्त्यमिति भावः । ‘आगम-प्रामाण्य’ इति वाक्योक्तमागमप्रामाण्यानुभवाप्रामाण्यं प्रत्यनुभवविरोधेऽप्यागमप्रामाण्यस्याऽपादकत्वा-योगात्तद्बललब्धमनुभवाप्रामाण्यमापादकमित्याह- न तावदित्यादिना ।। एकत्राप्रामाण्ये अपरत्राप्यप्रामाण्यमेव स्यादिति नियमाभावात् कथमनयोरप्यापाद्यापादकभाव इत्यत आह- प्रामाण्यमविश्वसनीयं स्यादिति ।। भेदोपचार इति ।। समुच्चयार्थकापिशब्दलब्धभेदोपचार इत्यर्थः । अत एवेति ।। परोक्षत्वापरोक्षत्वरूप-विशेषप्रदर्शनेन पर्वताग्निसंसर्गबोधकवाक्यजपरोक्षज्ञानापेक्षया तद्ग्राहकप्रत्यक्षस्य तदनिवर्तनीयशङ्कानिवर्त-कत्वोपयोग्यपरोक्षत्ववत् जीवेश्वरभेदग्राहकदोषशङ्काकलङ्कितप्रत्यक्षानुमानापेक्षया ‘द्वा सुपर्णा’ इत्यादिवाक्यस्य भावबोधः
तदनिवर्तनीयशङ्कानिवर्तनोपयोग्यपौरुषेयत्वविशेषस्य सूचनीयत्वादेवेत्यर्थः । अन्यथा जीवेश्वरभेदे प्रत्यक्षसिद्धे अनन्तरं प्रवर्तमानस्याऽगमस्यानुवादकत्वं वदन्तं प्रति तदभावव्युत्पादनार्थं दर्शनमादावुक्त्वा पश्चाद्वचनं वक्तव्यमिति भावः ।
भावदीपः
‘तयोर्विरोधे प्रामाण्यं न स्यात्’ इत्यादिग्रन्थेनापौनरुक्त्यायाऽह- पूर्वमिति ।। प्रागिति ।। ‘यद्यप्यन्योन्यानपेक्षा’ इत्यादिग्रन्थेनेति भावः । अभेदागमप्रामाण्येति ।। अभेदागमजन्यज्ञानप्रामाण्येत्यर्थः। करणप्रामाण्यस्यानुमेयत्वादिति ज्ञेयम् । भेदविषये प्रामाण्यविषये च साक्ष्यनुभवस्यैकत्वात् प्रामाण्यानुभव-स्यापीत्युक्तिः कथमित्यत आह- विषयभेदेनेति ।। ‘तयोः स्वभावो बलवानुपजीव्यादिकश्च सः’ इति वक्ष्यमाणदिशा त्वाह- उपजीव्यत्वनिरवकाशत्वलक्षणस्वभावबलवत्प्रमाणेति ।। एतैरिति ।। प्रत्यक्षा-नुमानभेदागमैरित्यर्थः । दार्ढ्यहेतुरेवेत्युक्तं प्रयोजनं व्यनक्ति- यद्यपीत्यादिना ।। विप्रतिपत्त्यादिनेति ।। अभेदवाक्यादिरादिपदार्थः । प्रमाणान्तरेणेति ।। भेदे परिच्छिन्नेऽपीति योज्यम् । तस्मिन्निति ।। अग्निमानिति वक्तरि पुरुष इत्यर्थः । अपौरुषेयत्वादिरूप इति ।। भेदवाक्यानामिति योज्यम् । यद्वा साक्षिणोऽपरोक्षत्व-रूपविशेषापेक्षया अपौरुषेयशब्दितनित्यत्वरूपः । निर्दोषत्वरूप आदिपदार्थः । अत एवेति ।। प्रत्यक्षेऽतिशय-सूचनेन सर्वशङ्कानिवर्तकप्राबल्यसूचनार्थत्वादेवेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
ननु पूर्वं ‘प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम्’ इति साक्ष्यनुभवविरो-धेनैक्यागमाप्रामाण्यस्योक्तत्वादस्य ग्रन्थस्य पुनरुक्तिरित्यत आह- पूर्वमिति ।। उपजीव्यत्वानपेक्षेति ।।
‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः ।।’
इत्युक्तत्वेन साक्षिण उपजीव्यत्वरूपं यत्स्वभावप्रयुक्तं प्राबल्यं तदाश्रित्य पूर्वं तद्विरोध उक्तः । इदानी तु साक्षिण उपजीव्यत्वानपेक्षं यन्निरवकाशत्वरूपं तत्स्वभावप्राबल्यं तदाश्रित्य तद्विरोध उच्यत इति भेद इत्यर्थः । अस्मिन् पक्षे विरोधप्रकारः कथमित्यत आह- विरोधप्रकारस्त्विति ।। प्रागिति ।। ‘असर्वकर्तृत्वेनानुभवात्’ इत्यत्रेत्यर्थः । श्रुत्यादिना सार्वज्ञादिलक्षणमीश्वरं ज्ञातवतः साक्षिणा च तद्विरुद्धमसार्वज्ञादिविशिष्टमात्मान-मनुभवतः ततो भेदज्ञानमवर्जनीयमेवेति तद्विरोधादभेदागमस्याप्रामाण्यमिति भावः । इत्युक्तमिति ।। वस्तुनो विरुद्धधर्मद्वयालिङ्गितत्वरूपद्वैरूप्यापत्तेः । अप्रामाण्ये च वस्तुनो निस्स्वभावत्वापत्तेरित्युक्तमित्यर्थः । अङ्गी-करणीये सति । साक्ष्यनुभवस्य भेदग्राहकस्य । तस्य साक्षिणः । अभेदागमेति ।। साक्षिण एवाभेदागम-प्रामाण्यग्राहकत्वादिति भावः । ततश्चेति ।। साक्षिणोऽविश्वस्तप्रामाण्यकत्वादित्यर्थः । असिद्धप्रामाण्यम् असिद्धप्रामाण्यकमिति प्रथमान्तम् । अन्यत् साक्ष्यनुभवमिति द्वितीयान्तम् । ननु साक्ष्यनुभवस्याप्रामाण्ये आगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्रसङ्ग इत्यापादनमयुक्तम् । आगमप्रामाण्यानुभवस्यापि साक्षिरूपत्वात् । तथा च साक्ष्यनुभवस्याप्रामाण्ये साक्ष्यनुभवस्याप्रामाण्यमित्युक्तं स्यात् । तच्च व्याहतमित्याशङ्क्याऽह- आगम-(श्री.टि.) प्रामाण्येति ।। विषयभेदेनेति ।। जीवेश्वरभेदविषयकत्वागमप्रामाण्यविषयकत्वरूपविषय-भेदेनेत्यर्थः । विषयभेदमेवाऽह- आगमप्रामाण्यविषयेऽपीति ।। ‘ननु साक्ष्यनुभवविरोधेनैक्यागमस्याप्रामाण्यं कुत इति चेत्’ इति पृष्टे साक्षिणः प्राबल्ये को हेतुरनेनोक्त इत्यत आह- अनेनेति ।। साक्ष्यनुभवविरोधादैक्या-गमस्याप्रामाण्यापत्तिकथनेनेत्यर्थः । अव्यभिचरितत्वनियम इति ।। विषयाव्यभिचरितत्वनियम इत्यर्थः । अनेन निरवकाशत्वं विवृतं भवतीति ज्ञातव्यम् ।
एतैरेवेति ।। भेदग्राहकप्रत्यक्षादिभिरेवेत्यर्थः । अधिगतमेवेति ।। प्रथमप्रमाणेनेत्यर्थः । द्वितीयादीनां प्रमाणानाम् । बहुत्व इत्यनन्तरम् एकविषयत्वे चेति शेषः । प्रामाण्याभावादिति ।। अनधिगतार्थगन्तृत्व-रूपप्रामाण्याभावादित्यर्थः । प्रामाण्ये अनधिगतार्थगन्तृत्वे । बहुत्वाभावादिति ।। स्वस्वविषये तेषामेकैक-त्वादित्यर्थः । संवादग्रहणेनेति ।। समानविषयकज्ञानान्तरस्यैव संवादत्वादिति भावः । अनुवादकत्वम् अधि-गतार्थाधिगमकत्वेन वैयर्थ्यलक्षणानुवादकत्वमित्यर्थः । प्रयोजनवत्त्वेति ।। निःशङ्कप्रतीतिहेतुत्वरूप-प्रयोजनवत्त्वाभिधानेनेत्यर्थः । उक्तं प्रयोजनवत्त्वमाक्षिप्य समाधत्ते- यद्यपीत्यादिना ।। एकाकारेति ।। तथा च प्रथमप्रमाणवद् द्वितीयादिप्रमाणानामपि निःशङ्कप्रतीतिहेतुत्वं प्रथमप्रमाणानवगतस्य निःशङ्कप्रतीत्युप-योगिनोऽधिकस्याभाना(वा)दित्यर्थः। परिच्छिन्ने ज्ञाते सति । तत्रैव भेदविषय एव । तस्यैवेति ।। पुरुषत्रयेण प्रतिपादितस्यैवाग्नेरित्यर्थः । अनेन ‘बहूनां वचने’ इति मूलेन । अभिदधतेति ।। दृष्टान्त इति शेषः । अपौरुषेयत्वा-दीत्यादिपदेन पौरुषेयत्वं ग्राह्यम् । तत्र भेदग्राहिप्रत्यक्षानुमानागमेषु प्रत्यक्षानुमानयोः पौरुषेयत्वम् आगमस्य त्वपौरुषेयत्वमिति द्रश्व्व्यम् । अपरोऽपीति ।। सहकारिकृतसामर्थ्यातिशयोऽनुभवसिद्ध इत्येव विशेषो नेत्यर्थः। अत्र ज्ञापकमाह- अत एवेति ।। अपौरुषेयत्वपौरुषेयत्वरूपो विशेषस्सूचनीयो यतोऽत एवेत्यर्थः । तथा हि । प्रत्यक्षानुमानसिद्धे जीवेश्वरभेदे प्रवर्तमानस्याऽगमस्याऽनुवादकत्वं वदन्तं प्रति तदभावव्युत्पादनार्थं दार्ष्टान्तिका-नुसारेण दृष्टान्ते दर्शनमादावुक्त्वा पश्चाद्वचनं वक्तव्यम् । तथा च ‘दर्शने तस्यैव बहूनां वचने’ इति वाक्यवृत्तिः स्यात् । न चैवमवादीत् । किन्तु ‘बहूनां वचने तस्यैव दर्शने’ इति वचनमादावुक्त्वा दर्शनमेव पश्चादुक्तम् । तेन ज्ञायते पर्वतोऽग्निमानिति पर्वताग्निसंसर्गबोधकवाक्यजन्यपरोक्षज्ञानानिवर्त्यशङ्कानिरासोपयोगोऽपरोक्षत्वरूपो विशेषो दर्शनेऽस्तीति । तद्वदेव दोषशङ्काकलङ्कितप्रत्यक्षानुमानापेक्षया ‘द्वा सुपर्णा’ इत्यादिभेदवाक्यस्य तदनिवर्तनीयशङ्कानिरासोपयोग्यपौरुषेयत्वरूपो विशेषोऽस्तीति ज्ञायत इति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु ‘प्रत्यक्षादेरागमस्य प्राबल्येऽपि’ इत्यादिनोपजीव्यभूतसाक्षिप्रत्यक्षविरोधस्य कथितत्वात् ‘न चानुभवविरोधे’ इत्यादिनाऽपि तदभिधाने पौनरुक्त्यमित्यत आह- पूर्वमिति ।। तथा च निरवकाशत्वप्रयुक्त-प्राबल्यमाश्रित्य साक्षिविरोधस्योच्यमानत्वान्न पौनरुक्त्यमिति भावः । नन्वस्तु साक्ष्यनुभवस्याऽगमापेक्षया प्राबल्यं तथाऽपि तस्य स्वरूपमात्रग्राहकत्वेन तद्विरोधाभावान्नैक्यागमस्याप्रामाण्यमित्यतः ‘यद्यप्यन्योन्यानपेक्षे प्रत्यक्षानुमाने न जीवेश्वरभेदं गोचरयतस्तथापि’ इत्यादिना विरोधस्य प्राग् व्युत्पादितत्वात् भवेदेवैक्यागमस्या-(पां.टि.) प्रामाण्यमित्याह- विरोधेति ।। न तावदिति ।। आद्ये वस्तुनो द्वैरूप्यं स्याद् द्वितीये निःस्वभावत्वा-पातादिति भावः । विषयभेदेनेति ।। जीवेश्वरभेदागमप्रामाण्यरूपविषयभेदेनेत्यर्थः । अनेनेति ।। ‘परोक्षत्वापरोक्षत्वरूपं विशेषमभिदधता’ इत्यत्र दृष्टान्ते इति शेषः । ‘अपरोऽपि विशेषः सूचितः’ इत्यत्र दार्ष्टान्तिके इति शेषः । ननु दृष्टान्तापेक्षया दार्ष्टान्तिकेऽपरो विशेषः कुतः सूचनीय इत्यत आह- अत एवेति ।। दृष्टान्तापेक्षया दार्ष्टान्तिकेऽपौरुषेयत्वादिरूपविशेषान्तरस्य सूचनीयत्वादेवेत्यर्थः । अयं भावः । दृष्टान्तापेक्षया दार्ष्टान्तिके विशेषान्तरसूचनार्थमेव वचनमादावुक्त्वा पश्चाद्दर्शनोक्तिर्युज्यते । अन्यथा दार्ष्टान्तिके प्रत्यक्षेणानिवृत्ताया अपि शङ्काया वाक्येन निवृत्त्या तत्र दृष्टान्तत्वेन दर्शनमादावुक्त्वा वचनं पश्चाद्वक्तव्यम् । वचनानिवृत्तशङ्कायाः प्रत्यक्षेण निवृत्तेर्दृष्टान्ततयाऽभिधाने दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यापातादिति । यद्वा ननु दार्श्वन्तिकेऽपौरुषेय-त्वादिविशेषः सूचित इत्यत्र किं नियामकमित्यतो दृष्टान्ते परोक्षत्वापरोक्षत्वरूपविशेषोक्तिरेव तत्र नियामिकेति भावेनाभिदधतेत्यन्तमुक्तम् । ननु बहूनामिति वाक्यस्य दृष्टान्ते परोक्षत्वापरोक्षत्वरूपविशेषकथने तात्पर्ये सिद्धे तदनुसारेण दार्ष्टान्तिके विशेषान्तरसूचनेऽपि तात्पर्यं स्यात् । तदेव कुतः? बहुप्रमाणसंवादेन शङ्कानिवृत्तिमात्रेऽपि तस्य तात्पर्यसम्भवादित्यत आह- अत एवेति ।। दृष्टान्ते परोक्षत्वापरोक्षत्वरूपविशेषकथने तात्पर्यस्य विद्यमान-त्वादेवेत्यर्थः । अयं भावः । यद्यत्र बहुप्रमाणसंवादेन शङ्कानिवृत्तिमात्रमभिप्रेतं स्यात्तर्हि ‘बहुप्रमाणसंवादे दार्ढ्यस्यैव दृश्व्ेः’ इत्येव वक्तव्यं स्यात् । तथाऽनुक्त्वा वचनमादावुक्त्वा पश्चाद्दर्शनोक्तिर्दृष्टान्ते परोक्षत्वापरोक्षत्वरूप-विशेषकथने तात्पर्यमाक्षिपति । तस्य च तत्र तात्पर्ये सिद्धे दार्श्वन्तिके तस्य विशेषस्यासम्भवादपौरुषेय-त्वादिरूपविशेषसूचनसिद्धिरिति ।
लघुप्रभा
(व्या.टि.)
पुनरुक्तिं परिहरति- पूर्वमिति ।। अनपेक्षेति ।। निरवकाशत्वलक्षणेनेत्यर्थः । प्रागिति ।। असर्व-कर्तृत्वेनेति मूल इत्यर्थः । आगमस्य आगमस्यैव । कुतः प्रमाणादित्यर्थः । परिशेषादित्याशयेन प्रसक्तप्रतिषेधं तावत्करोति- न तावदिति ।। उक्तमिति ।। वस्तुनो द्वैरूप्यनिस्स्वरूपत्वयोरन्यतरप्रसङ्गेनेति शेषः । ततः किमित्यत आह- न चेति ।। ‘परस्परविरुद्धयोः’ इति न्यायेनान्यतरप्रामाण्यनिश्चयस्यैव विरोध्यन्यतराप्रामाण्य-निश्चायकत्वादित्यर्थः । अपिपदप्राप्तभेदभ्रमं वारयति- आगमेति ।। अव्यभिचरितत्वेति ।। स्वार्थेनेति शेषः। शिष्यशेमुषीमनुकूलयिष्यन् पूर्वोत्तरप्रकरणभेदज्ञापनायोक्तवक्ष्यमाणार्थभेदं दर्शयति- एवमित्यादिना ।। स्वभावेति ।। प्रत्येकमेकैकनिष्ठत्वात्स्वभावत्वम् । बहुत्वप्रमाणत्वयोः विरोधेन परस्परविशेषणविशेष्य-भावासम्भवमाशङ्कते- नन्विति ।। वैयर्थ्यलक्षणेनेति ।। तन्निबन्धनेनेत्यर्थः । स्वेस्व इति ।। ‘पूर्वादिभ्यो नवभ्यो वा’ इति विकल्पात् ङेः स्मिन्नभावः । एकैकत्वादिति ।। प्रत्येकमेकत्वादित्यर्थः । निराकरोति बीजोत्पाटनादित्यर्थः ।
ननु संवादो दार्ढ्यहेतुरित्ययुक्तम् । पूर्वप्रवृत्तप्रमाणस्याप्येकाकारनियतत्वेन संशयाजनकत्वात् । न हीतोऽन्यद्-द्वितीयादिप्रमाणानां दार्ढ्यहेतुत्वे शृङ्गमस्तीत्याशङ्क्य निराकरोति- यद्यपीत्यादिना ।। कारणान्तरेणेति ।। (व्या.टि.) स्वयं संशयाजनकत्वसाम्येऽपि कारणान्तरायातसंशयनिवर्तकत्वेन द्वितीयादीनां दार्ढ्यहेतुत्वं युज्यत इत्यर्थः । ननु तथाऽपि विप्रतिपत्त्यादिना शङ्काऽनुपपन्ना, शङ्कायाः साक्षात्कारप्रभेदत्वेन विप्रतिपत्तिवाक्या-जन्यत्वादिति चेत्, साक्षात्तदजनकत्वेन शाब्दसंशयाभावेऽपि तज्जन्यकोटिस्मरणद्वारा मानसशङ्कायां बाधका-भावात् । ननु संशयनिवर्तकत्वं संशयविरोध्याकारावगाहित्वेनैव दृष्टम् । अन्यथा साधारणधर्मगोचरधारावाहिक-ज्ञानेनापि संशयो निवर्तेत । न चात्र द्वितीयादिप्रमाणानां पूर्वावगताधिकविरोध्याकारावगाहित्वं दरीदृश्यते । पूर्वप्रवृत्तप्रमाणसमानविषयत्वानुभवादित्याशङ्कते- नन्विति ।। सहकारिकृतेति ।। अन्याहितशक्तेरित्यर्थः । केशानामेकैकशो दूराददृश्यत्वेऽपि तद्राशेर्दूरे दर्शनादिति भावः । प्रमाणसम्प्लवे सामर्थ्यातिशयं दर्शयति- पर्वत इत्यादिना ।। तस्मिन् वक्तरि । कारणान्तरेति ।। विप्रलम्भादीत्यर्थः । तृतीयस्यापीति ।। वचनं शृणोतीति पूर्वेणान्वयः । आसीदतः ‘पाघ्राध्मा’ इति सदेः शतरि सीदादेशः आगच्छत इत्यर्थः । तस्यैवाग्नेरिति व्यधिकरण-षष्ठी । तस्यैव वचनश्रोतुरित्यर्थः । अग्नेरित्युत्तरान्वयम् । श्रौतश्चार्थोऽयम् । बह्वृचब्राह्मणे ‘तस्माद्दीक्षितेन सत्यमेव वदितव्यम्’ इत्यारभ्य ‘विचक्षणवती वाचं वदेत्’ इति विधाय ‘तस्मादाचक्षाणमाहुरद्रागिति । स यद्यदर्शमित्याह अथास्य श्रद्दधाति । यद्युवै स्वयं पश्यन् बहूनां च नान्येषां श्रद्दधाति’ इति वचने श्रद्धामभिधाय दर्शने श्रद्धाभिधा-नात् । ननु कथमनेनोक्तशङ्कापरिहार इत्यत आह- अनेनेति ।। विशेषाभिधानं कुतो ज्ञायते तद्वाचकपदाभावादि-त्यत आह- अत एवेति ।। विशेषाभिधाने तात्पर्यादेवेत्यर्थः । अन्यथा दार्ष्टान्तिकानुसारेण दर्शनमुक्त्वा वचनमनन्तरं वक्तव्यम् । इत्थं निर्देशेन तु वचनजन्यपरोक्षज्ञानानिवृत्तशङ्कानिवर्तकत्वप्रयोजको दर्शनेऽपरोक्षत्व-रूपो विशेषोऽभिहितः । तेन दार्श्वन्तिकेऽपि भेदप्रतिपादकेऽपौरुषेयवाक्ये प्रत्यक्षानुमानानिवृत्तशङ्कानिवर्तकत्व-प्रयोजकोऽपौरुषेयत्वरूपो विशेषः सूच्यत इत्यर्थः ।