तत्प्रामाण्यं च स्वत ..
प्रामाण्यस्योत्पत्तिस्वतस्त्ववादः ।
मूलम्
- तत्प्रामाण्यं च स्वत एव सिद्धम् ।
टीका
ननु वाक्यस्य यथार्थज्ञानसाधनत्वलक्षणं प्रामाण्यमाप्तोक्तत्वगुणाधीनं सर्वत्रोपलब्धम् । अत एव वाक्यजन्यज्ञानस्यापि याथार्थ्यरूपं प्रामाण्यं वाक्यगताऽऽप्तोक्तत्वगुणजन्यम् । तथाच वेदस्यापौरुषेयतायां गुणाभावात्प्रामाण्यं न स्यात् । नहि बीजस्य कलमत्वाभावे कलमाङ्कुरं प्रति कारणत्वमस्ति । अत एव कारणाभावाज्ज्ञानस्यापि प्रामाण्यं न भवेदित्यत आह - तत्प्रामाण्यं चेति ।। तस्य वेदस्य यथार्थज्ञानजनकत्वलक्षणं प्रामाण्यमाप्तोक्तत्वलक्षणगुणनिरपेक्षेण स्वरूपेणैव सिद्धम् । तथा ज्ञानस्यापि याथार्थ्यरूपं प्रामाण्यं गुणानपेक्षेण वाक्येनैवोत्पद्यत इति सिद्धम् ।
अयमाशयः । वेदस्यापौरुषेयत्वं तावदुक्तवक्ष्यमाणानेकप्रमाणसिद्धम् । गुणस्य पौरुषेयवाक्येषु सन्निधिर्दृश्यते । तत्र किं दर्शनाश्रयेण प्रामाण्यं प्रति गुणस्य कारणत्वमभ्युपगम्य वेदापौरुषेयत्वं त्याज्यम्, उत प्रमाणानुसारेण वेदापौरुषेयत्वमङ्गीकृत्य क्वचिद्गुणसन्निधेर्यादृच्छिकत्वं गृहीत्वा गुणानां प्रामाण्यकारणत्वं त्याज्यमिति संशये द्वितीयपक्ष एवाऽश्रयितुमुचितः । सावकाशेनैकेन अनवकाशानां बहूनां बाधस्यायुक्तत्वाद् वैपरीत्यस्यैवोपपन्नत्वात् । दृश्यते च यादृच्छिक-संवादिनोऽनाप्तवाक्यस्य गुणाभावेऽपि यथार्थज्ञानजनकत्वम् । नच तत्र वाक्यस्याकारणत्वम् । कारणान्तरानिरूपणेनाकारणकार्योत्पत्तिप्रसङ्गादिति । एतेन, प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वादप्रमावदित्यपि बाधितविषयत्वेन परास्तम् ।
भावबोधः
नन्वन्यथाऽनवस्थानादितिवत् स्वपक्षसाधकस्य परपक्षबाधकस्य वाऽनुक्तेः कथमुत्पत्तिस्वतस्त्वं सिद्ध्येदित्यतोऽभिप्रायमाह- अयमाशय इति ।। तथा च वेदापौरुषेयत्वग्राहकप्रमाणानां निरवकाशत्वा-न्यथाऽनुपपत्तिः स्वपक्षसाधिका । यादृच्छिकसंवादिस्थले प्रामाण्यं प्रति गुणस्य व्यतिरेकव्यभिचारः परपक्षे बाधक इति द्रष्टव्यमिति भावः । प्रमेति ।। अनित्यप्रमा ज्ञानसामान्यहेतुतदतिरिक्तहेतुभ्यां जन्येत्यर्थः । तेन न भागे बाधासिद्धी व्याघातश्च । कार्यत्वे सतीति ।। ईश्वरज्ञानादौ व्यभिचारवारणाय कार्यत्वे सतीति विशेष-णम् । घटादौ व्यभिचारवारणाय तद्विशेषत्वादिति । ज्ञानसामान्ये व्यभिचारवारणाय विशेषपदमिति बोध्यम् । बाधितविषयत्वेनेति ।। प्रकृते ज्ञानहेत्वतिरिक्तहेतुजन्यत्वं हि गुणजन्यत्वे पर्यवसन्नं वक्तव्यम् । तच्च यादृच्छिकसंवादिस्थले प्रमां प्रति गुणस्य व्यतिरेकव्यभिचाराद्बाधितमिति भावः ।
भावदीपः
एवं वेदापौरुषेयत्वेऽप्रमितकर्तृकत्वानुमानं, सामान्यपरिशेषानुमाने, प्रत्यभिज्ञानं च प्रमाणमुक्त्वा तत्र वर्णानामुत्पत्तिविनाशरूपबाधकं च निरस्याधुनाऽप्रामाण्यरूपबाधकान्तरमाशङ्क्य तन्निरासकतया मूलमवतार्य योजयति- नन्वित्यादिना ।। सर्वत्रेति ।। लौकिकवाक्येष्वित्यर्थः । अत एवेति ।। आप्तोक्तत्वगुणाधीनत्वोपलम्भादेवेत्यर्थः । व्याप्तिमुक्त्वा तर्कमाह- तथाचेति ।। आपादकस्याप्रयोजकत्वं निराह- नहीति ।। अत एवेति ।। ज्ञानजनके वेदे आप्तोक्तत्वगुणाभावादित्यर्थः । व्यधिकरणे पञ्चम्यौ । व्याख्यानव्याख्येयभावेन समानाधिकरणे वा । स्वरूपेणैवेति ।। ज्ञानजननशक्त्यैवेत्यर्थः । प्रागुक्तदृढतर्कस्य का गतिरित्यतः सर्वत्र गुणाधीनतोपलब्धेः कल्पकोक्तिपूर्वमन्यथासिद्धिव्यभिचारावाह- अयमाशय इति ।। वक्ष्यमाणेति ।। श्रुतिस्मृतिरूपेत्यर्थः । उत प्रमाणेति ।। उक्तवक्ष्यमाणेत्यर्थः । यादृच्छिकत्वं दण्डरूपादि-वदवर्जनीयसन्निधिकत्वं दैवादायातत्वं वेत्यर्थः । बहूनामिति ।। प्रमाणानामित्यर्थः । गुणाभावेऽपीति ।। विषयसत्त्वं तत्र गुण इति न युक्तम् । विषयस्य ज्ञानं प्रति कारकत्वस्यैवाभावात् । विस्तरस्तु तर्कताण्डवे । एतेनेति ।। गुणस्य यादृच्छिकत्वकथनेनेत्यर्थः । ज्ञानरूपकार्येऽव्यभिचाराय तद्विशेषत्वादित्यु-क्तम् । बाधितेति ।। गुणस्योक्तविधया यादृच्छिकत्वानैकान्तिकत्वाभ्यां हेतुत्वाभावेन ज्ञानहेत्वति-रिक्तहेत्वधीनत्वाभावादिति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
।। अत एवेति ।। वाक्यप्रामाण्यस्य गुणजन्यत्वादेवेत्यर्थः । प्रामाण्यं न स्यादिति ।। यथार्थज्ञान-जनकत्वरूपं प्रामाण्यं न स्यादित्यर्थः । ननु गुणाभावेऽप्यस्तु वेदस्य प्रामाण्यमित्यत आह- न हीति ।। बीजेन कलमाङ्कुरे जननीये कलमत्वस्येव वेदेन यथार्थज्ञाने जननीये गुणस्य कारणत्वेन तदभावे तज्जनकत्वासम्भ-वादिति भावः । अत एव वेदस्यापौरुषेयत्वादेव । कारणाभावादिति ।। वाक्यगताऽऽप्तोक्तत्वगुणजन्यत्वा-भावादित्यर्थः । क्वचित् पौरुषेयवाक्ये । सावकाशेन यादृच्छिकतया सावकाशेन । एकेन गुणसन्निधानेन । बहूनाम् अपौरुषेयत्वप्रतिपादकागमानाम् । प्रमाणानां बहुत्वोपपादनायैव प्राक् ‘वेदस्यापौरुषेयत्वमुक्तवक्ष्य-माणानेकप्रमाणसिद्धम्’ इत्युक्तमिति ज्ञातव्यम् । वैपरीत्यस्यैवेति ।। निरवकाशेनैकेन सावकाशानेकबाधस्यैव युक्तत्वादित्यर्थः । आप्तोक्तत्वगुणे सति वाक्यस्य यथार्थज्ञानजनकत्वरूपं प्रामाण्यं, तदभावे तदभाव इति न सम्भवति । यादृच्छिकसंवादिस्थले आप्तोक्तत्वगुणाभावेऽपि भ्रान्तप्रतारकवाक्यस्य यथार्थज्ञानजनकत्वदर्शनेन व्यतिरेकतो व्यभिचारादित्याह- दृश्यते चेति ।। ननु यादृच्छिकसंवादिस्थले यथार्थज्ञानोत्पत्तौ वाक्यस्य कारणत्वमेव नास्तीत्याशङ्क्य निषेधति- न च तत्रेति ।। प्रामाण्यस्योत्पत्तौ ज्ञानजनकातिरिक्तजन्यत्व-रूपपरतस्त्वसाधकम् अनुमानमाशङ्क्य निराकरोति- एतेनेति ।। अधीनत्वं जन्यत्वम् । ननु प्रमाया अपि जन्यत्वेन ज्ञानहेतुजन्यतया तदतिरिक्तहेतुजन्यत्वाभावाद्व्याघात इति चेन्न । ज्ञानहेतुजन्यत्वे सति तदतिरिक्तहेतु-जन्येत्यभिप्रेतत्वात् । अप्रमाया दोषजन्यत्वेन साध्यपर्यवसानं पक्षे तु गुणजन्यत्वेनेति विवेकः । ईश्वरप्रमायां व्यभिचारवारणाय कार्यत्वे सतीति विशेषणम् । तावत्युक्ते निर्विकल्पकज्ञाने व्यभिचारः, तस्य निर्विकल्पक-प्रत्यक्षस्य भूयोऽवयवेन्द्रियसन्निकर्षरूपगुणजन्यत्वाभावेन साध्याभावाद् अतस्तद्विशेषत्वादित्युक्तम् । सप्रकारक-ज्ञानत्वं तदर्थ इति न व्यभिचारः । अथ वा घटादौ व्यभिचारवारणाय तद्विशेषत्वादित्युक्तम् । ज्ञानविशेष-त्वादित्यर्थः । ज्ञानसामान्ये व्यभिचारवारणाय विशेषपदमिति द्रष्टव्यम् । एतेनेत्यस्य विवरणम्- बाधित-विषयत्वेनेति ।। प्रकृते ज्ञानहेतुजन्यत्वे सति तदतिरिक्तहेतुजन्यत्वं साधयता हि गुणजन्यत्वेन पर्यवसानं वक्तव्यम् । तस्य पक्षीभूतयादृच्छिकसंवाद्यनाप्तवाक्यजन्यप्रमायाम् अभावाद् बाधितविषयत्वमित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु वेदतज्जन्यज्ञानरूपकरणफलयोः प्रामाण्यस्वतस्त्वस्य ‘प्रामाण्यं च स्वत एव’ इत्यादिना पूर्वमभिधानात् तत्प्रतिपादकस्य ‘तत्प्रामाण्यं च’ इत्यादिग्रन्थस्य वैयर्थ्यमित्याशङ्क्य वेदापौरुषेयत्वानुमान-बाधकतया पौरुषेयत्वानुमानानुग्राहकतया परोक्तस्य, वेदापौरुषेयतायां च करणफलयोः प्रामाण्यं नोत्पद्यत इति तर्कस्य तयोरुत्पत्तौ प्रामाण्यस्वतस्त्वप्रतिपादनेन निराकरणार्थत्वान्न तदिति भावेनोत्पत्तौ प्रामाण्यस्य स्वतस्त्वप्रतिपादकतया उत्तरग्रन्थं योजयितुं करणफलयोरुत्पत्तौ परतस्त्वशङ्कामुत्थापयति- नन्विति ।। ननु (पां.टि.) वेदस्याऽप्तोक्तत्वाभावेऽपि यथार्थज्ञानजनकत्वसम्भवादप्रयोजकमेतदित्यत आह- न हीति ।। अन्यथा तदपि स्यादिति भावः । उक्तवक्ष्यमाणेति ।। ‘वेदोऽपौरुषेयोऽप्रमितकर्तृकत्वात्’ इत्यादिभिरुक्तप्रमाणैः, ‘वाचा विरूप नित्यया’ इत्यादिभिर्वक्ष्यमाणैश्च प्रमाणैः सिद्धमित्यर्थः । वैपरीत्यस्यैवेति ।। निरवकाशैरनेकैः प्रमाणैः सावकाशस्यैकस्य प्रमाणस्य बाधस्योपपन्नत्वादित्यर्थः । व्यभिचाराच्च न गुणस्य प्रामाण्यं प्रति हेतुत्व-मित्याह- दृश्यते चेति ।। कुसुमाञ्जल्युक्तमनुमानमनूद्य निराकरोति- एतेनेति ।। प्रमेति ।। अनित्यप्रमेत्यर्थः। तेन नेश्वरप्रमांशे बाधासिद्धीति भावः । कार्यत्वे सतीति ।। अत्रेश्वरप्रमायामव्यभिचाराय कार्यत्वे सतीति विशेषणम् । अनित्यज्ञानत्वरूपसामान्यधर्मावच्छिन्नेऽनित्यज्ञानेऽव्यभिचाराय तद्विशेषत्वादिति विशेष्योपादान-मिति द्रष्टव्यम् ।
केचित्तु,यद्यपि परैर्जन्यज्ञानत्वादिति हेतूकृतं, न तु कार्यत्वे सति तद्विशेषत्वादितीति नैवमनुवादो युक्तः । तथाऽपि जन्यज्ञानत्वस्य ज्ञानसामान्यसामग्रीजन्यत्वेनाप्युपपत्त्या तद्विशेषसामग्रीजन्यत्वेऽप्रयोजकतया ज्ञान-विशेषत्वस्यैव विशेषसामग्रीजन्यत्वप्रयोजकत्वमाश्रयणीयम् । एवं चात्र हेतावप्रयोजकत्ववारणाय तद्विशेषत्वा-दिति विशेष्योपादानम् । ‘यन्निष्ठा यन्निरूपिता व्याप्तिर्येन विशेषणेन विना न गृह्यते’ इत्यादि वदद्भिः परैरप्रयोजक-त्वाहितव्यभिचारवारकस्यापि सार्थक्यस्यावश्यं वक्तव्यत्वादिति ज्ञापनायेह टीकायां जन्यज्ञानत्वादित्यनुक्त्वा कार्यत्वे सतीत्याद्यनुवादः कृतः । एतदनुरोधेनैव तर्कताण्डवेऽपि तथैव कृतमित्याहुः । तत्तु ‘प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् । तदन्यस्मिन्ननाश्वासान्न विधाऽन्तरसम्भवः’ इति कुसुमाञ्जलिद्वितीयस्तबकगतकारिका-विवरणरूपोत्तर ‘तथा हि प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात्’ इत्याद्युदयनग्रन्थ-तद्विवरणरूपवर्धमानादिग्रन्थादर्शनमूलकत्वादुपेक्ष्यम् । एतेनेत्युक्तमेव विशदयति- बाधितविषयत्वेनेति ।। प्रमाया ज्ञानत्वेन तद्धेतोर्ज्ञानहेतुत्वेन तदतिरिक्तजन्यत्वस्य तत्र बाधितत्वादित्यर्थः।
लघुप्रभा
(व्या.टि.)
अत्र वेदापौरुषेयत्वे गुणाभावेन प्रामाण्याभावमापादयितुं गुणस्य प्रामाण्यकारणत्वे सिद्ध एव कारणाभावेन कार्याभावस्य सुप्रसञ्जनत्वाद्गुणस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यामुपपादयति - नन्वि-त्यादिना ।। नन्वेतदसङ्गतम् । परतस्त्ववादिना हि ज्ञानगतयाथार्थ्यस्य गुणजन्यत्वं साधनीयम्, ‘प्रमाऽसाधारण-कारणं गुणः’ इति तल्लक्षणकरणात् । अनुमास्यति चात्र तथैव ‘प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना’ इति । अतः प्रमासाधनत्वस्य गुणकारणत्वाभिधानं केन सङ्गतम् । अयुक्तं च । न हि लोके यत्कार्यस्य कारणं तत् तत्कारणताया अपि कारणम् । पटकारणतन्तुसंयोगादेस्तन्तुगतपटकारणत्वाकारणत्वात् । न चात्र गुणभेदः । आप्तोक्तत्व-स्यैवोभयत्र गुणत्वात् इति चेन्न । भावानवबोधात् । तथा हि । याथार्थ्यरूपस्य ज्ञानप्रामाण्यस्य ज्ञानकारणातिरिक्त-कारणाजन्यत्वं स्वतस्त्वम् । तथा ज्ञानजननशक्तेरेव प्रमाजनकत्वं तद्वत्सहजत्वं वा करणप्रामाण्यस्य स्वतस्त्वं स्वतस्त्ववादिनोऽभिप्रेतम् । यद्वक्ष्यति ‘औत्सर्गिकत्वात् स्वतःप्रामाण्यस्य’ इति । अतः करणप्रामाण्यस्यान्याऽ-हितत्वेन परतस्त्वे ज्ञानप्रामाण्यस्यापि परतस्त्वं तत एव सेत्स्यति । यथा करणस्य अप्रमाजनकत्वशक्तेः दोषाऽ-(व्या.टि.) हितत्वेऽप्रमात्वस्यापि (दोषाहितत्व) तज्जन्यत्वमित्यनुशयानः करणप्रामाण्यस्य परतस्त्वं तदानु-षङ्गिकतया फलप्रामाण्यस्य परतस्त्वमप्यसाधयदिति नासङ्गतिः । गुणाधीन इति ।। अध्युपपदात् ‘अध्युत्तरपदात् खः’ इति खः । तस्य ईनादेशः । गुणाऽहिता प्रमाजननशक्तिर्न स्वाभाविकीत्यर्थः । अन्याऽहितत्वं परतस्त्वं न त्वनेकान्याहितत्वं, दोषाऽहिते तथा दर्शनात् । अनन्यथासिद्धान्वयव्यतिरेकौ दर्शयति - सर्वत्रेति ।। ननु ज्ञानप्रामाण्यस्योत्पत्तिस्वतस्त्वे कथं तद्विरुद्धं(तदविरुद्धं)करणप्रामाण्यस्योत्पत्तौ परतस्त्वं(स्वतस्त्वं) प्रतिज्ञायत इत्यतस्तदप्यानुषङ्गिकमित्याह- अत एवेति ।। करणशक्तेः परायत्तत्वादित्यर्थः । एवं तत्परतस्त्वं प्रतिज्ञाय वेदापौरुषेयत्वेऽनिश्व्ं प्रसञ्जयति - तथा चेति ।। ननु गुणहीनमपि वेदवाक्यं शाब्दप्रमाका(क)रणं किं न स्यादित्यतो यद् यदधीनं तत् तदभावे न इत्येतदुपपादयति- न हीति ।। तदानुषङ्गिक बाधकान्तरं प्रसञ्जयति- अत एवेति ।। गुणाभावादेवेत्यर्थः । सिद्धान्ती करणफलोभयप्रामाण्यस्वतस्त्वं निरुच्य प्रतिजानीते- तस्ये-ति ।। स्वरूपेणैवेति ।। स्वभावेनैवेत्यर्थः । सहजशक्त्येति यावत् । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतो मूलाशयं प्रकाशयति- अयमाशय इति ।। वेदस्यापौरुषेयत्वमिति ।। अत्र वेदस्वरूपं तदपौरुषेत्वं च सुधायां प्रश्नपूर्वकं निरुक्तम् ‘ननु को वेदः, किञ्च तस्यापौरुषेयत्वम् । क्रमविशेषविशिष्टवर्णा वेदः । तस्य नियतैकप्रकारत्व-मपौरुषेयत्वम् । स्वतन्त्रपुरुषपूर्वकत्वाभाव इति यावत्’ इति । यादृच्छिकत्वं रासभादिवद्दैवादागतत्वम् । वैपरीत्यस्येति ।। बहुभिर्निरवकाशैः सावकाशैकबाधस्येत्यर्थः । गुणस्य प्रामाण्यव्यतिरेकाभावं दर्शयति- दृश्यते चेति ।।
नन्वेतत्सुधाविरुद्धम् । तत्र हि ‘केनचित्पञ्च वराटिकाः पाणौ गृहीत्वा कति वराटिका इति पृश्व्ः सम्भावनया पञ्च वराटिका इत्याह । दैवात्पञ्च वराटिका आसन् । तत्र वाक्यस्य यादृच्छिकसंवादिनोऽप्यप्रामाण्यम्’ इत्य-प्रामाण्याभिधानादिति चेन्न । अभिप्रायसद्भावात् । तथा हि । तत्र हि ज्ञानस्य याथार्थ्येऽपि न वाक्यस्य तज्जन-कत्वम् । तस्य प्रत्यक्षजन्यत्वात् । अत्र तु वाक्यस्यैव तज्जनकत्वात्प्रामाण्यम् । अत एवात्र वाक्यस्याकारणत्व-माशङ्क्य कारणान्तराभावेन तत्प्रासाधि । वाक्यस्य प्रामाण्ये गुणव्यभिचारोऽत्राभिहितः । सुधायां तु अनाप्तिमूलत्वादप्रामाण्यमेवेति न परस्परविरोधः । कारणान्तरेति ।। प्रत्यक्षादेर(भावा)सम्भवादिति भावः । पूर्वोक्तव्यतिरेकाभावं ज्ञानप्रामाण्यपरतस्त्वानुमानेऽप्यतिदिशति- एतेनेति ।। प्रतियोगिविशेषानुपादाने ज्ञानहेतोरप्यन्यापेक्षयाऽतिरिक्तत्वात्सिद्धसाधनमतो ज्ञानहेत्विति । ईशप्रमायां व्यभिचारवारणाय कार्यत्वे सतीति । बाधितेति ।। प्रमाया अपि ज्ञानत्वेन तद्धेतोर्ज्ञानहेतुतया तदतिरिक्तजन्यत्वसाधने बाध इत्यर्थः । यद्वा गुणस्योक्तदिशा यादृच्छिकत्वानैकान्त्याभ्यां हेतुत्वाभावेन ज्ञानहेत्वतिरिक्तहेत्वधीनत्वसाधने बाध इत्यर्थः ।