ऋगाद्या भारतं ...इति पिप्पलादश्रुतिः
सदागमस्वरूप निष्कर्षः
मूलम्
‘ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ।
मूलरामायणं चैव पुराणं चैतदात्मकम् ।।
ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः ।
दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ।।
ज्ञेय एतैस्सदायुक्तैर्भक्तिमद्भिः सुनिष्ठितैः ।
न च केवलतर्केण नाक्षजेन न केनचित् ।
केवलागमविज्ञेयो भक्तैरेव न चान्यथा ।।’ इति ब्रह्माण्डे ।
‘नावेदविन्मनुते दं बृहन्तं सर्वानुभुमात्मानं साम्पराये’ इति तैत्तिरीयश्रुतिः ।
‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’ इति कठश्रुतिः ।
‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदा इति’ इति पिप्पलादश्रुतिः ।
तत्त्वमञ्जरी
ऋगाद्या इत्यादिना ब्रह्माण्डवाक्येन सदागमानुक्त्वा तदेकविज्ञेयत्वं साधयति- न केनचिद् अर्थापत्त्यादिना । सदायुक्तैर्भक्तिमद्भिरित्युक्तिरयोगव्यवच्छेदाय । भक्तैरेव न चान्य-थेत्यन्ययोगव्यवच्छेदाय । श्रुतीश्चाऽह -‘नावेदवित्’ इत्यादि । सर्वानुभुं सर्वस्यानुभवितारं, ज्ञातारम् । आत्मानं स्वामिनम् । साम्पराये इति तादर्थ्ये सप्तमी । मोक्षार्थमित्यर्थः । आपनेया प्रापणीया । अन्येन अन्यत्वज्ञानिना प्रोक्तैव सुज्ञानाय भवति ।
टीका
क्रमादिति सदागमैकविज्ञेयत्वस्य प्रथमप्रतिपाद्यत्वं प्रतिज्ञातम् । सदुक्तिभिरिति चो-क्तम् । तत्र कास्ता नारायणस्य सदागमैकवेद्यत्वं प्रतिपादयन्त्यः सदुक्तय इत्यत आह- ऋगाद्या इति ।। ऋग्यजुस्सामाथर्वसञ्ज्ञका वेदाः । चाथशब्दाः परस्परसमुच्चये । एवशब्दयोस्तु त एव सदागमाः, तदन्ये ये ते सर्वे दुरागमा एवेति वा, तैर्नैव ज्ञेय एतैरेव ज्ञेय इति वा सम्बन्धः । पञ्चरात्रगतानां जीवजननादिवाचिनां केषाञ्चिद्वाक्यानामप्रामाण्यं केचिदाचक्षते, तन्निरासार्थ-मखिलमित्युक्तम् । एतदात्मकम् ऋगाद्यनुकूलम् । एषाम् ऋगादीनामनुयायिनोऽनुकूलग्रन्था मानवाद्याः । तुशब्दो विशेषणार्थः । तदन्ये तद्विरुद्धास्तदुदासीनाश्च । कथं तर्हि वैशेषिकादिभिः, उक्तविशेषणो नारायणो न ज्ञायत इत्यत आह- सदा युक्तैरिति ।। वेदाद्यर्थविचारे सदाभियोग-युक्तैः । वाक्यार्थो हि विचाराभियोग एव स्फुरति । नच वैशेषिकादयो वेदाद्यर्थविचारेऽभियोग-युक्ताः । तर्हि मीमांसकैः किं न ज्ञायत इत्यत उक्तम्- भक्तिमद्भिरिति ।। यो हि यत्राऽदरवान् तस्यैव तद्वस्तु विद्यमानमपि स्फुरति, न त्वनादरवतोऽन्यत्राऽदरवतश्चेत्यनुभवसिद्धम् । न च तथा मीमांसकाः । भक्तिरपि न कादाचित्की वेदाद्यर्थभगवज्ज्ञानोपयोगिनीत्युक्तम्- सुनिष्ठितै-रिति ।। एतैरेवेत्यस्य दुरागमा इव व्यावर्त्यान्तरमप्यस्तीत्याह- नचेति ।। केवलो वेदाद्यानुकूल्य-रहितः । तर्कशब्देन दूषणानुमानं व्यावर्तितम् । तदितरानुमानव्यावृत्त्यर्थमाह- न केनचिदिति ।। अथ वा तर्कशब्देन अनुमानमेवोक्तम् । कुरुपाण्डववत् सामान्यविशेषभावमाश्रित्य अर्थापत्त्यादि-व्यावृत्त्यर्थम् एतदुक्तम् । यद्वा केनचित् सदायुक्तत्वादिरहितेन पुरुषेण । केवलेति सर्वस्योप-संहारः । केवलग्रहणेन दुरागमादिनिरासः । आगमेति सदागमग्रहणम् । भक्तैः सदायुक्तैः सुनिष्ठितैश्च । ब्रह्माण्डे पुराणे कथितमिति शेषः ।
‘नावेदवित्’ इत्यादौ सर्वेऽपि सदागमा गृह्यन्ते । सर्वमनुभवतीति सर्वानुभूः । आत्मानं परमात्मानम् । साम्परायो मोक्षः, तदर्थं श्रुतिर्वक्तीति शेषः । आ अपेति विरुद्धार्थयोरुपसर्गयोः क्रमेण सम्बन्धः । एषा परमात्मविषया मतिः शुष्केण तर्केण आनेया उत्पाद्या, अपनेया निराकार्या च न भवति । किन्तु अन्येन जीवेश्वरादिभेदज्ञानिना, भगवद्भक्त्यादिमतेति यावत्, आचार्येण प्रोक्ता वेदप्रवचनेन उत्पादितैव सुज्ञानाय साक्षात्काराय भवति । प्रेष्ठेति नचिकेतसं प्रति यमस्य सम्बुद्धिः । एनं परमात्मानम् । तस्माद् वेदनकरणत्वे समानेऽपि असाधारण्येन व्यपदेशा भवन्तीति न्यायाद् विशिष्टवस्तुवेदनकरणत्वादेव हि एतान् वेदा इत्याहुः । विवक्षितस्य सर्वस्यापि अर्थस्य प्रतिपादनात् पुराणवाक्यम् आदौ पठितम् । श्रुतयस्तु एकदेशप्रतिपादनात् पश्चादिति ।।
भावबोधः
।। तुशब्दो विशेषणार्थ इति ।। अत्र विशेषणमिति भाव उच्यते । अनुयायिन एवेत्यर्थः । सर्वे त इत्यत्र ऋगादीनां परामर्श इति द्रष्टव्यम् ।। तर्कशब्देनेति ।। ‘न च केवलतर्केण’ इति नञ्शब्दसहितेन तर्कशब्देनेत्यर्थः ।
भावदीपः
।। जीवजननादीति ।। ‘वासुदेवात् सङ्कर्षणो नाम जीवो जायते’ इत्यादीनामित्यर्थः । आदिपदेन ‘भगवान् शाण्डिल्यः षडङ्गं वेदमधीत्यास्मिन्महत्याम्नाये निष्ठामनधिगच्छन्’ इत्यादिनोक्तवेदनिन्दापरि-ग्रहः ।। विशेषणार्थ इति ।। ऋगाद्यानुकूल्यविशेषणयुक्त इत्यर्थः । तेन मानवादिस्मृतिष्वपि तद्विशेषण-हीनास्त्याज्या इत्युक्तं भवति । अत एवाऽह- तद्विरुद्धास्तदुदासीनाश्चेति ।। ऋगादिः प्रागुक्तस्तच्छब्दार्थः । विचाराभियोग एवेति ।। विचाराभिनिवेशे सत्येवेत्यर्थः । आदरेऽनादरे वा विद्यमानं चेत् स्फुरत्येव, अतस्तेषा-मस्फुरणान्नास्त्येवेत्यत उक्तम्- विद्यमानमपीति ।। विद्यमानमप्यादरवत एव स्फुरति नान्यस्येत्येतत् सर्वानुभवसिद्धमिति भावः ।। अन्यत्रेति ।। मीमांसकास्तु कर्मादावेवाऽदरवन्तो न ब्रह्मणीति भावः ।। सुनि-ष्ठितैरिति ।। सुष्ठु निष्ठावद्भिः, सार्वकालिकदृढभक्तिमद्भिरित्यर्थः ।। व्यावर्तितमिति ।। उक्तविशेषण-(रा.टि.)युक्तनारायणज्ञानजनन इति योज्यम् ।। तदितरेति ।। तथाच न पौनरुक्त्यमिति भावः ।। एतदुक्त-मिति ।। न केनचिदित्येतदुक्तमित्यर्थः ।। सर्वस्येति ।। सदागमज्ञेयत्वस्य दुरागमाद्यज्ञेयत्वस्य प्रत्यक्षाद्यज्ञेय-त्वस्य भक्त्यादिमद्भिरेव ज्ञेय इत्यस्य भक्त्यादिहीनैर्न ज्ञेय इत्यस्य चेत्यर्थः । नन्वत्र केवलपदेनाऽगमेतरप्रत्यक्षादि-निरासेऽपि कथं दुरागमनिरास इत्यत आह- केवलेति ।। कथं तल्लाभः, आगमपदस्याऽगममात्रपरत्वादित्यत आह- आगमेतीति ।। अन्यथोपक्रमविरोध इति भावः । न चेति चशब्दो भिन्नक्रमस्सन्ननुक्तसमुच्चय इत्याह- भक्तैरित्यादि ।। मन्दानां कटाहभ्रान्तिं निराह- पुराण इति । इति शेष इति ।। सदागमैकविज्ञेयत्वमित्यपि योज्यम् ।। सर्वानुभूरिति ।। अनूपसर्गपूर्वकाद् भू सत्तायामित्यतो वा, ‘भू प्राप्तौ, भूक् शुद्धिचिन्तयोः’ इति कविकल्पद्रुमोक्त्या भू चिन्तायामित्यतो वा क्विपि रूपम् । श्रुतौ सर्वानुभुमिति छान्दसं ह्रस्वत्वमिति भावः । सर्वज्ञमित्यर्थः । ‘चर्मणि द्वीपिनं हन्ति’ इत्यादौ इव निमित्तसप्तमीति भावेनाऽह- तदर्थमिति ।। आपनेयेत्यत्राऽङः प्रश्लेष इत्युपेत्याऽह- आ अपेति ।। अन्यपदं ज्ञान्युपलक्षणमिति मत्वाऽऽह- अन्येनेति ।। प्रेष्ठेति ।। प्रियतमे-त्यर्थः । तस्मादित्यनूदितस्यार्थो विशिष्टवस्तुवेदनकरणत्वादिति ।। समानेऽपीति ।। कालिदासादिवाक्येषु लौकिकवाक्येष्विति योज्यम् । श्रुतीनां प्राधान्यात् पूर्वं तदनुक्तेः कृत्यमाह- विवक्षितस्येति ।। वेदपुराणादि-सदागमज्ञेयत्वम्, पाशुपतादिदुरागमाज्ञेयत्वम्, एकपदोक्तप्रत्यक्षाद्यज्ञेयत्वम्, वेदादिरेव सदागमः, अन्यस्तु दुरागम इत्यादिरूपस्य वक्तुमिष्टस्य सर्वस्येत्यर्थः ।।
वाक्यार्थदीपिका
(श्री.टि.)
भारतादीनां पृथगुक्तत्वादाद्यशब्दो वेदमात्रपर इत्याह- ऋग्यजुरिति ।। ननु चाथशब्दा व्यर्थाः प्रयोजनाभावात् । न च समुच्चय एव प्रयोजनमिति वाच्यम् । एकेनैव शब्देन समुच्चयसम्भवे शब्दान्तरवैयर्थ्यादि-त्यत आह- चाथशब्दा इति ।। चशब्दाश्चाथशब्दश्चेति चाथशब्दाः । ऋगादीनां परस्परसमुच्चयार्थत्वान्न वैयर्थ्य-मिति भावः । ननु चशब्दैवशब्दयोः कथमेकत्र सम्बन्धः? चशब्दस्यान्यसमुच्चायकत्वाद् एवशब्दस्यान्यनिषेध-कत्वादित्यतो नैकत्र तयोस्सम्बन्ध इत्याह- एवशब्दयोस्त्विति ।। जीवजननादिवाचिनां केषाञ्चिद्वा-क्यानामिति ।। ‘वासुदेवात् सङ्कर्षणो नाम जीवो जायते । सङ्कर्षणात् प्रद्युम्नसञ्ज्ञकं मनो जायते’ इत्यादि-वाक्यानामित्यर्थः । आदिपदेन कर्तृतः करणोत्पत्तिसङ्ग्रहः ।। अप्रामाण्यमिति ।। असम्भाविताया जीवोत्पत्तेः, कर्तृतः करणोत्पत्तेश्च प्रतिपादकत्वादित्यर्थः । केचित् मायावादिनः ।। अखिलमितीति ।। उदाहृतवाक्यानाम् ‘जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता’ इत्याद्यनुव्याख्यानोक्तरीत्या प्रामाण्य-सम्भवादित्याशयः ।। तुशब्दो विशेषणार्थ इति ।। अत्र विशेषणेति भावे ल्युट् । तथा हि । विपूर्वकात् शिष्लृ विशेषण इति धातोर्ल्युट्प्रत्यये लघूपधत्वात् ‘पुगन्तलघूपधस्य’ इति गुणे ‘युवोरनाकौ’ इत्यनादेशे ‘रषाभ्याम्’ इति णत्वे विशेषणमिति भवति । तथा च विशेषणं विशेषस्तदर्थक इत्यर्थः । एवं च विशेषतो ऋगादीनामनुकूला इत्युक्तं भवति । विशेषत इत्यस्य सर्वांशेनेत्यर्थः । सर्वांशेनानुकूला मानवाद्या इति भवति तेषां सदागमत्वम् । एवं च ‘श्वपचादपि कष्टत्वम्’,‘नाहं न च शिवोऽन्ये च’ इत्यादिना किञ्चिदंशेनानुकूलानां दुरागमानाम्, (श्री.टि.) तादृशलौकिकवाक्यस्य च निरासो विशेषार्थकतुशब्दफलमिति भावः । अन्ये तु तुशब्दो विशेष-णार्थः । विशेषणे योऽर्थो व्यावृत्तिरूपं प्रयोजनं तदर्थक इत्यर्थः । अवधारणात्मक इति यावत् । तथा चैषामेवा-नुयायिन इत्यर्थ उक्तो भवतीत्याहुः । केचित्तु ‘विशेषणानि यानीह’ इति सदागमैकविज्ञेयत्वादीनामेव विशेषण-तया व्यवहारात् सदागमैकविज्ञेयत्वादिविशेषणार्थकोऽत्र तुशब्दः । तस्य च जनार्दन इत्यनेन सम्बन्धः । तथा च सदागमैकविज्ञेयत्वादिविशेषणविशिष्टो जनार्दनस्तैर्नैव ज्ञेयः, एतैरेव ज्ञेय इत्यर्थो द्रष्टव्यः । नन्वेवं सति ‘सर्वज्ञं सर्वकर्तारम्’ इति वाक्यावतारिकाग्रन्थविरोधः । तत्र हि ‘ज्ञेय एतैरिति वाक्यमपि न विशिष्टभगवत्स्वरूप-प्रतिपादकत्वं सर्वेषां सदागमानामाचष्टे’ इत्युक्तत्वात् । अत्र तुशब्दस्योक्तविशेषणार्थकस्य जनार्दन इत्यनेन सम्बन्धकरणे उक्तविशेषविशिष्टं भगवन्तं प्रतिपादयन्त्येवेति प्राप्तमिति चेत्सत्यम् । स्पष्टं नाऽचष्ट इति तद्वाक्यस्य व्याख्येयत्वाददोषः । तुशब्दसम्बन्धेनैव प्रतिपादनात् स्पष्टताभाव इति द्रष्टव्यमित्याहुः ।
तदन्य इत्यत्र नञो विरुद्धार्थकत्वे ऋगादिविरुद्धानामेव दुरागमत्वमुच्यते न तूदासीनानामित्यत आह- तदन्य इति ।। कथं तर्हीति ।। जनार्दन एतैरेव ज्ञेयश्चेदित्यर्थः ।। वैशेषिकादिभिरिति ।। ईश्वराष्ट-गुणत्ववादिभिरित्यर्थः ।। उक्तविशेषण इति ।। सदागमैकविज्ञेयत्वनिर्दोषाशेषसद्गुणत्वादिविशेषणविशिष्टो जनार्दन इत्यर्थः । अभियोग आग्रहविशेषः । ननु वैशेषिकादीनां वेदार्थविचाराभावेऽपि वेदवाक्यार्थज्ञानं तावद् भविष्यतीत्यत आह- वाक्यार्थ इति ।। वैशेषिकादीनां च वेदार्थविचारेऽभियोगाभावाद्वेदवाक्यार्थज्ञानमेव तेषां न भवतीति भावः ।। तर्हि मीमांसकैरिति ।। तेषां वेदार्थविचारे सदाऽभियोगसद्भावादुक्तविशेषणविशिष्टो भगवान् किमर्थं तैर्न ज्ञायत इत्यर्थः । कथमनेनोक्तशङ्कापरिहार इत्याशङ्क्य, मीमांसकाः वेदार्थभूतभगवज्ज्ञान-शून्याः, अत्रानादरवत्त्वे सति अन्यत्राऽदरवत्त्वादित्यनुमाने सामान्यतो व्यतिरेकव्याप्तिरुच्यते- यो हीति ।। यत्राऽदरवानित्यनन्तरमन्यत्रानादरवानित्यपि पूरणीयम् । अत्र हेत्वभावपुरस्सरं व्यतिरेकव्याप्तिकथनेऽपि एव-कारमहिम्ना वह्निमत्त्वादेव धूमवत्त्वमित्यादाविव तस्य व्यापकत्वलाभ इति द्रष्टव्यम् । अन्वयव्याप्तिरुच्यते- न त्विति ।। अत्रापिशब्दस्य कोऽर्थ इति चेदत्र केचित्, अपिशब्दः सम्भावनार्थः । ‘अपिः पदार्थसम्भावना-न्ववसर्गगर्हासमुच्चयेषु’ इति सूत्रात् । तथा च यो हि यत्राऽदरवान् तस्यैव, विद्यमानम्- वाक्ये प्रतिपाद्यत्वेन विद्यमानम्, वस्तु- प्रमेयं वाक्यार्थ इति यावत्, स्फुरत्यपि- स्फुरतीति सम्भावितम् । अनादरवतोऽन्यत्राऽदरवतश्च विद्यमानमपि न स्फुरतीत्यर्थ इत्याहुः ।
सम्प्रदायस्तु, अपिशब्दो वाक्यार्थोपपादकप्रमेयसमुच्चये कैमुत्ये च । तथा चायमर्थः । यो हि यत्राऽदरवांस्तस्यैव विद्यमानं वस्तु- वाक्ये प्रतिपाद्यत्वेन विद्यमानं प्रमेयं, वाक्यार्थ इति यावत्, स्फुरति । अपिशब्दात् तद्वाक्यार्थोप-पादकं प्रमेयं स्फुरतीति ग्राह्मम् । अनादरवतोऽन्यत्राऽदरवतश्च यदा विद्यमानं- स्पष्टं वाक्ये प्रतिपाद्यत्वेन स्थितमपि प्रमेयं न स्फुरति, स्पष्टोऽपि वाक्यार्थो न प्रतीयत इति यावत्, तदा किमु वाच्यं तदुपपादकप्रमेयजातं न स्फुर-तीति । एवं व्याप्तिद्वयमुपपाद्योक्तशङ्कापरिहाराय प्रयोगप्रकारं दर्शयति- न च तथेति ।। अत्राऽदरवन्तोऽन्यत्रा-(श्री.टि.) नादरवन्तश्च न सम्भवन्ति, तेषां कर्मरूपार्थ एवाऽदरसद्भावात् । अतो न वेदाद् ब्रह्मरूपार्थप्रतीति-रिति भावः । तथा च मीमांसकाः वेदार्थभूतब्रह्मज्ञानशून्याः, अत्रानादरवत्त्वे सत्यन्यत्राऽदरवत्त्वादिति प्रयोगः सूचितो भवतीति ज्ञातव्यम् ।। सुनिष्ठितैरितीति ।। ष्ठा गतिनिवृत्ताविति धातोर्गतिरपगतिः, भक्तेर्योग्यतया लाभः, तन्निवृत्तिः ष्ठाधात्वर्थः । सु सम्यक् नितरां स्थितैर्भक्त्यपगमनिवृत्तिमद्भिः कादाचित्कभक्तिशून्यै-रित्यर्थलाभादुक्तशङ्कानिरास इति ज्ञातव्यम् ।। तर्कशब्देनेति ।। न च केवलतर्केणेति नञ्शिरस्केनेत्यर्थः । अनेन केवलतर्कशब्देन कथं दूषणानुमानव्यावृत्तिरिति शङ्कानवकाशः । यद्वा तर्कशब्देन दूषणानुमानं विवक्षितम्, तच्च नञा व्यावर्तितमित्यर्थः ।। तदितरानुमानेति ।। साधनानुमानेत्यर्थः ।। अनुमानमेवेति ।। द्वित्वावच्छिन्न-मप्यनुमानमित्यर्थः । अर्थापत्त्यादेरनुमानान्तर्भावान्न पृथक्तन्निषेधो युक्त इत्यत आह-सामान्येति ।। अत्र दृष्टान्तः ।। कुरुपाण्डववदिति ।। ‘सन्तानबीजं कुरुपाण्डवानाम्’ इत्यत्रेवेत्यर्थः । यथा पाण्डवानां कौरव-विशेषत्वात् पृथग्ग्रहणम्, एवमर्थापत्त्यादीनामनुमानविशेषत्वात्पृथक्तद्व्यावृत्त्यर्थं न केनचिदित्युक्तमित्यर्थः। ननु केवलागमविज्ञेय इत्येतद्व्यर्थम् । अनेनोच्यमानार्थस्य ऋगाद्या इत्यनेनैवोक्तत्वादित्याशङ्क्य ऋगाद्या इत्यनेनोक्तस्य सर्वस्याप्यर्थस्योपसंहारोऽनेन क्रियत इत्याह- केवलेति ।। अत्र केवलपदस्य नागममूलक-प्रत्यक्षानुमाननिषेधकत्वम्, येन सदुक्तिभिरित्यस्य द्वितीयं व्याख्यानं विरुद्धं स्यादित्याशयवानाह- केवल-ग्रहणेनेति ।। आदिपदेन केवलानुमानादिग्रहणम् । एवशब्दोऽभक्त्यादेरेव व्यावर्तको न तु पूर्वोक्तसदायुक्त-त्वादिव्यावर्तक इत्यभिप्रायेण भक्तपदमुपलक्षणत्वेनोक्तोपसंहारलाभाय व्याख्याति- भक्तैस्सदायुक्तैरि-त्यादिना । सम्बन्ध इति ।। नेयेति क्रिययेति शेषः । तमेव सम्बन्धं दर्शयति- एषेति ।। शुष्केणेति ।। निस्सारेणेत्यर्थः । वेदाद्यानुकूल्यरहितेनेति यावत् ।। समानेऽपीति ।। दुरागमादिसाधारणेऽपीत्यर्थः । असाधा-रण्यमेव दर्शयति- विशिष्टवस्त्विति ।। सर्वोत्तमवस्त्वित्यर्थः । एवेति ।। अन्यथा तन्न स्यादिति भावः । नन्वपौरुषेयत्वेनोत्तमत्वाच्छ्रतय आदावुदाहर्तव्याः पुराणवाक्यं पश्चादुदाहर्तव्यम्, तत्कुतो व्यत्यासेनोदा-हरणमित्यत आह- विवक्षितस्येति ।। पश्चादित्यत्र लिङ्गव्यत्ययेन पठितमित्यनुवर्तते ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भारतादीनां पृथग् गृहीततया आद्यशब्दस्यासङ्कुचितार्थताया अनुपपन्नत्वात् सङ्कुचितार्थतामेव अङ्गी-कृत्य अवच्छेदकानुक्तौ तदयोगात् तत्सङ्ग्राह्यतावच्छेदकधर्ममाह- ऋग्यजुरिति ।। चाथशब्दाः परस्परसमुच्चय इति ।। तथा च अथशब्दमात्रेण चशब्दमात्रेण वा समुच्चयसिद्धेः किम् उभयोपादानेनेति शङ्का निरस्ता भवति । समुच्चयमात्रसिद्धावपि एकैकेन परस्परसमुच्चयासिद्ध्या तदर्थत्वादिति भावः । अत्र प्रमाणवाक्ये, सदागमैक-विज्ञेयमित्याद्यपदे च आगमशब्दः पदसमूहमात्रपरो न तु निर्दोषः शब्द आगम इति लक्षणलक्षितपदसमूहपरः । अन्यथा निर्दोषत्वपरसत्पदानर्थक्यप्रसङ्गात् । दुरागमा इत्यत्र दुःशब्दस्य सदोषपरत्वेन विरोधश्च स्यादित्यव-धेयम् ।
अखिलं भारतमिति तत्र विशेषणमनुपादाय, अखिलं पञ्चरात्रमित्यत्रैव विशेषणोपादाने किं प्रयोजनमित्यत (पां.टि.) आह- पञ्चरात्रेति ।। निरासार्थमिति ।। तत्प्रकारश्च ‘उत्पत्त्यसम्भवात्’ इत्येतदधिकरणीयाप-व्याख्याननिरासपरानुव्याख्यानतत्सुधयोः स्पश्व्ः । स्वरूपाभेदस्य बाधितत्वादाह- ऋगाद्यनुकूलमिति ।। तुशब्दो विशेषणार्थ इति ।। अत्र च विशेषो विशेषणमिति भावे ल्युट् । तेन विशेषतः सर्वांशेन ऋगादीनामनुकूलता इत्युक्तं भवति । ततश्च किञ्चिदंशेन अनुकूलानां दुरागमानां लौकिकवाक्यवत् सदागमत्वनिरासार्थं विशेषार्थक-तुशब्दप्रयोग इति भावः । ननु यद्युक्तविशेषणविशिष्टो नारायणः सर्ववेदार्थः स्यात्, तर्हि तथा मीमांसकैः प्रतीयेत । तेषां वेदार्थविचारेऽभियोगयुक्तत्वात् । न च तैस्तथा प्रतीयते । अतो नासौ तदर्थ इत्याशङ्कायाः कथं भक्तिमद्भिरित्यनेन परिहार इत्यत आह- यो हीति ।। अत्रैवं योजना । अपि- यद्यपि तद्वस्तु- विद्यमानम्, तथाऽपि यो यत्र वस्तुनि आदरवान् तस्यैव तद्वस्तु स्फुरति न तु अन्यस्येति । तथा च उक्तगुणविशिष्टस्यापि नारायणस्य वेदार्थत्वेऽपि मीमांसकानां तथा अप्रतीतेरादराभावेन उपपन्नत्वेन अन्यथासिद्धत्वात् न तया उक्तगुणविशिष्टस्य नारायणस्य वेदार्थत्वाभावसिद्धिः । न हि तथा विद्यमानत्वमात्रं तथा स्फुरणप्रयोजकम् । सर्वस्यापि स्फुरणप्रसङ्गात् । न च साक्षात्काररूपत्वात् स्फुरणस्येन्द्रियसंयोगसाध्यत्वात् कथं तदभावे तदापादनमिति वाच्यम् । तस्मिन् सत्यपि तत्राऽदररहितस्य अन्यत्राऽदरवतश्च तत्स्फुरणाननुभवात् । वीणा-रवाकर्णनादरवतः पुंसः श्रोत्रसम्बद्धभेरीरवस्फुरणादर्शनादिति भावः । यो हि यत्राऽदरवान् तस्य तद्वस्तु विद्यमानं स्फुरति, अविद्यमानं न स्फुरति इति निषेधसमुच्चयार्थोऽपिशब्द इति केचित् । यो यत्राऽदरवान् तस्य तद्वस्तु विद्यमानं स्फुरतीत्यपि सम्भावितमिति सम्भावनार्थः स इत्यन्ये । यो यत्रादरवान् तस्य तद्वस्तु अविद्यमानं यदा स्फुरति, तदा विद्यमानं स्फुरतीति किमु वक्तव्यमिति कैमुत्यार्थः स इत्यपरे । तत्र स्पष्टमेव पूर्वोत्तरग्रन्थास्वार-स्यम् । एवं कैमुत्याभिप्राये, अविद्यमानमपि स्फुरतीति वाचो विन्यासापाताच्च ।
प्रत्यक्षसहकृततर्कज्ञेयत्वशङ्कां वारयति- केवलो वेदाद्यानुकूल्यरहित इति ।। तर्कशब्देनेति ।। न च केवल-तर्केणेति नञ्सहितेन तर्कशब्देनेत्यर्थः ।। अथ वेति ।। तर्क्यतेऽनुमीयते अनेनेति, अनुमितिकरणमेव तर्कशब्दे-नोक्तमित्यर्थः । तर्हि न च केवलतर्केणेत्यनेनैव अनुमानमात्रगम्यत्वनिषेधलाभात् न च केनचिदिति पुनस्तन्निषेधे पौनरुक्त्यमित्यत आह- अर्थापत्त्यादिव्यावृत्त्यर्थमिति ।। अर्थापत्त्यादेरपि अनुमानान्तर्भावात् न पृथक् तन्निषेधो युक्त इत्यत उक्तम्- सामान्येति ।। तत्र दृष्टान्तकथनम्- कुरुपाण्डववदिति ।। यथा ‘सन्तानबीजं कुरुपाण्डवा-नाम्’ इत्यत्र सामान्यवाचिकुरुशब्दस्य तद्विशेषवाचिपाण्डवशब्दसमभिव्याहारेण तदतिरिक्तकुरुपरत्वा-दपौनरुक्त्यम्, तथा अनुमानमात्रवाचितर्कशब्दस्य तद्विशेषवाच्यर्थापत्त्यादिपरकिञ्चिच्छब्दसमभिव्याहृतस्य तदतिरिक्तानुमानपरत्वेन भिन्नभिन्नप्रकारकबोधजनकत्वेनापौनरुक्त्यमिति भावः ।। केवलेति सर्वस्योपसंहारः इति ।। ततश्च न पौनरुक्त्यमिति भावः । केवलपदस्य न आगममूलकप्रत्यक्षादिनिषेधकत्वम्, येन सदुक्तिभि-रित्यस्य द्वितीयं व्याख्यानं विरुद्धं स्यात् इत्याशयेनाऽह- केवलग्रहणेनेति ।। एवग्रहणम् अभक्त्यादेरेव व्यावर्तकं न तु पूर्वोक्तसदायुक्तत्वादिनिषेधकम् इत्यभिप्रायेण भक्तपदमुपलक्षणत्वेन व्याख्याति- भक्तैरिति ।।
लघुप्रभा
(व्या.टि.)
आद्यपदसङ्ग्राह्योपाधिं दर्शयति- ऋग्यजुःसामाथर्वसञ्ज्ञका वेदा इति ।। नन्वथर्वणा प्रोक्त-मित्यर्थे ‘तेन प्रोक्तम्’ इत्यणि आथर्वणेति भाव्यम् । कथमाथर्वेति । न च ‘नस्तद्धिते’ इति टिलोपेन इदं रूप-मिति वाच्यम् । ‘अन्’ इति सूत्रे अणि अन् प्रकृत्या स्यादिति प्रकृतिभावश्रवणेन टिलोपासम्भवादिति चेन्न । आथर्वणोपनिषदि ‘अथर्वाय ज्येष्ठपुत्राय प्राह’ इति अकारान्तपदोक्तस्यैव ‘अथर्वणे यां प्रवदेत ब्रह्मा’ इति नकारान्तेनानुवादेन, अकारान्तादणि आथर्वशब्दस्यापि साधुत्वात् । तथा च द्विरूपः प्रयोगः । ‘ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः’ इति । ‘ऋग्यजुःसामाथर्वाश्च’ इति च । अथ वा अथर्वन्शब्द एवायं वेदवचनः । आथर्वणिक इति दाण्डिनायनसूत्रे निपातितस्य अथर्वणमधीते इति व्याख्यानात् । अस्मिन् पक्षे ‘नलोपः प्रातिपदिकान्तस्य’ इति नलोपो वाच्यः । इति सञ्ज्ञा येषामिति बहुव्रीहिः । ततः ‘शेषाद्विभाषा’ इति समासान्तः कप् । सञ्ज्ञिका इति पाठे तु नायं ठनन्तः । ‘अतः’ इति सूत्रे तपरकरणात् । ‘व्रीह्यादिभ्यश्च’ इति सूत्रेऽपि वार्तिके ‘शिखामालासञ्ज्ञादिभ्य इनिः’, ‘यवखलादिभ्यष्ठन्’ इति शिखामालासञ्ज्ञादिभ्य इनिरेव इति नियमितत्वात् । अत इनिमेव विधाय सञ्ज्ञिन एव सञ्ज्ञिका इति स्वार्थे को बोध्यः ।। चाथशब्दा इति ।। चाश्च अथश्चेति चाथाः । ते च ते शब्दाश्च इति विग्रहः ।। परस्परसमुच्चय इति ।। तेन नान्यतमवैयर्थ्यमिति भावः । एवकारौ विशेष्यविशेषणनञ्विभक्तिभिः सङ्गमय्य अन्ययोगायोगप्रतियोगिसामानाधिकरण्य-स्वसमभिव्याहृतविभक्तिप्रकृत्यर्थेतरविभक्त्यर्थयोगरूपान्ययोगव्यवच्छेदकतया व्याचश्व्े- एवशब्दयोस्त्विति ।। केचिदिति ।। रामानुजीया इत्यर्थः । तन्निरासार्थमिति ।। ‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्’, ‘ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते’ इत्याप्ततमकृतत्वप्रमाणतमत्वयोरुक्तेः । ‘वासुदेवात् सङ्कर्षणो नाम जीवो जायते । सङ्कर्षणात् प्रद्युम्नसञ्ज्ञं मनो जायते’ इत्यादिभागो ‘जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता’ इत्यनुव्याख्यानदिशा व्याख्येयः । मूले गृहीतं मूलरामायणं तु ‘वेदे रामायणे चैव’ इति भारते, ‘चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ।।’ इति वाल्मीकिरामायणे च प्रसिद्धमिति नापलपनीयम् । पौरुषेयापौरुषेययोरभेदबाधाद् एतदात्मकमिति पदं व्याचश्व्े- ऋगाद्यनुकूल-मिति ।। अनेन एष आत्मा मूलं यस्येति वा, एतम् आतनोति विस्तारयति इति वा व्युत्पत्तिं सूचयति । ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इत्युक्तेः । अनुपूर्वाद्यातेः ताच्छील्ये णिनिम्, ‘अतो युक्’ इति युगं चोपेत्य अनुयायिपदं व्याचश्व्े- अनुकूला इति ।। तान् शृङ्गग्रा(हकत)हिकया दर्शयति- मानवाद्या इति ।। ‘यद्वै किञ्चन मनुरवदत् तद्भेषजम्’ इति वेदेनैव तदुक्तस्य सत्यत्वोक्तेरिति भावः ।। विशेषार्थ इति ।। तेन सर्वांशेनानुयानस्य विवक्षितत्वात्, नैकदेशेनानुयायिनां सदागमत्वापत्तिः । विशेषणार्थ इति पाठेऽपि ल्युटो भावार्थत्वादयमेवार्थः । अत एव तदन्य इति द्वेधा व्याचश्व्े- विरुद्धा उदासीनाश्चेति ।। तामसा राजसाश्चेति भावः । केचित्तु तदन्य इत्यत्र नञिति बभ्रमुः ।
उपसर्गाणां द्योतकमात्रत्वाद् युक्तैरभियुक्तैरित्यत्र तात्पर्यमाह- अभियोगयुक्तैरिति ।। अभिनिवेशयुक्तै-(व्या.टि.)रित्यर्थः ।। विचारेति ।। आपाततः स्फुरतोऽवाक्यार्थत्वात् । अन्यथा मीमांसावैयर्थ्यादिति भावः। नन्वर्थप्रतिभासाप्रतिभासयोः सत्त्वासत्त्वे प्रयोजके, न त्वादरानादरौ, अनिच्छतोऽपि दुर्गन्धज्ञानदर्शनात् । दूष्यवाक्यार्थज्ञानदर्शनाच्च । तदनवबोधे तद्दूषणानुपपत्तेः । अतो न भक्तिः प्रयोजिकेत्यत आह- यो हीति । आदरवान् इति ।। अन्यत्रानादरवानित्यपि ग्राह्यम् । वर्तिष्यमाणैवकारविवरणानुरोधात् ।। तस्यैवेति ।। अत्राऽदरवतोऽन्यत्रानादरवत एवेत्यर्थः । ‘यस्य देवे परा भक्तिः’ इति श्रुत्या ‘जायेव पत्या’ इति श्रुत्या चैतत् सिद्धम् ।। विद्यमानमपीति ।। अपिर्गर्हायाम्, ‘अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु’ इति सूत्रात् । अर्थसत्त्वमात्रमप्रयोजकं सूक्ष्मपदार्थज्ञाने आदरादिकमपि प्रयोजकम् । वीणारवादावादरवत एव भेरीशब्दकाले क्रियमाणवीणारवश्रवणस्य, गहनवाक्यार्थज्ञानस्य च दर्शनात् । सूक्ष्मदुर्गन्धादेरज्ञानमेव । दूषणविवक्षाप्रयुक्तो दूष्यार्थविचारादरोऽस्त्येवेति न क्वापि व्यभिचार इत्यवधेयम् ।
केचित्तु, मीमांसकाः वेदार्थभूतभगवज्ज्ञानशून्याः, अत्रानादरवत्त्वे सति अन्यत्राऽदरवत्त्वात् इत्यनुमान-मभिमतमिति वदन्ति । तन्न । तर्हि मीमांसकैः किं न ज्ञायत इति ग्रन्थेन, विचारस्य कारणत्वे तत्सत्त्वेन मीमांसकानां ज्ञानाभावः किंनिबन्धनः, अतो वेदार्थत्वमेव नास्तीति शङ्किते, आदररूपसहकार्यभावनिबन्धन इति वक्तुम् आदरस्यान्वयव्यतिरेकप्रदर्शकतायाः श्लिष्टत्वेन तत्त्यागायोगात् । मीमांसके भगवज्ज्ञान-स्यानाशङ्कितत्वेन तदभावसाधनेऽसङ्गतेश्च । तस्य सिद्धत्वेन सिद्धसाधनत्वाच्च । सामान्यव्याप्तिप्रदर्शनस्य वैशे-षिकादौ विशेषव्याप्तिसम्भवेऽस्वरसत्वाच्च । व्यतिरेकव्याप्तेः पूर्वं प्रदर्शनस्यासुन्दरत्वाच्च । हेत्वभावपुरस्सर-त्वस्यास्वरसतरत्वाच्च । यच्च ‘सम्प्रदायस्तु अपिशब्दो वाक्यार्थोपपादक इति प्रमेयसमुच्चये कैमुत्ये चेति’ । तदपि न । पूर्वोत्तरग्रन्थासङ्गतत्वात् । वाक्यार्थोपपादकस्याप्यादरविषयत्वाच्च । स्पष्टत्वं विना कैमुत्यायोगेन स्पश्व्त्वे आदरानपेक्षणापाताच्च ।। अन्यत्रेति ।। त्रैविद्यस्य फलवाक्यात् मुक्त्यप्रतीतेरित्यर्थः । यथोक्तम् -
‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः’ इति ।
‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ इति च ।
।। सुनिष्ठितैरिति ।। अभिव्यक्तस्वरूपभक्तिमद्भिरित्यर्थः । ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ इति मत्वर्थीयोऽयं प्रत्यय इति भावः । ‘कृद्वृत्तेस्तद्धितवृत्तिर्बलीयसी’ इति न्यायात्, सु सम्यक् नितरां स्थितैरिति तु अनादरणीयम् ।
अत्रेदमवधेयम् । ज्ञेय एतैरिति सदागमकरणकज्ञानविषयत्वम् एतैरेवेति योजनेन तदनुपजीविकरणकप्रमाऽ-विषयत्वं चोक्तम् । एतदनुपजीविकरणकसामान्यप्रमयाऽपि विषयीकृतत्वेनोक्तविशेषणप्रकारकज्ञानविषयत्वं विवक्षणीयम् । तथाऽपि उक्तविशेषणातिरिक्तवेदोक्तधर्मप्रकारकज्ञाने सदागमैककरणकत्वनियमो न स्यात् । सदाऽभियोगाद्यपेक्षा च न स्यादिति न मन्तव्यम् । उक्तविशेषणे निर्दोषाशेषसद्गुणत्व एव वेदोक्तयावद्धर्माणा-(व्या.टि.) मन्तर्भावात् । तत्र वेदोक्तयावद्धर्मप्रकारकज्ञानविषयत्वं ब्रह्माणमादाय; इतरानादाय तु यथायोग्यं यथाशक्ति । तत्र वैशेषिकादिभिरुक्तविशेषणः कथं न ज्ञायत इति चोद्यस्य सदायुक्तैरिति परिहारः । तस्यायं भावः । वाक्यार्थबोधत्वावच्छिन्नं प्रति तदौपयिकोपक्रमाद्यनुसन्धानाभिनिवेशस्य हेतुतया सदागमकरणकबोधं प्रत्यपि तदौपयिकोपक्रमाद्यनुसन्धानाभिनिवेशस्य कारणतया वैशेषिकादीनां तदभावात् तैरुक्तविशेषणो न ज्ञायत इति । मीमांसकैः किं न ज्ञायत इत्यस्योत्तरं भक्तिमद्भिरिति । तस्यायं भावः । झडिति दुर्विज्ञानवस्तुविषयक-बोधत्वावच्छिन्नं प्रति समानविषयकादरत्वेनाऽदरः, अन्यविषयकादराभावत्वेनाभावश्च कारणम् । अन्यपदं च यद्विषयकादरस्य यद्बोधविरोधित्वं तत्परम् । तेन देवताद्वयादिविषयबोधस्य आदरेणैकदा जननेऽपि न दोषः । प्रकृते तु ब्रह्मणो दुर्विज्ञानवस्तुत्वेन तद्विषयकादरस्य तद्विरोधिकाम्यकर्मतत्फलादिविषयकादराभावस्य च आवश्यकस्याभावान्न मीमांसकानां ज्ञानप्रसक्तिरिति । बुभुत्सारूपादरजननोपयोगिन्यां कामुकभक्तौ सत्यामपि तैर्भगवान् कुतो न ज्ञायत इति मनसि कृतस्य चोद्यस्य सुनिष्ठितैरित्युत्तरम् । तस्येदमाकूतम् । स्वयोग्यधर्म-प्रकारकवेदकरणकज्ञाने परा अनन्यसाधारणी या भक्तिस्तज्जन्यबुभुत्साविशेषरूपादर एव हेतुः । तत्र सुनिष्ठितैरितीदमेव वचनम् । ‘यस्य देवे परा भक्तिः’ इति श्रुतिः,
‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रश्व्ुं च तत्त्वेन प्रवेश्व्ुं च परन्तप ।।’
इति गीता च मानानि । परत्वं तारतम्यान्तर्गतत्वरूपमाहात्म्यज्ञानघटितत्वम् । अनन्यत्वं च मोक्षविरोध्युद्देश्य-कत्वाभावादिरूपम् । एतादृशभक्तिश्च कामुकस्य नेति न तस्य तादृशज्ञानमिति ।। व्यावर्त्यान्तरमिति ।। अन्यत् एवकारव्यावर्त्यम् ।। इत्याहेति ।। व्याचश्व् इत्यर्थः ।। तर्कशब्देनेति ।। गृहीतमिति शेषः ।। व्यावर्तित-मिति ।। नञेति शेषः । नञ्शिरस्केन तर्कशब्देनेति तु चिन्त्यम् । व्यावर्तकताया नञ्धर्मत्वात् ।। तर्कशब्दे-नेति ।। तर्क्यतेऽनुमीयतेऽनेनेति करणव्युत्पत्त्या इत्यर्थः ।। एतदिति ।। केनचिदित्येतदित्यर्थः । भक्तैरेवेति वक्ष्यमाणैवकारव्यावर्त्यपरतया व्याचष्टे- यद्वेति ।। पुनरुक्तिं परिहरति- उपसंहार इति ।। निरास इति ।। तेन न वेदादेरपि तदुक्तोऽर्थोऽवधेय इति सूचितम् ।। सदागमेति ।। तस्यैव शब्दमुख्यार्थत्वान्मुख्यस्यैव ग्राह्यत्वादिति भावः । भक्तैरिति विशेषणान्तरोपलक्षणमित्याह- सदायुक्तैरित्यादि ।। अण्डगोलभ्रान्तिं वारयति- पुराण इति ।। सर्वेऽपीति ।।
‘ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा ।
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ।।’
इत्युक्तेरिति भावः । अथवा वेदपदस्य रूढिपूर्विका लक्षणा ।। अनुभवतीति ।। अनुपूर्वाद् भवतेः कर्तरि क्विबिति भावः । श्रुतौ सर्वानुभुवमिति वक्तव्ये सर्वानुभुमिति वचनम् ‘विप्रसम्भ्यः’ इति बहुवचनमाद्यर्थ इति वा, मितद््रवादेराकृतिगणत्वाद्वा डुप्रत्ययान्तत्वेन समाधातव्यम् । ‘(भु)भूक् शुद्धिचिन्तनयोः, इति प्रकृत्यन्त-(व्या.टि.) रत्वेऽपि एवमेवेति न कोऽपि दोषः । यद्यपि दं बृहन्तमित्येव तैत्तिरीयपाठः । तथाऽपि ‘छन्दसि बहुलम्’ इति वा ‘वर्णागमो वर्णविपर्ययश्च’ इत्युक्तदिशा निरुक्तत्वेन वा तकारस्य दकारादेश इत्युपेत्य व्याक-रोति- तमात्मानमिति ।। ‘यच्चाऽप्नोति यदादत्ते’ इति निरुक्तेरित्यर्थः । सम्यक् पर आयो लाभ इति व्युत्पत्ति-मभिसन्धाय व्याख्याति- साम्परायो मोक्ष इति ।। ‘चर्मणि द्वीपिनं हन्ति’ इतिवत् तादर्थ्ये सप्तमीत्याशयानो वक्ति- तदर्थमिति ।। ननु मूले तैत्तिरीयश्रुतिरित्यनुपपन्नम् । तित्तिरिणा प्रोक्तमित्यर्थे ‘तित्तिरिवरतन्तु-खण्डिकोखाच्छण्’ इति सूत्रेण छणि सत्यपि, ‘छन्दो ब्राह्मणानि च तद्विषयाणि’ इति तस्याध्येतृवेदितृप्रत्यय-विषयतानियमेन श्रुतेस्तैत्तिरीयत्वासम्भवादिति चेन्मैवम् । ‘तेन प्रोक्तम्’ इत्यधिकृत्य ‘तित्तिरिवरतन्तु-खण्डिकोखाच्छण्’ इति छणि, ‘आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्’ इति छस्य ‘ईय्’ आदेशे, ‘छन्दो ब्राह्मणानि च तद्विषयाणि’ इति अध्येतृवेदितृप्रत्ययविषयतानियमेन तित्तिरिणा प्रोक्तमधीयत इत्यर्थे ‘तदधीते तद्वेद’ इत्यणि, ततः ‘प्रोक्ताल्लुक्’ इति प्रोक्तप्रत्ययात् परस्याध्येतृवेदितृप्रत्ययस्य लुकि सति तैत्तिरीया इति भवति । ततस्तेषां श्रुतिरिति षष्ठीसमासेन निर्देशोपपत्तिरित्यभिप्रेत्य शेषमुपस्करोति- वक्तीति शेष इति ।।
नन्वेतस्य आतः स्मरणाद्यर्थत्वे न प्रकृतसङ्गतिः । सन्ध्यभावप्रसङ्गश्च । एकाज्निपातत्वेन प्रगृह्यत्वात् । ङित्त्वे तु ईषदाद्यर्थायोगेन क्रियायोग एव वाच्यः । स च न सम्भवति । अपेन विरुद्धार्थत्वादित्यत आह- क्रमेणेति ।। पर्यायेणेत्यर्थः । पृथगन्वयं दर्शयति- आनेयेत्यादिना ।। साधनबाधनाक्षमः शुष्कतर्क इति भावः । यद्यप्यन्येनेति सदागमादिपरतया योजयितुं शक्यम् । तथाऽपि प्रोक्तेत्युक्त्या प्रवक्तुरपेक्षणाद् गुरु-विशेषणपरतया व्याचष्टे- अन्येन भेदज्ञानिनेति ।। ज्ञेयेन ज्ञान्युपलक्षणमिति भावः । अथ वा अन्यमाचष्ट इत्यन्यो भेदवादी, तेन गुरुणेत्यर्थः । ‘प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च’ इति णिजन्तादच्प्रत्ययसम्भवात् । यद्वा(नस्त)न् तद्वानिति वक्तव्ये यर्वाणस्तर्वाण इत्याचक्षाणेषु तच्छब्दवद् गौणो वा । यथोक्तं शब्दकौस्तुभे ‘एवं श्रूयते यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परावरज्ञा इति’ इति । यथा वा ‘मां धाता’ इत्युक्तस्य मान्धातृत्वं तथा भागवतोक्तेः । यथा वा स्वेत्युक्तवत्या वाचः स्वाहात्वम् । यथोक्तं वेदे ‘स्वैवते वागित्यब्रवीत् सोऽजुहोत्स्वाहेति तत्स्वाहाकारस्य जन्म’ इति । अकमिष्टेति भाषिणोऽकमिष्टत्ववच्च । उक्तं हि महाभाष्ये ‘नाकमिश्व् सुखं यान्ति सुयुक्तैर्वडवारथैः । अथ यत्काषि(चि)णो यान्ति ये चीकमनभाषिणः’ इति । तथैव व्याकृतं कैयटेनापि । तथात्रापि । आख्यानं च ज्ञानपूर्वकम् । तच्च भक्त्याद्युपलक्षणमित्याह- भक्त्यादिमतेति ।। एवं श्रुतौ ‘अनन्यप्रोक्ते गतिरस्य नास्ति’ इति प्राचीनानन्यशब्दोऽपि व्याख्यातव्य इति दिक् । प्रोक्तेति मतिविशेषणमनुपपन्नम् । तस्याः प्रवचनकर्मत्वाभावादित्यत आह- वेदप्रवचनेनोत्पादिते-ति ।। अनेन प्रोक्तेति हेतुहेतुमतोरभेदोपचारो वा । चन्दनं सुखम्, लाङ्गल जीवनम्, आयुर्घृतम्, दधि त्रपुसं, प्रत्यक्षो ज्वरः इत्यादौ दृश्व्ेः । प्रोक्तमस्या अस्तीति मत्वर्थीयाच्प्रत्ययो वा, विभक्ता भ्रातर इतिवदिति भावः । प्रेष्ठेत्यपि मतिविशेषणमिति भ्रान्तिं वारयति- सम्बुद्धिरिति ।। प्रियशब्दादिष्ठनि ‘प्रियस्थिर’ इत्यादिना प्रियस्य (व्या.टि.) प्रादेशे रूपम् । प्रियतमेत्यर्थ इति भावः । ननु मूले कठश्रुतिरिति निर्देशोऽयुक्तः । ‘गोत्रचरणाद्वुञ्’ इति सूत्रे, कात्यायनवचनम् ‘चरणाद्धर्माम्नाययोरिति वक्तव्यम्’ इति । चरणेति अध्यापकेषु अप्राचामाचार्याणां सञ्ज्ञा । तथा च कठस्याऽम्नाय इत्यर्थे वुञि काठकमिति भवतीति काठकश्रुतिरिति निर्देश्व्व्यत्वादिति चेन्न । युक्तोऽयं निर्देशः । तथा हि । ‘छन्दोब्राह्मणानि च तद्विषयाणि’ छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीति नियमितत्वात् । कठेन प्रोक्तं छन्दोऽधीयत इत्यर्थे ‘काश्यपकौशिकाभ्यामृषिभ्यां णिनिः’ इति णिनिप्रत्ययं प्रकृत्य ‘कलापिवैशम्पायनान्तेवासिभ्यश्च’ इति सूत्रेण कठस्य वैशम्पायनान्तेवासित्वाण्णिनिप्रत्यये, ततोऽणि च सति, तस्य ‘प्रोक्ताल्लुक्’ इति लुकि, प्रोक्तप्रत्ययस्य च ‘कठचरकाल्लुक्’ इति लुकि सति कठा इत्येव भाव्यत्वेन तेषां श्रुतिरिति विग्रहे कठश्रुतिरित्येव साधुत्वात् । एवकारो भिन्नक्रम इत्युपेत्याऽह- वेदनकरणत्वादेवेति ।। वेदा इत्यस्येतिशब्देन कर्मत्वोक्तावपि विशेष्यकर्माध्या-हारेण योजयति- एतान् वेदा इत्याहुरिति ।। अभियुक्ता इति शेषः । मूले इतिशब्दस्याध्याहारः ।
। इत्युपोद्घातप्रक्रिया ।