न च सत्यत्वाङ्गीकारे कश्चिद्दोषः
प्रपञ्चसत्यत्वाङ्गीकारे साधकसद्भावबाधकाभावयोरुपपादनम्
मूलम्
- न च सत्यत्वाङ्गीकारे कश्चिद्दोषः ।
टीका
ननु एकजीववादिमते यो दोष उक्तः प्रमाणाभावो बाधकसद्भावश्चेति स जीवजडात्मक-प्रपञ्चसत्यत्वाङ्गीकारेऽपि समानः । तत्किमनेन पक्षपातेनेत्यत आह- न चेति ।। तथा हि । न तावत् प्रमाणाभावः । सन् घटः इत्यादिप्रत्यक्षस्य, प्रामाणिकत्वाद्यनुमानस्य, ‘विश्वं सत्यम्’ इत्याद्यागमस्य च विद्यमानत्वात् ।
ननु प्रत्यक्षं वर्तमानमात्रविषयम् । तत्कथमागामिबाधाभावलक्षणं सत्यत्वं गृह्णीयात् । सत्यत्वान्तरग्रहणं तु प्रकृतानुपयुक्तमिति । उच्यते - प्रत्यक्षं तावत् प्रमाणं बाधकाभावात् । अनुमाना-देस्तु बाधकत्वस्य निरस्तत्वात् । प्रबलप्रत्यक्षस्य चाभावात् । भविष्यतीति निर्मूलशङ्काया अनुचितत्वात् । ततश्च वर्तमानकाले सत्तां गृह्णत् प्रत्यक्षं बाधाभावमेव साधयति । न हि विनाशो बाधः किन्तु कालत्रयसत्तानिषेधः । न ह्येकस्मिन्काले सतः स सम्भवतीति । प्रामाणिकत्वातिरिक्तं सत्यत्वं नास्तीति साध्याविशिष्टतेति चेन्न । स्वपरासम्मतेः । न तावत्स्वरीत्येदमुक्तम् । प्रमाणा-विषयस्यापि ब्रह्मणस्सत्यत्वाभ्युपगमात् । नाप्यस्मद्रीत्या । ब्रह्मण इव प्रपञ्चस्याप्यस्माभिः प्रामाणिकत्वातिरिक्तसत्यत्वस्याभ्युपगमात् । अन्यथा शशविषाणवत् प्रमाणप्रवृत्त्ययोगात् । तथाऽपि ब्रह्मणः प्रामाणिकत्वाभावात् साधनविकलो दृष्टान्त इति चेन्न । असाधारणदूषणत्वाभावपक्षे केवलव्यतिरेकित्वोपपत्तेः । ब्रह्मणश्चाप्रामाणिकत्वे शशविषाणवदसत्त्वप्रसङ्गः । स्वतः सिद्धत्वान्नेति चेत्, स्वत इति स्वेनेति वा प्रमाणेन विनेति वा । नाऽद्यः । अनभ्युपगमात् । न हि स्वस्मिन् स्वस्य कारकता परेणाभ्युपगम्यते । शशविषाणस्याप्येवं सिद्धिस्स्यात् । न द्वितीयः । प्रमाणाभावे सत्यत्वं न स्यादित्यस्य प्रमाणेन विना सिद्ध्यतीत्यस्यानुत्तरत्वात् । सिद्ध्युपायान्तरस्यानुपन्यस्तत्वात् ।
एतेन स्वप्रकाशतया सिद्धिरित्यपि परास्तम् । स्वप्रकाशतायाः कथितप्रकारद्वयाबहिर्भावात् । तत्त्वावेदकप्रमाणविषयत्वं परस्यासिद्धम् । अतत्त्वावेदकप्रमाणसिद्धत्वं तु व्यभिचारीति चेन्न । अतत्त्वावेदकं च प्रमाणं चेत्यस्य विप्रतिषिद्धत्वेन विकल्पानुपपत्तेः । अस्तु तर्हि प्रत्यक्षादीना-मप्रामाण्यादसिद्धिरेवेति चेन्न । बाधकाभावस्योक्तत्वात् । अन्यथा तत्त्वमस्याद्यागमस्याप्य-प्रामाण्यप्रसङ्गात् । एतेन ‘विश्वं सत्यम्’ इत्याद्यगमप्रामाण्यमपि सिद्धम् ।
ननु प्रपञ्चसत्यत्वेऽस्ति बाधकम् । तथा हि । प्रपञ्चो ब्रह्मणो भिन्नोऽभिन्नो भिन्नाभिन्नो भिन्नाभिन्नविलक्षणो वा । आद्ये भेदपरम्परयाऽनवस्था । अभिन्नत्वेऽपसिद्धान्तः । तृतीये व्याघातः। चतुर्थेऽनिर्वचनीयतेति । मैवम् । भेदस्य स्वरूपत्वेन अनवस्थाऽभावस्योक्तत्वात् । किञ्चैवं ब्रह्मण्यपि प्रपञ्चाद् भिन्नमभिन्नं वेत्यादिविकल्पदोषाः समा एव । ‘तत्सत्यम्’ इत्यादिप्रमाणं ब्रह्मणः सत्यत्व-मवधारयदुक्तदोषान् आभासीकरिष्यतीति चेत्, प्रपञ्चसत्यताप्रमाणमपि किं न दोषान् आभासीकुर्यात् ।
ननु सत्यत्वे प्रपञ्चः कथं प्रकाशेत । तथाहि-न तावत् स्वतः, जडत्वात् । नापि परतः, प्रका-शान्तरेण सम्बन्धाभावात् । असम्बद्धस्य प्रकाशनेऽतिप्रसङ्गात् । असत्य(अध्यस्त)त्वे तु चित्प्रका-शारोपितस्याधिष्ठानाध्यस्तत्वसम्बन्धेन प्रकाशोपपत्तिरिति । उच्यते । कथं प्रकाशेतेति कोऽर्थः । कथं प्रकाशः स्यादिति वा प्रकाशाश्रय इति वा प्रकाशविषय इति वा । न प्रथमद्वितीयौ । अनभ्युप-गमात् । तृतीयेऽपि किं प्रकाशशब्देन चैतन्यं वा विवक्षितं वृत्तिर्वा । नाऽद्यः । चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारोपपत्तेः । चैतन्यस्यापि स्वाभाविकं विषयित्वं भविष्यतीति को दोषः । असङ्गश्रुतिस्तु परमेश्वरस्य पापादिसम्बन्धाभाववादिनी । न द्वितीयः । करणसामर्थ्येन विषयविषयिभावोपपत्तेः । अध्यस्तत्वेन प्रकाशने च जीवेऽध्यासपक्षे सर्वदा प्रकाशः स्यात् । ब्रह्मा(ह्मण्य)ध्यासे न कदाचित् । बहुजीवपक्षेऽपि जीवेऽध्यासे सर्वदा सर्वेषां प्रपञ्चः प्रकाशेत । ब्रह्माधिष्ठानत्वे तु न कस्यापि कदाऽपि । दृष्टिसृष्टिपक्षस्त्वेकजीववादिना न वक्तुं शक्यः । कल्पकैकजीवस्य सुषुप्तौ प्रपञ्चाभावप्रसङ्गात् । नापि बहुजीववादिना । प्रत्यभिज्ञासंवादयोरनुप-पत्तेः । अथोच्येत-चक्षुरादेः करणस्य घटादिविषयसन्निकर्षे सति अन्तःकरणं दीर्घप्रभाऽऽकारेण परिणमते । स च परिणामो मध्ये स्थितां विषयगतां चाविद्यां तिरस्करोति । ततश्च सर्वं चैतन्यमेकीभवति । तेन न सर्वदोपलब्धिः । नापि सर्वेषाम् । अन्तःकरणभेदेन प्रतिकर्म-व्यवस्थोपपत्तेरिति । उच्यते । एवं तर्हि अन्तःकरणवृत्तिसन्निकर्षो विषयस्य तेनैवाङ्गीकृत इति तेनैव दृश्यत्वोपपत्तौ किमनया प्रमाणशून्यया प्रक्रियया । ‘तस्य भासा सर्वमिदं विभाति’ इत्यादेस्त्वन्यविषयत्वात् । अतीतादिषु च नेयं प्रक्रिया सम्भवतीति । गौरवं तर्हि बाधकमिति चेत्, तर्हि गौरवाद् बिभ्यता शून्यवाद एवातिलघीयानङ्गीकार्यः । प्रामाणिकत्वाद् आत्मसत्यत्वं न गौरवदोषमावहतीति चेत्, प्रपञ्चेऽपि सममेतदिति । तस्मात्साधूक्तं ‘प्रपञ्चसत्यत्वाङ्गीकारे न कश्चिद्दोषः’ इति ।
भावबोधः
प्रामाणिकत्वाद्यनुमानस्येति ।। भ्रमविषयकसाक्षिणं नेदं रजतमिति(साक्षाद्विषयलाभे)-बाधकप्रत्ययमादय शुक्तिरजतं प्रामाणिकमिति न व्यवह्रियत इति प्रामाणिकपदेनैवानिषेध्यत्वेन प्रमां प्रति साक्षद्विषयत्वलाभेन भ्रमविषयसाक्ष्यादिवेद्यत्वमादाय न शुक्तिरजते व्यभिचार इति ध्येयम् । ननु घटादेर्वर्तमानकाले सत्तां गृह्णदपि प्रत्यक्षमागामिविनाशाभावलक्षणमबाधं कथं साधयतीत्यत आह- न हीति ।। अन्यथेति ।। प्रामाणिकत्वातिरिक्तसत्यत्वाभावे प्रमाणप्रवृत्तेः पूर्वं ब्रह्मप्रपञ्चयोरपि शशविषाणाद्यविशेषापत्त्या प्रमाण-प्रवृत्त्ययोगादित्यर्थः । तथा च प्रमाणप्रवृत्त्ययोग्यतावच्छेदकत्वेन प्रामाणिकत्वातिरिक्तमेव सत्यत्वमङ्गीकार्यमिति भावः । ननु वृत्त्यविषये सुखादौ कथं व्यवहारः स्यादित्यत आह-न चैतन्यस्यापीति ।। करणसामर्थ्येनेति ।। घटसन्निकृष्टकरणजन्यत्वेनैव वृत्तेर्घटविषयत्वोपपत्तिरिति भावः । ननु प्रपञ्चस्य जीव एवाध्यासः । न च सर्वदा सर्वेषामुपलब्धिप्रसङ्गः । दृष्टिसृष्ट्यङ्गीकारेण यदा यद्दृष्ट्या यज्जन्यते तत् तदैव तेनैव गृह्यत इति व्यवस्थोपपत्तेरित्यत आह- दृष्टिसृष्टिपक्षस्त्विति ।। प्रपञ्चाभावप्रसङ्गादिति ।। दृष्टिरूपकारणाभावेनोद्बोधकस्यासम्भवे सर्वदा सुषुप्तिप्रसङ्गेन कल्पकसुप्त्यनन्तरं प्रपञ्चाभावप्रसङ्ग इत्यर्थः । तेनैवेति ।। प्रपञ्चस्य सत्यत्वेऽपि वृत्तिद्वारकसम्बन्धेन चिद्रूपदृक्सम्बन्धसम्भवेन दृश्यत्वोपपत्तावित्यर्थः ।
भावदीपः
‘विमतं सत्यं प्रमाणदृष्टत्वाद् यदित्थं तत्तथा यथाऽऽत्मा’ इति मिथ्यात्वानुमानखण्डनोक्तमाह- प्रामाणिकत्वादीति ।। ‘बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा’ इत्याद्यानुमानिकपादोक्तार्थक्रिया-कारित्वमादिपदार्थः ।
‘विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ।।’
इत्याद्यनुव्यख्यानाद्युक्तमाह- विश्वं सत्यमिति ।। प्रत्यक्षस्य सत्ताऽनिर्णायकत्वं तावच्छङ्कापूर्व-मुपपादयति- नन्वित्यादिना ।। सत्यत्वान्तरेति ।। भाविबाधाभावरूपसत्यत्वादन्यवर्तमानकालसम्बन्धित्व-रूपसत्यत्वान्तरग्रहणं तु भवदभिमतत्रिकालाबाध्यत्वरूपप्रकृतप्रमेयानुपयुक्तमित्यर्थः ।
‘यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ।
प्रामाण्यस्य च मर्यादा कालतो व्यहता भवेत् ।।’
इत्यनुव्याख्यानोक्तं समाधिं वक्तुं प्रामाण्यं तावत्साधयति- प्रत्यक्षमिति ।। निरस्तत्वादिति ।। ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्यादिनेति भावः । यद्वा दृश्यत्वाद्यनुमानानां मिथ्यात्वपरत्वेन पराभिमत-वाचारम्भणादिश्रुतीनां निराकृतत्वेनानुमानादेर्बाधकत्वस्य निरस्तत्वादित्यर्थः । ननु माऽस्तु दुर्बलत्वादनुमानादिकं प्रबलसत्त्वग्राहिप्रत्यक्षबाधकम् । विपरीतप्रत्यक्षं तु स्याद्बाधकमित्यत आह- प्रबलप्रत्यक्षस्येति ।। बाधकस्येति योज्यम् । भाविबाधकशङ्कया भवत्वप्रामाण्यमित्यत आह- भविष्यतीति ।। बाधकमित्यनुषङ्गः । ननु बाधो नाम घटस्य नाशः । स च कालान्तरभावी । तमिदानी सन्घट इति प्रत्यक्षं कथं गृह्णीयादित्यत आह- न हीति ।। स इति ।। त्रिकाले सत्तानिषेध इत्यर्थः । अनुमानमपि शङ्कापूर्वं समर्थयते- प्रामाणिकत्वेति ।। सत्यत्वस्याभ्युपगमादिति ।। त्रैकालिकनिषेधाप्रतियोगित्वरूपस्याभ्युपगमादित्यर्थः । अन्यथेति ।। प्रामाणप्रवृत्त्युपयोगिन उक्तरूपस्य सत्यत्वस्य घटादेरभाव इत्यर्थः । अथ वा साध्याविशिष्टतां निरस्याप्रयोजकतां निराह- अन्यथेति ।। अप्रामाणिकत्वे । असाधारणेति ।। सति सपक्षे तत्रावर्तमानत्वरूपं हेतोरसाधारण-त्वम् । शब्दो नित्यः शब्दत्वादित्यादाविवानुकूलतर्कासत्त्वदशायामिदं दूषणम् । नेति पक्षे शशशृङ्गादिदृष्टान्ते व्याप्तिसम्भवेन व्यतिरेकव्याप्त्युपपत्तेरित्यर्थः । कारकतेति ।। कर्मकारकतेत्यर्थः । कथितप्रकारद्वयेति ।। ‘स्वव्यवहारे स्वातिरिक्तसंविदन्तरानपेक्षत्वम् । अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वम्’ इति कथितेत्यर्थः । तद्द्वयं दूषितमेवेति भावः । हेतुमपि शङ्कानिरासपूर्वं समर्थयते- तत्त्वावेदकेति ।। प्रामाणिकत्वादिति हेतोः प्रकारान्तरेणासिद्धिमाशङ्कते- प्रत्यक्षादीनामिति ।। विमतं सत्यं प्रामाणिकत्वादित्यस्य घटः सन्नित्यादि-प्रत्यक्षार्थक्रियाकारित्वाद्यनुमानविश्वंसत्यमित्याद्यागमरूपप्रमाणसिद्धत्वादित्यर्थः । तत्र च तेषामप्रामाण्यात् प्रामाणिकत्वहेतुरसिद्ध इत्यर्थः । अन्यथेति ।। बाधकाभावेऽप्यप्रामाण्य इत्यर्थः । अवशिश्व्ं मिथ्यात्वानु-मानखण्डनटीकायां ध्येयमिति भावः । एवं साधकमुक्त्वा बाधकमाशङ्क्य निराह- ननु प्रपञ्चेति ।। उक्तत्वा-दिति ।। ‘पदार्थस्वरूपत्वाद्भेदस्य’ इत्यादिग्रन्थव्याख्याऽवसर इति भावः । ‘जगतो भिन्नमभिन्नं वेत्यादि-विकल्पस्तत्रापि युज्यते’ इत्यादितत्त्वोद्योतोक्तमाह- किञ्चैवमिति ।।
बाधकान्तरमाशङ्कते- ननु सत्यत्व इति ।। सम्बन्धाभावादिति ।। संयोगसमवाययोरभावाद्विषयविषयि-भावस्य दुर्वचत्वादिति वा चितोऽसङ्गत्वादिति वा भावः । व्यवहारायोगो बाधक इत्यत आह- वृत्तिविषयत्वेनै-वेति ।। व्यवहारो हि ज्ञप्तिकार्यम् । न च परमते वृत्तिर्ज्ञप्तिः । अपि तु चैतन्यमेवेति वा सुखादौ व्यवहारायोग इति वा वादिनं प्रत्याह- चैतन्यस्यापीति ।। स्वाभाविकमिति ।। ननु ‘असङ्गो ह्ययं पुरुषः’ इत्यसङ्गत्वानुपपत्त्यैवौपाधिकमुपेयमित्यत आह- असङ्गेति ।। पापाभावेति ।। ‘स यत्तत्र किञ्चित्पश्यत्य-नन्वागतस्तेन भवति’ इति पूर्ववाक्यात्, ‘यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्’ इति स्मृतेश्चेति भावः । वृत्तिर्वेति पक्षं निराह- न द्वितीय इति ।। आन्तरवृत्तेर्बाह्येन कथं सम्बन्ध इत्यत आह- करणसामर्थ्ये-नेति ।। यत्तु चित्प्रकाशाऽरोपितस्येत्यादि तत्र किं जीवचित्यारोपो ब्रह्मचिति वा । आद्य आह- जीव इति ।। तस्य सर्वदाऽहमिति भासमानत्वेन तत्राऽरोपितस्याभानायोगादिति भावः । अन्त्य आह- ब्रह्माध्यास इति ।। तस्य संसारदशायामज्ञानावृतत्वेनाधिष्ठानाप्रकाशे तत्राऽरोपितस्य प्रकाशायोगाज्जीवस्य तत्प्रकाशे सम्बन्धा-भावाच्चेति भावः । ननु जीवाध्यासपक्षे तद्दृष्ट्यैव सर्वसृष्ट्यभ्युपगमात्तद्दृष्टिदशायामेव तदुपलम्भो न सर्वदेत्यत आह- दृष्टिसृष्टीति ।। सुषुप्ताविति ।। न च सुप्तिरेव तस्य नेति युक्तम् । ‘स्वपिति’ इत्यादिसुप्तिश्रुतेरप्रामाण्यापत्ते-रिति भावः । नापि बहुजीववादिनेति ।। दृष्टिसृष्टिपक्षो न वक्तुं शक्यत इत्यनुषङ्गः । प्रत्यभिज्ञेति ।। तदेवेदमिति प्रत्यभिज्ञाया दृश्व्ेऽप्येकस्मिन्नर्थे मानान्तरसंवादस्य चानुपपत्तेरित्यर्थः । नन्वेकजीवपक्षे बहुजीवपक्षे चास्तु जीव एवाध्यासः, व्याप्तब्रह्मचैतन्ये वाऽस्तु । तथाऽपि नोक्तदोष इति शङ्कते-अथोच्येतेति ।। अन्तःकरणमिति ।। सावयवत्वात्तैजसत्वाच्च चक्षुर्गोलकान्निर्गत्य रश्मिद्वारा विषयपर्यन्तं दीर्घप्रभाऽऽकारेण विषयाकारेण च परिण-मते । यथा तटाकोदकं छिद्रान्निर्गत्य कुल्याद्वारा केदारान्प्रविश्य तद्वदेव चतुष्कोणत्वाद्याकारं भवति तथे-त्यर्थः । ततश्चेति ।। अन्तःकरणपरिणामरूपवृत्त्या घटाद्यवच्छिन्नचैतन्याऽवरकाविद्याऽभिभवे सत्यन्तःकरणा-वच्छिन्नप्रमातृचैतन्यं चक्षुराद्यवच्छिन्नप्रमाणचैतन्यं विषयावच्छिन्नप्रमेयचैतन्यम् एकीभवति- एकतया व्यक्तं भवति । तेनैकीभावं प्राप्ततयाऽभिव्यक्तचैतन्येन विषयप्रकाशाङ्गीकारेण न सर्वदोपलम्भः, प्रमात्रादिचैतन्यैकी-भावस्य सर्वदाऽभावात् । एकीभूतस्यैवोपलम्भकत्वात् । नापि सर्वेषामुपलम्भप्रसङ्गः । कुत इत्यत आह- अन्तःकरणभेदेनेति ।। बहुजीवपक्षे यदीयान्तःकरणमुक्तदिशा यदाऽविद्याभिभवार्थं भवति तदा तस्यैव तद्विषयप्रकाशो नान्यस्य नान्यदा चेत्यभ्युपगमात् । प्रतिकर्म प्रतिविषयव्यवस्थेत्यर्थः । कर्मकारकं विषयशब्दितमत्र कर्मपदार्थः । तं तं पुरुषं प्रति स स एव तदा तदा प्रकाश्यो विषय इति व्यवस्थेत्यर्थः । तेनैवेति ।। अविद्या-तिरस्कारद्वारा सर्वचैतन्यैकीभावार्थमावश्यकेनेत्येवकारार्थः । प्रतिविषयं भिन्नतयाऽङ्गीकृतेन वृत्तिसन्निकर्षेणैवेति वाऽर्थः । ननु प्रमाणशून्ययेत्ययुक्तम् । ‘तस्य भासा’ इति श्रुतिसिद्धत्वादित्यत आह- तस्येति ।। तस्य भासेत्यस्य तदधीनभासा सूर्यादिप्रकाशेनेदं जगद्भातीत्यर्थपरत्वादित्यर्थः । अनुकृतिनये ‘अपि स्मर्यते’ इति सूत्रे परभाष्ये ‘यदादित्यगतं तेजः’ इति स्मृतेरेवैतच्छ्रुत्यर्थकतयोक्त्येदम्पदस्य परमते जगत्परत्वाभावाच्चेति भावः । गौरव-मिति ।। ब्रह्मैकं सत्यं जगच्चेति सत्यद्वयाङ्गीकाररूपं गौरवमित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
समान इति ।। तथा च सत्यत्वेऽपि प्रमाणं नास्ति बाधकञ्चास्तीत्यर्थः । प्रामाणिकत्वेति ।। (श्री.टि.) विमतं सत्यं प्रमाणदृष्टत्वात् अर्थक्रियाकारित्वादित्याद्यनुमानस्येत्यर्थः । ‘सत्यत्वाङ्गीकारे न कश्चिद्दोषः’ इत्युक्तम् । कस्यापि दोषस्याभावमुपपादयितुमाह- नन्वित्यादिना ।। ननु प्रत्यक्षमिदानी विनाशाभावरूपं सत्यत्वं गृह्णात्येवेति चेत्तत्राऽह- सत्यत्वान्तरेति ।। प्रकृतेति ।। इदानीमस्माभिः प्रपञ्चस्य त्रैकालिकनिषेधप्रतियोगित्वरूपबाध्यत्वापरपर्यायमेव मिथ्यात्वं साध्यते न विनाशित्वरूपं (सत्यत्वान्तरम्) । तथा च भवद्भिर्मिथ्यात्वे बाधकतयोच्यमानं प्रत्यक्षं यद्यविनाशित्वरूपं सत्यत्वान्तरं गृह्णीयात्तदा प्रकृतं यन्निरुक्तं मिथ्यात्वं तदविरोधित्वादनुपयुक्तमित्यर्थः । ननु दृश्यत्वाद्यनुमानतत्त्वमस्याद्यागमयोरेव बाधकयोस्सत्त्वात्कथं बाधकाभाव इत्यत आह- अनुमानादेरिति ।। ‘तर्कमात्रतः प्रत्यक्षबाधने’ इत्यादिना कालात्ययापदिष्टो-च्छेदप्रसङ्गेनोपजीव्यप्रमाणविरोधेन च निरस्तत्वादित्यर्थः । मिथ्यात्वग्राहिप्रबलप्रत्यक्षमेव बाधकं भविष्यतीति चेत्तत्राऽह- प्रबलेति ।। ननूत्तरत्र बाधो भविष्यतीति भाविबाधकशङ्कैव सत्यत्वग्राहिप्रत्यक्षस्य बाधिका भविष्यतीत्यत आह- भविष्यतीति ।। नन्विदानी सत्यतया गृह्यमाणस्यापि घटादेरुत्तरत्र विनाशात्कथं विनाशाभावरूपबाधाभावसाधकत्वं प्रत्यक्षस्येत्यत आह- न हीति ।। सतः प्रत्यक्षसिद्धसत्त्ववतः । स कालत्रय-सत्तानिषेधः ।
ननु वर्तमानकाले सत्तां गृह्णतः प्रत्यक्षस्य कथं कालत्रयसत्तानिषेधरूपबाधाभावावगाहित्वम् । न हि प्रत्यक्ष-गृहीतैककालीनसत्ता अनुमानग्राह्यकालत्रयसत्ताप्रतिषेधाभावरूपा । येन साक्षाद्ग्राह्याभावावगाहित्वेन विरोधित्वं स्यात् । अतः कथमेतदिति चेदत्राऽहुः- वर्तमानकाले सत्तां गृह्णतः प्रत्यक्षस्य न त्रैकालिकसत्ताप्रतिषेधा-भावावगाहित्वेन साक्षाद्विरोधित्वम् । किं नाम त्रैकालिकसत्ताप्रतिषेधाभावव्याप्यभूतैककालीनसत्ताग्राहकतया तदभावव्याप्यावगाहित्वेनैव । यत्रैककालीनसत्ता तत्र त्रैकालिकसत्ताप्रतिषेधाभाव इति व्याप्तेरिति । तन्न । तथात्वे वह्निरनुष्ण इत्यादिस्थले प्रतियोगिभूतोष्णत्वग्राहिप्रत्यक्षस्य साक्षाद्ग्राह्याभावावगाहित्वेन विरोधित्वं सर्वसम्मतं तदपि न स्यात् । तत्राप्यनुमानेन त्रैकालिकौष्ण्याभावः साध्यते स्पार्शनप्रत्यक्षेण तु वर्तमानकालीन-मेवौष्ण्यं गृह्यते । तथा च त्रैकालिकानौष्ण्याभावव्याप्यभूतैककालीनौष्ण्यग्राहकत्वेनैव स्पार्शनप्रत्यक्षस्य विरोधित्वं न साक्षादिति वक्तुं शक्यत्वात् । वस्तुतस्तु साक्षद्ग्राह्याभावावगाहित्वेनैव विरोधित्वम् । न च प्रत्यक्षगृहीतैक-कालीनसत्तायाः त्रैकालिकसत्ताप्रतिषेधाभावरूपत्वाभावात् कथमेतदिति वाच्यम् । स्यादिदं यदि सार्वदैशिकी सार्वकालिकी या सत्ता तत्प्रतिषेधो बाध इत्येवं देशकालयोरपि निषेध्यकोटौ प्रवेशः स्यात्, न चैवम्, किन्तु सर्वस्मिन्देशे सर्वस्मिन्काले च या सत्ता तत्प्रतिषेध इत्येवमधिकरणकोटावेव । तथा च सत्ताप्रतिषेधमात्रस्यैव बाधत्वेन प्रत्यक्षेण च सत्तामात्रस्यैव गृहीतत्वेन साक्षात्सत्ताप्रतिषेधाभावावगाहित्वेनैव विरोधित्वम् । एतदेवाभि-प्रेत्योक्तं ‘तच्चेन्नोत्तरगोचरम्’ इत्यनुव्याख्यानावतारिकावसरे भक्तिपादीयसुधायां ‘घटादिसत्ताप्रतिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यंभावात्’ इति । निपुणतरमेतदुपपादितमस्मदाचार्यैस्तट्टिप्पण्यां तत्रैवानुसन्धेयम् । किन्तु कालत्रयसत्ताप्रतिषेध इति वाक्यमपि कालत्रये या सत्ता तत्प्रतिषेध इति व्याख्येयम् ।
(श्री.टि.) ‘स्वकाले ह्मस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् ।
प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम् ।।’
इति न्यायामृतकारिकाश्लोकस्याप्येवमेवाभिप्रायो वर्णनीयः ।
प्रामाणिकत्वानुमानं बाधकपरिहारेण समर्थयितुमाशङ्कते- प्रामाणिकत्वातिरिक्तमिति ।। प्रामाणिकत्वा-तिरिक्तेति ।। अर्थक्रियाकारित्वरूपेत्यर्थः । अन्यथेति ।। प्रामाणिकत्वातिरिक्तसत्यत्वाभाव इत्यर्थः । प्रमाण-प्रवृत्तीति ।। प्रपञ्चे प्रमाणं प्रवर्तते शशविषाणे तु न प्रवर्तते तत्कुत इति पृश्व्े प्रमाणप्रवृत्तियोग्यताऽऽपादकं सत्त्वं प्रपञ्चेऽस्ति शशविषाणे तु नास्तीति वक्तव्यम् । अन्यथा प्रपञ्चस्य शशविषाणाद्यविशेषापत्त्या प्रमाणप्रवृत्ते-रेवायोगात् । अतः प्रमाणप्रवृत्तियोग्यताऽवच्छेदकत्वेन प्रामाणिकत्वातिरिक्तं सत्यत्वमङ्गीकार्यमिति भावः । प्रामाणिकत्वाभावादिति ।। अवेद्यत्वेन प्रमाणजन्यज्ञानविषयत्वाभावादित्यर्थः । केवलव्यतिरेकित्वोपपत्ते-रिति ।। तत्र च शुक्तिरजतादिकं दृष्टान्त इति द्रष्टव्यम् । ननु तर्हि व्यतिरेकेऽसाधारण्यं स्यात् । तथा हि । यत्र सत्यत्वाभावस्तत्र प्रामाणिकत्वाभाव इति व्यतिरेकव्याप्तौ प्रामाणिकत्वाभावरूपसाध्यवत्त्वेन सपक्षभूते ब्रह्मणि सत्यत्वाभावरूपहेतोरवर्तमानत्वादित्यत उक्तम्- असाधारण्यस्य दूषणत्वाभावपक्ष इति ।। नित्यव्यावृत्त-गन्धवत्त्वाद्भूः किमनित्या उत अनित्यव्यावृत्तगन्धवत्त्वाद्भूः किं नित्या वेतिवत् सत्यव्यावृत्तप्रामाणिकत्व-वत्त्वाद्विमतं किं मिथ्या उत मिथ्याभूतरजतादिव्यावृत्तप्रामाणिकत्ववत्त्वाद् विमतं किं सत्यं वेति सांशयिकत्वेन साध्यनिश्चये प्रतिबन्धकतयाऽसाधारण्यस्य दूषणत्वं वक्तव्यम् । तत्र यद्येककोटौ विशेषदर्शनाद्यनुकूलतर्काव-तारस्तर्ह्यनुमितिर्भवत्येवेति नासाधारण्यस्य दोषत्वम् । एवं च प्रकृते सत्यत्वाभावे शशविषाणाद्यविशेषाऽपत्त्या प्रमाणप्रवृत्त्ययोगेन प्रमाणप्रवृत्तियोग्यतावच्छेकत्वेन सत्यत्वस्यैव सिद्धिरित्यनुकूलतर्करूपविशेषदर्शनसद्भावेन सत्यत्वकोटेरेव सिद्ध्या सन्देहानुपपत्तौ सत्यत्वानुमितेरेवोत्पत्त्याऽसाधारण्यस्यादोषत्वेन केवलव्यतिरेकित्वोप-पत्तेरित्यर्थः । यथोक्तं मणौ सुवर्णतैजसवादे- ‘संशयः सत्प्रतिपक्षो वाऽसाधारण्यस्य दूषकतायां द्वारम् । तच्चेह विशेषदर्शनादसम्भवीत्यसाधारण्यं न दोषाय’ इति । साधनवैकल्यमङ्गीकृत्य केवलव्यतिरेकित्वोपपरित्युक्तम् । वस्तुतस्तु तदेव नास्तीत्याह- ब्रह्मणश्चेति ।। नेतीति ।। शशविषाणवदसत्त्वप्रसङ्गो नेति भावः । स्वस्मिन् स्वविषये । कारकता ज्ञानरूपक्रियाजनकता । परेणेति ।। निर्विशेषवादिना परेण कर्तृत्वकर्मत्वयोरेकत्र विरोधेनानङ्गीकारादिति भावः । एवं सिद्धिः स्यादिति ।। स्वेनैव सिद्धिः स्यादित्यर्थः । प्रमाणाभावे सत्यत्वं न स्यादित्यस्येति ।। ब्रह्मणोऽप्रामाणिकत्वे शशविषाणवदसत्यत्वापत्त्या सत्यत्वसिद्धिर्न स्यादिति प्रसङ्गस्ये-त्यर्थः । सिद्ध्यति सत्यत्वमिति शेषः । कुतोऽनुत्तरत्वमित्यत आह- सिद्ध्युपायान्तरस्येति ।। प्रामाणिकत्वा-भावेऽपि प्रकारान्तरेण तत्सिद्धिर्भविष्यतीत्येवं तत्सिद्धावुपायान्तरमेवोत्तरत्वेनोपन्यसनीयं न तु प्रमाणेन विना सिद्धिरित्यर्थः । प्रकारद्वयेति ।। स्वेनैव प्रकाशः, प्रमाणेन विना प्रकाश इति प्रकारद्वयेत्यर्थः । नन्वथापि विमतं सत्यं प्रामाणिकत्वादित्यत्र तत्त्वावेदकप्रमाणदृष्टत्वं हेतुतया विवक्षितमतत्त्वावेदकप्रमाणदृष्टत्वं वा । (श्री.टि.) नाऽद्य इत्याह- तत्त्वावेदकेति ।। परस्य मायावादिनः प्रपञ्चावेदकप्रत्यक्षादिप्रमाणानां तत्त्वावेदक-त्वानङ्गीकारादित्यर्थः । नापि द्वितीय इत्याह- अतत्त्वाऽवेदकेति ।। व्यभिचारीति ।। अ(तत्त्वे)सत्ये शुक्तिरजतादावित्यर्थः । असिद्धिरेवेति ।। प्रपञ्चे प्रमाणदृष्टत्वाभावादिति भावः । उक्तत्वादिति ।। अनुमानादेः प्रत्यक्षबाधकत्वाभावादित्यर्थः । अन्यथेति ।। बाधकाभावेऽप्यप्रामाण्योक्तावित्यर्थः ।
एतेनेति ।। तत्त्वमस्यादिवाक्यानुमानरूपबाधकाभावेनेत्यर्थः । भेदपरम्परयेति ।। भेदः किं भेदिभ्यां भिन्नो वाऽभिन्नो वेत्यादिपरम्परयेत्यर्थः । अपसिद्धान्त इति ।। मिथ्यासत्ययोरभेदानङ्गीकारादिति भावः । उक्तत्वादिति ।। ‘पदार्थस्वरूपत्वाद्भेदस्य’ इत्यादिनेत्यर्थः । ‘जगतो भिन्नमभिन्नं वेत्यादिविकल्पस्तत्रापि युज्यते’ इति तत्त्वोद्योतवाक्यं मनसि निधायाऽह- किञ्चैवमिति ।। भिन्नत्वे भेदपरम्परयाऽनवस्था, अभिन्नत्वेऽप-सिद्धान्तः, भिन्नाभिन्नत्वे व्याघात, उभयविलक्षणं चेद्ब्रह्मण एवानिर्वचनीयत्वमापतितमित्यर्थः । उक्तदोषान् ब्रह्म प्रपञ्चाद्भिन्नमभिन्नं वेत्यादिविकल्पदोषान् । दोषान् प्रपञ्चो ब्रह्मणो भिन्नोऽभिन्नो वेत्यादिविकल्पदोषान् । जडत्वादिति ।। अप्रकाशस्वरूपत्वादित्यर्थः । प्रकाशान्तरेणेति ।। वृत्तिरूपज्ञानाख्येनेत्यर्थः । चित्प्रका-शेति ।। अधिष्ठानचैतन्यरूपप्रकाशेत्यर्थः । अधिष्ठानेत्यादि ।। आध्यासिकसम्बन्धेनेत्यर्थः । प्रकाशः प्रकाश-रूपः । अनभ्युपगमादिति ।। जडस्य प्रपञ्चस्य प्रकाशरूपत्वप्रकाशाश्रयत्वयोरनभ्युपगमादित्यर्थः । चैतन्यम् अधिष्ठानचैतन्यम् । बाधकाभावादिति ।। सत्यत्वे कथं प्रकाशेतेत्यस्य कथं चैतन्यरूपप्रकाशविषयः स्यात् । चैतन्यरूपप्रकाशविषयो न स्यादिति यावदिति ह्यर्थः । तथा च सत्यस्यापि चैतन्यरूपप्रकाशाविषयत्वे बाधकाभावेन तर्कस्येष्टापत्तिरिति भावः । ननु चैतन्याविषयत्वे घटादिव्यवहार एव न स्यात् । व्यवहारस्य व्यवहर्तव्यज्ञान-साध्यत्वादित्येवं व्यवहारान्यथाऽनुपपत्तिरेव बाधिका । ततश्च तदन्यथाऽनुपपत्त्या चित्प्रकाशविषयत्वमङ्गी-कार्यमिति नेष्टापत्तिरित्यतोऽन्यथैवोपपत्तिमाह- वृत्तीति ।। वृत्तिरूपज्ञानविषयत्वेनैवेत्यर्थः । ननु चक्षुरादि-जन्यवृत्त्यविषये सुखादौ कथं व्यवहारः स्यादित्यत आह- चैतन्यस्यापीति ।। साक्षिरूपचैतन्यस्यापीत्यर्थः । विषयित्वं सुखादिविषयकत्वम् । तथा च सुखादेः साक्षिविषयत्वेन व्यवहारः सम्भवतीति भावः । ननु ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्या साक्षिचैतन्यस्यासङ्गत्वावगमात्कथं तस्य चैतन्यस्य सुखादिविषयसम्बन्ध इत्यत आह-असङ्गश्रुतिस्त्विति ।। असङ्गत्वश्रुतिस्त्वित्यर्थः । सत्यत्वे वृत्तिरूपप्रकाशविषयः कथं स्यादिति द्वितीय-पक्षोऽप्ययुक्त इत्याह- द्वितीय इति ।। करणसामर्थ्येनेति ।। घटसन्निकृष्टकरणजन्यत्वेनैव वृत्तेर्घटविषयक-त्वोपपत्तेरित्यर्थः । असत्यत्वे तु चित्प्रकाशारोपितस्येत्यादिनोक्तमाध्यासिकसम्बन्धेन प्रकाशं दूषयति- अध्य-स्तत्वेनेति ।। जीवेऽध्यासपक्ष इति ।। जीवचैतन्यमविद्योपाधिकं सत्सर्वगतम्, अन्तःकरणोपाधिकं तु परिच्छिन्नमित्यङ्गीकृतत्वेनाविद्योपाधिकसर्वगतजीवचैतन्येऽध्यासपक्षे जीवचैतन्यस्यैकत्वात् स्वस्मिन्नध्यस्तः प्रपञ्चः स्वस्य सर्वदा प्रकाशेतेत्यर्थः । न कदाचिदिति ।। अधिष्ठानभूतब्रह्मण इन्द्रियजन्यज्ञानाविषयत्वेन तदध्यस्तस्य प्रपञ्चस्य न कदाचिदपि प्रकाशः स्यादित्यर्थः । सर्वदेति ।। उक्तरीत्या यस्मिन्जीवचैतन्येऽध्यस्तः (श्री.टि.) प्रपञ्चस्तस्य जीवस्य सर्वदा प्रकाशेतेत्यर्थः । सर्वेषामिति ।। घटाधिष्ठानभूतजीवचैतन्यस्य सर्व-साधारणत्वेन तत्राऽरोपितः प्रपञ्चः सर्वेषां प्रकाशेतेत्यर्थः । इदं च दूषणं नैकजीववादिनो मते सम्भवति । कल्पक-जीवव्यतिरिक्तजीवानामभावादिति ज्ञातव्यम् । ब्रह्माधिष्ठानत्वे त्विति ।। तस्येन्द्रियजन्यज्ञानाविषयत्वेन तत्राऽरोपितः प्रपञ्चः कस्यापि कदाऽपि न प्रकाशेतेत्यर्थः । ननु प्रपञ्चस्य जीव एवाध्यासः । न च सर्वदा सर्वेषामुपलब्धिप्रसङ्गः । दृष्टिसृष्ट्यङ्गीकारेण यदा यस्य दृष्ट्या यज्जन्यते तदा तेनैव तद्गृह्यत इति व्यवस्थोपपत्ते-रित्यत आह- दृष्टिसृष्टिपक्षस्त्विति ।। कुतो न शक्य इत्यत आह- कल्पकैकेति ।। सुप्त्यादावित्यादिपदेन मूर्च्छा ग्राह्या । प्रपञ्चाभावप्रसङ्गादिति ।। दृष्टिरूपकारणाभावेनोद्बोधकस्यासम्भवे सर्वदा सुप्तिप्रसङ्गेन कल्पक-जीवसुप्त्यनन्तरं प्रपञ्चाभावप्रसङ्गादित्यर्थः । नापि बहुजीववादिना दृष्टिसृष्टिपक्षो वक्तुं शक्य इत्यन्वयः । कुत इत्यत आह- प्रत्यभिज्ञासंवादयोरिति ।। दृष्टिसृष्टिपक्षे यावद्दृष्टिस्तत्पर्यन्तमेव घटादेः सत्त्वेन दृष्टिनाशे तस्य नष्टत्वात्कालान्तरे स एवायं घट इति प्रत्यभिज्ञा भवति । सा न स्यात् । तद्दृष्टिसृष्टस्य घटस्य तन्मात्रविषयत्वेन तद्विषयकज्ञानरूपः कथमपरस्य संवादश्च स्यादित्यर्थः । प्रपञ्चस्य जीवेऽध्यासपक्षे ब्रह्मण्यध्यासपक्षे च नानुपपत्तिः। न च सर्वदा सर्वेषां प्रकाशः कदाऽप्यप्रकाशो वा स्यादिति वाच्यम् । यस्यान्तःकरणवृत्तिर्यदा चक्षुरादिद्वारा प्रमातृचैतन्योपरूढा सती बहिर्निर्गत्य घटादिविषयाधिष्ठानचैतन्यगताविद्यां तिरस्करोति, अनन्तरं वृत्त्युपारूढं प्रमातृचैतन्यमधिष्ठानचैतन्येनेकीकरोति तदैव तस्यैव घटप्रकाशो भवति । अतो न सर्वदा सर्वेषां प्रकाशः । वृत्तेरेवातिप्रसङ्गभञ्जकत्वादित्याशङ्कते- अथोच्येतेति ।। अन्तःकरणं प्रमातृचैतन्याधिष्ठितमिति पूरणीयम् । अन्यथाऽविद्यानाशकत्वानुपपत्तेः । ‘सर्वं चैतन्यमेकीभवति’ इत्युत्तरग्रन्थास्वारस्याच्च । तथा हि- केवलाया वृत्तेरविद्यानाशकत्वाभावात् केवलचैतन्यस्य चाज्ञानस्फोरकत्वेनाज्ञाननाशकत्वाभावाद् वृत्त्युपारूढचैतन्य-स्यैवाज्ञाननाशकत्वं वाच्यम् । सूर्यकान्तोपारूढायास्सूर्यदीप्तेः तृणादिदाहकत्ववत् । यथोक्तं परेण ।
‘तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिस्तृणं दहेत् ।
सूर्यकान्तमुपारुह्य तं न्यायं चिति योजयेत् ।।’ इति ।
विषयगतामिति ।। विषयावच्छिन्नचैतन्यगतामित्यर्थः । जडस्याप्रकाशस्वरूपत्वेन प्रकाशप्रसक्तेरेवाभावेन प्राप्तप्रकाशप्रतिबन्धरूपावरणकृत्याभावान्न जडावरकाज्ञानमस्ति । यथोक्तमनुव्याख्याने-
अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।’ इति ।
अतस्तदवच्छिन्नचैतन्य एवाज्ञानमिति तन्मतस्थितेरित्यर्थः । सर्वं चैतन्यमिति ।। वृत्त्युपारूढं ज्ञातृचैतन्यं घटादिविषयाधिष्ठानचैतन्यं चैकीभवतीत्यर्थः । अन्तःकरणभेदेन अन्तःकरणवृत्तिभेदेन । प्रतिकर्मव्यव-स्थेति ।। अस्य ज्ञानस्यायमेव विषयो नान्य इति प्रतिज्ञानविषयव्यवस्थेत्यर्थः । यथोक्तं परैः-
‘स्वच्छेऽन्तःकरणेऽशनिप्रसृमरे नेत्रादिमार्गोद्गते
तत्तद्बाह्यचयात्मना परिणते बिम्बीभवन्ती चितिः ।
(श्री.टि.)एकाऽप्यर्थमनोविशेषकवशाद्द्वैतं प्रपन्ना हर-
त्यज्ञानं प्रकटीकरोति विषयान् ज्ञातं ममेदं त्विति ।।’ इति ।
अशनिप्रसृमरे विद्युत्समाने । नेत्रादिद्वारेण बहिरुद्गते तत्तद्घटादिबाह्यवस्तुसमुदायात्मना परिणतेऽ-शनिसमानत्वादेव तैजसत्वात्स्वच्छे अन्तःकरणे अन्तःकरणवृत्तौ बिम्बीभवन्ती चितिः प्रमातृचैतन्यमिति यावत् । स्वयमधिष्ठानचैतन्येनैकाऽप्यर्थमनोवृत्तिलक्षणव्यावर्तकवशाद् विषयाधिष्ठानचैतन्यं मनोवृत्त्युपारूढं चैतन्यमिति द्वैतं भेदं प्रपन्ना सती विषयाधिष्ठानचैतन्यगतमज्ञानं हरति । पश्चादधिष्ठानचेतन्येनैकीभूता सती मयेदं ज्ञातमिति विषयान् प्रकाशयतीति श्लोकार्थः । अन्यत्रापि वृत्तिस्वरूपमुक्तम्- ‘यथा तटाकोदकं कुल्यात्मना बहिर्निर्गत्य केदारान् प्रविश्य तद्वदेव चतुष्कोणत्वाद्याकारेण परिणमते तद्वत्सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयं व्याप्य तदाकारं भवति । सेयं वृत्तिः’ इति । तेनैव दृश्यत्वोपपत्ताविति ।। सर्वदोपलब्ध्याद्यतिप्रसङ्गवारणाय आवरणभूताज्ञाननिवृत्तिद्वारा चैतन्याभिव्यक्त्यर्थमावश्यकेनान्तःकरणवृत्ति-सन्निकर्षेणैव तज्जन्यज्ञानेनैवेति यावत्, प्रपञ्चस्य सत्यत्वेऽपि दृश्यत्वोपपत्तावित्यर्थः । ननु ‘तस्य भासा’ इत्यादिश्रुतस्याधिष्ठानचैतन्यस्य भासा प्रकाशेनेदं सर्वं घटादिजगद् भाति इति श्रुत्या चित्प्रकाशारोपिततया जगत्प्रकाशोक्तेश्चैतन्येऽध्यस्तत्वसिद्धिरिति चेत्तत्राऽह-तस्य भासेति ।। अन्यविषयत्वादिति ।। तस्य हरेर्भासा सर्वमिदं सूर्यादिकं विभाति प्रकाशते । तथा तदधीनसूर्यादिभासा सर्वमिदं जगद्विभाति प्रकाशत इत्येवं भगवतः सूर्यादिप्रकाशकत्वादेरेव तदर्थत्वादिति भावः । अतीतादिषु चेति ।। तत्र चक्षुरादेः करणस्य विषयसन्नि-कर्षाभावेनान्तःकरणवृत्तेस्तत्रायोगेन तदज्ञाननिवृत्त्यनुपपत्तावधिष्ठानचैतन्यप्रकाशेन तत्प्रकाशानुपपत्त्या तज्ज्ञानं न स्यात् । तत्राप्युक्तविधवृत्त्याऽधिष्ठानचित्प्रकाशेन प्रकाशाङ्गीकारेऽपरोक्षचित्सम्बन्धेनातीतानामप्यापरोक्ष्यं स्यादिति भावः ।
ननु तथाऽपि न जगतस्सत्यत्वं युक्तम् । तथा हि । यदि जगत्सत्यं स्यात्तर्हि ब्रह्म जगच्चेति सत्यवस्तुद्वयाङ्गी-कारापत्त्या गौरवं स्यादिति बाधकतर्कसद्भावादित्याशङ्कते- गौरवमिति ।। लघीयानिति ।। ब्रह्म सत्यं जगन्मिथ्येति द्वैरूप्याङ्गीकारे गौरवापत्त्या शून्यवादिरीत्या आत्मनोऽपि मिथ्यात्वाङ्गीकारेऽतिलाघवमित्यर्थः। प्रामाणिकत्वात् ‘तत्सत्यं स आत्मा’ इत्यादिप्रमाणसिद्धत्वादित्यर्थः । आत्मसत्यत्वम् आत्मसत्यत्वाङ्गी-कारः । सममिति ।। विश्वं सत्यमित्यादिप्रमाणेन विश्वसत्यत्वस्यापि प्रामाणिकत्वात्तदङ्गीकारेऽपि न गौरवं दोषावहमिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
समान इति ।। अतः परं प्रति तदुद्भावनमनुचितम् । ‘यत्रोभयोः समो दोषः’ इति न्यायादिति भावः । प्रामाणिकत्वाद्यनुमानस्येति ।। आदिपदेन विमतं सत्यमर्थक्रियाकारित्वादित्यन्यत्र सत्यत्वसाधक-तयोक्तार्थक्रियाकारित्वरूपहेत्वन्तरपरिग्रहः । यद्यपि ‘विमतं सत्यं प्रमाणदृष्टत्वात्’ इति भगवत्पादोक्त्यनुसारेण प्रमाणदृष्टत्वाद्यनुमानस्येत्येव वक्तुमुचितम् । तथापि ‘प्रमाणदृष्टत्वपदेन प्रामाणिकत्वमात्रस्य विवक्षितत्वात्’ (पां.टि.) इति तद्वाक्यतात्पर्यविवरणरूपस्वोक्त्यनुरोधेन प्रामाणिकत्वाद्यनुमानस्येत्येवोक्तमिति मन्तव्यम् । यत्तु विमतं सत्यमनिषिद्धत्वेन साक्षात्प्रमाविषयत्वादित्यनुमानस्येत्यर्थः । तेन व्यवसायद्वारा निषेध्यतया च प्रमाणविषये शुक्तिरूप्यादौ न व्यभिचार इत्येतद्ग्रन्थार्थकथनं तत्तु एतद्वाक्यविवरणरूपमिथ्यात्वखण्डनीयस्पष्ट-टीकाकारोक्त्यनुसारेणैवास्मदुक्तरीत्या व्याख्येयत्वेन तथाऽव्याख्यायानुमानबाधाय न्यायामृतोदाहृता-नुमानविशेषपरत्वाश्रयणेन व्याख्यानस्यैतद्विवरणरूपटीकाकारीयग्रन्थादर्शनन्यायामृतग्रन्थदर्शनमात्र-मूलकत्वेनायुक्तत्वादुपेक्ष्यम् । वर्तमानमात्रग्राहकमिति ।।
‘सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना’
इत्यभियुक्तोक्तेरिति भावः । सत्यत्वान्तरेति ।। वर्तमानकालीनबाधाभावग्रहणं त्वित्यर्थः । प्रकृतानुपयुक्त-मिति ।। भिन्नविषययोरविरोधित्वेन तस्य विरोधित्वाभावादिति भावः । बाधकाभावादिति ।। तद्धि भवद् विमतं जीवजडात्मकं सर्वमेकजीवाज्ञानकल्पितं दृश्यत्वादित्यनुमानमभिमतम्, ‘प्रपञ्चो यदि’ इत्यागमो वा, सत्यत्वग्राहकप्रत्यक्षापेक्षया प्रबलप्रत्यक्षं वा, बाधकं भविष्यतीति भाविबाधकशङ्कामात्रं वेति विकल्पं मनसि निधायाऽद्यपक्षद्वयं दूषयति- अनुमानादेरिति ।। तृतीयं दूषयति- प्रबलेति ।। अयोग्यस्य बुद्ध्यनारूढतया बाधकत्वेन वक्तुमशक्यत्वाद्योग्यस्य चानुपलब्धिबाधितत्वादिति भावः । चतुर्थं प्रत्याह- अनुचितत्वा-दिति ।। तादृशशङ्कायाः सर्वत्र सुलभत्वेनातिप्रसङ्गादिति भावः । बाधाभावमेवेति ।। ‘नेह नाना’ इत्यादेरागम-स्यापि वर्तमानकालीनबाधग्राहकत्वेन वर्तमानकालीनबाधाभावग्राहकप्रत्यक्षेण समानविषयतया तद्विरुद्धतया बाधसम्भवादिति भावः । ‘नेह नाना’ इत्यादेरागामिबाधबोधकत्वमङ्गीकृत्यापि प्रत्यक्षविरुद्धतामुपपादयति- न हीति ।। न ह्येकस्मिन् काले सतः स सम्भवतीति ।। किन्तु तेन विरुध्यत एवेत्यर्थः । प्रतिपन्नोपाधौ वर्तमानकालीनसत्त्वग्राहिणा प्रत्यक्षेण तत्र त्रैकालिकसत्त्वात्यन्ताभावग्राहकमागमादिकं विरुध्यत एव । वर्तमान-सत्त्वस्य स्वात्यन्ताभावाभावरूपत्वेन तद्ग्राहकस्य प्रत्यक्षस्य आगमादिग्राह्याभावावगाहित्वात् । असत्त्वस्य सत्तासामान्यनिषेधरूपत्वेन तद्विशेषाणामेव तदभावरूपत्वाद्विशेषग्राहकप्रत्यक्षस्य ग्राह्याभावग्राहकत्वा-वश्यम्भावादित्यर्थः ।
अयमाशयः । असत्त्वप्रतिषेधो ह्यसत्त्वप्रतियोगिभूततत्तत्सत्त्वरूप एव । सामान्याभावस्य यत्किञ्चित्प्रतियोगि-सत्त्वविरोधित्वेन तत्तद्विशेषाणामेव सामान्याभावं प्रति प्रतियोगितया विरोधित्वम् अवश्यं वाच्यम् । प्रतियोगित्वं च स्वाभावविरहात्मकत्वमेवेति कथं न तद्विशेषाणामेव सामान्याभावाभावत्वम् । तस्य च रूपद्वयं सामान्याभावाभावत्वम् । तत्तद्विशेषत्वं च । तत्र प्रकृते प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेन कालत्रयवर्ति-सत्त्वनिषेधरूपासत्त्वाभावत्वेन तदभावविषयत्वासम्भवेऽपि वर्तमानकालीनबाधाभावत्वेन रूपेण तद्ग्राहकत्व-मुपपन्नमेवेति तद्बोधो दुष्परिहर इति सूरयो विदाङ्कुर्वन्तु । स्वरीत्येति ।। त्वद्रीत्येत्यर्थः । प्रामाणिकत्वाति-रिक्तसत्त्वाभ्युपगमे प्रपञ्चस्य नियामकमाह- अन्यथेति ।। तथा सति शशविषाणेऽपि प्रमाणप्रवृत्तिप्रसङ्गादिति (पां.टि.) भावः । असाधारणस्य दूषणत्वाभावे केवलव्यतिरेकित्वोपपत्तेरिति ।। अनुकूलतर्कावतार-दशायामसाधारण्यस्य दूषणत्वाभावादिति भावः । नन्वनुकूलतर्कावतारे व्यतिरेकिणीवान्वयिन्यप्यसाधारण्यस्य दूषणत्वाभावात्तदनवतारे चान्वयिनीव व्यतिरेकिण्यपि तस्य दोषत्वाद् व्यतिरेकित्वोपपत्तेरिति अयुक्तम् । असत्सपक्षत्वस्य केवलव्यतिरेकिलक्षणत्वात् सपक्षसत्त्वे व्यतिरेकित्वानुपपत्तेश्चेति चेन्न । भावानवबोधात् । अनुकूलतर्केण व्यतिरेकव्याप्तौ निश्चितायां तददोषत्वस्याभिप्रेतत्वात् । न चान्वयिन्यपि साम्याद्व्यतिरेकिण एव विशेषग्रहणानुपपत्तिरिति वाच्यम् । व्यतिरेकव्याप्तौ निश्चितायामपि पक्षे साध्यसिद्धेरजातत्वेन तदर्थं परार्थानुमानस्य प्रवृत्तिसम्भवेन तत्रादोषत्वम् । अन्वयिनि च शब्दोऽभिधेयः शब्दत्वादित्यादावनुकूलतर्केणान्वयव्याप्तिनिश्चये पक्ष एव तन्निश्चयस्य वाच्यत्वेन पक्षे व्याप्तिनिश्चये तत्र साध्यस्य सिद्धत्वेन तदर्थानुमानस्य सिद्धसाधनत्वेन व्यर्थत्वापत्त्याऽसाधारण्यस्यैव तादृशदोषसम्पादकत्वेन दोषत्वमित्यभिप्रेतत्वात् । व्यतिरेकव्याप्तिग्रहणमात्रेणैव व्यतिरेकित्वोक्त्याऽसत्सपक्षत्वस्य तत्त्वेनानभिप्रेतत्वान्नान्त्यो दोष इत्यङ्गीकृत्यैव च ब्रह्मणोऽप्रामाणिकत्वमयं परिहार उक्तः । वस्तुतस्तु अप्रामाणिकत्वमेव तस्य नेति न साधनवैकल्यशङ्काऽपीतिभावेनाप्रामाणिकत्वे दोषमाह- ब्रह्मणश्चेति ।। उभयोरप्यप्रामाणिकत्वाविशेषादिति भावः । स्वतः सिद्धत्वसिद्धत्वाभावाभ्यां विशेषान्ना-विशेषव्याप्तिरिति शङ्कते- स्वतः सिद्धत्वादिति ।। अभ्युपगमे त्वाह- शशविषाणस्यापीति ।। ब्रह्मण इव शशविषाणस्यापि स्वेनैव सिद्धेर्वक्तुं शक्यत्वादिति भावः । असिद्धमिति ।। तद्ग्राहकप्रमाणानां तत्त्वावेदकत्वस्य परेणानङ्गीकृतत्वादिति भावः । व्यभिचारीति ।। असत्यस्य शुक्तिरजरादेरपि अतत्त्वादेकप्रमाणगम्यत्वादिति भावः । विकल्पप्रश्नेनेदं दूषणमुक्तम् । तत्र स्वव्याहतत्वाद्विकल्पप्रश्न एव नोपपद्यते, दूरे दूषणाभिधानमित्याशयेन व्याहतिमुपपादयति- अतत्त्वावेदकं चेति ।। प्रत्यक्षादीनामप्रामाण्यं वदन् प्रष्टव्यः किं बाधकबलात् तदभ्युपगमः, किं वा तेन विनैवेति विकल्पं मनसि निधाय आद्यं दूषयति- बाधकेति ।। उक्तत्वादिति ।। अनुमानागम-योर्निरस्तत्वाद्बलवत्प्रत्यक्षस्य चाभावाद्बाधकं भविष्यतीति शङ्कामात्रस्य निर्मूलत्वेनाबाधकत्वादिति पूर्वग्रन्थे-नोक्तत्वादित्यर्थः । द्वितीयं दूषयति- अन्यथेति ।। अविशेषादिति भावः । एतेनेति ।। प्रत्यक्षानुमानयोः प्रामाण्योपपादनेनेत्यर्थः ।
ननु माऽस्त्वेकजीववादिपक्षोक्तः प्रमाणाभावः सत्यत्वपक्षे दोषः । बाधकसद्भावस्तु स्यादेवेति शङ्कते- नन्विति ।। प्रपञ्चे बाधकं भवत् भिन्नत्वादिना तस्य निरूपणानुपपत्तिरूपं वाऽभिमतम्, प्रकाशानुपपत्तिरूपं वा, गौरवं वेति विकल्पान्मनसि निधायाऽद्यमुत्थापयति- तथा हीति ।। भेदस्य वस्तुस्वरूपत्वेनानवस्थाऽ-भावस्य प्रागेवोपपादितत्वेन प्रपञ्चस्य ब्रह्मणः सकाशाद्भिन्नत्वेनैव निरूपयितुं शक्यत्वेन नोक्तविकल्पानुप-पत्तिर्बाधिकेति भावेन प्रथमपक्षमङ्गीकृत्य समाधत्ते- भेदस्येति ।। अङ्गीकृत्यैव च विकल्पानुपपत्तेर्दोषत्वमिदमाद्य-पक्षमभ्युपेत्य समाधानमुक्तम् । वस्तुतस्तु जगतीव बह्मण्यप्युक्तविकल्पानुपपत्तेस्समत्वाज्जगति तस्यादोषत्वेऽ-विशेषेण ब्रह्मण्यपि तस्यादोषत्वप्रसङ्गाद् ब्रह्मणोऽपि सत्त्वं न स्यादित्यतोऽदोषत्वमेवेत्यभिप्रेत्य ब्रह्मणि तत्प्रवृत्तिं (पां.टि.) दर्शयति- किञ्चेति ।। ननु जगति विकल्पानुपपत्तेर्दोषत्वे ब्रह्मण्यपि तस्य दोषत्वमिति दृष्टान्ताभावान्न विशेषव्याप्तिः । नाप्यविशेषरूपा । ब्रह्मणि तदाभासत्वव्युत्पादकश्रुतिसद्भावेन तदसिद्धेरित्याशयेन शङ्कते-तत्सत्यमितीति ।। प्रपञ्चेति ।। ततश्च तदाभासत्वव्युत्पादकप्रमाणस्योभयत्र सत्त्वादविशेषोऽवर्जनीय एवेति भावः । द्वितीयं पक्षमुत्थापयति- ननु चेति ।। सत्यत्व इव तन्मिथ्यात्वेऽपि प्रकाशानुपपत्तेस्तुल्यत्वान्न तस्याः सत्यत्वपक्षे बाधकत्वमित्यतस्तस्य मिथ्यात्वपक्षे उपपत्तिं दर्शयति- अध्यस्तत्वे त्विति ।। विकल्पासहत्वान्न प्रकाशानुपपत्तिरपि सत्यत्वबाधिकेति भावेन सम्भवितान् पक्षान् विकल्पयति- उच्यत इत्यादिना ।। ननु व्यवहारानुपपत्तेरेव बाधकत्वात्कथं चैतन्याविषयत्वे बाधकाभाव इत्यतः परोक्षवृत्तिविषयत्वेनैव चैतन्याविषय-स्यापि व्यवहारविषयतादर्शनान्न तदनुपपत्तिस्तत्र बाधिकेत्याह- वृत्तिविषयत्वेनैवेति ।। नन्वेवं वृत्त्यविषयसुखादौ कथं व्यवहारः स्यादित्यतः चैतन्यविषयत्वमभ्युपगम्यैव तमुपपादयति- चैतन्यस्यापीति ।। नन्वसङ्गश्रुत्या चैतन्यस्य विषयसम्बन्धाभावसिद्धेः कथं तस्य स्वाभाविकं विषयत्वमित्यत आह- असङ्गेति ।। न तु सम्बन्धा-भाववादिनी ‘यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्’ इत्यादितथाविधदृष्टान्तोपादानादिति भावः । करणसामर्थ्येनेति ।। घटसन्निकृष्टकरणजन्यत्वेन घटवृत्तेस्तद्विषयकत्वमिति भावः । प्रपञ्चस्याध्यासं वदन् प्रष्टव्यः किं जीवे किं वा ब्रह्मणीति विकल्प्याऽद्यं दूषयति- जीव इति ।। सर्वदेति ।। तस्यानावृतत्वादिति भावः । द्वितीयं दूषयति- ब्रह्मणीति ।। तस्याऽवृतत्वादिति भावः । ननु जीव एव प्रपञ्चस्याध्यासः । न च सर्वदा सर्वेषां तत्प्रकाशप्रसङ्गः । दृष्टिसृष्ट्यङ्गीकारेण यदा यद्दृष्ट्या यज्जन्यते तत् तदैव तेनैव गृह्यते इति व्यवस्थोप-पत्तेरित्यत आह- दृष्टीति ।। प्रसङ्गादिति ।। उद्बोधकसंस्काराद्यभावात् सुप्तस्य पुनरुद्बोधासम्भवेन जगतोऽ-प्रतीत्या दृष्टिरूपकारणाभावेनोत्तरत्र प्रपञ्चाभावप्रसङ्गादित्यर्थः । प्रपञ्चस्य जीवे ब्रह्मणि वाऽध्यस्तत्वेऽपि नानुपपत्तिः । न चैवं सर्वदोपलब्धिः, कदाऽप्यनुपपलब्धिश्च स्यादित्युक्तमिति वाच्यम् । प्रमातृचैतन्यसम्बन्धा-सम्बन्धाभ्यां कदाचिदुपलम्भोपपत्तेरिति शङ्कते- अथेति ।। सर्वं चैतन्यमिति ।। प्रमातृप्रमेयप्रमाणचैतन्यमि-त्यर्थः । अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृ । विषयावच्छिन्नं प्रमेयम् । वृत्त्यवच्छिन्नं प्रमाणम् । तेन न सर्वदोपलब्धिरिति ।। सर्वदेन्द्रियसन्निकर्षाभावेनान्तःकरणस्य विषयाकारेण परिणामस्याभावेना-विद्यातिरस्काराभावान्न सर्वदा प्रकाश इति भावः । तेनैवेति ।। प्रपञ्चस्य सत्यत्वेऽप्यन्तःकरणवृत्तिसन्निकर्षेणैव दृश्यत्वोपपत्तावित्यर्थः । किमनयेति ।। चित्प्रकाशारोपितत्वकल्पनया न किमपि प्रयोजनमित्यर्थः ।
(पां.टि.) ननु ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुत्या सर्वस्य चित्प्रकाश्यत्वसिद्ध्या तदन्यथाऽनुपपत्त्या तत्राऽरोपितत्वमवश्यं कल्पनीयम् । तत्र प्राप्तातिप्रसङ्गपरिहाराय तत्तदाकारवृत्तिकल्पनं चाऽवश्यकमिति कथमुक्तप्रक्रियाया अप्रामाणिकत्वकल्पनमित्यत आह- तस्य भासेति ।। अन्येति ।। सूर्यादिप्रकाशानां भगवदधीनत्वं भगवतश्च सूर्याद्यप्रकाशत्वरूपं च यदर्थान्तरं तत्परत्वादित्यर्थः । श्रुत्यर्थे विप्रतिन्नं प्रति तत्कल्पनामेवाङ्गीकृत्यापि दूषयति- अतीतादिषु चेति ।। वर्तमानैन्द्रियकेषूक्तकल्पनायाः कथञ्चिदुपपत्तावपि (पां.टि.) अतीतातीन्द्रियेषूक्तविधकल्पनाया असम्भवेन तत्र विषयत्वानुपपत्त्या तन्निर्वाहार्थं प्रकारान्तर-स्यावश्यमनुसरणीयत्वेनातीतादिष्विव वर्तमानेष्वपि विषयत्वनिर्वाहान्नेयं कल्पना युक्तेत्याशयः । गौरवं प्रपञ्चसत्यत्वे बाधकमिति तृतीयपक्षमुत्थाप्य प्रतिबन्द्या दूषयति- गौरवमित्यादिना ।।
लघुप्रभा
(व्या.टि.)
उक्तं वक्ति- प्रमाणेति ।। पक्षपातेनेति ।। दुष्टान्यतरपरिग्रहेणेत्यर्थः । प्रमाणाभावसाम्यं निरस्यति- न तावदिति ।। नन्विति ।। आगामीति बाधविशेषणम् । सत्यत्वान्तरेति ।। अर्थक्रियाकारित्वमित्यर्थः । प्रत्यक्षस्य बाधाभावे प्रामाण्यं परिशेषयितुं तत्सामर्थ्यं समर्थयितुं प्रतिजानीते- उच्यत इति ।। निरस्तत्वा-दिति ।। ततोऽपि दौर्बल्यादित्यर्थः । शङ्काया इति ।। भाविबाधकशङ्काया इत्यर्थः । परिशेषयति- बाधाभावमे-वेति ।। ततश्च प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽपि बाधाभावग्रहः सम्भवतीति भावः । सङ्गृहीतमेतन्न्यायामृते-
‘स्वकाले सत्यतां गृह्णन् साक्षात्कारस्त्रिकालगम् ।
प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम् ।।’ इति ।
ननु ‘बाधृ विलोडने’ इतिधातोः विलोडनापरपर्यायविनाशो बाधशब्दाभिधेयः । तत्कथं भविष्यत्प्रलय-कालीनविनाशाभावं स्थितिकाले गृह्णीयात् असन्निकर्षेण प्रतियोगिनोऽयोग्यत्वादित्यत आह- न हीति ।। पृच्छति-किन्त्विति ।। बाधं निरुच्य तदभावं साधयति- न हीति ।। अत्रेदं शङ्क्यते- प्रत्यक्षं बाधाभावं गृह्णातीति रिक्तं वचः । तथा हि- ‘स्वकाले सत्यतां गृह्णन्’ इत्यनेन हि कालसम्बन्धरूपसत्त्वं प्रागवगम्यते, पश्चाद्बाधाभाव इति विज्ञायते । उक्तं ह्यनुव्याख्याने- ‘सत्तैवं देशकालगा । देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते’ इति । कालविशेषसम्बन्धवति च न तत्सामान्याभावसम्भवः । प्रतियोगिविशेषस्य तत्सामान्याभावविरोधित्वात् । न हीति टीकायां तथैवोपपादितत्वाच्च । तथा च कालसम्बन्धित्वरूपसत्त्वमबाध्यत्वव्याप्यमिति तत्प्रत्यक्षं विशेषदर्शनरूपमेव न साक्षादबाध्यत्वदर्शनम् । तज्ज्ञानस्य व्याप्यदर्शनजन्यस्यानुमितित्वावश्यम्भावात् । अयोग्य-प्रतियोगिकाभावस्य तस्य झटिति प्रत्यक्षासम्भवाच्च । अतः कथं प्रत्यक्षं सत्त्वगोचरमिति । अत्राऽभाति । सत्यं नाबाध्यत्वरूपं सत्यत्वं प्रत्यक्षमिति । तस्यानुपपत्तिप्रतिसन्धानजन्यज्ञानविषयस्यानुमेयत्वात् । बुद्धेर्विरम्य व्यापारायोगाच्च । अत एवात्र बाधाभावमेव साधयतीत्युक्तम्, नतु गृह्णातीति । अनुपपत्तिप्रतिसन्धानं च स्पष्टी-कृतं न हीति वाक्ये । न्यायामृतमप्येवंपरतया योज्यम् । न चैवं संवादेन निग्रहप्रसङ्गः । प्रत्यक्षमात्रे संवादेऽपि चाक्षुषविशेषे तदभावात् । अत एवानुव्याख्याने-
‘अतीतवर्तमानत्वधर्मिणी सा च दृश्यते’
इत्यादिना चाक्षुषस्य प्रत्यभिज्ञादेः वर्तमानमात्रग्राहित्वाभावो व्युत्पादितो न प्रत्यक्षमात्रस्येति दिक् । वस्तुतस्तु बाधाभावेऽपि प्रत्यक्षान्तरमेष्टव्यम्, न पूर्वमेव तदवगाढुमाढौकते । अनुपपत्तिप्रतिसन्धानेन विच्छेदात् । सामिधेनीप्रकरणं काम्यकल्पेष्विव । यथोक्तं भट्टपादैः-
(व्या.टि.)‘विच्छिन्ना सामधेनीनां निविद्भूः प्रक्रिया यतः ।
तत्तु काम्यैः पुनः कल्पैः सन्धातुं सा हि शक्यते ।।’ इति ।
न च विशेषदर्शनजन्यत्वादनुमितित्वावश्यम्भावः । संशयोत्तरप्रत्यक्षवदुपपत्तेः । परं त्वव्यवधेरैक्यभ्रमः । बाह्यप्रत्यक्षे त्वित्थं स्थितिः । साक्षी त्वनुपपत्तिप्रतिसन्धानानुकूलितो बाधाभावमेव गृह्णातीत्यभ्युगमे न कोऽपि दोषः । अत एवानुव्याख्याने-
‘तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ।’
इति साक्षिणः कालत्रयावगाहित्वमुक्तमिति । अतस्तादृशग्रन्थस्तत्परतया योजनीय इति रहस्यम् । यत्किञ्चि-द्विशेषस्यापि सामान्याभावाभावत्वेन स्वकालसत्ताग्राहिणोऽपि प्रत्यक्षस्य कालत्रयसत्तानिषेधरूपबाधा-भावावगाहिता युक्तैवेति गुह्यतमम् ।
‘अतो न वर्तमानैकनियमः स्याद् ग्रहेऽक्षजे ।’
इत्यनुभाष्ये साक्षात्कारमात्रस्य तन्नियमाभावाऽवेदनेन अतीतानागतबाधाभावगोचरता युक्ततरैवेति गुह्यतरमिति सङ्क्षेपः । एवं प्रत्यक्षस्य प्रामाण्यं प्रसाध्यानुमानप्रामाण्यं समर्तिथयिषुस्तद्दोषानुद्धरति- प्रामाणिकत्वेति ।। प्रमाणाविषयस्यापीति ।। अवेद्यत्वोररीकरणादित्यर्थः । अतिरिक्तस्येति ।। ‘देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते’ इति देशकालापेक्षस्वरूपसत्त्वस्योक्तेरित्यर्थः । विपक्षे बाधकञ्चाऽह- अन्यथेति ।।
दोषान्तरं शङ्कते- तथापीति ।। अभावपक्ष इति ।। असाधारणस्य विपक्षाद्व्यावृत्त्याऽसाधकत्वमुत सपक्षा-दव्यावृत्त्याऽसाधकत्वमिति संशयद्वारा ग्राह्यसंशयाधायकत्वेनानुमित्यप्रतिबन्धकत्वाददोषत्वमिति पक्षेऽनुकूल-तर्कसत्त्वेऽदोषत्वमिति वा पक्ष इत्यर्थः । साधनवैकल्यं विपक्षे बाधकं दण्डं प्रदर्श्योद्धरति- ब्रह्मणश्चेति ।। अनभ्युपगमबीजं दर्शयति- न हीति ।। स्वस्मिन्निति ।। ज्ञानरूप इति शेषः । अतिप्रसङ्गं च आह- शशविषाण-स्यापीति ।। अनुत्तरत्वं प्रकटयति- अनुपन्यस्तत्वादिति ।। सिद्धेः प्रमाणैकोपायत्वं मूलीकृत्य प्रसञ्जयते, मूलाकीर्तनादित्यर्थः । कारणं विना कार्याङ्गीकारेण व्याघातादित्यर्थः । कथितप्रकारमन्यत्राप्यतिदिशति- एते-नेति ।। कथितेति ।। स्वेनेति प्रमाणेन विनेति कथितेत्यर्थः । विकल्पमुरसिकृत्य निरस्यति- तत्त्वावेद-केति ।। विप्रतिषिद्धत्वेनेति ।। मिथो व्याहतत्वेनेत्यर्थः । पुनर्दोषेण दूषयति- अस्तु तर्हीति ।। बाधका-भावस्येति ।। अप्रामाण्यस्य परतस्त्वेन बाधकैकावसेयत्वात्तदभावे तदध्यवसायायोग इत्यर्थः । विपक्षे बाधकमाह- अन्यथेति ।। अनुषङ्गसिद्धमर्थान्तरं चाऽह- एतेनेति ।। बाधकाभावेनेत्यर्थः । शङ्कते- नन्विति ।। अस्ति बाधकमिति ।। सत्येकस्मिन्नपि बाधके साधकसहस्रस्याप्यकिञ्चित्करत्वादित्यर्थः । भेदपक्षं कक्षीकृत्य तद्दोषमुद्धरति- स्वरूपत्वेनेति ।। प्रतीतिभेदाभावादित्यर्थः । ‘जगतो भिन्नमभिन्नं वेत्यादिविकल्पस्तत्रापि (व्या.टि.) युज्यते’ इति तत्त्वोद्योताभिहितयुक्तिं वक्ति- किञ्चेति ।। शब्दप्राबल्यमवलम्ब्य शङ्कते- तत्सत्य-मित्यादीति ।। प्रतिबन्द्या बन्धयति- प्रपञ्चेति ।। प्रकाशानुवेधादध्यासं विवक्षुस्तदनुवेधं सत्यत्वे प्रतिक्षेप्तु-मुपक्षिपति- नन्विति ।। सम्बन्धाभावादिति ।। संयोगसमवाययोरसम्भवादिति भावः । पक्षविवक्षितसम्बन्ध-मनुशास्ति- अधिष्ठानाध्यस्तत्वसम्बन्धेनेति ।। प्राक्प्रत्याख्यास्याम इति प्रतिज्ञातं सम्प्रति प्रत्याख्याति- उच्यते इति ।। आक्षेप्तुं प्रतिक्षेप्तुं विवरीतुकामः पृच्छति- कोऽर्थ इति ।। अनभ्युपगमादिति ।। तथा च न तदभावापादनं युक्तमिति भावः । आद्ये कस्य चैतन्यविषयत्वमाक्षिप्यते किं बाह्यस्य घटादेरान्तरस्य सुखादेर्वेति विकल्प्याऽद्ये सम्प्रतिपत्तिमुत्तरमाह- चैतन्याविषयत्वेऽपीति ।। व्यवहारानुपपत्तिमाशङ्क्यान्यथोपपत्त्या परिहरति- वृत्तिविषयत्वेनेति ।। औत्पत्तिकस्त्विति सूत्रादित्यर्थः । द्वितीये स्वाभाविकमर्थसम्बन्धमुपेत्याऽक्षेपं प्रतिक्षिपति- स्वाभाविकमिति ।। सम्बन्धः श्रुतिविरुद्ध इत्याशङ्क्य तामन्यथयति- असङ्गश्रुतिरिति ।। ‘सर्वेभ्यः पाप्मभ्य उदितः ’ इति विशेषश्रुत्या यदाहवनीयन्यायेन सङ्कोच इति भावः । द्वितीयं निराह- करणेति ।। वृत्तिकरणेत्यर्थः । सामर्थ्येनेति ।। केवलानुप्रमाणयोस्समानविषयत्वनियमादित्यर्थः । यत्सन्निकृष्टकरणेनेति करणलक्षणशिक्षणादिति भावः ।
एवं स्वपक्षे प्रकाशानुपपत्तिं परिहृत्य परपक्षे तां द्रढयति- अध्यस्तत्वेनेति ।। अध्यासोऽपि किं जीवे ब्रह्मणि वेति विकल्प्याऽद्यं निराह- सर्वदेति ।। जीवस्य स्वप्रकाशत्वेन सर्वदा भासमानत्वादित्यर्थः । द्वितीयं पराह- न कदाचिदिति ।। अवेद्यस्य कदाऽप्यनाभासादित्यर्थः । बहुजीववादिपक्षे सर्वेषामित्यधिको दोषः । ननु मायावादिना दृष्टिसृष्टेरिष्टत्वेन नैते दोषाः प्रादुःष्यन्तीत्यतोऽङ्गीकृताऽपीयं नोभाभ्यामङ्गीकारार्हा इत्याह- दृष्टिसृष्टीति ।। सुषुप्ताविति ।। दृष्टेरेवाभावादित्यर्थः । प्रत्यभिज्ञासंवादयोरिति ।। क्षणिकत्वापत्त्येति शेषः । सर्वदोपलब्धि-परिहाराय कादाचित्ककारणकलापमाह- चक्षुरादेरिति ।। १परिणमतीति ।। तत्र साक्षिचैतन्यं प्रतिबिम्ब इति शेषः । मध्ये स्थितां प्रतिबिम्बितसाक्षिचैतन्यस्थिताम्, विषयगतां च विषयारोपाधिष्ठानचैतन्यावरि-कामित्यर्थः । सर्वं चैतन्यमिति ।। साक्षिचैतन्यं वृत्तिप्रतिबिम्बितचैतन्यं तदभिव्यक्ताधिष्ठानचैतन्यं चेत्यर्थः । भेदेनेति ।। बहुत्वेनेत्यर्थः । अन्तःकरणवृत्तिसन्निकर्षो विषयस्येति दीर्घप्रभाकारेणेत्युक्तेः । तेनैवेति ।। प्रतिबिम्बिताधिष्ठानरूपेण चैतन्यभेदवादिनैवेत्यर्थः । प्रक्रियाङ्गीकारवैफल्यमाह- किमनयेति ।। प्रकाशानुवेध-श्रुतिमर्थान्तरावकाशेन निरस्यति- तस्य भासेति ।। अन्यविषयत्वादिति ।। तदुक्तम् ‘अनुकृतेस्तस्य च’ इत्यधिकरणे ‘तदीयभासा तदधीनभासा भास्यत्वं तदर्थः’ इति । न दृश्यसर्वव्यापिनीयं प्रक्रियेत्याह- अतीतादिषु चेति ।। तर्हीति ।। सत्यद्वयाङ्गीकार इत्यर्थः । शून्यवादः सर्वासत्त्ववादः । सममिति ।। प्रामाणिकत्वमित्यर्थः। उपसंहरति-तस्मादिति ।।