टीका
वाक्यत्वहेतोस्सोपाधिकत्वसाधनम्
टीका
अथवा तस्याकर्तृकत्वेत्यनेन वेदत्वाभावो वाक्यत्वानुमानस्योपाधिरुच्यते । अत्र किमिदं वेदत्वं यदभाव उपाधित्वेनाभिप्रेयते, न तावद्वाक्यत्वादृश्व्विषयवाक्यत्वादृष्टविषयप्रमाणवाक्य-त्वानामन्यतमम्् । तदभावस्य साध्याव्यापकत्वात् । नाप्यपौरुषेयत्वम् । तदभावस्यैव साध्य-त्वात् । नापि वैदिकशब्दलक्षणोपेतत्वम् । तदभावस्य भारतादिषु साध्याव्यापकत्वात् । यथोक्तम्-
‘विशुद्धत्वप्रसन्नत्वाक्लिष्टत्वश्राव्यतादयः ।
वेदधर्मा हि दृश्यन्ते व्यासादिवचनेष्वपि ।।’ इति ।
अध्ययननियमविशेषास्तु शाखाभेदेनाव्यवस्थिता नोपसङ्ग्रहीतुं शक्यन्ते । नियमसामान्यं तु भारतादावप्यस्तीति तदभावोऽपि साध्याव्यापक एव । नापि नियतक्रमवत्त्वम् । तस्यापि भारतादौ सद्भावात् । क्रमव्यत्यासे वेदत्वाभाववद् भारतत्वाभावात् । नापि वेदव्यवहारगोचरत्वम् । इतिहासपुराणादिष्वपि तद्भावात् । नापि मुख्यतस्तद्गोचरत्वम् । तदभावस्य पक्षेतरत्वात् । प्रतिपक्षपर्यवसाने चासाधारणत्वादित्याशङ्क्य, अवेदत्वादिति वक्तव्ये तन्निर्वचनार्थम् ‘अकर्तृकत्व-प्रसिद्धिरहितत्वात्’ इत्युक्तम् । अकर्तृकत्वप्रसिद्धिमत्त्वं वेदत्वं तद्रहितत्वादेव तस्य लौकिकवाक्यस्य सकर्तृकत्वं नतु वाक्यत्वप्रयुक्तमित्यर्थः । नन्वेतल्लक्षणं गूढकर्तृकेऽपि वाक्येऽस्तीति तस्यापि वेदत्वं प्राप्तम् । तथाच तदभावस्य साध्याव्यापकत्वमित्यत आह- नच केनचिदिति ।। अकर्तृकत्व-प्रसिद्धिमत्त्वं नाम अनुपलभ्यमानोचितकारणत्वम् । वाक्यस्योचितं कारणं प्रत्यक्षादिकं विप्रलम्भा-दिकं वा । तच्च गूढकर्तृके परम्पराऽभावेनानुमानेनोपलभ्यत एवेति कथं तस्य वेदत्वप्राप्तिरित्यर्थः।
एतेनैतदपि निरस्तम् । वेदस्य सकर्तृकत्वनिरासात्प्रागकर्तृकत्वप्रसिद्धिमत्त्वस्याभावात् साधन-व्यापकत्वमिति । अकर्तृकत्वप्रसिद्धिमत्त्वस्यानुपलभ्यमानप्रत्यक्षादिमूलतया व्याख्यातत्वात् । तस्याश्चेश्वरकर्तृकत्ववादिभिरप्यङ्गीकृतत्वात् । ‘न च स्वयम्प्रतिभात’ इत्यादिकं तु परम्पराऽभावस्य हेतोर्व्यभिचारपरिहारार्थत्वेन पूर्ववद्व्याख्येयमिति । तर्कपराहतं च वाक्यत्वानुमानम् । पूर्वोक्त-कल्पनागौरवप्रसङ्गादित्युक्तप्रायमेव । तथा वक्ष्यमाणश्रुतिपुराणादिविरुद्धं च ।
एतेन वेदाः सर्वज्ञप्रणीता वेदत्वाद् व्यतिरेकेण लौकिकवाक्यवदित्यपास्तम् । विपक्षे बाधकाभावेनाप्रयोजकत्वात् । किञ्च वेदस्य सर्वज्ञप्रणीतत्वनिश्चये सति प्रामाण्यनिश्चयः । तन्निश्चये च सर्वज्ञत्वनिश्चयः । ततश्च विशेषणप्रसिद्ध्याऽनुमानप्रवृत्तौ वेदप्रामाण्यनिश्चय इति चक्रकप्रसङ्गः। प्रकारान्तरेण सर्वज्ञत्वसिद्धेर्निरस्तत्वात् । प्रमाणान्तराणि तु तत्र तत्र निरसिष्यन्त इति ।
भावबोधः
।। नोपसङ्ग्रहीतुं शक्यन्त इति ।। तथा च प्रतिपक्षपर्यवसाने हेतोर्भागासिद्धिः स्यादिति भावः । तदभावस्य पक्षेतरत्वादिति ।। वेदः सकर्तृक इत्यनुमाने मुख्यतो वेदव्यवहारगोचरत्वस्यैव पक्षतावच्छेदकत्वात् तदभावस्य पर्वतत्वाभाववत्पक्षेतरत्वपर्यवसन्नत्वादित्यर्थः ।। प्रत्यक्षादिमूलतयेति ।। प्रत्यक्षादिमूल-रूपत्वेनेत्यर्थः ।
भावदीपः
एवं ‘न च लौकिकवाक्यवत्’ इत्यादिकमप्रमितकर्तृकत्वहेतोर्विशेषणासिद्धिनिरासाय वाक्यत्व-हेतुर्विपक्षे बाधकाभावेनाप्रयोजक इत्युक्तिपरतया व्याख्याय, अधुना प्राचीनटीकारीत्या वाक्यत्वहेतोः सोपाधि-कत्वोक्तिपरतया व्याचश्व्े- अथ वेति ।। उक्तं हि पद्मनाभतीर्थीये ‘अकर्तृकत्वप्रसिद्धिरहितत्वेन सोपाधिक-त्वाद्वाक्यत्वहेतोः’ इति । यद्वा यथा न समासानुपपत्तिस्तथाऽह- अथ वेति ।। तस्य वेदत्वाभावादित्येव कुतो नोक्तमित्यतः साध्यव्यापकत्वार्थमिति भावेनोपोद्घातमाह- किमिदमिति ।। तदभावस्येति ।। उपाधित्वे-नाभिमताऽद्यद्वयाभावस्य पौरुषेये बौद्धादिवाक्येऽन्त्याभावस्य भारतादाविति भावः ।। साध्यत्वादिति ।। तथा च साध्यस्यैवोपाधित्वेन साध्याव्यापकत्वमेवेति भावः । कानि च वेदसम्बन्धिलक्षणानि । कथं च भारतादौ पौरुषेये तदभावरूपोपाध्यभाव इत्यत आह- यथोक्तमिति ।। नियमसामान्यं त्विति ।। प्रदोषानध्याया-दावनध्ययनादिरूपमित्यर्थः ।। इतिहासपुराणादिष्विति ।। ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति वचनादिति भावः ।। असाधारणत्वादिति ।। उपाध्यभावस्य वेदत्वस्य पक्षमात्रवृत्तितयाऽसाधारणानै-कान्त्यादित्यर्थः । तस्येत्यादिमूलवाक्यार्थमाह- तद्रहितत्वादेवेति ।। साध्याव्यापकत्वमिति ।। गूढकर्तृकवाक्ये पौरुषेयत्वे सत्यप्युक्तरूपवेदत्वस्यैव सत्त्वेन तदभावरूपोपाधेरभावादिति भावः । परम्पराभावादिति मूलवाक्यार्थं परिष्कारपूर्वकमाह- अकर्तृकत्वप्रसिद्धिमत्त्वं नामेत्यादिना । परम्पराभावेनेति ।। तस्मिन्विच्छिन्नपरम्पर-त्वेनेत्यर्थः ।। साधनव्यापकत्वमिति ।। अकर्तृकत्वप्रसिद्धिमत्त्वाभावरूपोपाधेरिति योज्यम् । साधनवति पक्षे सत्त्वादिति भावः ।
एतेनेत्युक्तं व्यनक्ति- अकर्तृकत्वेति ।। अङ्गीकृतत्वादिति ।। अनुपलभ्यमानप्रत्यक्षादिमूलतयेत्यत्र तर्कताण्डवरीत्या प्रत्यक्षादिपदं प्रत्यक्षादिकरणपरं वा प्रत्यक्षादिप्रमापरं वा ध्येयम् । न्यायमते ईश्वरप्रत्यक्षज्ञानमूल-कत्वेऽपि वेदस्य, ईश्वरज्ञानं प्रमाऽप्रमाबहिर्भूतमित्यङ्गीकारादुक्तरूपाया अनुपलभ्यमानप्रत्यक्षादिमूलताया ईश्वर-वादिभिरङ्गीकृतत्वादित्यर्थः । तदभावरूपोपाधिश्च न पक्षेऽस्तीति न साधनव्यापक इति भावः ।। इत्यादिक-मिति ।। इत्यादिवाक्यत्रयं पुराणवाक्यं च विच्छिन्नपरम्परत्वहेतोः स्वयंदृष्टवेदेऽनुपलभ्यमानप्रत्य-क्षादिमूलताऽभावरूपसाध्यव्यभिचारपरिहारार्थत्वेन पूर्ववद्व्याख्येयमित्यर्थः । गूढकर्तृकवाक्ये परम्पराऽभावात् तत्प्रत्यक्षादिमूलमित्युक्ते तर्हि स्वयम्प्रतिभातवेदेऽनैकान्तिको हेतुरित्युक्ते प्राक्तनमेवेदमध्यापयाम इत्यादि-प्रतिपत्त्यभावो विच्छिन्नपरम्परत्वं नाम, तच्च नास्ति स्वयम्प्रतिभातवेदे । अतो न व्यभिचार इति परम्परासिद्धेति वाक्येनोक्तौ सन्दिग्धानैकान्तिको वा गूढकर्तृकवाक्ये सन्दिग्धासिद्धो वेति चोदिते वेदद्रष्टृलक्षणवद्वसिष्ठादि-पुरुषदृष्टवेदे तद्विलक्षणत्वेन हेतुसद्भावनिश्चयस्य, गूढकर्तुस्तल्लक्षणाभावेन तद्वाक्ये हेत्वभावनिश्चयस्य च सम्भवेन नासिद्धिशङ्का, नापि व्यभिचारशङ्केति वेदद्रष्टॄणामिति वाक्येनोक्ते, कानि वेदद्रष्टृलक्षणानीत्यतः पुराणवाक्य-मित्येवं व्याख्येयमिति भावः ।। पूर्वोक्तेति ।। वेदस्य पौरुषेयत्वेऽन्यत्रादृष्टस्येत्यादिवाक्येनोक्तेत्यर्थः । वक्ष्य-माणश्रुतीति ।। ‘वाचा विरूप नित्यया’ इत्यादिश्रुतिपुराणप्रत्यभिज्ञानयुक्तिविरुद्धमित्यर्थः ।। सर्वज्ञत्व-निश्चय इति ।। वेदेनेति योज्यम् ।। विशेषणेति ।। सर्वज्ञप्रणीतत्वरूपविशेषणेत्यर्थः ।। निरस्तत्वादिति ।। अन्यत्रादृष्टस्येत्यादिवाक्यव्याख्यानावसर इति भावः । ननु प्रामाण्यस्याऽप्तोक्तत्वगुणजन्यत्वान्यथाऽनुपपत्ति-वेदगतास्मच्छब्दोत्तमपुरुष ‘छन्दांसि जज्ञिरे’ इत्यादिश्रुतिस्मृतिरूपप्रमाणबलाद्वेदस्य कर्ताऽभ्युपेय इत्यत आह- प्रमाणान्तराणीति ।। ‘प्रामाण्यं च स्वत एव’ इत्यत्र पुराणवाक्यव्याख्यावसरे च तत्र तत्रेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
।। तदभावस्येति ।। वाक्यत्वादृष्टविषयवाक्यत्वाभावयोर्बौद्धादिवाक्येषु, अदृष्टविषयकप्रमाण-वाक्यत्वाभावस्य मन्वादिवाक्येषु साध्याव्यापकत्वादित्यर्थः ।। तदभावस्यैवेति ।। अपौरुषेयत्वं वेदत्वं तदभावः पौरुषेयत्वम् । तदेव च सकर्तृकत्वरूपं साध्यम् । अतो न स्वस्मिन्स्वयमुपाधिरित्यर्थः । ननु वैदिकशब्दलक्षणानि कानि यदुपेतत्वं भारतपञ्चरात्रादिषु तिष्ठतीत्यत आह- यथोक्तमिति ।। नन्वध्ययननियमविशेषवत्त्वमेव वेदत्वमस्त्वित्यत आह- अध्ययननियमविशेषा इति ।। ‘सामगो वटुर्मुण्डी अधीयीत अन्यगः शिखी’ इत्यादय इत्यर्थः ।। नोपसङ्ग्रहीतुमिति ।। अवच्छेदकधर्मेण क्रोडीकर्तुमित्यर्थः । तथा च वेदः सकर्तृको न भवति अध्ययन-नियमविशेषवत्त्वादिति प्रतिपक्षपर्यवसाने हेतोर्भागासिद्धिः स्यादिति भावः ।। नियमसामान्यमिति ।। प्राङ्-मुखत्वादिरूपनियमसामान्यवत्त्वं वेदत्वमित्यर्थः । भारतादाविति ।। उत्पत्त्यनन्तरं विनाशशून्ये भारतेऽपि नियतक्रमस्य सद्भावादित्यर्थः ।। क्रमव्यत्यास इति ।। यथा क्रमव्यत्यासेऽयं वेद एव न भवतीत्युच्यते तथाऽस्मिन् कल्पे भारतेऽपि दैवात्क्रमव्यत्यासे भारतमेव न भवतीत्युच्यते महद्भिरित्यर्थः ।। तद्भावादिति ।। ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति श्रुतेरिति भावः ।। मुख्यत इति ।। इतिहासपुराणादौ न मुख्यतो वेदव्यवहारविषयत्वं तत्र तद्व्यवहारस्यामुख्यत्वादिति भावः ।। तदभावस्य पक्षेतरत्वादिति ।। वेदः सकर्तृक इत्यनुमाने मुख्यतो वेदव्यवहारगोचरत्वस्यैव पक्षतावच्छेदकत्वात् तदभावस्य पर्वतत्वाभाववत्पक्षेतरत्वपर्यवसन्नत्वादित्यर्थः । तथा च सर्वानुमानोच्छेदः स्यादिति भावः ।। असाधारणत्वादिति ।। वेदः सकर्तृको न भवति वेदत्वादिति सत्प्रतिपक्षोन्नयने गगनादवसाधारण्यमित्यर्थः ।(श्री.टि.) ।। इत्युक्तमिति ।। नन्वकर्तृकत्वप्रसिद्धिराहित्योपाधेरपि प्रतिपक्षे पर्यवसानेऽसाधारण्याभावेऽपि पक्षेतरत्वमत्रापि समानमेवेति चेन्न । इष्टापत्तेः । अनुकूलतर्कसद्भावदशायामेव हि पक्षेतरत्वस्य नोपाधित्वं, पक्ष एव साध्यव्यापकताभङ्गात् । ‘अनुकूलेन तर्केण’ इत्याद्युक्तेः । अनुकूलतर्काभावे तु तस्योपाधित्वमिष्टमेव, पक्षे साध्यव्यापकताभङ्गाभावात् । यथाऽऽहुः ‘तदभावे तस्येष्टत्वात्’ इति । प्रकृते च वाक्यत्वानुमानेऽनुकूल-तर्काभावात् पक्षेतरत्वभूतस्याप्यकर्तृकत्वप्रसिद्धिराहित्यस्योपाधित्वं युक्तमेव । नन्वत्रापि सकर्तृकत्वाभावे वाक्यत्वं न स्यात् । वाक्यत्वापौरुषेयत्वयोरेकत्र समावेशस्य घटत्वनीरूपत्वयोरिव विरुद्धत्वात् । सकर्तृकत्वाभावे प्रामाण्यं न स्यात् । तस्याऽप्तोक्तत्वरूपगुणजन्यत्वादिति वाऽनुकूलतर्कोऽस्तीति चेन्न । उक्तं मा विस्मार्षीः । यतो वाक्यत्वापौरुषेयत्वयोरेकत्र समावेशः पूर्वं समर्थित इत्याद्यस्तर्को न युक्तः । प्रामाण्यस्य स्वतस्त्वसमर्थनेन द्वितीयस्तर्कोऽप्ययुक्त इत्यालोचनीयम् ।
एतेनेत्युक्तं विशदयति- अकर्तृकत्वप्रसिद्धिमत्त्वस्येति ।। मूलतयेति ।। अनुपलभ्यमानप्रत्यक्षादि-मूलतारूपत्वेनेत्यर्थः । नन्वनुपलभ्यमानप्रत्यक्षादिप्रमाणमूलत्वरूपाकर्तृकत्वप्रसिद्धिमत्त्वरूपोपाध्यभावस्येश्वर-प्रत्यक्षप्रमाणमूलताऽङ्गीकारेण सकर्तृकत्वनिरासात्प्रागसिद्धतया पुनः साधनव्यापकतैवेत्यत आह- तस्या-श्चेति ।। अनुपलभ्यमानप्रत्यक्षादिप्रमाणमूलताया इत्यर्थः । ईश्वरप्रत्यक्षमूलकत्वाङ्गीकारेऽपि तस्य नित्यतया प्रमाणत्वाभावादनुपलभ्यमानप्रमाणमूलकत्वमक्षतमेवेत्याशयः ।। पूर्वोक्तेति ।। अन्यत्रादृष्टस्येत्यादिनोक्तेत्यर्थः। वक्ष्यमाणेति ।। ‘वाचा विरूप नित्यया’ इत्यादिना वक्ष्यमाणेत्यर्थः ।। प्रामाण्यनिश्चय इति ।। आप्तोक्तत्वरूप-गुणलाभादिति भावः ।। सार्वज्ञनिश्चय इति ।। प्रमाणभूतेन ‘यस्सर्वज्ञः’ इत्यादिना वेदेन सार्वज्ञनिश्चय इत्यर्थः। ततश्चेति ।। अन्यथा सर्वज्ञत्वरूपविशेषणस्याप्रसिद्धत्वेनानुमानस्यैवाप्रवृत्तेरिति भावः । ननु प्रामाण्यनिश्चये सति प्रमाणभूतेन वेदेन सार्वज्ञनिश्चय इति नाङ्गीक्रियते येनोक्तरीत्या चक्रकप्रसङ्गः । किं नाम क्षित्यादिकं सकर्तृकं कार्यत्वादित्याद्यनुमानेन सार्वज्ञसिद्धिर्भविष्यतीत्याशङ्क्य निराकरोति- प्रकारान्तरेणेति ।। नन्वथापि वेदस्याप्रमितकर्तृकत्वमसिद्धम् । ‘अग्नेर्वाव ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः’,‘ऋचः सामानि जज्ञिरे’ इत्यादिप्रमाणान्तरैर्वेदकर्तुः प्रमितत्वादित्याशङ्क्य निराकरोति- प्रमाणान्तराणि त्विति ।।
‘तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य तु ।
वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया ।
अवान्तराभिमानानां देवानां वा व्यपेक्षया ।’
इत्यादिनोत्पत्तिवाक्यानामर्थान्तरोक्त्या निरसिष्यन्त इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
।। तदभावस्य साध्याव्यापकत्वादिति ।। वाक्यत्वाभावस्यादृष्टविषयवाक्यत्वाभावस्य च सकर्तृ-कत्वरूपसाध्यवति बौद्धादिवाक्ये, प्रमाणत्वे सत्यदृष्टविषयवाक्यत्वाभावस्य सकर्तृके मन्वादिवाक्येऽभावादि-(पां.टि.) त्यर्थः ।। तदभावस्यैवेति ।। ततश्च साधनव्यापकत्वमिति भावः ।। भारतादिष्विति ।। तत्र वैदिक-शब्दलक्षणवत्त्वरूपवेदत्वस्यैव सत्त्वेन तदभावस्यासत्त्वादिति भावः । कानि तानि वैदिकशब्दलक्षणानि । कुतश्च भारतादेस्तद्वत्त्वमित्यतस्तद् आप्तोक्त्या दर्शयति - उक्तं चे(यथोक्तमि)ति ।। नोपसङ्ग्रहीतुं शक्यन्त इति ।। ततश्चाध्ययननियमविशेषशून्यत्वस्य वेदेऽपि सत्त्वात्साधनव्यापकत्वमिति भावः ।। तस्यापीति ।। ततश्च साध्याव्यापकत्वमिति भावः । भारतस्य नियतक्रमवत्त्वमेवोपपादयति- क्रमव्यत्यास इति ।। तद्भावा-दिति ।। ततश्च तत्रैव साध्याव्यपकत्वमिति भावः ।। पक्षेतरत्वादिति ।। मुख्यतो वेदव्यवहारगोचरत्वस्यैव पक्षतावच्छेदकत्वात्तदभावस्य पर्वतत्वाभाववत् पक्षमात्रव्यावर्तकविशेषणत्वेन पक्षेतरत्वादित्यर्थः ।। असाधा-रण्यादिति ।। उपाधेः प्रतिपक्षोन्नायकत्वेन वेदः सकर्तृको न मुख्यवेदव्यवहारगोचरत्वादित्युपाध्यभावेन प्रति-पक्षोन्नयनं कर्तव्यम् । तच्च न सम्भवति । सकर्तृकत्वाभावरूपसाध्यवत्तया सपक्षे गगनादौ उक्तहेत्वप्रवेशादिति भावः ।। साध्याव्यापकत्वमिति ।। गूढकर्तृके वाक्ये सत्यपि सकर्तृकत्वेऽकर्तृकत्वप्रसिद्धिमत्त्वस्यैव तत्र सत्त्वेन तदभावरूपावेदत्वस्य तत्राभावादिति भावः ।। परम्पराऽभावेनानुमानेनेति ।। विमतं वाक्यमेतत्प्रत्यक्षादि-मूलम्, अस्मिन्विच्छिन्नपरम्परत्वादित्यनुमानेनेत्यर्थः ।। व्यभिचारपरिहरार्थत्वेनेति ।। स्वयम्प्रतिभातवेदैर्दृष्टे वेदे सत्यपि वसिष्ठादिषु विच्छिन्नपरम्परत्वे तत्प्रत्यक्षादिमूलकत्वाभावात्तत्र व्यभिचार इत्याशङ्कानिवर्तकतयेत्यर्थः। पूर्ववदिति ।। पूर्वयोजनायामिवेत्यर्थः । ननु वेदोऽपौरुषेयोऽप्रमितकर्तृकत्वादित्यनुमाने यद्यपौरुषेयं वाक्यं न स्यात्तर्हि धर्मादिसिद्धिर्न स्यादित्येवंरूपोऽनुकूलतर्क उक्तः । स पौरुषेयत्वानुमाने प्रतिकूलो भवत्येव । परानुमान-प्रतिकूलस्यैव स्वानुमानेऽनुकूलत्वात् । प्रतिपक्षानुमाने तस्य प्रतिकूलत्वाभावे स्वानुमानेऽनुकूलत्वानुपपत्तेः । तथा च प्रतिपक्षानुमानबाधकतया तस्यावश्यं वक्तव्यत्वात्तदनुक्त्या न्यूनत्वमित्यत उक्तप्रायत्वेन तदनुक्तेर्न न्यूनत्वापादकत्वमित्याशयेनाऽह- तर्कपराहतमिति ।। वक्ष्यमाणश्रुत्यादीति ।। ‘वाचा विरूप नित्यया’ इत्यादिना वक्ष्यमाणश्रुत्यादीत्यर्थः । धर्मादिकं कस्यचित्प्रत्यक्षं वस्तुत्वादित्याद्यनुमानेनैव सर्वज्ञत्वसिद्धेः सम्भवात् तस्या वेदसाध्यत्वाभावेन तत्प्रामाण्यनिश्चयानपेक्षत्वान्न चक्रकमित्यत आह- प्रकारान्तरेणेति । निरस्तत्वा-दिति ।। ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनम्’ इत्येतद्व्याख्यानावसर इति शेषः ।। प्रमाणान्तराणीति ।। ‘ऋग्वेद एवाग्नेरजायत’ इत्यादिरूपाणीति शेषः । तत्र तत्र निरसिष्यन्त इति ।। ‘तदुत्पत्तिवचश्चैव’ इत्यादिनेति शेषः ।
लघुप्रभा
(व्या.टि.)
एवं वाक्यत्वानुमानस्याप्रयोजकत्वाभिधानपरतया तस्याकर्तृकत्वेत्यादिमूलं स्वयं व्याख्याय प्राक्तन-व्याख्यामनुवदति- अथ वेत्यादिना ।। ननु वेदत्वाभावो हि वाक्यत्वानुमानस्योपाधितयाऽभिप्रेयते । तत्र प्रतियोग्यज्ञाने नाभावः सुज्ञान इति प्रतियोगि वेदत्वं निर्वक्तव्यम् । किमिदं वेदत्वं वाक्यत्वं वा, अदृष्टविषय-वाक्यत्वं वा, अदृश्व्विषयप्रमाणवाक्यत्वं वा, अपौरुषेयत्वं वा, वैदिकशब्दलक्षणोपेतत्वं वा, नियमविशेष-वदध्ययनविषयत्वं वा, नियताध्ययनविषयत्वमात्रं वा, नियतक्रमवत्त्वं वा, वेदव्यवहारगोचरत्वं वा, मुख्यतया (व्या.टि.) तद्गोचरत्वं वेति दशधा विकल्पान् मनसि निधाय क्रमेण निराह- न तावदित्यादिना । अन्यतम-दिति ।। अव्युत्पन्नस्यान्यतमशब्दस्य गणपाठाभावेनाद्डभावेऽपि ‘किंकिंयत्तदः’ इति योगविभागेनान्य-शब्दाड्डतमप्रत्ययान्तात् ‘अद्ड्डतरादिभ्यः पञ्चम्यः’ इति स्वमोरद्डादेशे रूपम् । ‘न च सामान्यादिष्वन्यतमत्तमः’ इत्यादिशशधराद्यभियुक्तप्रयोगादिति भावः । अन्यतममिति पाठे तु न कोऽपि शङ्कापङ्कः । तदभावस्य वेदत्वा-भावस्य । पित्रादिवाक्ये वाक्यत्वादित्रितयसत्त्वेन तदभावाभावादिति भावः । चतुर्थं निराह- नापीति ।। तदभावस्य अपौरुषेयत्वाभावस्य ।। साध्यत्वादिति ।। अभावाभावस्य भावत्वादिति भावः । पञ्चमं निरस्यति- नापीति ।। साध्येति ।। साध्यसमानाधिकरणाभावप्रतियोगित्वादित्यर्थः । तत्प्रमाणेन द्रढयति- यथोक्त-मिति ।। विशुद्धत्वं वर्णपददोषराहित्यम् । प्रसन्नत्वं जपादिना सिद्धिदत्वम् । अक्लिष्टत्वम् अकठिनत्वम् । श्राव्यत्वं श्रवसस्तोषकारित्वम् । एवमादयो वेदधर्मा इत्यर्थः । षष्ठं खण्डयति- अध्ययनेति ।। शाखाभेदे-नेति ।। ‘पञ्चशीर्षोपनयने विनियोगः’ इति तैत्तिरीयकाः, ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’ इति शिरस्यङ्गारपात्रनिधानरूपशिरोव्रतादय आथर्वणिकाः, न शाखान्तराधिकारिविशेषणम् इत्यव्यव-स्थिता इत्यर्थः ।। नोपसङ्ग्रहीतुमिति ।। अव्यापकतया लक्षणत्वासम्भवादित्यर्थः । सप्तमं दूषयति- नियम-सामान्यमिति ।। शौचप्रदोषानध्ययनादीत्यर्थः । अष्टमं दूषयति- नापीति । नियतेति ।। तत्क्रमेणैवेत्युक्ते-रिति भावः । नवमं निराह- नापीति । तद्भावादिति ।। ‘पञ्चमो वेदानां वेदः’ इति वेदेनैव पञ्चमत्वोक्तेरिति भावः । दशमं व्युदस्यति- नापीति ।। पक्षेतरत्वादिति भावप्रधानः । अथ वा पक्षम् इतरयति व्यावर्तयति इति ‘प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च’ इति णिजन्तादच्, तस्य भावस्तत्त्वं तस्मादित्यर्थः ।। प्रतिपक्षेति ।। ‘उपाधिः प्रतिरूपं हि साधनं तन्न चापरम्’ इत्यनुव्याख्यानोक्तेरित्यर्थः । अकर्तृकत्वप्रसिद्धिरहितत्वादित्यर्थानु-वादोऽयमिति भावः ।। तद्रहितत्वादेवेति ।। प्रयोजकत्वाद्वेदत्वाभावः उपाधिरित्यर्थः ।। न त्विति ।। वाक्यत्वमप्रयोजकमित्यर्थः ।
मणिकारस्तु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दाजन्यवाक्यार्थज्ञान-जन्यप्रमाणशब्दत्वं वेदत्वमिति तन्निरूचे । तन्न । ‘सूर्य एकाकी चरति’,‘अग्निर्हिमस्य भेषजम्’ इत्यादिप्रत्यक्ष-समानार्थे वेदभागेऽव्याप्तेः । तत्र सत्यन्ताभावात् । वेदव्यतिरिक्तादृश्वर्थकेश्वरवाक्येऽतिव्याप्तेश्च । तस्य वेदवदीश्वर-प्रत्यक्षमूलत्वेन विशेष्यस्य, अदृश्व्विषयत्वेन सत्यन्तविशेषणस्य च सत्त्वात् । व्यासकृतग्रन्थे वेदसमानार्थक-भागेऽतिव्याप्तेश्च । व्यासस्य ‘को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्’ इति प्रमाणसिद्धभगवदवतारत्वेन तज्ज्ञानस्य नित्यत्वात् । भगवत्कृते वेदव्याख्यानेऽतिव्याप्तेश्च । यत्त्वत्र पक्षधरेणोक्तम् । वेदाः केनचिद्व्याख्याता महाजनपरिगृहीतत्वादित्युभयातिरिक्तप्रमाणगोचरवेदतदर्थबोध्यबोधकभावस्य वेदव्याख्यानतात्पर्यविषयत्वेन तत्र सत्यन्ताभावान्नातिव्याप्तिरिति । तन्न । अनुमानेन सामान्यतो विषयीकरणेऽपि विशिष्याविषयीकरणेन (व्या.टि.) तत्र सत्यन्तसद्भावात् । अन्यथा सकलस्यापि वेदस्य सामान्यलक्षणप्रत्यासत्तिजन्यप्रतीति-विषयार्थकत्वेनासम्भवः स्यादित्यास्तां विस्तरः ।
।। वेदत्वमिति ।। तच्छब्दव्यवहार्यत्वमित्यर्थः । तदभावस्य वेदत्वाभावस्य ।। साध्याव्यापकत्व-मिति ।। साध्यसमानाधिकरणाभावप्रतियोगित्वादित्यर्थः । अनुपलभ्यमानोचितकारणत्वमिति बहुव्रीह्युत्तरो भावप्रत्ययः ।। अनुमानेनेति ।। विमतं वाक्यम् एतत्प्रत्यक्षादिमूलम्, अस्मिन्विच्छिन्नपरम्परत्वात् । यदेवं तदेवं यथा सम्प्रतिपन्नम् इत्युक्तदिशेति भावः । तथा च तत्रोपाधेः सत्त्वात् साध्यव्याप्तिः सिद्धेत्याशयः ।। साधनव्यापकत्वमिति ।। उपाधेरिति शेषः ।। अनुपलभ्यमानेति ।। अत्र तलन्तस्य स्वार्थाभेदे लक्षणा षष्ठ्यनुसारात् । तस्या इति तु स्वार्थस्यैव परामर्श इत्यवधेयम् ।। ईश्वरकर्तृकत्ववादिभिरिति ।। ‘सम्यगनुभव-साधनं प्रमाणम्’ इति प्रमाणसामान्यम्, ‘प्रत्यक्षप्रमाकरणं प्रत्यक्षम्’ ‘इन्द्रियार्थसन्निकर्षोत्पन्नज्ञानमव्यपदेश्य-मव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्’ इति तद्विशेषं च लक्षयद्भिः सूत्रकारादिभिरीश्वरस्य प्रत्यक्षादिबहिर्भावा-भ्युपगमात् तेषामेवेहानुमातृत्वादीश्वरकर्तृकत्ववादो विरुद्ध इति । एतच्च विस्पष्टं प्रागेवावादि ‘सर्वज्ञज्ञानमूलत्वम्’ इत्यादिना ‘एतच्चानुमानं वैशेषिकादीनाम्’ इत्यन्तेन । तत्परिहारार्थत्वेन तत्प्रयोजनवत्त्वेनेत्यर्थः ।। पूर्व-वदिति ।। अप्रयोजकतापरतया योजयितृमत इवोपाधिपरतया योजयितृमतेऽपि व्याख्येयमित्यर्थः । पूर्वोक्ते-ति ।। अन्यत्रादृष्टस्येत्युक्तदिशेत्यर्थः ।। उक्तप्रायमेवेति ।। उक्ततुल्यमित्यर्थः । ‘पशुप्रायो मनुष्यः’ इत्याद्यभियुक्तप्रयोगात्, ‘प्रायः स्यात्ताडने मृत्यौ तुल्यबाहुल्ययोरपि’ इत्यभिधानाच्च, अकारान्तं विशेष्यनिघ्नं सदृशार्थकं प्रायपदमस्तीति प्रतीमः । स्फुटप्रतीतिश्च सादृश्यम् । अधिकं तु गुरुप्रभायाम् ।। वक्ष्यमाणेति ।। ‘वाचा विरूप नित्यया’ इत्यादीत्यर्थः ।। तदिति ।। वेदप्रामाण्येत्यर्थः ।। अनुमानेति ।। वाद्यन्तरोक्तरीत्ये-त्यर्थः ।। प्रमाणान्तराणीति ।। जनिश्रुत्यादीनीत्यर्थः ।
।। अपौरुषेयत्ववादः समाप्तः ।।