तथैव सर्वयुक्तिविरुद्धञ्च ...

जीवेश्वरैक्यस्य युक्तिविरुद्धत्वोपपादनाय परमतोपन्यासः

मूलम्

- तथैव सर्वयुक्तिविरुद्धञ्च ।।

टीका  

एवं जीवेश्वरैक्यस्य सर्वप्रमाणविरुद्धत्वं तदसिद्धत्वञ्चोक्त्वा तत्र प्रत्यक्षागमविरुद्धत्वं तदसिद्धत्वञ्चोपपाद्य इदानीमनुमानविरुद्धत्वं तदसिद्धत्वञ्चोपपादयितुं प्रतिजानीते- तथैवेति ।। यथा प्रत्यक्षागमविरुद्धं तदसिद्धञ्च तथैवेत्यर्थः । सर्वेति प्रत्यक्षागममूलानां साधनदूषणरूपाणां वा ग्रहणम् । चशब्देन तदसिद्धत्वं समुच्चिनोति ।

कथं जीवपरमात्मैक्यस्य युक्तिविरुद्धत्वादिकमिति चेत्, ऐक्यवादिनोऽनेकविधाः केवलैक्य-वादिनो भेदाभेदवादिनश्चेति  । तत्राऽद्या मायावादिनो ब्रुवते । सजातीयविजातीयस्वगतभेदवर्जितं निर्विशेषं ब्रह्मैव तत्त्वम्    तद् अज्ञानवशाज्जगदीश्वरजीवरूपेण प्रतिभासते    अज्ञानञ्च न ज्ञानाभावः । किन्तु भावरूपमनाद्यनिर्वाच्यम् आवरणविक्षेपव्यापारम् । स्वरूप-प्रकाशप्रतिबन्ध आवरणम् । अतदाकारप्रतिभासो विक्षेपः । तच्च शास्त्रजनिततत्त्वज्ञाननिवर्त्यत्वाद् अज्ञानमविद्येत्यादिशब्दैरुच्यते । तद् द्विविधं मायाऽविद्याभेदादित्येके ।

अपरे  तु,   स्वाश्रयव्यामोहनाव्यामोहनरूपव्यापारभेदादेकमेव  वस्त्वविद्या  मायेत्युच्यत इत्याहुः । तत्र मायावच्छिन्नं ब्रह्मैवेश्वर इत्युच्यते । स च मायामयसार्वज्ञसर्वेश्वरत्वाद्युपेतो वियदादेर्विश्वस्य कर्ता स्थापकः संहर्ता च । विश्वं च न सन्नासन्नसदसत् किन्त्वनिर्वाच्यमेव मायोपादानकम् । शुक्तिकायां रजतमिव ब्रह्मण्यारोपितमेव प्रतीयते । अत एवेश्वरस्य तत्कर्तृत्वा-दिकमपि मायामयं मिथ्यैव । किन्त्वसावधिष्ठानयाथात्म्यज्ञानवत्त्वान्न मुह्यति । ब्रह्मविवर्तरूपं जगत् पश्यत्येव केवलम् । जीवस्तु अविद्यावच्छिन्नं ब्रह्मैव, यथा दर्पणाद्युपाध्यवच्छिन्नं मुखमेव प्रतिमुखम् । अवच्छेदमात्रमाविद्यकत्वान्मिथ्या । यथा तत्र बिम्बे मुखेऽविद्यमानं मलिनत्वं दर्पणोपाधिवशात्प्रतिबिम्बे प्रतीयते तथाऽविद्यावशादेव प्रत्यगात्मनि ब्रह्मप्रतिबिम्बेऽहङ्काराख्यं द्रव्यमविद्योपादानकं मिथ्याभूतमेवाऽरोप्यते । तच्च ज्ञानशक्तिमाश्रित्य मन इति, क्रियाशक्तिमाश्रित्य प्राण इति च गीयते । तद्धर्मा एव कर्तृत्वभोक्तृत्वसुखदुःखादयो जपाकुसुमगतं लौहित्यं स्फटिकमणाविव सन्निधानादात्मन्यारोप्यन्ते । स चाविद्याऽहङ्काराद्यध्यासद्रष्टा प्रत्यगात्मा साक्षी-त्युच्यते । तस्य साक्षित्वमप्याविद्यकमेव न सत्यम् । यथा रजताध्यासो ज्ञानार्थरूपो मिथ्या तथाऽविद्याध्यासोऽपीति ।

ते च द्विविधाः । एकजीववादिनो बहुजीववादिनश्चेति । एक एव ब्रह्मप्रतिबिम्बो जीवः, अन्ये जीवा जडवत्स्वरूपेणैव कल्पिताः, यथा स्वप्ने यथा वा चित्रभित्तौ । तत्र यः परमार्थतो जीवः तस्य तत्त्वज्ञानोदये तत्कल्पितोऽयं सर्वो बाह्मभ्यन्तररूपः प्रपञ्चो निवर्तते, प्रतीतिमात्रशरीरत्वाद्, अन्यस्य प्रत्येतुरभावात्, ईश्वरभेदस्यापि तेनैव कल्पितत्वादित्येकजीववादिनां मतम् । बहुजीववादिनान्तु मुखमिवानेकेषु दर्पणेष्वनेकाविद्यासु प्रतिबिम्बितं ब्रह्मानेकजीवभावमापद्यते । तत्र विच्छेद-मात्रमारोपितम् । जीवास्त्वनन्ताः स्वरूपेण सत्या एव । तत्र यस्य तत्त्वज्ञानमुत्पद्यते सोऽपव्र-ज्यते । अन्ये संसरन्तीति ।

भेदाभेदवादिनोऽपि त्रिविधाः । तत्रैके वर्णयन्ति- सार्वज्ञादिगुणोपेतं सर्वदोषदूरं  ब्रह्म सच्छक्ति-चिच्छक्तियोगाद् द्विविधम्    तत्र सच्छक्तिकं जगदुपादानकारणं भवति । जगच्च सत्यमेव  । चिच्छक्तिकन्तु अनाद्यन्तःकरणोपाधिपरिच्छिन्नं जीवेश्वरभावमापद्यते । यथैकमेवाऽकाशं घटमठाद्युपाधिपरिच्छिन्नं घटाकाशादिभावम् । तत्रेश्वरोऽविलुप्तज्ञानत्वान्न संसरति । केवल-मुपाधिसम्बन्धाज्जगत्सर्जनादिक्रियावेशमनुभवति । जीवास्तु बहवोऽज्ञानमिथ्याज्ञानतत्संस्कार-कामकर्मादिवशात् सत्यानेवान्तःकरणधर्मान्  दुःखादीनात्मन्यारोप्य संसरन्ति । एवं भेदाभेदयोः सत्त्वेऽप्यभेदः स्वाभाविको भेदस्त्वौपाधिकः । तत्र यस्य निवृत्तकर्मसमुच्चितै(तेनै)क्य-ज्ञानेनोपाध्यादिकमत्यन्तं विनश्यति स तत्कृतभेदनाशात् स्वाभाविकं ब्रह्मभावमापद्यते । अन्ये तु संसरन्तीति ।

अन्ये त्वाचक्षते- एकस्यैव ब्रह्मणोऽनेके स्वाभाविका एवांशा जीवा न त्वौपाधिकाः । अतो भेदाभेदयोः स्वाभाविकत्वान्मुक्तावपि भिन्नाभिन्ना एव जीवाः । केवलमज्ञानादिनिमित्तं दुःखादिकमानन्दाद्यावरणञ्च ज्ञानकर्मभ्यां निवर्तत इति ।

अपरे तु मन्यन्ते- जीवा ब्रह्माभिन्नाः । भेदस्तु न कल्पितो न चौपाधिको नाप्यंशांशिभाव-निमित्तः । किन्त्वतिरेकनिमित्त एव । अन्यत्समानमिति ।

भावदीपः

अतः परमनुमानविरोधोक्तिपरो ग्रन्थः । प्रत्यक्षाद्यमूलकानुमानस्य जीवेश्वरैक्याविरोधित्वादिति वा धूमाद्यनुमानानामविरोधकत्वादिति वाऽभिप्रायेण सर्वपदार्थमाह - सर्वेतीति ।। जीवेश्वराभेदग्राहिणामिति योज्यम् । कथं जीवपरमैक्यस्य युक्तिविरुद्धत्वादिकमिति चेदित्यस्य प्रमाणशून्यत्वात्प्रमाणविरुद्धत्वाच्चेति प्रतिज्ञापूर्वं पराभिमतदृश्यत्वाद्यनुमानानां दुष्टत्वोक्त्या तदसिद्धत्वं शिष्योपदेशाद्यर्थं प्रवृत्त्यन्यथाऽनुपपत्त्यादियुक्ति-विरुद्धत्वं च ‘न तावत्’ इत्यादिवाक्यव्याख्यानावसरेऽग्रे विवक्षुः, एकजीवेति मूलसूचितमतभेदं विविच्य दर्शयति- ऐक्यवादिन इति ।। भेदाभेदेति ।। तन्मतस्याप्यग्रे ‘उपाधिभेदाङ्गीकारे’ इत्यादिना निरासात्तद्विभागोऽपि दर्शितः । सजातीयेति ।। जीवजडप्रतियोगिकस्वनिष्ठभेदविवर्जितं निर्धर्मकं चेत्यर्थः । तदज्ञानेति ।। तत्राध्यस्ताज्ञानेत्यर्थः । एतच्चभ्रान्तिकल्पितत्वे च जगतः’ इति वक्ष्यमाणोपयोगायोक्तम् । ननु न्यायमतरीत्या अज्ञानस्य ज्ञानाभावरूपत्वे कथमीश्वराभेदेन जगदवभासकत्वम्, भावरूपत्वे वा तस्याऽवरणत्वेन जगदीश्वरयोः शुक्तिरूप्ययोरिवाभेदावभासकत्वमित्यत आह- अज्ञानं चेति ।। अतदाकारेति ।। तथा च तदज्ञानवशा-दित्युक्तिर्युक्तैवेति भावः । ननु ज्ञानाभावस्य ज्ञानविरोधित्वादज्ञानत्वं युक्तं, भावरूपस्य तु कथमित्यत आह- तच्चेति ।। जीवेश्वरादिचेतनभागोक्त्यर्थमाह- द्विविधमिति ।। अविद्या मायेत्युच्यत इति यथाक्रममन्वयः । ईश्वरविभागोक्तेरुपयोगमाह- स च मायामयेत्यादि ।। एतेन ‘यः सर्वज्ञः’ ‘एष सर्वेश्वरः’ ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिगतिरुक्ता भवति । एषां धर्माणां सत्यत्वे निर्विशेषमित्युक्तिविरोध इत्यतो मायामयेत्युक्तम् । मयड् विकारार्थः । विश्वस्य कर्तेत्याद्युक्त्या प्रतीतसत्यत्वं निराह- विश्वं चेति ।। विश्वं मायोपादानकमित्याद्युक्त्या तदज्ञानादिति प्रागुक्तस्य विवरणमेतदिति ज्ञेयम् । मिथ्यैवेति ।। नन्वेवं तद्विषयकभ्रान्तिमत्त्वे मायायाः स्वाश्रयाव्यामोहकत्वभङ्ग इति कृतप्रश्नस्योत्तरम्- किन्त्वित्यादि ।। ब्रह्म-विवर्तेति ।। ब्रह्मण्यध्यस्तमायोपादानकरूपमित्यर्थः    अविद्या  चेत्युक्तविभागोपयोगमाह-जीवस्त्विति ।। तद्धर्मा इति ।। अहङ्कारधर्मा इत्यर्थः । मूलोपयोगाय जीववादिविभागमाह- ते चेति ।। मायावादिनः । प्रतीतिमात्रशरीरत्वादिति ।। प्रपञ्चस्येत्यनुषङ्गः । ईश्वरोऽस्तु प्रत्येतेत्यत आह- ईश्वरभेदस्येति ।। कल्पक-जीवस्य तत्त्वज्ञानेन सोऽपि निवर्तत एवेति भावः ।

बहुजीववादिपक्षेऽपीत्यादिवक्ष्यमाणोपयोगायाऽह-  बहुजीवेति ।। विच्छेदमात्रं भेदमात्रम् । स्वरूपे-णेति ।। विशेष्यरूपेणेत्यर्थः । अपव्रज्यते मुक्तो भवति । इतिशब्दो बहुजीववादिप्रक्रियासमाप्तौ । शिष्टं  प्राग्वदेव ज्ञेयमिति भावः । मतत्रयस्याप्यग्रे निरासात्तद्विभागमाह- भेदाभेदवादिनोऽपीति ।। उपादानादीति ।। निमित्त-मादिपदार्थः । घटाकाशादिभावमिति ।। आपद्यते इत्यनुषङ्गः । क्रियावेशः क्रियावत्त्वम् । अज्ञानेति ।। ब्रह्मभावाज्ञानतद्विपरीतज्ञानेत्यर्थः । आत्मन्यारोप्येति ।। आत्मीयत्वेन ज्ञात्वेत्यर्थः । निवृत्तकर्मेति ।। निष्काम-कर्मेत्यर्थः । स तत्कृतेति ।। सः जीवः उपाधिनाशकृतेत्यर्थः । अज्ञानादीति ।। मिथ्याज्ञानादिरादिशब्दार्थः । अतिरेकेति ।। विश्लेषविशेषोऽतिरेकः ।

वाक्यार्थदीपिका

(श्री.टि.)

ननु युक्तिशब्दवाच्यानुमानस्यैकत्वात्कथं सर्वेत्युक्तमित्यतः प्रकारद्वयेन तदर्थमाह- प्रत्यक्षेत्या-दिना ।। ‘युक्तिश्च त्रिविधा मता । व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा’ इत्यनुव्याख्यानं हृदि निधायोक्तम्- प्रत्यक्षेत्यादि ।। मूलानां मूलिकानां युक्तीनामित्यर्थः । साधनेति ।। साधनानुमानदूषणानुमान-रूपाणां वा युक्तीनामित्यर्थः । व्यक्तिभेदाद्बहुवचनमत्रेति ज्ञातव्यम् । तदसिद्धत्वमिति ।। युक्त्यसिद्धत्वमि-त्यर्थः । तदज्ञानवशाज्जगदित्यादि ।। जगद् वियदादि जडम् । तद्ब्रह्म जगदादिरूपेणाज्ञानवशात्प्रतिभासत इत्यन्वयः । प्रातिभासिकरजतादिव्यावृत्त्यर्थमनादीति विशेषणम् । प्रागभावव्यावृत्त्यर्थं भावरूपमित्युक्तम् । ब्रह्मव्यावृत्त्यर्थमनिर्वचनीयमित्युक्तम् । व्यापारं व्यापारयुक्तम् । स्वरूपेति ।। अहमिति स्वप्रकाशतया नित्यसिद्धप्रत्यक्चैतन्याभिन्नैक्यस्यापि प्रकाशप्राप्तिप्रतिबन्धकमावरणमित्यर्थः । अतदाकारो दुःखादिः । अत्र विक्षेपस्याऽवरणकार्यत्वं ज्ञातव्यम् । नन्वज्ञानस्य भावरूपत्वमङ्गीकृत्य ज्ञानाभावत्वानङ्गीकारे अज्ञानमविद्येत्यत्र नञर्थः क इति चेत्, असुरादिशब्देष्विव तद्विरुद्धत्वमेवेति वदामः । अज्ञानस्य ज्ञानविरुद्धत्वमेव कुत इति चेत्तत्राऽह- तच्चेति ।। भावरूपमप्यज्ञानमित्यर्थः । तद् अज्ञानम् । एकमेव वस्त्विति ।। अज्ञानाख्यमेकमेव वस्तु तस्य स्वाश्रयव्यामोहनरूपव्यापारो यदा तदाऽविद्येत्युच्यते । यदा तु स्वाश्रयाव्यामोहनरूपव्यापाररस्तदा मायेत्युच्यत इत्यर्थः । न सदिति ।। बाध्यत्वादिति भावः । नासदिति ।। प्रतीतत्वादिति भावः । न सदस-(श्री.टि.) दिति ।। विरोधादिति भावः । अनिर्वाच्यमेवेति ।। सदसद्विलक्षणमेवेत्यर्थः । अत एव विश्व-स्याऽरोपितत्वादेव । असौ ईश्वरः । न मुह्यतीति ।। तथा च मायायाः स्वाश्रयाव्यामोहकत्वे आश्रयस्याधि-ष्ठानयाथात्म्यज्ञानवत्त्वं निमित्तमित्युक्तं भवति । ननु कल्पितविश्वद्रश्व््रीश्वरस्य कथं मोहाभाव इत्यत आह- ब्रह्मविवर्तरूपमिति ।। ब्रह्मण्यध्यस्तरूपं यज्जगदित्यर्थः । तथा च कल्पितं कल्पितत्वेनैव पश्यतीति न दोष इति भावः । नन्वविद्यावच्छिन्नस्य ब्रह्मण एव जीवत्वे संसारो जीव एव कस्मात् प्रतीयत इति चेन्न । एतन्मते जीवब्रह्मणोर्बिम्बप्रतिबिम्बभावाङ्गीकारात् । अविद्यारूपोपाधेश्च प्रतिबिम्बपक्षपातित्वात् । जीव एव संसार इत्येतद् दृष्टान्तपूर्वकमुपपादयति- यथा दर्पणादीति ।। मुखमेव बिम्बमेव । अवच्छेदो भेदः । अहङ्काराख्यं द्रव्यमिति ।। चिदचित्संवलनात्मकाहङ्कारस्यैव संसारत्वादिति भावः । तच्चेति ।। अहङ्काराख्यं द्रव्यमित्यर्थः । ज्ञानशक्तिं ज्ञातृत्वशक्तिम् । क्रियाशक्तिं कर्तृत्वशक्तिम् । तद्धर्मा एव अहङ्कारधर्मा एव । सन्निधाना-दिति ।।  अहङ्काराख्यान्तःकरणसन्निधानादित्यर्थः । ननु साक्षादध्यासद्रष्टृत्वरूपं साक्षित्वमेव प्रत्यगात्मनि सत्यभूतो धर्मः प्राप्त इति चेत्तत्राऽह- तस्येति ।। अध्यासो द्विविधः, स च मिथ्येति दृष्टान्तपूर्वकमाह- यथा रजतेति ।। ते चेति ।। मायावादिन इत्यर्थः । बाह्याऽभ्यन्तररूप इति ।। वियदादिरूपो दुःखादिरूपश्चेत्यर्थः। प्रतीतिमात्रेति ।। प्रातिभासिकत्वादित्यर्थः । तथा च तस्य तत्त्वज्ञानोदयेन जगत्प्रतीत्यभावे तत्कल्पितत्वेन तत्प्रतीतिमात्रशरीरकस्य प्रपञ्चस्यापि निवृत्तिर्भवतीति भावः । ननु यस्य तत्त्वज्ञानं नोत्पन्नं सोऽन्यो जीव एव प्रपञ्चप्रत्येता भविष्यति । तथा च तत्प्रतीतिशरीरकत्वान्न प्रपञ्चनिवृत्तिरित्यत आह- अन्यस्येति ।। प्रत्येतुः ज्ञातुः जीवस्य । अभावादिति ।। तस्यापि तेनैव कल्पितत्वेन तस्य तत्त्वज्ञानोदये तस्यापि निवृत्तत्वादिति भावः । नन्वथापि ईश्वरः प्रत्येता भविष्यति । तथा च तत्प्रतीतिशरीरकत्वादनिवृत्तिः प्रपञ्चस्य युक्तेति चेत्तत्राऽह- ईश्वरभेदस्यापीति ।। इदं ब्रह्म, अयमीश्वर इत्येवं भेदस्यापीत्यर्थः । तथा च तस्य तत्त्वज्ञानोदये ईश्वरस्यापि निवृत्तत्वादिति भावः । अविद्यासु उपाधिभूतासु । विच्छेदमात्रं जीवानां, ब्रह्मणश्च भेदमात्रम् । स्वरूपेण चैतन्यरूपेण । अपव्रज्यते अपवर्गवान्मुक्तो भवति ।

सच्छक्तीति ।। तथा च सच्छक्तिकं चिच्छक्तिकं चेति द्विविधमित्यर्थः । उपादानकारणं परिणामिकार-णम् । मायिमत इव भास्करैकदेशिमते अविद्या नोपाधिः किन्त्वन्तःकरणमेवेत्याह- अनाद्यन्तःकरणेति ।। परिच्छिन्नं सदिति शेषः । जीवेश्वरभावमिति ।। नन्वन्तःकरणाख्योपाधिपरिच्छिन्नस्य चिच्छक्तिकस्य जीवेश्वरोभयभावः कथमिति चेन्न । उपाधिभूतेऽन्तःकरणेऽपि वैचित्र्यस्य कल्पनीयत्वादिति भावः । यथोक्तं न्यायामृते-‘विचित्रान्तःकरणोपाधिपरिच्छिन्नं चिच्छक्तिकं ब्रह्म जीवादित्वमापद्यते’ इति । नन्वीश्वरस्य सृष्ट्यादिकर्तृत्वाङ्गीकारात्स एव संसारः प्राप्त इति न संसरतीत्ययुक्तमिति चेत्तत्राऽह- केवलमिति ।। उपाधि-सम्बन्धाद् अन्तःकरणाख्योपाधिसम्बन्धात् । न तु स्वत इति भावः । क्रियावेशं सृष्ट्यादिकर्तृत्वम् । औपाधिक उपाधिजन्यः । तत्र यस्येत्यादि ।। अस्य ज्ञानकर्मसमुच्चयवादित्वादिति भावः । स्वाभाविका एवांशा इति ।। (श्री.टि.) इदमत्राऽकूतम्- ब्रह्मैकमेव स्वभावसिद्धं तत्त्वम् । तत्परमार्थभूतमायासम्बन्धादीश्वरतामापद्यते । स च सर्वज्ञः सर्वेश्वरो जगज्जन्मादिकर्ता । जीवास्तु ब्रह्मणोऽशा एव वह्नेरिव विष्फुलिङ्गाः । अत एव ब्रह्मणो भिन्नाभिन्नाः परस्परमीश्वराच्च भिन्ना एव । ब्रह्म तु सकलचेतनसमुदायात्मकमतिरिक्तं चेति । यथोक्तमनु-व्याख्याने-‘ईशाख्या समुदाये स्यात्’ इति । औपाधिका अन्तःकरणोपाधिनिमित्तकाः । ननु जीवानां ब्रह्माभिन्नत्वे कथं दुःखाद्यनुभव आनन्दाद्यनुभवश्चोपपद्यत इत्यत आह- केवलमिति ।। भेदस्त्विति ।। प्रतीयमानो भेदस्त्वित्यर्थः । न कल्पित इति ।। मायावादिरीत्येत्यर्थः । न चौपाधिक इति ।। प्रथमोपन्यस्तभास्करैक-देशिमतरीत्येत्यर्थः । नाप्यंशांशिभावेति ।। अन्ये त्वित्यादिनोपन्यस्तद्वितीयभास्करैकदेशिरीत्येत्यर्थः । तर्हि भेदः कीदृश इति पृच्छति- किन्त्विति ।।  उत्तरमाह-  अतिरेकनिमित्त एवेति ।। भेदव्यवहारसम्पादनपटुर्धर्म-विशेषोऽतिरेकः, तन्निमित्तो भेद इत्यर्थः । अन्यत्समानमिति ।। केवलमज्ञानादिनिमित्तं दुःखादिकमानन्दा-द्यावरणं च निवृत्तकर्मसमुच्चितेनैक्यज्ञानेन निवर्तत इत्येतत्समानमित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

मूले ‘युक्तिविरुद्धं च’ इत्येतावतैवैक्यस्य युक्त्यसिद्धत्वयुक्तिविरुद्धत्वप्रतिज्ञायाः सिद्धत्वात् सर्वपद-मनर्थकमित्यतस्तत्सङ्ग्राह्यप्रदर्शनेन तत्सार्थक्यमुपपादयति- सर्वेतीति ।। ऐक्यवादो न युज्यत इत्येतावता पूर्तेः ‘एकजीववादः’ इति विशेषोक्त्यानर्थक्यमित्यतः, तथोक्त्या सूचितं तद्वादानामनेकविधत्वं दर्शयति- ऐक्य-वादिनोऽनेकविधा इति ।। तदज्ञानेति ।। तदिति भिन्नं पदम् । ततश्च तद्ब्रह्मैवाज्ञानवशाद् जगदादिरूपेण प्रतिभासत इत्यन्वयः । नन्वेवं ज्ञानाभावारूपाज्ञानस्य मुक्तेः पूर्वमिव मुक्त्यनन्तरमपि सत्त्वात् तद्दशायामपि तस्य तथा प्रतिभासप्रसङ्ग इत्यतो भवेदेतदेवं यद्यज्ञानं ज्ञानाभावः स्यात्, न चैवमित्याह- अज्ञानं चेति ।। ननु यदि तद्भावरूपं कुतस्तस्याज्ञानादिशब्दवाच्यत्वम् । न च ज्ञाननिवर्त्यत्वात्तदिति वाच्यम् । ज्ञानस्य तत्साधकत्वेन तदविरोधितया तन्निवर्तकत्वायोगादित्यतः चैतन्यरूपज्ञानस्य तत्स्फोरकतया तदनिवर्तकत्वेऽपि शास्त्रजनितवृत्ति-रूपज्ञानस्य तत्स्फोरकत्वाभावोन तन्निवर्त्यत्वसम्भवाद्युक्तमेव तेन निमित्तेनोक्तलक्षणस्य तस्याज्ञानादि-शब्दवाच्यत्वमित्याह- तच्चेति ।। जीवेश्वरविभागमुपपादयितुं तद्द्वैविध्यमाह- तद् द्विविधमिति ।। अत एवेति ।। विश्वस्य मायाकल्पितत्वादेवेत्यर्थः । तथात्वे विश्वदर्शिनः ईश्वरस्य शुक्तिरजतादिद्रश्व्ृजीववन्मिथ्या-भूतविश्वद्रश्व्ृत्वाद् भ्रान्तित्वापत्तिरिति पृच्छति- किन्त्विति ।। असाविति ।। ईश्वर इत्यर्थः । नन्ववच्छिन्नस्य जीवस्य कथमनवच्छिन्नब्रह्मरूपत्वमित्यतो दृष्टोपदर्शनेन तदुपपादयति- यथेति ।। अवच्छेदमात्रमिति ।। भेदमात्रमित्यर्थः । ननु तथाऽपि जीवस्य ब्रह्मप्रतिबिम्बत्वे कथं तत्र संसारावभासः, बिम्बभूते ब्रह्मणि तस्या-सत्त्वादित्यतो दृष्टान्तोपदर्शनेन तदुपपादयति- यथेति ।। तथापि कर्तृत्वादिधर्मवतो जीवस्य कथं निर्धर्मकब्रह्म-रूपत्वं स्यादित्यतः कर्तृत्वादयो न जीवधर्माः किन्त्वहङ्कारस्यैवेत्याह- तद्धर्मा एवेति ।। अहङ्काराख्यद्रव्यधर्मा एवेत्यर्थः। कथं तर्हि अन्यधर्माणां तेषां जीवे प्रतिभास इत्यतो दृष्टान्तोपदर्शनेन तदुपपादयति-जपाकुसुमेति ।।

ननु प्रत्यगात्मनो ब्रह्मप्रतिबिम्बत्वे कथं तत्र निर्निमित्तकः साक्षित्वव्यवहार इत्यतो निमित्तं कथयन् तमुप-(पां.टि.) पादयति- स चेति ।। स च प्रत्यगात्मा अविद्याध्यासद्रश्व्ृत्वात् साक्षीत्युच्यत इत्यर्थः । ननु चाविद्या-ध्यासद्रष्टृत्वं साक्षिणो न सम्भवति । तथा सति तस्य साक्षिदृष्टत्वात् तद्दृष्टात्मस्वरूपवदविद्याध्यासस्य सत्यत्वा-पातादित्यतस्तद्दृष्टस्यापि मिथ्यात्वं दृष्टान्तोपदर्शनेनोपपादयति- यथेति ।। ननु यस्य ज्ञानोदयस्तस्य प्रतीत्य-भावेऽप्यन्यस्यैव तत्प्रतीतिः किं न स्यादित्यतः, अन्यः प्रत्येता भवन् जीवो वा स्यादीश्वरो वा स्यादिति विकल्प्य आद्यं दूषयति- अन्यस्येति ।। जीवस्य तत्कल्पितत्वेन तत्तत्त्वज्ञानोदये निवृत्तत्वान्न प्रत्येतृत्वमिति भावः । द्वितीयं दूषयति- ईश्वरेति ।। ईश्वरस्यापि तत्कल्पितत्वेन तस्य तत्त्वज्ञाने सति निवृत्तत्वान्न प्रत्येतृत्वमिति भावः । विच्छेदमात्रमिति ।। भेदमात्रमित्यर्थः । न त्वेकजीववादिमत इव कल्पिता इत्यर्थः । नन्वेवं भेदाभेद-योरुभयोरपि सत्यत्वे सत्यस्यानिवर्त्यत्वाङ्गीकारान्मुक्तावपि तयोः सत्त्वापत्त्या कथं तद्वादिनामैक्यवादित्वमित्यत आह- एवमिति ।। भेदस्त्वौपाधिक इति ।। तथा च सत्यत्वेऽपि भेदस्यौपाधिकतया तन्निवृत्तौ निवृत्त्य-वश्यम्भावेन मुक्तावसत्त्वापत्तेर्युक्तमेव तद्वादिनामैक्यवादित्वमिति भावः । समुच्चितेनेति ।। निष्कामकर्म-समुच्चितेनेत्येर्थः । संसारवन्मुक्तावपि जीवानां भिन्नाभिन्नत्वे तयोरविशेषप्रसङ्ग इत्यतः प्रकारान्तरेण विशेष-मुपपादयति- केवलमिति ।। ज्ञानकर्मभ्यामिति ।। ऐक्यज्ञाननिवृत्तकर्मभ्यामित्यर्थः । अतिरेकेति ।। भेदाभेदव्यवहारसम्पादनपटीयान् धर्मविशेषोऽतिरेकः, तन्निमित्त इत्यर्थः । नन्वतिरेकनिमित्तत्वे भेदस्य मुक्तावपि सत्त्वापत्त्या मुक्तिसंसारयोरविशेषप्रसङ्ग इत्यत आह- अन्यदिति ।। अतिरेकनिमित्तकभेदस्य मुक्तौ सत्त्वेऽपि न तयोरविशेषप्रसङ्गः । अज्ञानादिनिमित्तस्य दुःखादेरानन्दाद्यावरणस्य च निवृत्त्या मुक्तेः संसारापेक्षया विशेषः सम्भवतीत्येतत् पूर्वमत इव एतन्मतेऽपि समानमित्यर्थः ।

लघुप्रभा

(व्या.टि.)

यथेति ।। तयोः परं प्रत्युपपादितत्वेन सिद्धत्वाद् दृष्टान्तीकरणम् । युक्त्याभासविरोधस्या-किञ्चित्करत्वेनानुद्भाव्यत्वाद् भिन्नविषययुक्तिविरोधाभावात्सर्वेति व्यर्थमित्यतो व्याचष्टे- प्रत्यक्षानुमानाग-मेति ।। भेदविषयाणामिति शेषः । कथमिति ।। केन प्रकारेणेत्यर्थः । तत्तन्मतभेदाज्ञाने तत्तदारूढयुक्तिविरोध-स्यापि दुर्ज्ञानत्वात् तज्ज्ञानार्थमननुभाषणदूषणशोषणार्थं च मतभेदाननुवदति- ऐक्यवादिन इत्यादिना ।। ननु भेदाभेदवादिनां कथमैक्यवादिपदेन ग्रहणम् । तथा सति ‘आग्नेयं चतुर्धा करोति’ इत्यादावाग्नीषोमीयैन्द्रा-ग्नयोरप्याग्नेयपदेन ग्रहणापातादिति चेत्, मैवम् । वैषम्यात् । तत्र तद्धितस्य ‘समर्थानां प्रथमाद्वा’ इति समर्थाधि-कारत्वात् सापेक्षत्वे सामार्थ्याभावात्तद्धितानुत्पत्तेः, अग्रहणेऽपि पृषदाज्यस्य ‘आज्यमुत्पुनाति’ इत्यादा-वाज्यपदेनेव, ङ्याबित्यादाविव च सामान्यग्रहणे बाधकाभावात् । सजातीयेति ।।

वृक्षस्य स्वगतो भेदः पत्रमूलफलादिभिः ।

वृक्षान्तरात् सजातीयो विजातीयः शिलादितः ।

तथा सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यते ।

ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ।।’

(व्या.टि.) इति तदीयवचनादिति भावः । तदिति ।। ब्रह्मेत्यर्थः । अज्ञानेति ।। यथोक्तं संक्षेपशारीरकभाष्ये-

अज्ञानकल्पितजगत्परमेश्वरत्वजीवत्वभेदकलुषीकृतभूरिभावा ।

स्वाभाविकस्वमहिमस्थितिरस्तमोहा प्रत्यक् चितिर्विजयते भुवनैकयोनिः ।।’ इति ।

ननु जीवादिभेदो ह्युपादानसापेक्षो भावकार्यत्वात् । अज्ञानं च ज्ञानाभावत्वान्न भवति भावोपादानमित्यत आह- भावरूपमिति ।। जीवावरकत्वादित्यर्थः । भावत्वादुपादानत्वोपपत्तिरिति भावः । आवरणविक्षेपौ क्रमेण लक्षयति- स्वरूपेति ।। अतदाकारेति च ।। उच्यत इति ।। असुरेतिवद्विरोधो नञर्थ इत्यर्थः । मायाऽविद्याभेदादिति ।। ईश्वरनिष्ठा माया, जीवनिष्ठाऽविद्येति विवेकः । व्यामोहनाव्यामोहनेति ।। अविद्यामायेति ।। यथाक्रममन्वयः । अज्ञानभेदपरिग्रहफल दर्शयति- तत्रेति ।। ननु कर्तृत्वादेः सार्वज्ञाद्य-विनाभावात्कथं तस्य निर्विशेषब्रह्मत्वमित्यत आह- मायामयेति ।। कर्तेत्यादित्रितयग्रहणं जन्मादिसूत्रे ‘सृष्टिः स्थितिर्भङ्गः समासार्थः’ इति भाष्यानुसारेण । तर्हि सत्यजगत्सर्जनानुपपत्तिरित्यतस्तदपि तादृगेवेत्याह- विश्वं चेति ।। कथं निरुपादाना भावसृष्टिरित्यतो मायोपादानकमित्याह । तर्हि निर्विशेषाङ्गीकारो व्यर्थः । कर्तृत्वोपा-दानत्वोभयाभावादित्याशङ्क्य परिहरति- शुक्तिकायामिति ।। तर्हि कार्यस्याऽरोपितत्वे तत्कर्तृकत्वमपि मिथ्या स्यादित्यतः ओमित्याह- अत एवेति ।। तर्हीश्वरस्याहं कर्तेत्यादिभ्रान्तित्वापत्त्या तदज्ञानस्य मायात्वानुपपत्ति-रिति शङ्कते- किन्त्विति ।। उत्तरयति- अधिष्ठानेति ।। तर्हि कथं सार्वज्ञ्यमित्यत आह- पश्यत्येवेति ।। अविद्यावद्यस्वीकारफलमाह- जीवस्त्विति ।। तयोर्बिम्बप्रतिबिम्ब-भावादिति भावः । बिम्बप्रतिबिम्बभावेऽपि कुत ऐक्यमित्यतस्तयोः प्रतिबन्धं(न्दी)दर्शयति- यथेति ।।

ननु मुखमेवेत्ययुक्तम् । तयोः प्राङ्मुखत्वप्रत्यङ्मुखत्वादिभेददर्शनादित्यत आह- अवच्छेदमात्रमिति ।। आविद्यकत्वादिति ।। अविद्याया विकार आविद्यः स एवाऽविद्यकः, तस्य भावस्तस्मादित्यर्थः । प्रतिबिम्बस्य बिम्बतामात्रत्वे तत्रानारोप्याऽरोपोऽत्र कुत इत्यत उपाधेः प्रतिबिम्बपक्षपातदर्शनादिति वक्तुं तन्निदर्शयति- यथेति ।। नन्वेकस्यैकदाऽनेकवस्तुपरिणामासम्भवात्कथमेकस्याहङ्कारस्य मनःप्राणात्मतेत्यत आह-तच्चेति ।। सञ्ज्ञाभेद एव नार्थभेद इति भावः । ननु ज्ञानक्रियाभोगशक्तीनामहङ्कारनिष्ठत्वे कथं तन्निमित्तानां कर्तृत्व-भोक्तृत्वादीनामात्मनि भानं, वैयधिकरण्यादित्यत आह- तद्धर्मा एवेति ।। सोपाधिकारोप एव न प्रमेति भावः। नन्वात्मनो ज्ञानशक्त्यभावेऽध्याससाक्षी न स्यादित्यध्यासे मानाभाव इत्यत आह- स चेति ।। उच्यत इति ।। तथा व्यवहारमात्रमित्यर्थः । कुत इत्यत आह- तस्येति ।। तर्हि साक्षिभास्यार्थोऽपि मिथ्या स्यादित्य-तोऽभिमतापादनमिदमित्याह- यथेति ।। जडवदिति स्वमतेन दृष्टान्तः । तत्र द्वे निदर्शयति- यथेति ।। तत्र यद्यपि स्वरीत्या न्यायरीत्या वा स्वाप्नानामेकाज्ञानकल्पितत्वेन युक्तं दृष्टान्तीकरणम् । न चित्रभित्तेः । तत्र चित्राणां बुद्धिपूर्वं कृतत्वात् । तथाऽप्येककर्तृकल्पितत्वे दृष्टान्तीकरणम् । चित्रभित्तौ प्रतीयमानानां गजतुरगादि-जीवानां भ्रान्तबालकाज्ञानपरिकल्पितत्वे वा- प्रतीतीति ।। अज्ञानोपादेयत्वात्प्रतीतेः । अज्ञानस्य ज्ञान-(व्या.टि.) निवर्त्यत्वादिति भावः । अन्यः प्रत्येष्यति तदित्यत आह- अन्यस्येति ।। ईश्वरोऽस्तीति चेत्तत्राऽह- ईश्वरभेदस्यापीति ।। विच्छेदमात्रमिति ।। जीवविभागोऽनेकत्वमित्यर्थः । अपव्रज्यते । ‘वृजी वर्जने’ अस्माद्यक्, मुक्तो भवती-त्यर्थः । त्रिविधा इति ।। भेदांशे उपाध्यंशत्वातिरेकरूपनिमित्तत्रैविध्यात् त्रैविध्योप-चारः । वर्णयन्तीति ।। ‘वर्ण वर्णक्रियाविस्तारगुणवचनेषु’ इति चौरादिको धातुः । न तु ‘सत्याप’ इति परिगणितप्रातिपदिकम् । अतः स्वार्थिक एवायं णिजिति भावः । अपरिच्छिन्नस्याप्युपाधिपरिच्छिन्नस्यानेक-भावभवनं निदर्शयति- यथैकमे-वेति ।। नन्वेकस्य विजातीयानेकोपाधिसम्बन्धादनेकभावे तत्तन्निबन्धनानेक-वैचित्र्यसम्भवेऽपि अन्तःकरणरूपैकजातीयोपाधिपरिच्छिन्नस्य जीवेश्वरभावे तत्र बन्धमुक्तिरूपावान्तरविशेषः किन्निबन्धन इत्यतोऽस्ति निमित्तान्तरमित्याह- तत्रेश्वर इति ।। जीवास्त्विति च ।। उभयोः सत्यत्वे किमभेदपक्षपातेनेत्यत आह- स्वाभाविक इति ।। औपाधिकस्यापि स्वाभाविकवन्नित्यत्वे किं नामभेदमात्रेणेत्यतो नेत्याह- तत्र यस्येति ।। सर्वदैकरूपत्वे संसारमुक्त्योः को भेद इत्यत आह- केवलमिति ।। निवर्तत इति ।। मुक्ताविति शेषः। अस्य मतस्य भेदव्यवहारसम्पादनपटुधर्मविशेषरूपादतिरेकत एवातिरेको नान्य इत्याह- अन्यदिति ।।