यथाऽपियन्ति..
ब्रह्मैव सन् ब्रह्माप्येती तिश्रुत्यर्थसमर्थनम्
मूलम्
- ‘यथाऽपियन्ति तेजांसि महातेजसि भास्करे ।
पृथक्पृथक् स्थितान्यह्नि स्वरूपैरपि सर्वशः ।
परे ब्रह्मणि जीवाख्यब्रह्माण्यप्यपियन्ति हि ।
मुक्तौ पृथक् स्थितान्येव तदन्येषामदर्शनम् ।
अप्ययोऽयं समुद्दिष्टो न स्वरूपैकता क्वचित् ।।’ इति नारायणश्रुतिः ।
अतः सर्वागमविरुद्धमेव जीवेश्वरैक्यम् ।
तत्त्वमञ्जरी
ब्रह्मैव सन् ब्रह्माप्येति इति ब्रह्मण एव ब्रह्माप्ययः कथं भेदपक्षे समस्तीत्यत आह- यथाऽपीति ।। तदन्येषां मुक्तेभ्योऽन्येषाम् ।
टीका
ननु ‘ब्रह्मैव सन् ब्रह्माप्येति’ इति मुक्तस्य परमात्मैक्यमुच्यते । प्रागपि ब्रह्मैव सन् अविद्या-वृतब्रह्मत्व इदानीमविद्यायां निवृत्तायां ब्रह्मणैकीभवतीति । न चात्र पूर्ववदर्थान्तरं सम्भवति । तत्कथं मोक्षानन्तरमपि भेदः कथ्यत इत्याशङ्क्य ‘स्वं ह्यपीत’ इत्यस्य व्याख्यानेनैवेदमपि व्याख्या-तम् । नियामकञ्च तत्रैवोक्तम् । तथाऽपि ब्रह्मैव सन्नित्येद्धटयितुं श्रुत्यन्तरं पठति- यथेति ।। स्वरूपैः पृथक् पृथक् स्थितान्येव सर्वशोऽपि तेजांसि नक्षत्रादीनि महातेजसि भास्करेऽह्नि यथाऽपियन्ति तथेत्यन्वयः । कोऽयमप्ययशब्दार्थ इत्यत आह- तदन्येषामिति ।। अमुक्तानाम-दर्शनमदर्शनविशिष्टा प्राप्तिः । लयेऽप्ययशब्दस्यैतदेव निर्वचनम् । प्रध्वंसस्तु प्रमाणान्तरगम्यः । तदनेन ब्रह्मैव सन् जीवाभावमजहदेव ब्रह्म परम् अप्येति अपिहितः प्रविशतीति व्याख्यातं भवति । अनयैव दिशा सर्वाण्यपि मुक्ताभेदप्रतिपादकवत्प्रतीयमानान्यागमवाक्यानि व्याख्येयानीति भावः । एवं मुक्तावपि भेदस्य सद्भावान्नावान्तरसत्यत्वमिति सिद्धम् ।
‘न चाभेदे कश्चिदागमः । सन्ति च भेदे सर्वागमाः’ इत्युक्तमुपपाद्योपसंहरति- अत इति ।। सर्वागमविरुद्धमित्यनेन ‘सन्ति च भेदे सर्वागमाः’ इत्यस्योपहारः । भेदस्य सर्वागमसिद्धत्व एवैक्यस्य तद्विरुद्धत्वसम्भवात् । विरुद्धमेव न त्वागमिकमित्येवशब्देन ‘न चाभेदे कश्चिदागमः’ इत्यस्योप-संहारः ।।
भावबोधः
अपिहिततत्प्राप्तिवाचकाप्ययशब्दार्थत्वं कथमदर्शनमात्रस्येत्यत आह- अदर्शनविशिष्टा प्राप्ति-रिति ।। ननु यद्यदर्शनविशिष्टप्राप्तिरित्यदर्शनशब्दार्थः, तर्हि सर्वकार्यनाशरूपे प्रलये कथमप्ययशब्दस्य ‘सृष्टि-स्थित्यप्ययेह’ इत्यादौ प्रयोग इत्यत आह- लयेऽपीति ।। ननु प्रलयवाचकाप्ययशब्दस्यैवं निर्वचनं तर्हि सकल-कार्यप्रध्वंसो न सिध्येदित्यत आह- प्रध्वंसस्त्विति ।। ‘उत्पत्तिस्थितिसंहाराः’ इत्यादिप्रमाणान्तरगम्यः प्रध्वंस इत्यर्थः ।।
भावदीपः
ब्रह्मैव सन्नित्यनुवादः । अविद्यावृतब्रह्मत्व इति व्याख्या । बहुव्रीहिः । पूर्वेणागतार्थत्वमाह- न चा-त्रेति ।। इत्यस्य व्याख्यानेनैवेति ।। स्वं स्वतन्त्रं परमात्मानं अप्येति इतरैरज्ञेयत्वेन प्रविष्ट इति व्याख्यानेनैव ब्रह्माप्येतीति वाक्यमपीतरैरज्ञेयत्वेन प्रविशतीति व्याख्यातमित्यर्थः । नियामकं चेति ।। ‘अप्ययशब्दो नैकीभावे रूढः । किन्तु अपिरपिधाने ‘इण् गतौ’ अप्ययोऽज्ञेयत्वेन प्रवेशः’ इति, स्वं कुलायं यथा अपीत इति च, ‘एकीभावार्थत्वे ब्रह्मणा इति स्यात्’ इत्यादिनियामकमित्यर्थः । इत्येतद्धटयितुमिति शेषोक्या तेन ततो न पौनरुक्त्यमिति भावः । श्रुत्यन्तरमिति ।। प्रागुक्तपरमश्रुत्यपेक्षयाऽन्तरशब्दः । व्यवहितत्वात्पदानामन्वयपूर्वं व्याकुर्वन् तथेति शेषोक्त्या परे ब्रह्मणीत्यादेरप्यन्वयमाह- स्वरूपैरिति ।। नन्वदर्शनविशिष्टा प्राप्तिरप्यय इत्ययुक्तम् । प्रलयेऽप्ययशब्दस्य स्वरूपनाशार्थत्वावगमात् । अन्यथा तत्र स्वरूपध्वंसाऽसिद्धेरित्यत आह- लयेऽपीति ।। प्रमाणान्तरेति ।। ‘स्रष्टा पाता च संहर्ता’ इत्यादिप्रमाणान्तरेत्यर्थः । अभ्यस्तत्वात् ‘नाभ्यस्ताच्छतुः’ इति नुमभावादजहदित्युक्तम् । जीव इति योज्यम् । कार्यब्रह्मव्यावृत्तये ब्रह्म परमित्युक्तम् । अपिहितः तिरोहितः । ब्रह्माप्येतीति श्रुत्यर्थः । व्याख्येयानीति ।। व्याख्यातानि च न्यायामृते द्वितीयपरिच्छे-दादौ । न चावान्तरसत्यत्वपरमिदमिति प्रकृतावान्तरप्रमेयं स्वयमुपसंहरति- एवमिति ।। ‘यो वेद निहितं गुहायाम्’ इत्यादिनोक्तप्रकारेणेत्यर्थः । उभयोपसंहारपरत्वं व्यनक्ति-सर्वागमेति ।। जीवेश्वरैक्यस्य प्रत्यक्षागम-विरुद्धत्वतदसिद्धत्वयोरुक्तिः ।
वाक्यार्थदीपिका
(श्री.टि.)
केवलः सर्वोत्तमः । व्याख्यानेनेति ।। ‘अपीत इत्यपि प्रवेशमात्रं, स्वमिति द्वितीयानिर्देशात्’ (श्री.टि.) इति व्याख्यानेनेत्यर्थः । व्याख्यातमिति ।। अत्रापि ब्रह्मप्येतीत्यस्य ब्रह्म प्रविशतीत्येवार्थः । अप्येतीत्यस्यैक्यार्थत्वे ब्रह्मणाऽप्येतीति तृतीयानिर्देशः स्यात् । न तु ब्रह्मेति द्वितीयानिर्देश इति भावः । अत्राप्यप्ययशब्दस्य प्रवेशार्थत्वे किं नियामकमित्यत आह- नियामकं चेति ।। अप्ययशब्दस्य प्रवेशार्थत्वे नियामकं
‘स्वं कुलायं यथाऽपीतः पक्षी स्यादेवमीश्वरम् ।
अप्येति जीवः प्रस्वापे मुक्तौ चान्योऽपि सन् सदा ।।’
इति प्रमाणं च स्वमपीत इति वाक्यव्याख्यानावसरे एवोक्तमित्यर्थः । नन्वदर्शनविशिष्टप्राप्तिवाचकोऽप्यय-शब्दस्तत्कथं ‘तदन्येषामदर्शनम्’ इत्यदर्शनमात्रस्याप्ययशब्दार्थत्वमुच्यत इत्यत आह- अदर्शनविशिष्टा प्राप्तिरिति ।। ननु यद्यदर्शनविशिष्टा प्राप्तिरप्ययशब्दार्थस्तर्हि सर्वकार्यनाशरूपे प्रलये कथमप्ययशब्दस्य ‘सृष्टिस्थित्यप्ययेहा’ इत्यादौ प्रयोग इत्यत आह-लयेऽपीति ।। ननु यदि प्रलयवाचकाप्ययशब्दस्यैतदेव निर्वचनं तर्हि सकलकार्यप्रध्वंसः प्रलयशब्दान्न सिध्येदिति चेन्न । इष्टापत्तेः । तर्हि कुतस्तत्सिद्धिरित्यत आह- प्रध्वंस-स्त्विति ।। ‘उत्पत्तिस्थितिसंहाराः’ इत्यादिप्रमाणान्तरगम्यः । प्रध्वंस इत्यर्थः । जीवभावं पारतन्त्र्यादिरूपम् । ‘अतो विरुद्धवत्प्रतीयमानान्यपि वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि’ इति तत्त्वोद्योतवाक्यं हृदि निधायाह- अनयैव दिशेति ।। नन्वैक्यस्य सर्वागमविरुद्धत्वोक्त्या भेदे सर्वागमाः सन्तीति कथं लभ्यते, येनायं तस्योपसंहारः स्यादित्यत आह- भेदस्येति ।। तद्विरुद्धत्वेति ।। भेदप्रतिपादकसर्वागमविरुद्धत्वसम्भवादित्यर्थः । तथा च तद्विरुद्धत्वोक्तौ भेदस्य सर्वागमसिद्धत्वं प्राप्तमेवेति भावः । आगमिकम् आगमसिद्धम् ।
विषमपदवाक्यार्थविवृतिः
(पा.टि.)
व्याख्यातमिति ।। अपीतशब्दस्य प्रवेशार्थत्वव्युत्पादनेनाप्येतीत्यस्य तदर्थताया सिद्धत्वादिति भावः । नियामकं चेति ।। ‘स्वमिति द्वितीयानिर्देशादेकीभावविवक्षायां स्वेनेति तृतीयानिर्देशापातात्’ इति नियामकस्य तत्रोक्ततयाऽत्रापि ब्रह्मेति द्वितीयानिर्देशादेकीभावविवक्षायां ब्रह्मणेति तृतीयानिर्देशः स्यादिति नियामकं चोक्तप्रायमित्यर्थः । नन्वपिहितप्राप्तिवाचकत्वेनाप्ययशब्दः प्राग्व्याख्यातः । तत्किं श्रुतावदर्शन-मात्रार्थतया व्याख्यायत इत्यत आह- अदर्शनविशिष्टेति ।। अमुक्तकर्तृकदर्शनाभावविशिष्टा प्राप्तिरित्यर्थः । नन्वदर्शनविशिष्टप्राप्तिरेव यद्यप्ययशब्दार्थः कथं तर्हि सर्वकार्यनाशरूपे लये ‘सृष्टिस्थित्यप्यय’ इत्यादौ अप्ययशब्द-प्रयोगः । तेन कार्यनाशनिमित्तकत्वप्राप्त्या तदर्थकत्वस्यैव प्राप्तत्वादित्यत आह- लयेऽपीति ।। एतदेवेति ।। अदर्शनविशिष्टा प्राप्तिरेव लयेऽप्यप्ययशब्दप्रवृत्तौ निमित्तं न तु कार्यनाश इत्यर्थः । नन्वेवं तर्ह्यप्ययशब्दाददर्शन-विशिष्टप्राप्तिसिद्धिरेव स्यात्, कार्यनाशसिद्धिस्तु न स्यादित्यतो न तत्राप्यप्ययशब्देन कार्यनाशसिद्धिरभिमता किन्तु प्रमाणान्तरादेवेतीष्टापादनमेवैतदिति भावेनाऽह- प्रध्वंसस्त्विति ।। प्रमाणान्तरेति ।। ‘उत्पत्तिस्थिति-संहाराः’ इत्यादिप्रमाणान्तरेत्यर्थः । वस्तुतस्तदभेदप्रतिपादकानामन्यथाव्याख्यानानुपपत्तेर्मुक्तावभेदप्रति-पादकवत् प्रतीयमानानीत्युक्तम् । तावताऽप्यवान्तरसत्यत्वं सत्यत्वमिति शङ्कायाः कः परिहार इत्यत आह- (पा.टि.) एवं चेति ।। मायामयं हि व्यावहारिकं नाम । मोक्षे हि माया सर्वथा निवृत्तेति तदनन्तरमपि विद्यमानो भेदः कथं व्यावहारिकसत्यः स्यादित्यर्थः । अन्यथा मुक्तौ विद्यमानस्यापि व्यावहारिकसत्यत्वे ब्रह्मणोऽपि तत्प्रसङ्गादिति भावः । नन्वैक्यस्य सर्वागमविरुद्धत्वोपसंहारपरस्यात इत्यस्य तथैवावतारो युक्तः । तत्कथं सर्वागमासिद्धत्वसर्वागमविरुद्धत्वोपसंहारपरतया अवतार इत्यतोऽप्यस्याप्युभयोपसंहारपरतया तद्व्याचष्टे- सर्वागमविरुद्धमिति ।। तत्कथमित्यतस्तदुपपादयति- भेदस्येति ।।
लघुप्रभा
(व्या.टि.)
पुनःप्रत्यवतिष्ठते- नन्विति ।। ब्रह्मैवेति ।। ‘असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद’ इति यजुर्वेदारण्यक इत्यर्थः । मुक्तस्येति ।। ‘सकलं भद्रमश्नुते’ इति पूर्वत्र सर्वकामावाप्तिश्रवणात्तस्य मुक्तलिङ्गत्वश्रवणादित्यर्थः । नियामकमिति ।। अप्ययपदस्य प्रवेशार्थत्व इत्यर्थः । उक्तम् उक्तप्रायमित्यर्थः। तत्रेवात्रापि ब्रह्मेति द्वितीयानिर्देशात् । अन्यथा ब्रह्मणेति निर्देशः स्यादिति समानन्यायत्वेनास्यापि तद्विषय-त्वादित्यर्थः । नक्षत्रादीनीति ।। ‘उभे हि तेजसी सम्पद्येते उद्यन्तं वावाऽऽदित्यमग्निरनुसमारोहति’ इत्यादि-श्रुतेरित्यर्थः । अपिः अपिधाने वर्तते । एतिश्च गतावित्युपेत्यार्थमाह- अदर्शनविशिष्टेति ।। नन्वेवंभूताप्यय-शब्दोऽपि प्रवेशमात्रं वदेदिति भूतलयासिद्धिरित्यत आह- लयेऽपीति ।। प्रमाणान्तरेति ।। अप्यय-श(ब्दभिन्न)ब्दाभिप्रेतप्रमाणान्तरेणेत्यर्थः । उपसंहारबीजमाह- अनयैवेति ।। ‘न चावान्तरसत्यत्वमिदम्’ इत्यस्योपसंहाराभावात् स्वयमुपसंहरति- एवमिति ।। अंशतोऽर्थद्वयस्योपसंहार इत्यंशभेदं दर्शयति- इत्यने-नेति ।। ननु कथमयं ‘सन्ति’ इत्यस्योपसंहारः । तत्र भेदस्य सर्वागमसिद्धत्वोपक्रमेण तद्वैरूप्यादित्यत आह- भेदस्येति ।। ऐक्यस्य तद्विरुद्धत्वोक्त्याशयेन तत्सम्भावकतद्व्यापकोक्तेस्तस्याप्युपक्रम एवेति भावः । सम्भवादिति ।। अन्यथा (व्या.टि.) ग्राह्याभावानवगाहिनोर्विरोधवाचोयुक्तेरयोगादित्यर्थः । एवशब्देनै-वेति ।। इत्यागमासिद्धत्वतद्विरुद्धत्वोपपादनम् ।।