स्वप्नेऽपि वासनारूपं सत्यमेव ..

स्वाप्नप्रतीतेरभ्रान्तित्वोपपादनेन भ्रान्तेः सत्यवस्तुद्वयापेक्षत्वसमर्थनम्

मूलम्

- स्वप्नेऽपि वासनारूपं सत्यमेव जगत् मनसि स्थितं बहिःष्ठत्वेन दृश्यते । देहात्मनोरपि एकदेशस्थत्वादिसादृश्यमस्त्येव । शङ्खः पीतः, नभो नीलम् इत्यादिष्वपि पीतादयोऽन्यत्र विद्यन्त एव    तत्सादृश्यञ्च द्रव्यत्वादिकं किञ्चित् शङ्खादीनाञ्चा-स्त्येव । अतो न कुत्रापि सदृशसत्यवस्तुद्वयं विना भ्रमः ।

तत्त्वमञ्जरी

यथा सत्यजगदन्तराधिष्ठानं विनैव स्वाप्नं जगद्दृश्यते । एवमत्रापि स्यादित्यत आह- स्वप्नेऽपीति ।। सादृश्यं विनाऽपि देह आत्मत्वाध्यासो दृश्यते हि । एवमेव विसदृशेऽपि ब्रह्मणि जगदध्यासः स्यात् । तस्माज्जगद्वयं नापेक्षितमित्यत आह- देहेति ।। आदिशब्दादेकनियन्तृत्व-मेकगुणसम्बन्धित्वं चक्षुरादिमत्त्वं च । पीतशङ्खादीन् सत्यान् अदृष्टवतोऽपि पीतशङ्खादिभ्रम उप-लभ्यते हि । एवं जगदन्तरं सत्यमदृश्व्वतोऽपि जगद्भ्रमः स्यादित्यत आह- शङ्ख इति ।। अन्यत्र विद्यमानाः पीतत्वादयः शङ्खादीनां श्वेतादिष्वध्यस्ताः । स्यादेतत् । पीतहरिद्राखण्डादीनां श्वेतशङ्खादिसादृश्यं नानुभूयते । अतः कथं सादृश्यादेव भ्रम इत्यत आह- सादृश्यं चेति ।। आदिशब्दात् पीतत्वादीनां गुणत्वम् ।

टीका 

स्यादेतत् । स्वाप्नास्तावत्पदार्था भ्रान्तिकल्पिताः । सत्यत्वे हि किं ते अनादिनित्याः, उतोत्पत्तिविनाशवन्तः । आद्ये प्रागूर्ध्वञ्चोपलभ्येरन् । द्वितीयेऽपि समानोऽयं प्रसङ्गः। तदैवोत्पद्य विनष्टा इति चेन्न । असम्भावितत्वात् । किञ्चैवमप्युपादानानि निमित्तानि चोपलब्धव्यानि । अपि च एतान् अन्तः पश्यति बहिर्वा । नाऽद्यः । अल्पप्रदेशे महतां दर्शनासम्भवात् । न द्वितीयः । पार्श्वस्थानामप्युपलम्भप्रसङ्गात् । केन च ते करणेनोपलभ्यन्ते । न तावद्बाह्येन्द्रियैः । तेषां तदोपरत-त्वात् । नापि मनसा । तस्य बहिरस्वातन्त्र्यात् । किञ्च काश्यां सुप्तो मधुरां पश्यति । तथा हेमन्ते सुप्तो वसन्तम् । न च तत्र तयोः सम्भवः । तस्माद्भ्रान्तिरेवेयम् । न च तत्र किञ्चिदधिष्ठानमस्ति । आत्मनो भेदेनोपलम्भात् । न ह्यहं गज इति तदा प्रतीतिरस्ति । तथा च या भ्रान्तिः सा साधिष्ठानेति व्याप्तेः भङ्ग इत्यत आह- स्वप्नेऽपीति ।। स्वप्नेऽपि सत्यमेव जगत् गजादिकं प्रतीयते । न केवलं जागरे । तेन निरधिष्ठानत्वेऽपि न विरोधः । ननु सत्यत्वे बाधकमुक्तम् । मैवम् । उत्पत्तिविनाशाङ्गी-कारात् । न च प्रागूर्ध्वमुपलब्धिप्रसङ्गः । विद्युदादिवत्तात्कालिकत्वसम्भवात् । तर्हि उपादानाद्युप-लब्धिः स्यादित्यत उक्तम्- वासनारूपमिति ।। वासनोपादानकम् । वासनानाञ्चातीन्द्रियत्वा-दनुपलब्धिर्युज्यते । निमित्तं त्वदृष्टेश्वरादिकमिति भावः । अतीन्द्रियकार्यस्यापि त्र्यणुकवदुपलम्भः सम्भवति । अत एवान्तर्मनसोपलब्धिर्युज्यते । मधुरादिदर्शनं च नानुपपन्नम् । तर्हि स्वशिरश्छेदादि-प्रतीतिरनुपपन्ना । तस्याननुभूतत्वेन वासनाऽभावादित्यत उक्तम्- मनसि स्थितमिति ।। मनो ह्यनादिप्रसिद्धम् । अन्यथा संसारस्य सादित्वप्रसङ्गात् । तच्च जन्मान्तरानुभूतवस्तुवासनारूपेण परिणमत इति को दोष इति भावः ।

यदि स्वाप्नं जगत् सत्यं कथं तर्हि ‘वैधर्म्याच्च न स्वप्नादिवत्’ इति वचनमित्यत उक्तम्- बहिःष्ठत्वेनेति ।। बाह्योपादानकत्वेन बहिरनुभूतैक्येन च दृश्यते, तदपेक्षं वचनमिति भावः । बाह्यत्वारोपे चाधिष्ठानादिकमस्त्येवेति न व्याप्तिभङ्गः । गजमद्राक्षं किन्त्वसौ स्वाप्न एव न बाह्य इत्येव हि प्रतीतिरुत्थितस्योत्पद्यत इति । इयमेव रीतिर्मनोरथस्य । इयांस्तु विशेषः । स्वप्नेऽदृष्टवशादेव वासनापरिणामो दृश्यते । मनोरथे तु पुरुषप्रयत्नाधीन इति ।

नन्वहं मनुष्य इति देहात्मविभ्रमस्तावदस्ति । अन्यथा संसाराभावप्रसङ्गात् । देहात्मभ्रमाद्धि रागद्वेषोदयः । ततः पापपुण्यरूपप्रवृत्त्युत्पादः । तस्मादपूर्वदेहादिलाभः । तेन दुःखप्राप्तिः । तथा चोक्तम्- ‘नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ इति । तत्र यद्यप्यधिष्ठानं प्रधानञ्चास्ति । तथाऽपि सादृश्याभावादुक्तव्याप्तिभङ्ग इति चेत्, किमत्राऽत्मनि देहारोपो देहे वाऽत्मारोप उत भिन्नयोर्देहा-त्मनोरभेदारोपः । न प्रथमद्वितीयौ । देहात्मनोः प्रातीतिकत्वप्रसङ्गात् । देहाद्यन्तराभावात् । न तृतीयः । आविपालगोपालं देहात्मभेदज्ञानसद्भावस्यान्यत्रोपपादितत्वात् । कथं तर्हि मनुष्योऽह-मित्यादिव्यवहार इति चेत्, उपचारेणेति ब्रूमः । उपचारे किं निमित्तमित्यत आह-देहात्मनो-रिति ।। यथा वस्तुतो भिन्नयोस्तन्तुपटयोरेकदेशस्थितत्वं, भेददर्शनेऽपि स्फुटतरविवेकाभावश्चास्ति तथा देहात्मनोरपीत्यनेन सादृश्येनायं व्यवहारः । ततो भ्रान्तेरभावात् नात्रोक्तव्याप्तेर्भङ्गः शङ्कनीय इति । स्फुटभेदज्ञानाभावादेव संसारोपपत्तिः । किञ्च स्फुटभेदज्ञानेऽपि पुत्रादाविव स्नेहवशाद्रागादिकं सम्भवत्येव । पुराणवाक्यमपि स्फुटभेदप्रतिभासाभावविषयमिति ।

अन्ये तु देहात्मभ्रममङ्गीकृत्य सादृश्योपपादनार्थमिमं ग्रन्थं व्याचक्षते ।

ननु शङ्खः पीतः, नभो नीलं, तिक्तो गुडः इत्यादिषु त्रितयाभावाद्व्याप्तिभङ्ग इत्यत आह- शङ्ख इति ।। पीतादयः चिरबिल्वप्रभृतयः । यद्यप्यत्र सादृश्याभावेनैव त्रितयाभावः शङ्कितः । तथाऽपि प्रपञ्चार्थमाचार्येण त्रितयमप्युपपादितम् ।

ननु द्रव्यत्वादिसादृश्येन भ्रान्त्युत्पादेऽतिप्रसङ्गः स्यादिति चेन्न । सोपाधिकभ्रमेष्वल्पस्यापि सादृश्यस्य भ्रमहेतुत्वोपपत्तेः । यथा जलप्रवाहगते दण्डे वक्रिमभ्रमः। चक्षुर्गतपित्तपीतिमप्रयुक्तो हि पीतशङ्खभ्रमः । गोलकगतकार्ष्ण्योपाधिकः साक्षिसिद्धे नभसि नीलत्वभ्रमः । जिह्वागतपित्ततिक्त-तानिमित्तो गुडतिक्तताभ्रमः ।

नन्वेकेनैव वाक्येन व्याप्त्युपपादनं किं न कृतम् ।  नैवं शङ्क्यम् ।  स्वप्ने हि भ्रमाभ्रमसङ्करोऽ-स्ति । देहात्मनोस्तु भ्रम एव नास्ति । पीतशङ्खादिभ्रमः सोपाधिकः । शुक्तिरजतादिभ्रमस्तु निरुपाधिकः । तत्र न शक्यमेकविधया समाधानाभिधानम् ।

अनयैव  दिशा  भ्रमस्य त्रितयपूर्वकत्वव्याप्तिः सर्वत्रोपपादनीयेत्याशयवानुपसंहरति- अत इति ।। यद्यपि परेणाप्येषा व्याप्तिरङ्गीकृतैव । यदवोचत ‘स्मृतिरूपः परत्र पूर्वदृश्ववभासोऽध्यासः’ इति । अत्र हि स्मृतिरूपपदेन सादृश्यमङ्गीकृतम् । परत्रेत्यधिष्ठानम् । पूर्वदृष्टेति प्रधानम् । अत एव केशोण्ड्रकादिभ्रमस्य निरधिष्ठानत्वमाशङ्क्य तेजोऽशाधिष्ठानत्वेन समाधानं कृतम् । बालस्य गुडतिक्तताभ्रमे प्रधानाभावमाशङ्क्य जन्मान्तरानुभूतत्वोपपादनेन परिहार उक्तः । तथाऽपि शिष्यव्युत्पादनार्थम् आचार्येणेदं व्याप्त्युपपादनं कृतं, न परं प्रतीत्यदोषः ।

भावबोधः

तथा चोक्तमिति ।। विशेषनिषेधः शेषविधिं गमयतीत्यन्येषां देहात्मभ्रमोऽस्तीति नैषामिति वाक्येनार्थाल्लभ्यत इति भावः । ननु देहात्मनोः प्रातीतिकत्वमिश्व्मेव । न च देहाद्युचितार्थक्रियाऽभावप्रसङ्गः । देहाद्यन्तरेण तदुपपत्तेरित्यत आह- देहाद्यन्तराभावादिति ।। एकदेशस्थत्वादीत्यादिपदं व्याचष्टे- भेददर्शनेऽ-पीति ।। स्फुटभेदप्रतिभासाभावेति ।। इदं च पुराणवाक्यस्याऽर्थिकार्थकथनमिति ज्ञातव्यम् । त्रितयम-पीति ।। शङ्खादीनामित्यनेनाधिष्ठानस्याप्युपपादितत्वादिति भावः । अल्पस्यापीति ।। प्रधानविजातीयगत-त्वेनातिप्रसक्तस्यापीत्यर्थः । सर्वत्रोपपादनीयेत्याशयवानिति ।। अनेन कुत्रापीत्येतदुक्ततात्पर्यमिति ज्ञातव्यम् । स्मृतिरूपपदेनेति ।। स्मृत्या रूप्यते जन्यत इत्यध्यासस्य स्मृतिरूपत्वं वक्तव्यम् । भ्रमजनकप्रधानस्मृतिहेतुसंस्कारोद्बोधश्चाधिष्ठाने प्रधानसादृश्यं विना न सम्भवतीति स्मृतिरूपपदेन प्रधानाधि-ष्ठानयोः सादृश्यमङ्गीकृतमित्यर्थः । प्रधानाभावमिति ।। प्रधानज्ञानाभावमित्यर्थः । ज्ञातस्यैव प्रधानत्वादिति भावः ।

भावदीपः

निरधिष्ठानत्वहेतोरनैकान्त्यं वक्तुं शङ्कते- स्यादेतदिति ।। भ्रान्तिकल्पिता इत्यत्र कुत इति हेत्वा-काङ्क्षायां सत्यत्वे बाधकसद्भावादिति हेतुमभिप्रेत्य बाधकानि व्यनक्ति- सत्यत्वे हीत्यादिना ।। प्रतीत्यनुपपत्तिं चाऽह- अपि चैतानिति ।। बहिः पश्यतीति सम्बन्धः । करणान्यपि निराह- केन चेति ।। देशकालभेदाच्च न सत्त्वं पदार्थानामित्याह- काश्यामिति ।। तस्मादिति ।। बाधकसत्त्वादित्यर्थः । उपादानाद्युपलब्धिप्रसङ्गं निराह- वासनानां चेति ।। तथा च सूत्रद्वयं ‘मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वाद्’ इति ‘निर्मातारं चैके पुत्रादयश्च’ इति च । अतीन्द्रियोपादानकस्य गजतुरगादेः कथमुपलम्भ इत्यत आह- त्र्यणुकवदिति ।। नीरूपादपि रूपवत उत्पत्तिः वायोरग्निरित्याद्यङ्गीकुर्वतां वेदान्तिनां सिद्धैवेत्यपि ध्येयम् । पररीत्या तु अपूर्वचित्ररूपहीनात् कारणसमूहादपूर्वचित्ररूपवतः कार्यस्योत्पत्तिरुदाहार्या । सादित्वप्रसङ्गादिति ।। ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इत्युक्तेर्मनसः सादित्वे संसारस्यापि सादित्वप्रसङ्गादित्यर्थः । तच्चेति ।। स्वशिरश्छेदादिकमित्यर्थः।

वचनमिति ।। सूत्रमित्यर्थः । तस्याऽरोपितत्वे बाधप्रत्ययो मानमित्याह- गजमद्राक्षमिति ।। स्थलान्तरे व्याप्तिभङ्गमाशङ्क्याऽह- इयमेवेति ।। वैषम्यानुभवात्कथमियमेव रीतिरित्युक्तिरित्यत आह- इयांस्त्विति ।। कुतो देहैक्यभ्रमाभावे संसाराभाव इत्यतः ‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापाया-दपवर्गः’ इति न्यायसूत्रे पूर्वपूर्वं प्रति उत्तरोत्तरेषां कारणत्वोक्तेस्तद्रीत्योपपादयति- देहात्मभ्रमाद्धीति ।। तथा चोक्तमिति ।। द्वितीयस्कन्धे सप्तमे ।

एषां स एव भगवान्दययेदनन्तस्सर्वात्मनाऽश्रितपदो यदि निर्व्यलीकम् ।

ते वै विदन्त्यतितरन्ति च देवमायां नैषाम् ।।’

इति श्लोके यदि निर्व्यलीकं छद्मना विना । सर्वात्मना सर्वप्रकारेण श्रितपदः । येषां दययेत् दयां कुर्यात् । तर्ह्येषां श्वसृगालभक्ष्ये देहे । ममाहमिति धीर्न भवति । ते देवमायां देवस्य महिमानं विदन्ति । अतितरन्ति च संसारम् । इत्युक्त्याऽन्येषां ममाहमिति धीरस्तीति गम्यत इति भावेनैतदुक्तिरिति ज्ञेयम् । अधिष्ठानं प्रधानं चास्तीति ।। देहात्मनोरन्यतरस्मिन्नन्यतरस्याऽरोपे एकमधिष्ठानमन्यत्प्रधानमिति भावः । अस्तु प्रातीतिकत्वं, को दोष इत्यत आह- देहाद्यन्तरेति ।। सत्यभूतस्येत्यर्थः । तथा च ‘आत्मा वा इदमग्र आसीत्’, ‘अथात आत्माऽऽदेशः’ इत्यादेरप्रामाण्याऽपातः । ‘ब्राह्मणो वाजपेयेन यजेत’ इत्यादौ प्रातीतिकब्राह्मण्यकः शूद्रोऽप्यधि-क्रियेतेति भावः । अन्यत्रेति ।।

‘जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ।

भयाभयस्वभोगादौ कारणानि विजानते ।

अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।’

इति भक्तिपादीयानुव्याख्यानसुधयोः । यथा हि जातमात्रस्य पश्वादेः स्तन्यपानादौ प्रवृत्त्यादिहेतोरिष्टसाधन-त्वाद्यनुमितेर्यत् स्तन्यपानं तदिष्टसाधनं यथेदम्, यत् नेत्रस्यान्तः कण्डूयनं तद् अनिष्टसाधनं यथेदमित्यादिव्याप्ति-स्मृतिस्तावन्न देहान्तरास्मृतौ युक्ता । न च मम देहान्तरमभूदिति स्मरतः स्वस्यैव तद्देहैक्यधीः । किन्त्वनेक-मणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतस्ततो भेदज्ञानमेव भवतीत्युपपादितत्वात् । तथा गीताभाष्ये द्वितीये ‘देहिनोऽस्मिन्यथा देहे’ इति श्लोकव्याख्याऽवसरे प्रत्यग्रजातस्य शिशोराहाराद्यभिलाषेण पूर्वदेहानुसन्धे-रुक्तत्वेनोपपादितत्वात् । तथा चार्वाकनये-

देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ।

मम देह इति व्यक्तं ममार्थ इतिवत्सदा ।।’

इत्यनुव्याख्यानादौ चोपपादितत्वादित्यर्थः । इत्यादीति ।। ब्राह्मणोऽहमित्यादिव्यवहारादिरादिपदार्थः। ‘उपचारश्च कृष्णोऽहमिति कर्दमलेपने’ इत्यनुव्याख्यानोक्तमाह- उपचारेणेति ।। यद्यपि तत्र कृष्णोऽहमित्यादिना देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वेन प्रतीतिर्नेत्युक्त्वा व्यवहारमात्रं तु कर्दमलिप्तवस्त्रे कृष्णं वस्त्रमिति व्यवहारवदि-त्येवोक्तम् । न तु मनुष्योऽहं ब्राह्मणोऽहमित्यादिव्यवहारस्य । मनुष्योऽहमित्यादिव्यवहारस्येव प्रतीतेरपि सत्त्वात्प्रमात्वाच्च । ‘अहं ब्राह्मणोऽहं मनुष्यः, इत्यादिधीस्तु प्रमैव । देहविशेषविशिश्व् एव हि ब्राह्मणादिशब्दार्थः न तु देहविशेषः । देहो ब्राह्मण इति कदाऽप्यप्रतीतेः’ इति देहात्मैक्यभङ्गे न्यायामृतोक्तेः । गीताभाष्ये च द्वितीये चार्वाकनिरासप्रस्तावे अहं मनुष्य इत्याद्यनुभवाच्चेति शङ्कितस्यानुभवस्यासिद्धेरप्रामाण्यस्य वा परिहारेऽनुक्तेश्च । तथाऽभ्युपेत्य वा कृष्णोऽहमित्यादिव्यवहाराभिप्रायेण वा इयमुक्तिरिति ज्ञेयम् ।

देहात्मनोरैक्यव्यवहारे हेतुभूतसादृश्यप्रतियोगिनो मूलेऽनुक्तेः स्वयमाह- वस्तुतो भिन्नयोस्तन्तुपटयो-रिति ।। न्यायमतेनायं दृष्टान्तः । एकैकतन्तुपटाभिप्रायेण वाऽयं दृष्टान्तः । मूले अपिपदोक्तेर्धर्मान्तरेणापि तन्तुपटसादृश्यमभिमतमिति भावेन दृष्टान्ते धर्मान्तरं चाऽह- स्फुटतरविवेकाभावश्चास्तीति ।। ततः किमित्यतो मूलार्थमाह- तथेति ।। अनेन सादृश्येनेति ।। एकदेशस्थस्फुटतरविवेकशून्यतन्तुपटदृष्टान्तसादृश्येनैकदेश-स्थत्वस्फुटतरविवेकराहित्यरूपेणाहमिति देहात्मनोरभेदव्यवहार इत्यर्थः । अनुव्याख्याने तु

व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ।

भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वविविक्तवत् ।

भवन्ति व्यवहाराश्च ।’

इत्यादिनाऽङ्गारवह्निदृष्टान्तेन सादृश्यमुक्तम् । स्फुटभेदज्ञानेऽपीति ।। देहाऽत्मनोरङ्गुलिद्वयवत् स्फुटतरविवेको नेति तदभिप्रायं, न त्वैक्यभ्रमाभिप्रायम् । विवृतमेतद्देहाऽत्मैक्याध्यासभङ्गे । देहाऽत्मनोरप्येकदेश-स्थत्वादिसादृश्यसद्भावान्न देहोऽहमिति भ्रमोऽधिष्ठानतत्सादृश्यरहित इत्यर्थः । पद्मनाभतीर्थीयादिटीकाया-मुक्तेराह- अन्ये त्विति ।। तद्व्याख्यानमभ्युपेत्यवादेनेति भावः । त्रितयेति ।। अधिष्ठानप्रधानतत्सादृश्य-रूपत्रितयेत्यर्थः । व्याप्तीति ।। यदारोपितं तद् अधिष्ठानादित्रितयोपेतमिति व्याप्तिभङ्ग इत्यर्थः । प्रभृतय इति ।। प्रभृतिपदेन जम्बूफलनिम्बबीजादिग्रहः । सादृश्याभावेनैवेति ।। अधिष्ठानप्रधानयोः प्रसिद्धत्वादधि-ष्ठानस्य शुक्लादित्वात्प्रधानस्य पीतादित्वेन सादृश्यस्य दुर्निरूपत्वात्तदभावनिबन्धनस्त्रितयाभावो गमनिकायां शङ्कित इत्यर्थः । त्रितयमपीति ।। शङ्खादीनामित्यनेन शङ्खनभोगुडादीनामधिष्ठानानामुक्तत्वादिति भावः । अतिप्रसङ्ग इति ।। शुक्तौ पाषाणाद्यारोपोऽपि स्यादित्यर्थः । मूलोक्तभ्रान्तीनामौपाधिकत्वोपपादनाय दृष्टान्त-माह- यथा जलेति ।। उपाधीनाह- चक्षुर्गतेति ।। ननु नभसश्चक्षुरयोग्यस्य न चाक्षुषज्ञानविषयतेत्यत आह- साक्षिसिद्ध इति ।। परमते त्वनुमानेनोपनीते नभसीति ध्येयम् । एकेनैव वाक्येनेति ।। स्वप्नदेहाऽत्मैक्यशङ्खपीति-मनभोनैल्यादिभ्रमेष्वेकदेशस्थत्वादिसादृश्यमस्त्येवेत्यादिरूपेणेति भावः । ननु केशोण्ड्रकालातचक्रैन्द्रजालिक-पदार्थादिभ्रमेष्वनेकेषु सत्सु तत्र व्याप्तिमनुपपाद्य कथं न कुत्रापीत्युपसंहार इत्यत आह- अनयैव दिशेति ।। तेजोऽलातवस्त्रखण्डाद्यधिष्ठानादिसत्त्वोपपादनेन व्याप्तिरुपपादनीयेत्याशयवानित्यर्थः । यदवोचतेति ।। मायीति योज्यम् । नेदं ‘वच परिभाषणे’ इत्यस्य रूपम् । तस्य परस्मैपदित्वात् । किन्तु ‘ब्रूञ् व्यक्तायां वाचि’ इत्यस्य रूपम् । ‘ब्रुवो वचिः’ इति ब्रूञ आर्धधातुके लुङि वचिरादेशे ‘वच उम्’ इति उमागमे च्लेरङादेशे रूपमिति । स्मृतिरूप इति ।। प्रधानगोचरस्मृतिजन्यत्वादभेदोपचारेण स्मृतिरूप इत्युक्त्या स्मृतिहेतुसंस्कारोद्बोधक-प्रधानाधिष्ठानसादृश्यज्ञानलाभभावेन वा, स्मृते रूपमिव रूपं यस्येति सः स्मृतिसदृशत्वं चोद्बुद्धसंस्कारजन्य-त्वेन, तदुद्बोधश्च सादृश्यज्ञानेनेति भावेन वाऽऽह- स्मृतिरूपपदेनेति ।। प्रधानाभावं प्रधानज्ञानाभावम् । उक्त इति ।। अध्यासभाष्ये ।

वाक्यार्थदीपिका

(श्री.टि.)

या भ्रान्तिः सा साधिष्ठानेति व्याप्तेः स्वाप्नपदार्थेषु व्यभिचारं वक्तुं तेषां भ्रान्तिकल्पितत्वं तावत् साधयति- स्वाप्नास्तावत्पदार्था इत्यादिना ।। प्रागूर्ध्वं चेति ।। स्वप्नात्प्राक् तदूर्ध्वं चेत्यर्थः । तदैवेति ।। विद्युदादिवदिति भावः । असम्भावितत्वादिति ।। तत्कालीने जन्मन्युपादानादेः सम्भावितस्याभावादिति भावः । यथोक्तं सुधायाम् । ‘न हि तत्कालीने जन्मन्युपादानं निमित्तं च पश्यामः’ इति । एवमपीति ।। उपादानादेः सम्भावितस्य सत्त्वेऽपीत्यर्थः । अन्तरिति ।। देहान्तरित्यर्थः । महतां गजतुरगादीनाम् । तदा स्वप्नदशायाम् । उपरतत्वादिति ।। विषयज्ञानजननव्यापारविनिर्मुक्तत्वादित्यर्थः । बहिरस्वातन्त्र्यादिति ।। तत्तदिन्द्रियाधिष्ठानेन तत्तदिन्द्रियविषयाणामेव मनोविषयकत्वेन मनसस्तत्तदिन्द्रियाधिष्ठानेनैव बाह्यार्थज्ञान-जनकत्वं न स्वातन्त्र्येण । तत्तदिन्द्रियानधिष्ठितत्वेनेति यावत् । बाह्येन्द्रियाणां च तदोपरतत्वात् स्वातन्त्र्येणैव (श्री.टि.) बाह्यार्थज्ञानजनकत्वं वाच्यम् । तच्च मनसो न युक्तमिति भावः । तत्र काशीहेमन्तयोः । तयोः मधुरावसन्तयोः । आत्मैवाधिष्ठानमिति चेत्तत्राऽह- आत्मनो भेदेनेति ।। आत्मनः सकाशाद्भेदेन । तदसम्भिन्नतयेति यावत् । स्वाप्नार्थानां गजादीनामुपलम्भादित्यर्थः । ननु स्वाप्नपदार्थानामपीदं रजतमितिवदधि-ष्ठानसम्भिन्नतयैव प्रतीतिरस्तीति चेत्तत्राऽह- न हीति ।। न विरोध इति ।। भ्रान्तिकल्पितस्यैवाधिष्ठान-सापेक्षत्वादिति भावः । वासनानामिति ।। उपादानभूतानामित्यर्थः । ननु स्वाप्नघटादिपदार्थोपादानानां वासनानामतीन्द्रियत्वेनोपलम्भासम्भवेऽपि निमित्तकारणोपलब्धिः स्यादिति चेन्न । अदृश्वदेरेव निमित्तत्वेन दण्डादेस्तदनङ्गीकारात्तस्य चातीन्द्रियत्वाद् युक्ता अनुपलब्धिरित्याशयेनाऽह-निमित्तन्त्विति ।। ईश्वरादिक-मित्यादिपदेन कालग्रहणम् ।

नन्वतीन्द्रियवासनाकार्याणां स्वाप्नपदार्थानां कथमैन्द्रियकत्वं युज्यते । स्वाप्नाः पदार्था अतीन्द्रिया अतीन्द्रिय-कार्यत्वाद् व्यतिरेकेण घटादिवदित्यनुमानविरोधादिति चेन्न । अतीन्द्रियद्व्यणुककार्ये त्र्यणुके व्यभिचारादित्याह- अतीन्द्रियकार्यस्यापीति ।। अपि चैतानन्तः पश्यति बहिर्वा, केन च ते करणेनोपलभ्यन्त इत्याशङ्क्य यद्दूषण-मुक्तं तदप्यत एवापास्तमित्याह- अत एवेति ।। वासनोपादानकत्वेन बाह्यपदार्थवैलक्षण्यादेवेत्यर्थः । तथा चाल्पदेशेऽपि महतां दर्शनसम्भवान्न देहविदारणम् । नापि मनसोपलब्ध्यङ्गीकारे मनसो बहिरस्वातन्त्र्यादित्युक्त-दोषः । तेषां बाह्यपदार्थत्वाभावेन स्वातन्त्र्येण मनसस्तज्ज्ञानजनकत्वसम्भवादिति भावः । मधुरादीति ।। काशीमधुरयोर्हेमन्तवसन्तयोश्च वासनामयत्वादिति भावः । अननुभूतत्वेनेति ।। अस्मिन्जन्मनीति शेषः । ‘सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः’ इत्यनुव्याख्यानं मनसि निधायोपपादयति- अन्यथेति ।। मनसः सादित्व इत्यर्थः । सादित्वेति ।।

मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ’

इति वचनेन संसारस्य मनोऽधीनत्वावगमान्मनसः सादित्वे संसारस्यापि सादित्वप्रसङ्गः । न चेष्टापत्तिरिति वाच्यम् ।

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

वासुदेवेच्छया नित्यं भ्रमति ।।’

इत्यादिवचनविरोधादिति भावः । तच्चेति ।। मन इत्यर्थः । जन्मान्तरेति ।। तथा चानादौ संसारे स्वशिरश्छेदा-नुभवसम्भवेन तज्जन्यवासनाया अनादिमनसि स्थितत्वेन स्वप्ने तद्दर्शनं युक्तमिति भावः । वैधर्म्याच्चेति ।। स्वप्नादुत्थितस्य स्वप्नोऽयं, नायं बाह्यो गज इति बाधकसद्भावात्स्वाप्नस्य मिथ्यात्वं वक्तव्यम् । प्रपञ्चस्य तु बाधकाभावरूपाद्वैधर्म्यान्न स्वाप्नादिवन्मिथ्यात्वं, किन्तु सत्यत्वमेवेति सूत्रार्थः । अनुभूतैक्येन अनुभूत-पदार्थैक्येन । ननु तर्हि या भ्रान्तिस्सा साधिष्ठानेति व्याप्तेर्बाह्यत्वे व्यभिचारोऽस्तु । तत्राधिष्ठानाभावादित्यत आह- बाह्यत्वाऽरोपे चेति ।। बाह्यत्वाऽरोपेऽधिष्ठानादिसत्त्वमुपपादयति- गजमद्राक्षमिति ।। प्रतीतिः (श्री.टि.) बाधकप्रतीतिः । उत्थितस्य स्वप्नादुत्थितस्य । तथा च बाह्यत्वाऽरोपे स्वाप्नगजादिकमेवाधिष्ठानमिति भावः । मनोरथस्येति ।। मनोरथे प्रतीयमानानां पदार्थानामपि स्वाप्नवद्वासनामयत्वेन सत्यत्वान्न तत्राप्युक्त-व्याप्तेर्व्यभिचार इति भावः । वासनापरिणामः वासनोपादानकपदार्थानां सृश्व्ःि । पुरुषेति ।। मनोरथे वासनामयपदार्थानां सृश्व्ःि पुरुषप्रयत्नाधीनेत्यर्थः ।

ननु देहाऽत्मविभ्रमाभावे कुतः संसाराभावप्रसङ्ग इत्यतस्तस्य संसारकारणत्वमुपपादयति- देहाऽत्म-विभ्रमाद्धीति ।। रागद्वेषोदय इति ।। देहानुकूलप्रतिकूलयोरिति शेषः । नैषामिति ।। ‘ते वै विदन्त्यतितरन्ति च देवमायाम्’ इति पूर्ववाक्यम् । तथा च येषां श्वसृगालभक्ष्ये देहे ममाहमिति धीः देहाऽत्मैक्यभ्रम इति यावत्, नास्ति त एव देवमायां विदन्ति अतितरन्ति च संसारमित्युक्त्या विशेषनिषेधः शेषविध्यनु(मा)ज्ञापक इति न्यायेन येषां ममाहमिति देहाऽत्मैक्यभ्रमरूपा धीरस्ति ते संसारं नातितरन्तीति नैषामिति वाक्येनार्थाल्लभ्यत इति भावः । अत्र देहाऽत्मैक्यभ्रमे । अधिष्ठानमिति ।। आत्मैक्यभ्रमे देहोऽधिष्ठानम् आत्मा प्रधानमित्यर्थः । सादृश्येति ।। अधिष्ठानप्रधानयोरित्यर्थः । उक्तव्याप्तीति ।। या भ्रान्तिस्साऽऽरोप्यसदृशाधिष्ठानप्रधान-पूर्विकेत्युक्तव्याप्तीत्यर्थः । देहाऽत्मनोः आरोप्ययोः । प्रातीतिकत्वेति ।। प्रातिभासिकत्वेत्यर्थः । ननु देहाऽत्मनोः प्रातीतिकत्वमिश्व्मेव । न च देहाद्युचितार्थक्रियाऽभावप्रसङ्गः । देहाद्यन्तरेण तदुपपत्तेरित्यत आह- देहाद्यन्तराभावादिति ।। आ अविपालगोपालमिति पदच्छेदः । अविपालगोपालं मर्यादीकृत्येत्याविपाल-गोपालमित्यर्थः । अन्यत्रेति ।।

जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ।

भयाभयस्वभोगादौ कारणानि विजानते ।

अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।

यदि देहान्तरज्ञानं देहैक्यावसितिः कुतः ।

मम देह इति ह्येव न देहोऽहमिति प्रमा ।।’

इत्यादिनाऽनुव्याख्यान इत्यर्थः । कथं तर्हीति ।। देहात्मैक्याभावे देहधर्मस्य मनुष्यत्वस्य कथमात्मनि प्रतीतिः स्यात् । न च तथा प्रतीतिरेव नास्तीति वाच्यम् । मनुष्योऽहमिति व्यवहारान्यथाऽनुपपत्त्या तदवगमात् । तथा च व्यवहारसिद्धप्रतीत्यन्यथाऽनुपपत्त्या देहात्मैक्यभ्रमसिद्धिरिति भावः । उपचारेणेति ।। तथा च चित्रलिखिते सिंहे सिंह इति व्यवहारवदस्यौपचारिकव्यवहारत्वेन न तदन्यथाऽनुपपत्त्या ज्ञानं कल्पनीयमिति भावः । तथा च न तदुपपत्तये देहात्मभ्रमकल्पनमिति हृदयम् ।

एकदेशस्थत्वादीत्यादिपदार्थमाह- भेददर्शनेऽपीति ।। तथेति ।। देहाऽत्मनोरप्येकदेशस्थत्वं स्फुटतरविवेका-भावश्चास्तीत्येवमभिन्नतन्तुपटसादृश्येन मनुष्योऽहमित्ययं व्यवहार इत्यर्थः । भ्रान्तेरेवेति ।। देहाऽत्मभ्रम-स्यैवाभावादित्यर्थः । ननु देहात्मविभ्रमाभावे उक्तरीत्या संसाराभावप्रसङ्ग इति चेत्तत्राऽह- स्फुटभेदेति ।। (श्री.टि.) देहाऽत्मनोः स्फुटतरविवेकज्ञानाभावादेव देहानुकूलप्रतिकूलयो रागद्वेषादिद्वारा संसारोपपत्तिरिति भावः । ननु तर्हि स्फुटतरविवेकज्ञानवतां जीवन्मुक्तानां संसारोपलम्भो न स्यात् । तेषामपि देहसंरक्षणार्थं भिक्षाटनादौ प्रवृत्तिदर्शनादित्यत आह- किञ्चेति ।। पुराणेति ।। तथा च येषां श्वसृगालभक्ष्ये देहे ममाहमिति धीर्नास्ति स्फुटतरविवेकज्ञानमस्तीति यावत्, ते वै विदन्ति इत्याद्युक्त्याऽन्येषां स्फुटतरविवेकज्ञानं नास्तीति लभ्यत इति ज्ञातव्यम् ।

अन्ये नरहरितीर्थाः । सादृश्येति ।। देहाऽत्मैक्यभ्रमेऽधिष्ठानप्रधानयोः सत्त्वेऽपि सादृश्याभावेनोक्तव्याप्तिभङ्गे चोदितेऽनुव्याख्यानानुसारेण देहाऽत्मभ्रम एव नास्तीति कुत्र व्यभिचारः स्यादित्यभिधाय कथं तर्ह्यहं मनुष्य इत्यादिव्यवहार इत्याशङ्क्य तस्यौपचारिकत्वमुक्त्वा उपचारे निमित्तप्रदर्शनपरत्वेन देहाऽत्मनोरपीति वाक्यं टीकाकारैर्व्याख्यातम् । नरहरितीर्थास्तु देहाऽत्मैक्यभ्रमेऽधिष्ठानप्रधानयोः सद्भावेऽपि सादृश्याभावेनोक्तव्याप्ति-भङ्गे चोदिते देहात्मैक्यभ्रममङ्गीकृत्य तस्मिन्भ्रमे सादृश्योपपादनपरत्वेन देहाऽत्मनोरपीति वाक्यं व्याचक्षत इत्यर्थः । तेषामनुव्याख्यानविरोधः स्पश्व् इति भावः ।

त्रितयेति ।। अधिष्ठानप्रधानयोः सद्भावेऽपि शङ्खपीतद्रव्ययोः नभोनीलद्रव्ययोः तिक्तद्रव्यगुडयोश्च सादृश्याभावात्त्रितयाभाव इत्यर्थः । इदं चैकसत्त्वे द्वयमिह नास्तीति प्रतीतिसिद्धव्यासज्यवृत्तिप्रतियोगिका-भावाभिप्रायेणेति द्रष्टव्यम् । पीतादय इत्यादिपदव्याख्यानम्- प्रभृतय इति ।। तथा च पीतं चिरबिल्वं, बिल्वस्य पीतत्वद्योतनाय चिरग्रहणम् । बहुकालीने बिल्वे पीतत्वदर्शनात् । नीलं वस्त्रादि ।  तिक्तं निम्बादीति द्रश्व्-व्यम् । यद्यप्यत्रेति ।।  तथा च सादृश्यमेवोपपादनीयम् । न त्वधिष्ठानप्रधानयोस्सत्त्वमिति भावः ।  उपपादित-मिति ।। शङ्खः पीत इत्याद्युक्त्या शङ्खादीनामधिष्ठानत्वमुक्तम् । अन्यत्र विद्यन्त इत्यनेन प्रधानं सादृश्यं चेति वाक्येन सादृश्यमिति त्रितयमप्युपपादितमित्यर्थः । अतिप्रसङ्गः स्यादिति ।। घटेऽपि पटभ्रमः स्यादिति भावः। सोपाधिकभ्रमेष्विति ।। विशेषदर्शनानिवर्त्यभ्रमेष्वित्यर्थः । अल्पस्यापीति ।। यत्प्रधानं तदतिरिक्तगतत्वेनाति-प्रसक्तस्यापीत्यर्थः । तथा चोपाधिरेवातिप्रसङ्गभञ्जक इति भावः ।

सोपाधिकभ्रमानुदाहरति- यथेत्यादिना ।। दण्डशङ्खनभोगुडेषु दीर्घत्वशौक्ल्यनीलत्वमाधुर्यरूपविशेष-दर्शनसद्भावेऽपि जलप्रवाहाद्युपाधिगतं वक्रिमादिकं गृहीत्वा दण्डादावारोप्यत इत्यर्थः । गुडतिक्तताभ्रमो यदि बालातिरिक्तस्य तर्हि गृह्यमाणाऽरोपः । यदि च बालस्य तर्हि स्मर्यमाणाऽरोपः । अदृष्टवशात्पूर्वजन्मानुभूत-तिक्ततां स्मृत्वा गुड आरोप्यत इति द्रष्टव्यम् । एकेनैव वाक्येनेति । स्वप्ने देहाऽत्मनोः शङ्खः पीत इत्यादिरूपेणे-त्यर्थः । तथा च वाक्यभेदः किमर्थ इति भावः । सर्वत्रोपपादनस्यैकप्रकारत्वे ह्येकेनैव वाक्येनोपपादनं कार्यं स्यात् । न चैवमस्तीत्याह- स्वप्ने हीति ।। स्वाप्नपदार्थानां वासनामयत्वेन सत्यत्वात् । भ्रान्तिकल्पितत्वमेव नास्तीति तज्ज्ञानं प्रमा न भ्रमः । बहिष्ठत्वमात्रमेव भ्रान्तिकल्पितमिति तज्ज्ञानं भ्रमरूपमित्येवं भ्रमाभ्रमयोः साङ्कर्यमस्तीत्यर्थः । एवं च यत्र व्यभिचारश्चोद्यते तेषां सत्यत्वमेवेत्येवं समाधानं नान्यत्र वक्तुं शक्यत इति (श्री.टि.)भावः । सोपाधिको विशेषदर्शनानिवर्त्यः । निरुपाधिको विशेषदर्शननिवर्त्यः । न शक्यमिति ।। सोपाधिकभ्रमेऽतिप्रसक्तस्यापि सादृश्यस्य भ्रमहेतुत्वात् निरुपाधिकभ्रमे प्रधाननिष्ठाऽसाधारणचाक-चक्यादिसादृश्यस्यैव भ्रमहेतुत्वादिति भावः । सर्वत्रेति ।। अनेन मूलगतं न कुत्रापीत्येदुक्ततात्पर्यकमिति द्रष्टव्यम् । एषा व्याप्तिरिति ।। भ्रान्तेः सदृशाधिष्ठानप्रधानपूर्वकत्वव्याप्तिरित्यर्थः । तथा च परेणाप्यङ्गी-कृतत्वान्नैतदुपपादनं भगवत्पादैः कर्तव्यमिति भावः । कथमङ्गीकृतेति ज्ञायत इत्यत आह- यदभाषतेति ।। सङ्करेण भाष्य उक्तमित्यर्थः । तदुदाहरति- स्मृतिरूप इति ।। स्मृत्या रूप्यते जन्यत इत्यध्यासस्य स्मृतिरूपत्वं वक्तव्यम् । भ्रमजनकप्रधानस्मृतिहेतुभूतसंस्कारोद्बोधश्चाधिष्ठाने प्रधानसादृश्यं विना न सम्भवतीति स्मृतिरूपपदेन प्रधानाधिष्ठानयोः सादृश्यमङ्गीकृतमित्यर्थः । अत एवेति ।। भ्रान्तेः सदृशाधिष्ठानप्रधानपूर्वकत्वव्याप्तेरङ्गी-कृतत्वादेवेत्यर्थः । प्रधानाभावमिति ।। प्रधानज्ञानाभावमित्यर्थः । ज्ञातस्यैव प्रधानत्वात् तिक्ततायाश्च बालेनास्मिन्जन्मनि प्रागननुभूतत्वादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

आद्येऽपि किं तेऽतीन्द्रियाः, किं वा ऐन्द्रियकाः । नाद्यः । स्वप्नदशायामपि तदनुपलम्भप्रसङ्गादिति भावेन द्वितीयं दूषयति- प्रागूर्ध्वं चेति ।। समानोऽयं प्रसङ्ग इति ।। अतीन्द्रियत्वे स्वप्नदशायामप्युपलम्भो न स्यात् । ऐन्द्रियकत्वे च प्रागूर्ध्वं चोपलब्धिः स्यादिति समानोऽयं प्रसङ्ग इत्यर्थः । ऐन्द्रियकत्वेऽपि तदैवोत्पद्य विनष्टत्वान्न प्रागूर्ध्वं चोपलब्धिप्रसङ्ग इति शङ्कते- तदैवेति ।। असम्भावितत्वादिति ।। तदैवोत्पत्तिविनाश-योरसम्भावितत्वादित्यर्थः । विद्युदादौ तद्दर्शनान्न स्वाप्नपदार्थानां तदैवोत्पत्तिविनाशयोरसम्भावितत्वमित्यतः इत्थम्भावे प्रमाणाभावादिति सत्येव दोषे दोषान्तरमाह- किञ्चेति ।। प्राग् मृदादीनि पश्चाच्च कपालादीनि उपलब्धव्यानीत्यर्थः । ननु न प्रागूर्ध्वं मृदादीनां कपालादीनामुपलब्धिः प्रसज्यते । वासनोपादानकत्वाङ्गीकारेण तेषां बाह्यमृदाद्युपादानकत्वाभावादित्यरुचेराह- अपि चेति ।। अत्र ‘यथाकामं स्वे शरीरे परिवर्तते’ इति ‘बहिष्कुलायादमृतश्चरित्वा’ इति च श्रुतिद्वयं विकल्पकोटिद्वयप्रापकमिति द्रष्टव्यम् । दर्शनासम्भवादिति ।। अल्पप्रदेशे महतां रथादीनामवस्थानासम्भवेन तत्र तद्दर्शनस्यायुक्तत्वादित्यर्थः । देशकालविसंवादाच्च न स्वप्नः सत्य इति भावेन तद्विसंवादमुपदर्शयति- किञ्चेति ।। न च तत्रेत्यादि ।। काश्यां मधुरावस्थानस्य, हेमन्ते वसन्तावस्थानस्य च असम्भवादित्यर्थः । आत्मन एतदधिष्ठानत्वं किं न स्यादिति शङ्कते- आत्मन इति ।। भेददर्शनस्य भ्रमविरोधिनो विद्यमानत्वान्नाऽत्मनो भ्रमाधिष्ठानत्वमिति भावः । भेददर्शने विवदमानं प्रति तदुपपादयति- न हीति ।। प्रत्युत नाहं गज इत्येव प्रतीतिरित्यर्थः । उक्तमिति ।। ‘ते किमनादिनित्याः’ इत्यादिनेति शेषः । उत्पत्तीति ।। तथा च अनादिनित्यत्वपक्षदोषोऽनङ्गीकारपराहत इति भावः । नन्वेवं वासनानामतीन्द्रियत्वात् तदुपादानकस्वाप्नार्थानामप्यतीन्द्रियतया चाक्षुषाद्युपलम्भानुपपत्तिरित्यतोऽतीन्द्रिय-द्व्यणुकोपादानकस्यापि त्र्यणुकस्यैन्द्रियकत्वेनोक्तनियमासिद्धेर्न तत्प्रसक्तिरिति भावेनाऽह-अतीन्द्रियेति ।। तर्हि वासनारूपमित्येतावतैव प्रसक्तदोषाणां परिहारसिद्धेर्मनसि स्थितमिति विशेषणमनर्थकमित्यतोऽनुप-(पां.टि.) पत्त्यन्तरपरिहारार्थं तदिति भावेन तदुत्थापयति- तर्हीति ।। प्रसिद्धमिति ।। ‘नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठति’ इत्यादिश्रुतिप्रसिद्धमित्यर्थः । अन्यथेति ।। अविद्यादेरेव संसारत्वेन संसारस्याविद्या-कामकर्माद्यधीनत्वानुपपत्त्या मनोव्यतिरकेण तदनादित्वनिर्वाहकाभावादिति भावः ।

तथाऽपि कथं स्वप्ने स्वशिरश्छेदादिप्रतीतिसमर्थनमित्यतः तज्जन्मनि स्वशिरश्छेदादेरननुभूतत्वेऽपि जन्मान्तरेऽनुभूतत्वात्तज्जन्यसंस्काराणां तदात्मना परिणामसम्भवात्तद्दर्शनोपपत्तिरिति भावेनाऽह- तच्चेति ।। तर्हि तत्रैव व्याप्तिभङ्ग इत्यतो वासनारूपस्वाप्नार्थानामेव बाह्यत्वारोपेऽधिष्ठानत्वान्न तत्रोक्तव्याप्तेर्भङ्ग इति-भावेनाऽह- बाह्यत्वारोपे चेति ।। संस्कारोपादानकवस्त्वधिष्ठानत्वादिकमेव दर्शयति- गजमिति ।। ननु तथाऽपि मनोरथस्य भ्रमत्वेऽपि तत्राधिष्ठानाद्यभावाद्व्यभिचार इत्यतस्तत्रापि संस्कारोपादानकतया पदार्थानां सत्यत्वेन तत्प्रतीतेर्भ्रान्तित्वासिद्धेर्न तत्राप्युक्तव्याप्तेर्भङ्ग इति भावेनाऽह- इयमेवेति ।। तर्हि स्वप्नमनोरथयोः को विशेषः, येन ‘स्वप्नमनोरथो यथा’ इत्यादौ मनोरथस्य स्वप्नात्पृथङ् निर्देश इत्यतस्तमुपदर्शयति- इयांस्त्वि-ति ।। मास्तूक्तव्याप्तेः स्वप्नमनोरथयोर्व्यभिचारः । उदाहरणस्यानादरणीयत्वात् । अहं मनुष्य इति भ्रमे तु व्यभिचारः स्यादेवेति भावेन तदनभ्युपगमे बाधककथनेन तत्साधुत्वमुपपादयति- नन्विति ।। तत्कथमित्यतः निमित्तनैमित्तकभावं स्फोरयति- देहात्मभ्रमाद्धीति ।। तथा चोक्तमिति ।। विशेषनिषेधः शेषविधिं गमयतीति अन्येषां देहात्मभ्रमोऽस्तीति ‘नैषाम्’ इति वाक्येनार्थाल्लभ्यत इति भावः । प्रातीतिकत्वप्रसङ्गादिति ।। आरोप्यस्यासत्त्वनियमेन तन्नियमादिति भावः ।

ननु देहात्मनोः प्रातीतिकत्वमिष्टमेव । न च प्रातीतिकस्यार्थक्रियाकारित्वाभावाद्देहाद्युचितार्थक्रियाकारित्वाद्य-भावप्रसङ्ग इति वाच्यम् । शुक्तिकायामारोपितस्य रजतस्य प्रातिभासिकत्वेऽप्यप्रातिभासिकेन रजतेन तदुचितार्थ-क्रियावत् अप्रातिभासिकदेहात्मभ्यां तदुचितार्थक्रियासम्भवेन तदप्रसङ्गादित्यतः आरोपितस्य प्रातिभासिकत्वेऽप्य-नारोपितरजतस्याप्रातिभासिकस्य सत्त्वेन तेन तदुचितार्थक्रियासम्भवेऽपि प्रकृते प्रातीतिकदेहात्मव्यतिरेकेण देहा-त्मनोरसत्त्वात्ताभ्यां तदुचितार्थक्रियाया वक्तुमनुचितत्वेन तदभावप्रसङ्गो दुर्वार इत्याशयेनाऽह-देहाद्यन्तरेति ।।

आविपालगोपलमिति ।। ननु च ‘आ अविपालगोपालेभ्यो भेदज्ञानम्’ इत्यत्र तद्विधायकाभावात्कथं पञ्चमीति चेन्न । अत्राऽङः ‘आङ् मर्यादावचने’ इति स्मरणात् कर्मप्रवचनीयतया कर्मप्रवचनीयाङ्योगात् ‘पञ्चम्यपाङ्परिभिः’ इति युक्तैव आ अविपालगोपालेभ्यः इति पञ्चमी । न चैवं कर्मप्रवचनीयस्याऽङः पञ्चम्यन्तेनाविपालगोपालशब्देन ‘आङ् मर्यादाभिविध्योः’ इति समासे ‘सुपो धातुप्रातिपदिकयोः’ इति सुब्लोपे अपविष्णु संसार इत्यादाविव आविपालगोपालं भेदज्ञानमित्येव स्यात् । आ अविपालगोपालेभ्यः भेदज्ञानमिति पञ्चमी तु कथमिति वाच्यम् । ‘विभाषा’ इति महाविभाषाऽधिकारेण ‘आङ् मर्यादाभिविध्योः’ इति मार्यादार्थक-स्याऽङो विकल्पेन पञ्चम्या समासविधानेन समासाभावपक्षे आ अविपालगोपालेभ्य इति वाक्यस्य सम्भवेन पञ्चमीश्रवणस्य, समासपक्षे आविपालगोपालमित्यस्य च रूपस्योपपन्नतरत्वादित्याशयात् ।

(पां.टि.) अन्यत्रोपपादितत्वादिति ।। ‘जातमात्रा मृगा गावः’ इत्यादिना ‘यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः’ इत्यन्तेन ग्रन्थेन अनुव्याख्याने तृतीयाध्याये उपपादितत्वादित्यर्थः । ननु व्यवहारस्य व्यवहर्तव्यज्ञान-साध्यत्वनियमादभेदभ्रमे सति तन्मूलकस्य मनुष्योऽहमिति व्यवहारस्य सम्भवेऽपि आविपालगोपालं भेदज्ञानस्यैव सत्त्वात्तदभेदभ्रमस्याभावे कारणाभावान्मनुष्योऽहमिति व्यवहारः कथं स्यादिति शङ्कते- कथं तर्हि मनुष्योऽहमि-तीति ।। मुख्यव्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वनियमेऽपि सिंहो देवदत्त इत्यादौ व्यभिचारेण मुख्यामुख्यव्यव-हारसाधारण्येन व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वनियमाभावान्मनुष्योऽहमिति भेदव्यवहारस्य औपचारिक-त्वेनाभेदज्ञानसाध्यत्वाभावात्तदभावेऽप्यौपचारिकव्यवहारो युक्त इति भावेन समाधत्ते- उपचारेणेति ।। भवेदेतदेवं यद्यस्य व्यवहारस्य सिंहो देवदत्त इत्यादिवदौपचारिकत्वं स्यात् । न च तत्सम्भवति । तत्र सादृश्यविशेषस्य सत्त्वेन तन्निमित्तकतयौपचारिकत्वसम्भवेऽपि प्रकृते तादृशनिमित्तविशेषाभावेनौपचारिकत्वस्यासिद्धेस्तदनुप-पत्तिस्तदवस्थैवेति शङ्कते- उपचारे किं निमित्तमिति ।। न किमपीत्यर्थः । मूले एकदेशस्थत्वादीत्यादिपद-व्याख्यानम्- यथेति ।। तर्हि देहात्मभ्रमजन्यत्वात्संसारस्य तदभावेऽभावः स्यादित्यतोऽङ्गुलीद्वयवत्स्फुटतरभेद-ज्ञानाभावात्तदनुकूलप्रतिकूलयो रागद्वेषाद्युपपत्तेर्न तदभावप्रसङ्ग इत्याशयेनाऽह-  स्फुटेति ।। भवेदेवं यदि देहात्मनोः स्फुटतरभेदज्ञानाभाव एव सम्भवेत् । न च सम्भवति । स्फुटतरभेदज्ञानस्योदाहृतानुव्याख्यानसिद्धत्वेन तदभावस्य तद्विरुद्धतयाऽसम्भवदुक्तिकत्वादित्यरुचेराह- किञ्चेति ।। स्त्रीपुत्रादिभ्यः स्फुटतरभेदज्ञानस्य सत्त्वात्तदभेदभ्रमाभावेऽपि तत्र स्नेहवशात्तदनुकूलप्रतिकूलयो रागद्वेषाद्युत्पत्तिक्रमेण दुःखोत्पत्तिरूपसंसार-वत्स्फुटतरभेदप्रतिभासाद् देहात्मैक्यप्रतिभासाभावेऽपि देहस्नेहविशेषवशात्तदनुकूलप्रतिकूलयो रागद्वेषाद्युत्पत्ति-प्रणाडिकया दुःखोत्पत्तिरूपसंसारसम्भवेन तदनुपपत्तेरेवाभावान्न तया देहैक्यभ्रमसिद्धिरिति भावः । तर्हि का पुराणवाक्यस्य गतिरित्यत आह- पुराणवाक्यमपीति ।। अङ्गुलीद्वयवद् देहात्मनोरुक्तनिमित्तद्वयेन स्फुटभेदप्रति-भासाभावविषयकमित्यर्थः ।

चिरन्तनटीकाकारमतमनुवदति- अन्ये त्विति ।। अन्ये त्वित्यस्वरसोद्भावनम् । तद्बीजं तु

जातामात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ।

भयाभयस्वभोगादौ कारणानि विजानते ।

अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।।’

इत्याद्यनुव्याख्यानविरुद्धतया देहात्मभ्रमाङ्गीकारस्यानुचितत्वेन तदङ्गीकारेण सादृश्योपपादन-तयैतद्ग्रन्थ-व्याख्यानस्यासमञ्जसत्वमिति द्रष्टव्यम् । त्रितयमपीति ।। यद्यप्यत्र प्रधानसादृश्ये एव उपपादिते न त्वधिष्ठानमपीति न तथोक्तिरुपपन्ना, तथाऽपि शङ्खादीनामित्यनेनाधिष्ठानमप्युपपादितमित्याशयेन त्रितयमपीत्युक्तमिति द्रष्ट-व्यम् । अल्पस्यापीति ।। प्रधानविजातीयगतत्वेनातिप्रसक्तस्यापीत्यर्थः । सोपाधिकभ्रमानेवोदाहरति- यथा इत्यादिना- इत्याहुः ।  वस्तुतस्तु  सोपाधिकभ्रमेऽल्पस्यापि  सादृश्यस्य  हेतुतामेव  दृष्टान्तेनाऽह - यथा (पां.टि.) जलेति ।।  तथाऽपि प्रकृतभ्रमाणां कथं  सोपाधिकत्वम् ?  उपाधेरप्रतिभासादित्यतः  शङ्खः  पीत  इत्यादिभ्रमेषु क्रमेण  सोपाधिकत्वमुपपादयति- चक्षुर्गतेत्यादिना ।। मूले  कुत्रापीत्युक्तत्वात्तत्तात्पर्यमाह - अनयैव दिशेति ।। पराङ्गीकृतमिति कथमवगतमित्यतः तद्वाक्यादेवेत्याह- यदभाषतेति ।। तद्वाक्यं पठति- स्मृतिरूप इति ।। यद्यपि परभाष्ये ‘स्मृतिरूपः परत्र पूर्वदृष्टावभासः’ इत्येव पठितम् । तथाऽपि साकाङ्क्षत्वपरि-हाराय प्रश्नवाक्यस्याध्यासपदानुषङ्गं सिद्धवत्कृत्वाऽध्यासपदगर्भतयैवानुवादः कृत इति द्रष्टव्यम् । कथमेव-मुक्त्याऽप्यध्यासस्याधिष्ठानादित्रितयपूर्वकत्वलाभ इत्यतः तमुपदर्शयति- अत्र हीति ।।

अत्र परत्रेत्युक्त्या परस्येत्यर्थतो लाभात् परत्र परस्यावभास इत्येव लक्षणमभिमतम् । तदुपपादनाय स्मृति-रूपत्वसङ्कीर्तनम् । स्मृतिरूपत्वोपपादनाय च पूर्वदृष्टत्वसङ्कीर्तनम् । तथा हि । अत्र अध्यासद्वयेऽपि परत्रेति सामान्यतो धीयोग्यमधिष्ठानमुक्तम् । अत्रार्थपक्षेऽवभास्यत इत्यवभासः ‘अपरश्चासावभासश्च’ इति परावभास इति विग्रहः । ज्ञानपक्षे च ‘अवभासनमवभासः परस्यावभासः परावभासः’ इति विग्रहो द्रष्टव्यः । परावभास इत्येवोक्ते घटात्परस्य पटस्यावभासेऽवभास्यमाने पटे चातिव्याप्तिः स्यात् । तन्निवृत्तये परत्रेत्युक्तम् । न चैवमपि खण्डो गौरित्यादावतिव्याप्तिः । परत्रेत्यारोप्यात्यन्ताभाववतोऽधिष्ठानस्य विवक्षितत्वात् । खण्डगवादीनां तादात्म्यवतां संसर्गशून्यत्वाभावात् । दोषसंस्कारसम्प्रयोगोत्थत्वादवभासः सम्भवतीति वक्तुं स्मृतिरूप इत्यु-क्तम् । स्मर्यत इति स्मृतिः स्मर्यमाणोऽर्थः ।भावे’ ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति सूत्रद्वयमधिकृत्य ‘स्त्रियां क्तिन्’ इति सूत्रेण भावे कर्तृव्यतिरिक्ते कारके च कर्मादौ संज्ञायां चकारादसंज्ञायां च क्तिनो विधा-नात् । ततश्चार्थपक्षे स्मर्यमाणस्य रूपमिव रूपं यस्येति स्मृतिरूपः, न तु स्मर्यत एव । अस्पष्टपुरोऽवस्थितत्वेन भानात् । ज्ञानपक्षे च स्मरणं स्मृतिः। उक्तसूत्रेण भावेऽपि क्तिनो विधानात् स्मृतेः रूपमिव रूपमस्येति स्मृति-रूपः न स्मृतिरेव । पूर्वानुभूतस्य तथा भानात् । स्मृतिरूपता चास्य दोषादित्रयोत्थत्वात् तादृग्विषयाद्वा । अदृष्टरजतस्य रजतभ्रमादृष्टे तत्संस्काराभावाच्च । संस्कारद्वारा स्मृतिरूपतोपयोगित्वं पूर्वदृष्टत्वस्य । ततश्च अत्र भाष्ये ‘परत्र परावभासः’ इत्येवाध्यासलक्षणमभिमतम् । इतरदुक्तरीत्या तच्छेषभूतमित्यवधेयम् । यद्वा अत्राव-भास इत्यनेन मिथ्याज्ञानमध्यास इति सङ्क्षिप्तमध्यासलक्षणमुक्तम् । अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाध एव अत्रास्यावसादोऽवमानो वेति यौगिकेन तेन मिथ्याज्ञानस्यैव लाभसम्भवात् । पूर्वदृष्टेत्या-दिनाऽवभासपदस्य रूढमर्थमादाय विस्तृतमध्यासलक्षणमुच्यत इति द्रष्टव्यम् । तथा हि । पूर्वदृष्टस्य अवभासः पूर्वदृष्टावभासः । अत्र पूर्वदृष्टेत्यनेन अनृतमारोपणीयमुपस्थाप्यते । मिथ्याप्रत्ययस्याऽरोपविषयारोपणीयरूप-सत्यानृतमिथुनमन्तरेणासम्भवात् । तस्य च दृष्टत्वमात्रमुपयुज्यते । न वस्तुसत्तेत्यभिप्रेत्य दृष्टग्रहणम् । तत्रापि वर्तमानं दृष्टदर्शनं नाऽरोपोपयोगीति भावेन पूर्वेत्युक्तम् । तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीय-तयाऽनिर्वाच्यमित्यनृतम् ।

आरोपविषयसत्यमाह- परत्रेति ।। परत्र शुक्तिकादौ परमार्थसतीत्यर्थः । तदनेन विशेषणद्वयेन सत्यानृतं (पां.टि.) मिथुनमुक्तं भवति । पूर्वत्र दृष्टस्य परत्रावभासोऽध्यास इत्युक्ते स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य परत्र कालाक्ष्यामवभासे, तथा पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासे च यथार्थप्रत्यये प्रत्यभि-ज्ञारूपेऽतिव्याप्तिः । न च मिथ्याज्ञानत्वरूपावभासपदार्थस्य तत्राभावात् कथं तत्पदाङ्कितलक्षणस्य तत्राति-व्याप्तिरिति वाच्यम् । अत्र लक्षणेऽवभासपदस्य रूढार्थत्वाश्रयणेन योगेन मिथ्याज्ञानार्थत्वाभावान्नीलस्याव-भासः,  पीतस्यावभास इत्यादौ समीचीनप्रत्ययेऽप्यवभासप्रसिद्ध्या समीचीनप्रत्ययस्याप्यवभासपदरूढार्थ-त्वात् । न चैवमपि पूर्वदृष्टेत्यनेनानृतस्याऽरोपणीयस्योक्तत्वात्कथं तत्पदाङ्कितलक्षणस्य प्रत्यभिज्ञायामतिव्याप्ति-रिति वाच्यम् । स्मृतिरूपपदाभिधास्यमानासन्निधानसिद्धवत्कारेण पूर्वदृष्टेत्यनेनानृतारोपणीयसमर्पणस्योक्तत्वेन तस्य पूर्वदृष्टपदसामर्थ्याप्रयुक्ततया तत्पदाङ्कितलक्षणस्यापि तत्रातिव्याप्तेर्वज्रलेपत्वात् । अतस्तत्रातिव्याप्ति-परिहारार्थं स्मृतिरूप इत्युक्तम् । स्मृतिरूपमिव रूपं यस्येति स्मृतिरूपः । न चोक्तप्रत्यभिज्ञाया अपि संस्कारजन्यत्वेन स्मृतिरूपत्वान्न तेन तद्व्यावृत्तिरिति वाच्यम् । स्मृतिरूपपदेनासन्निहितविषयत्वस्योक्त्या संस्कारजन्यस्याप्युक्तप्रत्यभिज्ञानस्य समीचीनप्रत्ययत्वेन सन्निहितविषयत्वेनासन्निहितविषयत्वाभावात् तदर्थक-स्मृतिरूपपदेन तद्व्यावृतेः सम्भात् । न च देशान्तरादौ सत्त्वरूपासन्निहितत्वस्य प्रत्यभिज्ञाविषयेऽपि सत्त्वान्नासन्नि-हितविषयत्वोक्त्याऽपि प्रत्यभिज्ञानिरास इति वाच्यम् । आरोप्यस्याधिष्ठाने परमार्थतोऽसत्त्वरूपस्यैवा-सन्निहितत्वस्य स्मृतिरूपपदेन विवक्षिततया तेनोक्तरूपप्रत्यभिज्ञाव्यावृत्तेः सम्भवात् । ततश्चासन्निहित-स्यावभासोऽध्यास इत्येव लक्षणम् । इतरत्तु तच्छेषभूतम् । न तु स्मृतावतिव्याप्तिपरिहाराय परत्रेत्यपि लक्षणे निवेश्यम् । स्मृतिरूपपदेनैव स्मृतिव्यावृत्तिसिद्धेस्तदर्थस्याधिष्ठाने परमार्थतोऽसत्त्वमिति निरुक्तस्याधिष्ठान-समसत्ताकत्वाभावरूपस्य प्रत्यभिज्ञाविषये गोत्व इव स्मृतिविषयीभूततत्तायामप्यभावादुभयोरपि गोव्यक्त्यन्तर-स्मर्यमाणधर्मिरूपाधिष्ठानसमसत्ताकत्वादधिष्ठानसत्यत्वार्थकेन परत्रेत्यनेन  स्मृतिव्यावर्तनासम्भवाच्चेत्यन्यत्र विस्तरः । यत्तु स्मृत्या रूप्यते जन्यत इति अध्यासस्य स्मृतिरूपत्वं वक्तव्यम् । भ्रमजनकप्रधानस्मृतिहेतु-संस्कारोद्बोधश्चाधिष्ठाने प्रधाने सादृश्यज्ञानं विना न सम्भवतीति स्मृतिरूपपदेन प्रधानाधिष्ठानयोः सादृश्य-मङ्गीकृतमित्यर्थ इत्येतद्ग्रन्थव्याख्यानं  तत्तु एतद्ग्रन्थव्याख्यानरूपभामतीविवरणाद्यदर्शनमूलकत्वात्स्वग्रन्थेऽपि पूर्वोत्तरपरामर्शामूलकत्वाच्चायुक्तमेवेत्युपेक्ष्यम् । अत एव स्मृते रूपमिव रूपं यस्य सः स्मृतिरूपः । स्मृतिसदृशत्वं चोद्बुद्धसंस्कारजन्यत्वादिना । संस्कारोद्बोधश्च प्रधानसदृशतयाऽधिष्ठानज्ञानेनेति सादृश्याङ्गीकारसिद्धिरिति तद्ग्रन्थव्याख्यानान्तरमप्ययुक्तत्वादुपेक्ष्यम् । प्रधानाभावमिति ।। प्रधानज्ञानाभावमित्यर्थः ।

लघुप्रभा

तावदिति ।। पश्चात्तत्र व्यभिचारं वक्ष्यामीत्याशयः । सत्यत्वे बाधकसद्भावान्मिथ्यात्वसिद्धिरित्य-भिप्रेत्य सत्यत्वे स्वरूपानुपपत्तिः, कारणानुपपत्तिः, दर्शनानुपपत्तिः, करणानुपपत्तिः, असम्भवद्विषयत्वं चेति पञ्च बाधकानि क्रमेण विवक्षुराद्यं तावद्वक्तुं किमनादिनित्याः, उतोत्पत्तिविनाशवन्तः, तदोत्पन्नविनष्टा वेति त्रेधा विकल्प्य पृच्छति- किं त इति ।। प्रागूर्ध्वमिति ।। स्वप्नादिति शेषः । सतो विषयस्यानुपलम्भे हेत्वभावादित्यर्थः । समान इति ।। स्थायित्वरूपाऽपादकसाम्यादित्यर्थः । तृतीयमुट्टङ्कयति- तदैवेति ।। असम्भावितत्वादिति ।। उत्पत्तिविनाशसामग्रीयौगपद्यस्येति शेषः। द्वितीयं दोषमाह- किञ्चैवमिति ।। भावकार्यस्योपादाननिमित्तोभयवत्त्वनियमादित्यर्थः । तृतीयं वक्ति- अपि चेति ।। पार्श्वस्थानामपीति ।। जागरे बहिष्ठदर्शने तथोपलम्भादिति भावः । तुरीयं दोषमाह- केन चेति ।। उपरतत्वात् निर्व्यापारत्वादित्यर्थः। पञ्चमदोषमाह- किञ्चेति ।। काश्यामिति देशव्यवधिः । हेमन्त इति कालव्यवधिः । व्यभिचारमुद्घाटयति- न च तत्रेति ।। आत्माऽधिष्ठानं स्यादित्यत आह- आत्मन इति ।। अत्रासिद्धिं व्युदस्यति- न हीति ।। आरोपितसम्भिन्नतयोपलब्धेरधिष्ठानत्वे तन्त्रत्वादित्यर्थः । निगमयति- तथा चेति ।। अपिपदसमुच्चेयं दर्श-यति- न केवलमिति ।। उक्तदोषमुद्धरति- तेनेति ।। साध्यस्याप्यागमान्न व्यभिचार इत्यर्थः । वासनोपादानक-मिति ।। ‘मायामात्रम्’ इति सूत्रादित्यर्थः । नन्वतीन्द्रियोपायस्याप्यतीन्द्रियत्वप्रसङ्ग इत्यतो व्यभिचारान्नायं नियम इत्याह- अतीन्द्रियकार्यस्यापीति ।। अन्तरित्युत्सर्गः । ‘अंशेन जीवमादाय’ इति सुप्तस्याप्यर्जुनस्य कैलासदर्शनोक्तेरिति ध्येयम् । मधुरादीति ।। तस्यापि वासनामयत्वादित्यर्थः । अननुभूतत्वेनेति ।। इह जन्मनीति शेषः । प्रसिद्धमिति ।। नित्यं मनोऽनादित्वात् । ‘न ह्यमनाः पुमांस्तिष्ठति’ इति श्रुतेरिति भावः । बाधकाच्चैवमित्याह- अन्यथेति ।। ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इति स्मृतेरित्यर्थः । तच्चेति मनःपरामर्शः । जन्मान्तरानुभूतेति ।। ‘अदृष्टे चाश्रुते भावे न भाव उपजायते’ इति श्रुतेरित्यर्थः । वचन-मिति ।। ‘न स्वप्नादिवत्’ इति साम्यनिषेधवचनमित्यर्थः । बहिःष्ठत्वेनेति द्वेधा व्याचष्टे- बाह्येत्यादिना ।। तत्रैव व्यभिचारोऽस्त्वित्यत आह- बाह्यत्वारोपेति ।। तद्भाष्यमनुसन्दधानः सौत्रं वैधर्म्यहेतुं व्यनक्ति- गज-मिति ।। बाह्यत्वादेर्बाध्यत्वादेव न वासनोपादेयत्वमिति भावः । एतामेव युक्तिं समीकरोति- इयमेवेति ।। अदृष्टवशादेवेति ।। अनिष्टदुःस्वप्नस्यापि भावादिति भावः । अन्यत्र व्यभिचारमादेश्व्ुं पृच्छति- नन्विति ।। देहात्मेति ।। मनुष्यत्वादेर्देहधर्मत्वस्य ‘मानुषी तनुमाश्रितम्’ इत्यादौ प्रसिद्धेरित्यर्थः । संसाराभावेति ।। श्रमस्य संसारकारणत्वादिति भावः । तदुपपादयति- देहात्मेति ।। ‘मर्त्यात्मबुद्धेः सुतदारकोशेष्वासज्यमानस्य’ इति भागवते भ्रमस्य रागादिहेतुत्वोक्तेरिति भावः । अपूर्वदेहादीति ।। ‘पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकम्’ इति श्रुतेरित्यर्थः । तेन दुःखप्राप्तिरिति ।। ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरुप-हतिरस्ति’ इति श्रुतेरित्यर्थः । देहात्मभ्रमं दूषयितुं विकल्प्य पृच्छति- किमत्रेति ।। प्रातीतिकत्वेति ।। तथा च तत आदानादिव्यवहारनिर्वाहो न स्यादित्यनिष्टत्वम् । ननु देहाद्यन्तरात्तद्भविष्यतीत्यत आह- देहादीति ।। देहात्मनोः प्रत्येकमेकत्वादित्यर्थः । आविपालगोपालमिति ।। अत्र केचित्तु आ अविपालगोपालमिति पदं चिच्छिदुः । तन्न शोभते । तस्याव्ययीभावसमासत्वेनैकपद्यात् । अव्ययीभावत्वाभावे अमो दुर्लभत्वाच्च । तस्य नित्यसमासत्वेनास्वपदविग्रहत्वाच्चेति । अन्यत्रेति ।।

जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ।

भयाभयस्वभोगादौ कारणानि विजानते ।।’

इत्यनुव्याख्यान इत्यर्थः । ‘उपचारश्च कृष्णोऽहमिति कर्दमलेपने । वस्त्रस्य यद्वदेवेयं स्यात्’ इत्यनुभाष्यं मनसि निधाय समाधत्ते- उपचारेणेति ।। मनुष्योऽहमित्यभिलाप एव नाभिज्ञेत्येतन्निदर्शयति-यथेति ।। इत्य-नेनेति ।। शङ्कनीय इतीत्यतः परमध्याहृतं सूचितमित्यन्वयि । अनेन सादृश्येनेति ।। सामानाधिकरण्यं वा ।

नन्विदं निदर्शनं न्यायरीत्या वा स्वरीत्या वा । नाऽद्यः । तन्मते इह तन्तुषु पट इतीहप्रत्ययेन समवायाभ्युप-गमेन च तन्त्वाश्रितस्य पटस्य तन्तुसामानाधिकरण्याभावात् । द्वितीये तन्तुपटयोरित्यत्र तन्तूत्तरविभक्तिरेक-वचनं बहुवचनं वा । नाऽद्यः । अंशिनोऽशेनाऽत्यन्तिकभेदे ‘अंशिनोऽशैरभेदोऽयमंशेन तु भिदाऽभिदा’ इत्यनुव्याख्यानविरोधात् । न द्वितीयः । समासे द्विवचनानुपपत्तेः । ‘अंशैरभेदोऽयम्’ इत्यनुव्याख्याने यावत्तन्तूनामेव पटत्वोपगमात्तद्विरोधात् । ‘तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः’ इति गीतातात्पर्यनिर्णये आत्यन्तिकभेदाक्षेपेण तद्विरोधाच्च । ‘जडानामंशतो भेदः समुदाये न चोभयम्’ इति ऋग्भाष्यविरोधः । ऋग्भाष्या-नुभाष्ययोः परस्परविरोधश्च दुरुद्धरोऽवरुन्ध्यात् । देहस्य बहिःष्ठत्वेन बहिरुपादानसामर्थ्येन आत्मनश्च शरीरस्थत्वेन शरीरशब्दितस्य बहिरुपादानाद्यसामर्थ्येनान्तरशब्दितस्यान्तरत्वेनैकदेशस्थत्वसादृश्याभावेन तथेत्युपनयाभा-वात् । तस्मान्नोभयथा तन्तुपटदृष्टान्तीकरणम्, एकदेशस्थत्वसादृश्याभिधानं वा युक्तमिति चेत् । अत्रोच्यते । न्यायमते पटस्य समवायेन तन्तुस्थत्वेऽपि संयोगेन भूतलस्थत्वात् । इह भूतले घट इति सार्वजनीनप्रतीतेः । अस्मन्मते एकैकतन्तोर्भेदाभेदे भेदस्य स्फुटविवेकाभावस्यापि सत्त्वान्नोक्तदोषः । अथवा स्वरीत्यैवेदं निदर्श-नम् । तत्रान्तर्वर्तिनी लुप्तविभक्तिरेकवचनमेव । तच्च समुदायापेक्षम् । तथा च तन्तुसमुदायपटयोरित्यर्थः । न चैवमनुभाष्यविरोधः । समुदायेनापि भेदाभेदाभ्युपगमात् । यथोक्तं ऋग्भाष्ये-‘समुदायेन चोभयम्’ इति । न चैवं भाष्ययोः परस्परविरोधः । अनुभाष्यस्य समुदितपटीयव्यतिषङ्गयुक्ततन्तुसमुदायविषयत्वात् । ऋग्भाष्य-स्याविवक्षितव्यतिषङ्गतन्तुसमुदायविषयत्वात् । अत एव सुधायाम्, सर्वतन्तुसत्त्वेऽपि पटानुत्पत्तेरयावद्-द्रव्यभावित्वेन भेदाभेदावाशङ्क्य व्यतिषङ्गविशिष्टयावत्तन्तुभ्योऽत्यन्ताभेदः । व्यतिषङ्गरहितयावत्तन्तुभ्योऽपि भेदाभेदाविति व्यवस्थापितम् । न च देहात्मनोरेकदेशस्थत्वानुपपत्तिः । वस्त्रप्रावृतजानुवत् कारीषाग्निवच्चापृथक् सिद्धस्यैव तच्छब्देन विवक्षणान्न विरोधगन्धः । तस्याप्युपचारबीजत्वोपपत्तेर्युक्तं तन्तुपटदृष्टान्तीकरणमित्यु-क्तम् । स्फुटविवेकाभावश्चेति ।। पृथग्दर्शनाभावेनाऽत्यन्तिकभेदादर्शनमित्यर्थः । अत एव गीतातात्पर्ये-

तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः ।

अनन्यश्चेत्तन्तुभावे पटाभावः कथं भवेत् ।।’

इत्यान्तिकभेदाभेदयोर्दोषोऽभिहित इति दिक् ।

ननु देहात्मभ्रमाभावेनाऽत्मात्मीययो रागद्वेषाभावेन प्रवृत्त्यनुपपत्त्या संसारानुपपत्तिरित्याशङ्क्यान्यथोप-पत्तिमाह- स्फुटेति ।। ‘पृथगात्मानं प्रेरितारं च मत्वा मुक्तस्ततस्तेनामृतत्वमेति’ इति स्फुटभेदज्ञानस्य मुक्तिहेतुत्वोक्तेः स्फुटभेदज्ञानाभावादेव संसारो न त्वज्ञानादिति भावः । मूलमङ्गीकारवादेन प्रवृत्तं न वस्तु-लघुप्रभा

वृत्त्येत्याशयेन स्वयं प्रकारान्तरेण दूषयति- किञ्चेति ।। अनेनार्थापत्तेरन्यथैवोपपत्तिः समर्थिता । ननु ‘मम देह इति व्यक्तं ममार्थ इतिवत्सदा’ इत्यनुभाष्यदिशा पश्वादीनामपि स्फुटभेदप्रतिभासेन नैषामिति भागवते विशिष्य निषेधो न युज्यत इत्यत आह- पुराणवाक्यमपीति ।। अभावेति ।। तामसानामिति शेषः। अन्ये त्विति ।। प्राचीनटीकाकारा इति शेषः । वैरूप्यनैरूप्यवैरस्यैः सादृश्याभावेन त्रितयाभावं शङ्कते- नन्वित्यादिना ।।

नन्वेतत्पूर्वविरुद्धम् । पूर्वं हि महता प्रबन्धेनाऽरोप्यसादृश्यमधिष्ठानप्रधानयोरपेक्षितमित्युक्तम् । अधुना अधिष्ठानप्रधानयोर्वैरूप्यमाशङ्क्य तन्मात्रसादृश्यं समर्थ्यत इति कथं न पूर्वोक्तविरोध इति चेत् । मैवम् । अभिप्रायसद्भावात् । तथा हि । ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति न्यायेन प्रधानसदृशस्याधि-ष्ठानस्य दर्शनेन प्रधानस्मरणम् । ततः स्मृतस्यैवाऽरोपे अन्यथाख्यातिप्रसङ्गेन विसदृशस्य खर्परादेरप्यारोपप्रसङ्गेन च तत्सदृशस्यैवाऽरोप इति हि सिद्धान्तवर्त्म । तत्र प्रधानस्मरणसाधनाधिष्ठानप्रधानसादृश्याभावेन भ्रमा-सम्भवमाशङ्क्य तत्सादृश्यं प्रदर्शितम् । न त्वारोप्यसादृश्यस्यानपेक्षितत्वादिति । किं च भ्रमो द्विविधः सोपाधिको निरुपाधिकश्च । तत्र निरुपाधिके आरोप्येण द्वयोः सादृश्यमपेक्षितम् । सोपाधिके तु प्रधानस्यैव । अत एव पीतादयोऽन्यत्र विद्यन्त एवेति आरोप्यपीतादिसदृशस्य चिरबिल्वप्रभृतेरन्यत्र स्थितिरुक्ता । जगदारोपस्तु निरुपाधिक एवात्र विवक्षित इति आरोप्यसादृश्यं द्वयोरप्यपेक्षितमिति सत्यजगद्द्वयाङ्गीकारः सुप्रसञ्जित इति रहस्यम् । त्रितयमिति ।। अधिष्ठानं प्रधानं तयोः सादृश्यं चेत्यर्थः । किञ्चिच्छब्दार्थं समर्थयितुमुपक्षिपति- नन्विति ।। वक्रिमेत्यामनिजन्तम् । धर्मिभानाभावेन भ्रमानुदयं व्युदसितुं उपनीतभानमाह- साक्षिसिद्ध-मिति ।। वाक्यभेदानौचित्यं चोदयति- नन्वेकेनैवेति ।। निगमं सङ्गमयितुकामो निगमयितुराशयं प्रकाशयति- अनयैवेति ।। अधिष्ठानप्रधानयोः परस्परसादृश्यं तु सार्वत्रिकम् । लक्षणपदैरभ्युपगमं गमयति- अत्र हीत्यादिना ।। सादृश्यमिति ।। अधिष्ठानप्रधानयोरिति शेषः ।