न च मिथ्यावस्तुनो ..
बाधकाभावे वस्तुदर्शनस्यैव विषययाथार्थ्य साधकत्वस्य समर्थनम्
मूलम्
- न च मिथ्यावस्तुनो दुर्घटत्वमेव भूषणम् । दृष्टस्य वस्तुनो मिथ्यात्वकल्पनस्य दृष्टिसकाशाद् बलवत्प्रमाणयुक्त्यपेक्षत्वात् तदभावे सत्यत्वं दृष्ट्यैव सिद्ध्यति । न हि अन्नादिकं भोग्यं दृष्ट्वा भोक्तुं सत्यत्वे प्रमाणान्तरमपेक्षते । किन्तु नेदमन्नमिति केनचिदुक्ते कथमिदमन्नत्वेन दृश्यमानमन्नं न भवतीति प्रमाणान्तरमपेक्षते ।।
तत्त्वमञ्जरी
अज्ञानेनोपाधिभेदादीनां अन्योन्याश्रयत्वादिना दुर्घटत्वं प्रतिपाद्यते तद् भूषणमेव तेषां मिथ्यावस्तुत्वादित्यत आह- न च मिथ्येति ।। मिथ्यावस्तुत्वहेतुरेव असिद्ध इत्याकूतम् । प्रत्यक्षस्य बलवत्त्वं साधयति- न ह्यन्नेति ।। न ह्यन्नादेः सत्यत्वे दृश्व्े बलवत् प्रमाणान्तरमपेक्षते ।
टीका
बद्धमुक्तादिव्यवस्थासिद्ध्यर्थं बहुजीववादोऽद्वैतवादिभिरभ्युपगतः । तत्रापि सत्योपाधिपक्षे ब्रह्मणः सर्वदोपाधिसम्बन्धात् सर्वदा संसारित्वापत्त्या तद्भावमापन्नस्यापि मुक्तत्वाभावान्न बद्धमुक्तव्यवस्था सिद्ध्यतीत्यतो मायावादिनोपाधेर्मिथ्यात्वमङ्गीकृतम् । ततः तन्निराकरणेन तत्पक्षेऽपि व्यवस्थाऽसिद्धौ सिद्धान्तिनोक्तायां पुनर्मायावादी प्रत्यवतिष्ठते । यदिदमुपाधेः तत्कृतस्य जीवभेदस्य ज्ञानाज्ञानसुखदुःखादिरूपस्य बन्धस्य च अन्योन्याश्रयत्वादिना दुर्घटत्वमुक्तं तन्न दूषणम् । किन्तु भूषणमेव । अन्योन्याश्रयत्वादिकं हि तस्य सत्यत्वं निवारयेत् । तच्चेष्टमेव । उपाध्यादेर्मिथ्यात्वेनाङ्गीकृतत्वात् । अतोऽभिलषितस्य मिथ्यात्वस्य साधकमन्योन्याश्रयत्वादिकं कथं दूषणं स्यात् । अभिलषितार्थविरोधिन एव दूषणत्वात् । कथं वा भूषणं न स्यात् । अभिलषित-साधकस्य भूषणत्वात् । तदेवमविचारितरमणीयोपाधिनिबन्धनेन जीवभेदादिना मायावादिनां बद्धमुक्तव्यवस्था सिद्ध्यतीति । तदेतत्प्रतिषेधति- न चेति ।। मिथ्याशब्दस्य असति प्रसिद्धत्वात् तन्निवृत्त्यर्थं वस्तुन इत्युक्तं । ततोऽनिर्वक्तव्यस्येत्युक्तं भवति । न सुघटत्वमित्येवार्थः । सुघटत्वे हि सत्यत्वप्रसङ्गेन मिथ्यात्वं न स्यात् । कुतो नेति चेत्, उच्यते-स्यादिदमात्मश्रयत्वादिकं भूषणं यदि मिथ्यात्वमस्य स्यात् । न चैवम् । घटादेरात्मभेदादेश्च प्रत्यक्षसिद्धत्वेन सत्यत्वात् । प्रत्यक्ष-सिद्धस्यापि शुक्तिरजतादेरिव मिथ्यात्वम्भविष्यतीति चेत्, नेति ब्रूमः । कुत इत्यत आह- दृष्ट-स्येति ।। दृष्टेरित्युक्ते षष्ठीभ्रमोऽपि स्यात् । अर्थपर्यालोचनया च तन्निरासे प्रतिपत्तिगौरवं स्यात् । अतो मन्दानामनुग्रहाय दृष्टिसकाशादित्युक्तम् । बलवच्छब्दस्य नित्यसापेक्षत्वात्समासोपपत्तिः । बलवता प्रमाणेन युक्तिः योगः सम्बन्धः तदपेक्षत्वात् । प्रमाणबलवत्त्वार्थमनुमानस्यापि अपेक्षित-त्वात् । प्रमाणं च युक्तिश्चेति द्वन्द्वो वा । प्रमाणशब्दश्च कुरुपाण्डवन्यायेन प्रत्यक्षागमविषयत्वेन विवक्षितः । बलवत्प्रमाणमूलयुक्त्यपेक्षत्वादिति वा ।
इदमुक्तम्भवति-प्रत्यक्षदृष्टस्यापि शुक्तिरजतादेर्मिथ्यात्वमङ्गीक्रियत एव । किं तु तदपि न निर्निमित्तम् अपि तु बलवद्बाधकवशात् । न च प्रत्यक्षदृष्टस्य ब्राह्यस्याऽभ्यन्तरस्य च जगतो बाधक-मस्ति । अतो दृष्टस्य वस्तुनो यन्मिथ्यात्वकल्पनं तस्य ततोऽपि बलवद्बाधकप्रमाणसापेक्षत्वनिय-मात् । प्रकृते च तदभावात् न मिथ्यात्वकल्पनं युक्तमिति ।
ननु तिष्ठतु तावद्बाधकं, सत्यत्वं तु जगतः केन सिद्ध्यति । न च प्रत्यक्षदृष्ट्यैवेति युक्तम् । तस्याः स्वरूपमात्रविषयत्वेन सत्यत्वागोचरत्वात् । तद्गोचरत्वेऽपि शुक्तिरजतादौ तदसाधक-त्वात् । तथा च जगत्सत्यत्वसाधकाभावे सत्यत्वाभावान्मिथ्यात्वमेव सेत्स्यतीत्यत आह- तदभाव इति ।। अयमर्थः-प्रत्यक्षदृष्टिर्हि विधिरूपा घटं घटतया सुखं सुखतया गोचरयति । घटादयश्चार्थ-क्रियावत्सत्प्रभेदा इति घटादिसत्यतागोचरैव । सर्वज्ञानानां च उत्सर्गतोऽर्थाव्यभिचारित्वम् । बाधकादेवापवाद इति च वादिप्रतिवादिनोस्सम्मतम् । ततोऽपवादाभावात् जगत्सत्यत्वं दृष्ट्यैव सिद्ध्यतीति न मिथ्यात्वसिद्धिरिति । बाधकाभावे विधिमुखेन अर्थक्रियायोग्यत्वेन दृष्टस्य सत्यत्वं दृष्ट्यैवाङ्गीक्रियते । न तु तत्र प्रमाणं मृग्यते । तन्मिथ्यात्वाङ्गीकार एव बाधकप्रमाणमन्विष्यत इति । उक्तमर्थद्वयं दृष्टान्तेन बोधयति- न हीति ।। अन्नादिकमिति विधिमुखवेद्यत्वं सूचयति । भोग्यमित्यर्थक्रियायोग्यत्वम् ।
ननु च ‘भोज्यं भक्ष्ये’ इति निपातनाद् भोज्यमिति भाव्यम् । भोग्यमिति तु कथम् । मैवम् । अन्नादिकमिति ह्युक्तं न तु अन्नमित्येव । न च स्रक्चन्दनादिकं भक्ष्यम् । अतः सामान्यविषयत्वाद् भोग्यमित्येव युक्तम् । प्रयोजनाभावादेव अनपेक्षेति न वाच्यमिति भावेनोक्तम्- भोक्तु-मिति ।। असत्यस्य भोजनायोगात् भोक्तुकामेन अवश्यमपेक्षणीयमेवेति । प्रत्यक्षदृष्टेरन्यत् प्रमाणं प्रमाणान्तरम् । अन्नमित्युपलक्षणम् । कथं केन प्रमाणेन । इति एवं प्रकारेण । तन्मिथ्यात्व इति शेषः । प्रमाणान्तरं प्रत्यक्षदृष्टेर्बाधकं बलवत्प्रमाणमित्यर्थः ।
भावबोधः
न चैवं तर्हि मिथ्याभूतवस्तुपदयोर्व्याहतिरित्यत आह- ततोऽनिर्वक्तव्यस्येति ।। अन्नमित्युपलक्षण-मिति ।। पूर्वमन्नादिकमित्यादिपदप्रयोगादिति भावः । ननु प्रत्यक्षदृष्टेः प्रामाण्याभावात्कथं बाधकप्रमाणस्य प्रमाणान्तरत्वव्यपदेश इत्यत आह- प्रत्यक्षदृष्टेर्बाधकमिति ।।
भावदीपः
जीवसिद्धौ तदाश्रयाज्ञानसिद्धिरित्युक्त्याऽज्ञानकार्यबन्धोऽभिमत इति भावेनाऽह- ज्ञानाज्ञानसुख-दुःखादिरूपस्य बन्धस्येति ।। नन्वेवं चेद्व्याहतिः । वस्तु चेन्न मिथ्या, मिथ्या चेन्न वस्तु । अतो मिथ्यावस्तुन इति विप्रतिषेधादित्यतोऽभिप्रायमाह- अनिर्वक्तव्यस्येति ।। ननु बलवच्छब्दस्य दृष्टिसकाशपदसापेक्षस्य कथमुत्तरपदेन समास इत्यत आह- नित्येति ।। देवदत्तस्य गुरुकुलमिति यथेति भावः । द्वन्द्वग्रहणे हेतुं वदन्नेव पक्षान्तरमाह- प्रमाणेति ।। बलवत्प्रमाणमूलेति बहुव्रीहिः । यद्वा प्रमाणमूलेति प्रमाणस्य सहायभूतयुक्ती-त्यर्थः । प्रत्यक्षदृष्टस्यापि शुक्तिरूप्यादेर्मिथ्यात्वं दृष्टमिति तथाऽस्तु घटादेर्बाह्याभ्यन्तरजगत इति भावेन कृतचोद्यस्य किमनेनोत्तरमुक्तमित्यत आह- इदमुक्तमिति ।। सत्यत्वे साधकाभावादेव मिथ्यात्वसिद्धिः । प्रत्यक्षादि च स्वरूपमात्रग्राहि न सत्यत्वग्राहीति कृतचोद्यस्य तदभाव इत्याद्युत्तरं न स्पष्टमित्यत आह- अयमर्थ इति ।। अर्थक्रियावदिति ।। बहुव्रीहि(वति)रयम् न मतुप् । यद्वा अर्थक्रियावन्तो ये सन्तः तत्प्रभेदा इत्यर्थः । अर्थक्रियावत्त्वात् सत्प्रभेदा इति वाऽर्थः । अस्तु स्वरूपग्राहकमेव सत्त्वग्राहि । तथाऽपि शुक्तिरूप्यज्ञानवत्किं न स्यदित्यस्योत्तरमाह- सर्वज्ञानानां चेति ।। अन्विष्यत इति ।। अयमर्थः इति पूर्वेणान्वयः । उक्तमर्थद्वय-मिति ।। दृष्टिसिद्धसत्त्वे प्रमाणामार्गणं, मिथ्यात्व एव बाधकान्वेषणमित्युक्तर्थद्वयमित्यर्थः । विधिमुखवेद्यत्व-मिति ।। तथैव प्राक्प्रस्तावादिति भावः । ‘भक्ष्येऽभिमते भोज्यम्’ इति निपातनात्पाणिनीयसूत्रे अत्र चान्नस्य भक्ष्यस्य चोपादानाद्भोज्यमिति भाव्यमित्याशङ्क्य निराह-नन्वित्यादिना ।। अन्यत् प्रमाणं प्रमाणान्तरम् । किमपेक्षयाऽन्यदित्यत आह- प्रत्यक्षदृष्टेरन्यदिति ।। उपलक्षणमिति ।। भोग्यवस्तुमात्रस्येति भावः । भवतीति- पदानन्तरं शेषमाह- १इत्येवंरूपेण तन्मिथ्यात्व इतीति ।। प्रमाणान्तरमित्यनूद्य तद्विशिनष्टि- प्रमाणान्तरं प्रत्यक्षदृश्व्ेर्बाधकमिति ।। यद्वा किमपेक्षया प्रमाणान्तरमित्यतोऽवधिमाह- प्रत्यक्षदृष्टेरिति ।। पञ्चमीयम् । प्रत्यक्षदृष्टेरमानत्वात्कथं प्रमाणान्तरमित्युक्तिरित्यतः फलितमाह- बाधकं बलवत्प्रमाणमिति ।। षष्ठ्यन्ततया प्रत्यक्षदृष्टेरितीहाप्यन्वेति ।
वाक्यार्थदीपिका
(श्री.टि.)
नन्वेवं तर्हि मिथ्याभूतवस्तुपदयोर्व्याहतिरित्यत आह- ततोऽनिर्वक्तव्यस्येति ।। अनिर्वचनीयस्ये-त्यर्थः । कुतो नेति चेदिति ।। मिथ्यावस्तुनो दुर्घटत्वं कुतो भूषणं न भवतीत्यर्थः । अर्थपर्यालोचनयेति ।। (श्री.टि.) दृष्टेरित्यस्य षष्ठीविभक्तित्वेऽर्थासङ्गतिः स्यात्, अतस्तत्पर्यालोचनया नेयं षष्ठीविभक्तिः, अपि तु पञ्चम्येवेति प्रतिपत्तिर्भविष्यतीत्यर्थः । दृष्टिसकाशादित्युक्तमिति ।। बुद्धिक्षोभकरात्प्रतिपत्तिगौरवाच्छब्द-गौरवस्य सह्यत्वादिति भावः । ननु बलवच्छब्दस्य दृष्टिपदसापेक्षत्वेन तेनैव समासो युक्तो न प्रमाणपदेन । सापेक्षमसमर्थवद्भवतीति वचनादित्यत आह- नित्यसापेक्षत्वादिति ।। तथा च प्रमाणपदेन समासेऽपि पूर्वपदेनाऽकाङ्क्षा न विहन्यते देवदत्तस्य गुरुकुलमितिवत् । वचनं चानित्यसापेक्षविषयमिति भावः । ननु युक्तेरपि प्रमाणत्वात्पृथग्युक्तिग्रहणं व्यर्थमित्यत आह- बलवतेति ।। तथा च बलवत्प्रमाणसद्भावापेक्षत्वादित्यर्थः । ननु द्वन्द्वसमासपक्षे प्रमाणापेक्षत्वेनैवालं, युक्त्यपेक्षत्वं किमर्थमित्यत उक्तम्- प्रमाणबलवत्त्वार्थमिति ।। अनुमानस्याप्यपेक्षितत्वादिति ।। इदं प्रमाणं बलवदुपजीव्यत्वादित्यनुमानस्येत्यर्थः । द्वन्द्वपक्षे प्रमाण-शब्दाभिप्रेतार्थमाह- प्रमाणशब्दश्चेति ।। यथा हि ‘द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम्’ इत्यत्र पाण्डवशब्दस्य पृथक्सत्त्वेन सामान्यवाचिना कुरुशब्देन पाण्डवातिरिक्ता एव गृह्यन्ते तथा प्रकृतेऽपि युक्तिशब्दस्य पृथक्सत्त्वेन सामान्यवाचिना प्रमाणशब्देन तदतिरिक्तप्रमाणमेव ग्राह्यमिति भावः । एवं च प्रमाणबलवत्त्वार्थमित्यत्र प्रमाणयोः प्रत्यक्षागमयोर्बलवत्त्वार्थमिति व्याख्येयम् । मध्यमपदलोपी समास इत्यभिप्रेत्य योजनान्तरमाह- बलवत्प्रमाणमूलेति ।। मूलकेत्यर्थः । केवलयुक्तेरसाधकत्वादिति भावः । बाह्यस्य वियदादेः। आन्तरस्य दुःखादेः । तदसाधकत्वात् सत्यत्वासाधकत्वात् । अर्थक्रियावत्सत्प्रभेदा इतीति ।। अर्थक्रियावत् अर्थक्रियाकारीति यावत् यत्सत्तत्प्रभेदा इत्यर्थः । तथा चार्थक्रियाकारित्वात्सत्या इत्यर्थः । प्रत्यक्षदृष्टेर्घटादिसत्यता-गोचरत्वं प्रकारान्तरेणोपपादयति- सर्वज्ञानानाञ्चेति ।। अर्थाव्यभिचारित्वं प्रामाण्यम् । सम्मतमिति ।। उभाभ्यामपि प्रमाण्यस्य स्वतस्त्वाङ्गीकारादिति भावः । पूर्वग्रन्थफलितार्थं वदन्नुत्तरग्रन्थमवतारयति- बाधकाभाव इति ।। अर्थद्वयमिति ।। प्रत्यक्षदृष्टस्य सत्यत्वे प्रमाणं न मृग्यते प्रत्युत मिथ्यात्वाङ्गीकार एव प्रमाणमन्विष्यत इत्यर्थद्वयमित्यर्थः । ‘भोज्यं भक्ष्ये’ भक्षणार्हे वस्तुनि भोज्यमिति शब्दो निपात्यत इत्यर्थः । इत्येवेति ।। येन भोज्यमिति वक्तव्यं स्यादिति भावः । स्रक्चन्दनेति ।। अन्नादिकमित्यत्राऽदिपदगृहीतमित्यर्थः । भोग्यमित्ये-वेति ।। स्रगादिवदन्नादेरपि भोगार्हत्वेन भोग्यत्वादिति भावः । अनपेक्षेति ।। सत्यत्वे प्रमाणान्तरस्यानपेक्षेत्यर्थः। अपेक्षणीयमेवेति ।। सत्यत्वे प्रमाणान्तमित्यर्थः । तच्च नापेक्षत इति भावः । अन्नमित्युपलक्षणमिति ।। पूर्वमन्नादिकमिति आदिपदप्रयोगादिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
नन्वेवं मिथ्यावस्तुपदयोः परस्परव्याहतिरित्यतः पदद्वयबलेनानिर्वाच्यस्यैवोक्तत्वाददोष इति भावेनाऽह- ततोऽनिर्वक्तव्यस्येत्युक्तम्भवतीति ।। ननु बलवच्छब्दस्य दृष्टिशब्दसापेक्षत्वात् सापेक्षस्य च ‘सापेक्षमसमर्थं भवति’ इति न्यायेन वृत्तावुपसर्जनपदस्याप्रधानार्थाभिधायिना भाव्यत्वेनाप्रधान(त्व)स्य स्व-विशेषणापेक्षया च प्रधानत्वस्य आवश्यकत्वादेकस्यैवैकदाऽप्रधानत्वैकार्थीभावयोरसम्भवेनासमर्थत्वान्न प्रमाणशब्देन बलवच्छब्दस्य बलवत्प्रमाणेति समासः सम्भवति । ‘समर्थः पदविधिः’ इति समासविधौ समर्थाधि-(पां.टि.) कारेण निरपेक्षस्यैव तद्विधानादित्यतः ‘पूर्वकायो नाभेः’, ‘देवदत्तस्य गुरुकुलम्’ इत्यादौ समासदर्शनेन नित्यसापेक्षस्य तत्सिद्ध्या पूर्वादिशब्दवत्सम्बन्धिशब्दत्वेन नित्यसापेक्षस्य बलवच्छब्दस्य प्रमाणशब्देन समासो युक्त इत्याह- बलवच्छब्दस्येति ।। ननु युक्तेरपि प्रमाणत्वेन प्रमाणशब्देन युक्तेरपि ग्रहणोपपत्तेः पुनर्युक्ति-ग्रहणमयुक्तमित्यत आह- प्रमाणशब्दश्चेति ।। कुरुपाण्डवन्यायेनेति ।। यथा पाण्डवानां कुरुत्वेऽपि सामान्यविशेषापेक्षया ‘सन्तानबीजं कुरुपाण्डवानाम्’ इत्यादौ कुरुभ्यः पृथग्वचनम् । तथा प्रमाणशब्दस्य सामान्यविषयत्वेऽपि तद्विशेषप्रत्यक्षागमपरत्वेन विवक्षितत्वाद्युक्तं तदपेक्षया युक्तेः पृथग्वचनम् । अत्र पक्षे कुरुपाण्डवन्यायाश्रयणं भवतीति मन्वानः पक्षान्तरमाह- बलवदिति ।। बलवत्प्रमाणं मूलं यस्या इति विग्रहः। नन्वेतावता प्रत्यक्षसिद्धस्यापि शुक्तिरजतादेरिव मिथ्यात्वं भविष्यतीति शङ्कायाः कः परिहार उक्त इत्यत आह- इदमुक्तं भवतीति ।। नन्वेवं मदिष्टसिद्धिरिति पृच्छति- किन्त्विति ।। परिहरति- तदपीति ।। इतीत्यस्येतीदमिति सम्बन्धः । ननु घटादीनां सत्प्रभेदत्वेन तत्प्रतीतेः सत्यत्वविषयत्वान्न स्वरूपमात्रगोचरत्व-मित्यत आह- तद्गोचरत्वेऽपीति ।। अन्यथा शुक्तिरजतादेरपि तया सत्यत्वसिद्ध्यापातादिति भावः । कथमनेनोक्ताक्षेपस्य परिहार इत्यत आह- तदयमर्थ इति ।। बाह्यप्रपञ्चाभिप्रायेणाह- घटं घटतयेति ।। आन्तरप्रपञ्चाभिप्रायेणाऽह- सुखं सुखतयेति ।। ननु प्रत्यक्षदृश्व्ेः घटं घटतया सुखं सुखतया स्वस्वविषयाव-गाहित्वेऽपि तत्सत्तानवगाहित्वेन न तन्मिथ्यात्वानुमानादिबाधकत्वमित्यतो घटादीनां सद्विशेषत्वात्तत्प्रतीतेः सत्तावगाहित्वसिद्धेर्युक्तं तद्बाधकत्वमिति वक्तुं भवेदेतदेवं घटादिदृश्व्ेः सत्तावगाहित्वं यदि घटादेः सद्विशेषत्वमेव सिद्धं स्यात् । तदेव कुत इत्यतः तत्र हेतुं वदन् उक्तमुपपादयति- घटादयश्चेति ।। अर्थक्रियावदिति हेतुगर्भविशेष-णम् । ततश्चार्थक्रियाकारित्वाद् घटादीनां सद्विशेषत्वसिद्धेर्युक्तं तत्प्रत्यक्षदृष्टेः सत्त्वावगाहित्वमिति भावः । ननूक्तरीत्या सत्यत्वविषयकत्वेऽपि तत्प्रतीतेस्तस्यास्तत्साधकत्वं न सिध्यति । अन्यथा शुक्तिरूप्यादेरपि तया तत्सिद्धिप्रसङ्गादित्यत आह- सर्वज्ञानानां चेति ।। उत्सर्गत इति ।। असति बाधक इत्यर्थः । सम्मत इति ।। उभयमतेऽपि प्रामाण्यस्य स्वतस्त्वादिति भावः । अनपेक्षेति ।। सत्यत्वे प्रमाणान्तरस्यानपेक्षेत्यर्थः । प्रमाणान्तर-मित्यत्रान्तरशब्दमहिम्ना प्रत्यक्षमपि प्रमाणमिति प्रतीयते । न च तद्युक्तम् । परेण तथाऽनभ्युपगमादित्यतो व्याचश्व्े- प्रत्यक्षदृष्टेरन्यदिति ।। अन्नमित्युपलक्षणमिति ।। नेदमन्नमिति मूलेऽन्नमिति स्रक्चन्दनादीना-मुपलक्षणम् । अन्नादिकमिति पूर्वग्रन्थे तेषामपि सङ्गृहीतत्वेन तत्परित्यागेनान्नशब्देनान्नमात्रग्रहणस्यायुक्त-त्वादिति भावः । प्रमाणान्तरशब्दस्य पूर्वत्रेवात्रापि प्रत्यक्षदृष्टेरन्यदित्याद्यर्थः प्रतीयते । न चासौ युक्तः । पूर्वत्र प्रथमप्रवृत्तप्रत्यक्षस्यान्नादिस्वरूपसाधकत्वं पश्चात्प्रवृत्तस्य तु तत्सत्यतासाधकत्वमित्येवं कथञ्चिदेकत्रोपयोग-सद्भावेन साधकत्वमात्रविवक्षयाऽन्तरशब्दोपपत्तावपीह पश्चात्प्रवृत्तप्रमाणस्य पूर्वप्रवृत्तप्रत्यक्षबाधकतया तस्मिन्प्रमाणशब्दप्रयोगायोगाद् बाधकत्वस्यैव व्यवहर्तव्यत्वादित्यतः प्रकारान्तरेण व्याचश्व्े- प्रत्यक्ष-दृष्टेर्बाधकमिति ।।
लघुप्रभा
(व्या.टि.)
पूर्वग्रन्थेनोत्तरं सङ्गमयितुं पूर्वोक्तार्थमनुवदति- बद्धमुक्तादीति ।। प्रत्यवतिष्ठत इति ।। ‘समवप्रविभ्यः स्थः’ इत्यात्मनेपदम् । ‘न दूषणं किन्तु भूषणम्’ इति प्रतिज्ञातमुभयं साधयति- अन्योन्या-श्रयत्वादिकमिति ।। नन्वेवं सति मिथ्यावस्तुन इत्यत्र वन्ध्या जननीतिवद्व्याघात इत्यत आह- अत इति ।। प्रसिद्धार्थस्य वस्तुत्वायोगात्पारिभाषिकार्थग्रहणमिति भावः । विपरीतं व्यावर्तयति- नेति ।। सुघटत्वं कुतो व्यावर्तनीयमित्यतः इष्टविघातित्वादित्याह- सुघटत्वे हीति ।। कुत इति ।। भूषणमिति शेषः । त्वदिष्टमपि मिथ्यात्वं दृष्टिविरुद्धत्वाद्दुष्टमित्याह- न चैवमिति ।। मूले उक्तिगौरवमाशङ्क्य निराकरोति- इत्युक्त इति ।। मन्दानामिति ।। बुद्ध्येति शेषः । नित्यसापेक्षत्वादिति ।। प्रतियोग्यपेक्षाध्रौव्यादित्यर्थः । बलवत्त्वार्थ-मिति ।। दार्ढ्यार्थमित्यर्थः । युक्तेरपि प्रमाणत्वात्कथं पृथग्ग्रहणमित्यत आह- कुरुपाण्डवन्यायेनेति ।। प्रमाणमूलेति ।। शाकपार्थिवादित्वात्समासः । आकूतमाह- इदमुक्तं भवतीति ।। बाधकमिति ।। सत्यत्व इति शेषः । सत्यत्वे बाधकान्मिथ्यात्वाभावेऽपि साधकाभावादेव मिथ्यात्वं सिद्धमिति शङ्कते- नन्विति ।। तदभ्युपेत्यापि निरस्यति- तद्गोचरत्वेऽपीति ।। ननु प्रतिज्ञामात्रं कथमुक्तोत्तरं स्यादित्यतस्तद्भावमाह- अयमर्थ इति ।। प्रत्यक्षदृष्टेर्हीति ।। स्तम्भोऽयं कुम्भोऽयमित्याद्येकाकारनियतज्ञानरूपनिर्णय इत्यर्थः । विधिरूपेति हेतुगर्भविशेषणम् । विधिरूपत्वात्सत्त्वगोचरेति । घटमिति ।। वस्तुतो घटत्ववन्तमित्यर्थः । घटतयेति ।। घटत्वप्रकारेणेत्यर्थः । बाह्यदृष्टिमुक्त्वाऽऽन्तरीयमाह- सुखमिति ।।
‘अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ।।’ इति ।
‘सत्तैवं देशकालगा ।
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।।’
इत्युक्तदिशा कालसम्बन्धित्वरूपस्वरूपसत्त्वगोचरत्वमुपपाद्य, अर्थक्रियायोग्त्वरूपसत्त्वगोचरतामुपपादयति- घटादयश्चेति ।। अर्थक्रियावत्सत्प्रभेदा इति ।। अर्थक्रियायोग्यसद्विशेषा इत्यर्थः । अर्थक्रियायोग्यत्व-व्याप्यतावच्छेदकधर्मवन्त इति यावत् । निगमयति- घटादिसत्यतागोचरैवेति ।। तद्विशेषदर्शनस्य तत्संशय-विपर्ययप्रतिबन्धकत्वेन तद्गोचरत्वम् एवेत्यवधारयति । नीलघटत्वज्ञाने घटत्वसंशयविपर्ययाभावदर्शनाद्व्याप्य-दर्शनस्य व्यापकगोचरत्वं नियतमेवेति भावः । सत्त्वगोचरत्वेऽपि तदसाधकत्वहेतुं बाधकं निरस्यति- सर्वज्ञाना-नाञ्चेत्यादिना अपवादाभावादित्यन्तेन ।। अपवादोऽर्थव्यभिचारः । जगत्सत्यत्वं वस्तुतथात्वम् । दृष्ट्यैव साक्षिनिर्णीतप्रमात्वया । दृष्ट्यैव वस्तुतथात्वाश्वासरूपतदनन्तरभाविनिर्णयेनैवेत्यर्थः । सिद्ध्यतीति ।। आश्वासविषयीभवतीत्यर्थः । तेन प्रमितत्वरूपसत्त्वमपि साक्षिसिद्धमिति सत्तात्रैविध्ये प्रमाणान्तरानपेक्षेति भावः । साक्षात्सत्त्वग्राहि सन्घट इत्यादिप्रत्यक्षं तु सार्वजनीनमिति न दूरतोऽन्वेषणीयमिति भावः । स्वामिनस्तु अर्थक्रियावदिति वाक्यं ‘वतिरयं न मतुप्’ इति व्याचक्रुः । तन्न बुध्यते । उत्तरमूलं सङ्गमयितुं पूर्वोक्तमनुवदति- (व्या.टि.) बाधकाभाव इति ।। विधिमुखेनेति ।। अभूद् भवति भविष्यतीति, तत्रात्रेति देशकालयोर्विधि-मुखवेद्यत्वेनेत्यर्थः ।
‘निषेधविधिरूपत्वं भावाभावत्वमत्र हि ।’
इत्यनुभाष्योक्तेः । इति तु कथमिति ।। ‘चजोः’ इति कुत्वे प्राप्ते भक्ष्ये तदभावस्यैव निपातनादित्यर्थः । न च स्रक्चन्दनादिकमिति ।। अयम्भावः- बहुव्रीहिर्ह्यन्यपदार्थप्रधानः । अत्रान्यपदार्थः स्रगादिकम् । अन्नन्तु गुणभूतम् । तद्गुणसंविज्ञानत्वाच्च प्रधानेन गुणेन चान्वययोग्यं विशेषणीयम् । न गुणेनैवेति ।। भोक्तु-कामेनैवेति ।। ‘तुंकाममनसोः’ इति स्मरणात् तुमोऽन्त्यलोपः । अन्यार्थकान्तरशब्दस्य प्रतियोगिसापेक्ष-त्वात्तमाह- प्रत्यक्षदृष्टेरिति ।। सापेक्षत्वेऽपि मयूरव्यंसकादित्वात्समासः । उपलक्षणमिति ।। निषेध्यसमर्पक-मन्नपदमित्यर्थः । मौलमितीति पदं व्याचश्व्े- एवमिति ।। प्रमाणान्तरं विशिनष्टि- बाधकं बलवदिति ।।