नामानि सर्वाणि ..
विष्णोस्सर्वनामाभिधेयत्वस्य समर्थनम्
मूलम्
- ‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’,
‘यस्यैव सर्वनामानि१ व्यतिरिक्तस्य सर्वतः ।
यः स्वतन्त्रः सदैवैकः स विष्णुः परमो मतः ।।’
इत्यादिश्रुतिभ्योऽन्यनामान्यप्यस्यैवेति नान्येषां सर्वेश्वरत्वादिकमुच्यते । सर्ववेदेष्वप्य-स्यादोषवचनादादावभावावचनाच्च तद्वचनाच्चान्येषां सर्वेषां वेदेषु सर्वेषु । तेषां सर्व-नामत्वानुक्तेश्च ।।
तत्त्वमञ्जरी
विष्णोः सर्वोत्तमत्वे ‘एको रुद्रो न द्वितीयाय तस्थ’ इति ‘स इमाल्लोकानीशत ईशनीभिः’ इत्यादीनां वाक्यानां का गतिरित्यत आह- नामानीति ।।
तद्वचनाच्चान्येषां ।। अयमर्थः । अन्येषां ब्रह्मरुद्रादीनां वेदेषु दोषवचनात् आदावभाववचनाच्च नान्येषां सर्वेश्वरत्वादिकमुच्यते । ‘यं कामय’ इत्यादौ जन्मादिदोषवत्त्वमुच्यते हि । ‘न ब्रह्मा नच शङ्करः’ इत्यादिनाऽऽदावभावश्च ।
टीका
ननु ‘हिरण्यगर्भः समवर्तताग्रे’, ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’, ‘स इमाल्लोकानीशत ईशिनीभिः’ इत्यादिश्रुतिषु ब्रह्मशिवादीनामपि सर्वेश्वरत्वादिकमुच्यते । तत्कथं विष्णोस्तदङ्गीक्रियते उभयोस्तद्विरोधात् । नच देशकालव्यवस्थया विकल्पः, अनिष्टत्वादित्यत आह-नामानीति ।। आविशन्ति मुख्यया वृत्त्या विशन्ति, वदन्तीति यावत् । सर्वनामवत्त्वं सर्वाभेदेनेति भ्रान्ति-निरासार्थमुक्तम्- व्यतिरिक्तस्येति ।। दुःख्यादिनामानि कथं तस्येत्यत उक्तम्- यः स्वतन्त्र इति ।। यथोक्तम्-‘तदधीनत्वादर्थवत्’ इति । अन्यनामान्यपि अन्यनामत्वेन प्रसिद्धान्यपि हिरण्यगर्भादिनामानि, अस्य विष्णोरेव वाचकानि । इतिशब्दो हेतौ । तासामपि श्रुतीनां विष्णुपर-त्वादित्यर्थः । कुत एवम् अन्यथा व्याख्यानं, प्रतीत एवार्थः किं न स्यादित्यत आह- सर्वेति ।। अपिरभिव्याप्तौ । अस्य विष्णोः अदोषवचनाद् दोषवचनाभावाद् दोषाभाववचनादिति वा । आदौ प्रलये । अभावावचनाद् भाववचनाच्चेत्यपि ग्राह्यम् । तद्वचनाद् दोषवचनात् प्रलयेऽ-भाववचनाच्च । सर्ववेदेष्वपीति प्रकृतत्वेऽपि पुनर्वेदेषु सर्वेष्विति वचनं शैवपुराणादिव्युदासार्थम् । तेषां पाशुपताद्यागममूलानां प्रामाण्यासम्मतेः । वेदेष्वित्यादिरुत्तरग्रन्थो वा । तत्रापि तदेव प्रयोजनम् ।
एतदु(इदमु)क्तं भवति- यो हि सर्वेश्वरस्तेनाज्ञानादिदोषरहितेन प्रलयेऽप्यविलुप्तज्ञानादिमता भवितव्यम् । तन्न जानाति, तस्य चेष्ट इत्यनुपपत्तेः । यश्चेतरजीववत्प्रलये विलुप्तज्ञानादिस्तस्याऽदि-सृष्ट्यादिकर्तृत्वासम्भवात् । अज्ञानाशक्त्यादयो दोषाः प्रलये ज्ञानादिविलोपश्च विष्णोर्न कुत्रापि श्रूयन्ते । प्रत्युत तदभाव एव श्रूयते । अतस्तस्यैव सर्वेश्वरत्वादिकं सम्भवति । ब्रह्मादीनान्तु निर्दोषत्वादेरश्रुतत्वाद्दोषवत्त्वादेरेव श्रुतत्वाच्च तन्न सम्भवति । अतस्तासां श्रुतीनां विष्णुपरत्वमेव न्याय्यमिति । इतोऽप्येवमित्याह- तेषामिति ।। यदि शिवः सर्वेश्वरः स्यात्तदा हिरण्यगर्भस्य सर्वेश्वरत्वं वदन्तीनां श्रुतीनां का गतिः । नचास्मद्रीत्या तच्छ्रुतीनां शिवपरत्वं, वैषम्यात् । विष्णोर्हिरण्यगर्भादिसर्वनामवत्त्वे प्रमाणमुक्तम् । नच शिवादीनां तथात्वे वैदिकवचनमस्ति । तदेवं निर्दोषत्वादेः सर्वेश्वरत्वादिव्यापकस्य शिवादिष्वभावाच्छ्रुत्यन्तरविरोधपरिहारोपायाभावाच्च न शिवादीनां सर्वेश्वरत्वादिकं श्रुत्या वक्तुं शक्यते । किन्तु विष्णोरेव व्यापकाव्यावृत्तेर्विरोधा-भावाच्चेति स्थितम् ।।
भावबोधः
ननु विष्णोर्दोषावचनादेः कथं सर्वेश्वरत्वादिसाधकत्वं, कथं ब्रह्मादीनां सर्वेश्वरत्वादिबाधकत्वमित्यतो वाक्यतात्पर्यमाह- एतदुक्तं भवतीति ।। प्रलयेऽपि वर्तमानप्रकृत्यादिविषयकाज्ञानतन्नियामकत्वलक्षणेश्वर-त्वयोर्विरोधलक्षणबाधकेन प्रकृत्यादिसर्वेश्वरत्वस्य प्रलयेऽप्यविलुप्तज्ञानादिमत्त्वव्याप्यत्वनिश्चय इति भावः । विपक्षे बाधकान्तरमाह- यश्चेति ।।
भावदीपः
स्वातन्त्र्येण निमित्तेन दुःखिबद्धादिशब्दानां विष्णुनिष्ठत्वोक्तावानुमानिकनयस्थसूत्रसम्मतिमाह- यथोक्तमिति ।। सर्वशब्दप्रवृत्तिनिमित्तानां भगवदधीनत्वाद् दुःखिबद्धावरादिशब्दजातं हरावर्थवत्, तद्वाचकं भवतीत्यर्थः । तदेव प्रयोजनमिति ।। शैवपुराणादिव्युदास इत्यर्थः । ननु विष्णुतदितरेषां दोषानुक्तितदुक्त्यादिना कथं सर्वेश्वरत्वतदभावलाभः । येनान्यमहिमोक्तिपरश्रुतीनामन्यथा व्याख्यानमित्यत आह- एतदुक्तं भवतीति ।। तस्य चेष्ट इति ।। ‘ईश ऐश्वर्ये’, ‘अधीगर्थदयेशां कर्मणि’ इति षष्ठी । तस्येश्वर इत्यर्थः । परिहारोपायेति ।। वैदिकवचोरूपेत्यर्थः । व्यापकेति ।। दोषाभावादिरूपेश्वरत्वव्यापकाव्यावृत्तेरित्यर्थः । विरोधेति ।। अन्यमहिमोक्तिपरश्रुत्यन्तरविरोधेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
ईशिनीभिरिति ।। ईशनं प्रेरणं तच्छीलाभिः शक्तिभिरित्यर्थः । व्यवस्थयेति ।। कस्मिंश्चिद्देशे (श्री.टि.) कस्मिंश्चित्काले विष्णोः सर्वोत्तमत्वं कालान्तरे देशान्तरे च ब्रह्मादीनामिति व्यवस्थयेत्यर्थः । अनिष्टत्वादिति ।। ‘अनेन सर्वगतत्वमायामयशब्दादिभ्यः’ इति सूत्रे सर्वदेशकालावस्थासु भगवत एव सर्वेश्वर-त्वोक्तेर्देशकालव्यवस्थया विकल्पस्य भवतामनिष्टत्वादित्यर्थः । तदधीनत्वादिति ।। दुःख्यादिशब्दजात-मीश्वरेऽर्थवत्, अन्यगतसुखदुःखादीनां तदधीनत्वादिति सूत्रार्थः । यथोक्तम्- ‘दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः । शब्दा ब्रह्मणि वर्तन्ते’ इति । शैवपुराणादीति ।। ननु शैवपुराणादौ शिवादीनाम् अदोषत्ववचनमादौ (अ)भाववचनं चास्तीत्याशङ्काव्युदासार्थमित्यर्थः । वेदेष्विति पुनर्वचनेन कथं तद्व्युदास इत्यत आह- तेषामिति ।। उत्तरग्रन्थो वेति ।। ‘वेदेषु सर्वेषु तेषां सर्वनामत्वानुक्तेश्च’ इत्युत्तरग्रन्थोपक्रमवाक्यं चेत्यर्थः । उत्तरवाक्येऽपि वेदेष्विति किमर्थं वक्तव्यमित्यत आह- तत्रापीति ।। तदेवेति ।।
ननु शिवादीनां कथं सर्वनामवत्त्वानुक्तिः, शैवपुराणादौ तदुक्तेरित्याशङ्काव्युदासार्थं वेदेष्वित्युक्तमिति भावः । ननु विष्णोर्दोषावचनादेः कथं सर्वेश्वरत्वादिसाधकत्वम् । कथं च ब्रह्मादीनां दोषवचनादेः सर्वेश्वर-त्वादिबाधकत्वमित्यतो वाक्यतात्पर्यमाह- एतदुक्तं भवतीति ।। ननु ईश्वरेणाज्ञानादिदोषरहितेन भवितव्यमित्ययुक्तम् । अज्ञानादिमतोऽपि ईश्वरत्वे बाधकाभावादित्यत आह- तन्न जानातीति ।। ईष्टो निया-मकः । तथा हि । ईश्वरत्वं नामेशनशीलत्वं नियामकत्वमिति यावत् । एवं च प्रकृत्यादिकं जगन्न जानातीति पुनस्तस्य चेष्ट इति न युज्यते । तज्ज्ञानाभावे तन्नियामकत्वासम्भवादिति भावः । नन्वीश्वरेण प्रलयेऽविलुप्त-ज्ञानादिमता कुतो भवितव्यम् । प्रलये विलुप्तज्ञानवतोऽपीश्वरत्वे बाधकाभावादित्यत आह- यश्चेति ।। तत् सर्वेश्वरत्वादिकम् । तासां श्रुतीनामिति ।। ब्रह्मादिसर्वेश्वरत्वप्रतिपादिकानां ‘हिरण्यगर्भः समवर्तताग्रे’ इत्यादिश्रुतीनामित्यर्थः । इतोऽप्येवमिति ।। न शिवादीनां सर्वेश्वरत्वादिकं किन्तु विष्णोरेवेत्याहेत्यर्थः । गतिमाशङ्कते- न चेति ।। वैषम्यमेवोपपादयति- विष्णोरिति ।। तथात्वे सर्वनामवत्त्वे । शैवपुराणादिवचन-व्यावृत्त्यर्थं वैदिकं वचनमित्युक्तम् । श्रुत्यन्तरविरोधेति ।। शिवस्य सर्वोत्तमत्वाङ्गीकारे ‘हिरण्यगर्भः समवर्त-ताग्रे’ इत्यादिब्रह्मादिसर्वोत्तमत्वप्रतिपादकश्रुत्यन्तरविरोधे प्राप्ते तत्परिहारोपायस्य शिवस्य हिरण्यगर्भादिसर्वनाम-वत्त्वस्याभावादित्यर्थः। सर्वेश्वरत्वादिकमिति ।। निर्दोषत्वादिव्याप्यभूतमित्यर्थः । व्यापकाव्यावृत्तेरिति ।। सर्वेश्वरत्वादिव्यापकस्य निर्दोषत्वादेर्विष्णौ सत्त्वादित्यर्थः । विरोधाभावाच्चेति ।। विष्णोस्सर्वेश्वरत्वाङ्गीकारे शिवादिसर्वोत्तमत्वप्रतिपादकश्रुत्यन्तरविरोधपरिहारोपायस्य विष्णोः शिवादिसर्वनामवत्त्वरूपस्य सत्त्वेन विरोधाभावादित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
अनिष्टत्वादिति ।। भवतामिति शेषः । सर्वदेशकालेषु नारायणस्यैव भवद्भिः सर्वोत्तमत्वाङ्गीकारादिति भावः । कुत एवमिति ।। हिरण्यगर्भश्रुतीनां कुतो विष्णुपरतया व्याख्यानं क्रियते । प्रतीतं हिरण्यगर्भादिपरत्व-मेव किं न स्यादित्यर्थः । प्रतीतार्थपरत्वपरित्यागेनाप्रतीतार्थपरत्वकल्पनस्य निर्निबन्धनत्वेनायुक्तत्वादिति भावः । अपिरभिव्याप्ताविति ।। सर्वकर्माण्यपि सदेत्यादाविवेति शेषः । ततश्च नापिपदवैयर्थ्यमिति भावः । (पां.टि.) ननु विष्णोरदोषवचनादेः कथं सर्वेश्वरत्वादिसाधकत्वम् । कथं वा ब्रह्मादीनां दोषवचनादेः सर्वेश्वर-त्वादिबाधकत्वमित्यतो वाक्यतात्पर्यमाह- एतदुक्तं भवतीति ।। अप्रयोजकमेतदित्यतो विपक्षे बाधकमाह- तन्न जानातीति ।। प्रलयेऽपि वर्तमानप्रकृत्यादिविषयकाज्ञानतन्नियामकत्वलक्षणेश्वरत्वयोः विरोधलक्षण-बाधकेन प्रकृत्यादिसर्वेश्वरत्वस्य प्रलयेऽप्यविलुप्तज्ञानादिमत्त्वव्याप्यत्वनिश्चय इति भावः । विपक्षे बाधकान्तर-मप्याह- यश्चेति ।। हेत्वसिद्धिं परिहति- अज्ञानाशक्त्यादय इति ।।
लघुप्रभा
(व्या.टि.)
एवं सर्वोत्तमत्वापरपर्यायसमतीतक्षराक्षरत्वस्यासम्भवे निरस्तेऽतिव्याप्तिमाशङ्कते- नन्विति ।। जगज्जन्मादिकारणत्वादीनां पृथग्लक्षणत्वात्पृथगतिव्याप्तये पृथग्वाक्यान्युदाहरति- हिरण्यगर्भ इत्यादि ।। अग्र इति प्रलयकालवर्तित्वम् । शान्तिमत्यन्तमिति मोक्षदत्वम् । ईशत इति प्रेरकत्वञ्च । कथमिति ।। अतिव्याप्तस्यालक्षणत्वादित्यर्थः । बहुलक्ष्यत्वेन नातिव्याप्तिरित्यत आह- उभयोरिति ।। अपर्यायतत्तदसाधा-रणशब्दभेदेनार्थभेदस्य शब्दान्तराधिकरणन्यायसिद्धत्वात्, ‘एकमेवाद्वितीयम्’, ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति लक्ष्यस्यैकव्यक्तित्वाच्चोभयोर्लक्ष्यत्वविरोधादित्यर्थः । अथ वा विरोधादिति निरुपचरितासङ्कुचित-सर्वोत्तमत्वादेः परस्परोच्चावचभावप्रसङ्गेन व्याघातादित्यर्थः । ‘उदिते जुहोति अनुदिते जुहोति’ इति विधि-द्वयवद्विकल्पेन विरोधमुद्दिधीर्षति- न चेति ।। देशकालेति ।। ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ’ इत्यादि-वद्विधिवाक्यान्तर्गतसर्वशब्दसङ्कोचादित्यर्थः । कर्मानुष्ठानविकल्पसम्भवेऽपि वस्तुनो द्वैरूप्यासम्मतेरित्याह- अनिष्टत्वादिति ।। अथ वा ‘अनेन सर्वगतत्वमायामयशब्दादिभ्यः’ इत्यधिकरणे सूत्रकृता असङ्कुचितसर्व-जगत्कारणत्वादेरेवोक्तत्वेन व्यवस्थाया अनिष्टत्वादित्याह- अनिष्टत्वादिति ।। विप्रतिपन्नतत्तदसाधारण-नाम्नां भगवति समन्वयेनातिव्याप्तिमुद्दिधीर्षुराहत्य विष्णौ तत्समन्वयप्रतिपादिकां श्रुतिं व्याकरोति- मुख्यया वृत्त्येति ।। अनेन ‘साक्षादप्यविरोधं जैमिनिः’ इत्यादिसूत्रदिशा व्यवहाराद्यर्थमन्यां मुख्यां वृत्तिमुपैतीति सूच्यते । अत्र श्रुतिद्वये ‘तं वै विष्णुं परममुदाहरन्ति’, ‘स विष्णुः परमो मतः’ इत्युक्त्या ‘तदेव ब्रह्म परमं कवीनाम्’ इतिवन्महायोगविद्वद्रूढिभ्यां विष्णुशब्दस्य भगवति मुख्यवृत्तिमभिधायान्यत्र गौण्यभिप्रेतेति सूचि-तम् । तेन यज्ञशिवादिष्वपि विष्णुशब्दस्य ‘यज्ञो वै विष्णुः’,
‘शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।
संसारिवेद्यः सर्वज्ञः परमात्मेत्युदाहृतः ।
एतन्नामाष्टकं पुण्यं शिवस्याधविनाशनम् ।।’
इति स्मृत्या, शिवसहस्रनामपर्यालोचनया च सद्भावेन, नारायणासाधारण्याभावान्न तेनास्य सर्वनामत्वमिति निरस्तम् । ‘ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’ इति व्यवहारार्थं स्वनाम्नां समाकर्षाधिकरणन्यायेन तत्र तत्र सङ्केतितत्वेऽपि परममुख्यवृत्त्यभावात् । ‘यानि नामानि गौणानि’ इत्युक्तगुणनिमित्तकत्वस्थैर्याय प्रतीतेः निमित्तानि निरस्यति- सर्वाभेदेनेत्यादिना ।। स्वातन्त्र्यं कथं प्रवृत्ति-(व्या.टि.) निमित्तमित्यतः सूत्रितं तदित्याह- तदधीनत्वादिति ।। अन्यप्रवृत्तिनिमित्तानां भगवदधीन-त्वात्तच्छब्दजातं तत्र मुख्यमित्यर्थः । ननु कथमन्यनाम्नां भगवन्नामत्वम्, अन्याय्यश्चानेकार्थत्वमिति न्याय-विरोधादित्यत आह- प्रसिद्धानीति ।। अज्ञरूढानीत्यर्थः । इतिशब्दस्य समाप्त्यर्थत्वेऽनन्वयादाह- इति शब्द इति ।। तदपेक्षितसाध्यं पूरयति- तासामपीति ।। प्रतीतार्थे बाधकं पृच्छति- कुत इति ।। अपिरिति ।। सर्वशब्दार्थासङ्कोचतात्पर्यग्राहक इत्यर्थः । मूलं द्वेधा व्याचश्व्े- दोषवचनाभावादित्यादि ।। अत्र नञोऽभावार्थकस्य दोषशब्देन दोषवचनशब्देन वाऽन्वितस्य ‘असन्देहाः प्रयोजनम्’ इत्यादिप्रयोगात् अतद्धर्माभिलापादित्यादि-वत्तत्पुरुषोऽपि । अव्ययीभावत्वेऽपि न दोषः । पञ्चमीत्वात् । भावेति ।। ‘एको नारायण आसीन्न ब्रह्मा नेशानः’ इति श्रुतेरिति भावः । शैवपुराणेषूभयोक्तेः कथमवचनमिति शङ्का पुनरुक्त्याऽनभ्युपगमपराहतेत्याह- पुनरिति ।। तत्रापीति ।। उत्तरशेषेऽपीत्यर्थः । ननु श्रुतिषु सर्वेश्वरत्वोक्त्यनुक्त्योर्दोषवचनावचनयोश्च कथं निमित्तनिमित्तिभाव इत्यतो व्याप्यव्यापकभावादित्याशयं व्यनक्ति- इदमुक्तम्भवतीति ।। विपक्षे व्याघातवज्रं पातयति- तन्न जानातीति ।। तयोः कार्यकारणभावेन अकारणकार्योत्पत्तिप्रसङ्गादित्यर्थः । कुत्रापीति ।। वेद इति शेषः । इतोऽपीति ।। व्यापकान्तराभावाच्चेत्यर्थः । श्रुत्यन्तविरोधापरिहारोपायाभावाच्चेति वार्थः । तात्पर्यविषयं व्यवस्थाप्योपसंहरति- स्थितमिति ।।