यथा सोम्य ..
रसनदीदेवतादृष्टान्ताभ्यामेकाश्रितानां भेदाज्ञानसमर्थनम्
मूलम्
- ‘‘यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति ।। २ ।।’’
‘‘इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्तास्समुद्रात् समुद्र-मेवापियन्ति । स समुद्र एव भवति । ता यथा तत्र न विदुरियमहमस्मीयमहस्मीति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति ।। ३ ।।’’
टीका
एवमाद्येन प्रकरणेन जीवानां भगवदाश्रयत्वे कथिते न मत्तोऽन्योऽस्मिन् देहेऽस्ति मया भेदेनानुपलभ्यमानत्वादित्याशयवता पुत्रेण भूय एव मा भगवान् विज्ञापयत्विति पृष्टः पितोवाच ‘यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति । नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति ते यथा तत्र’ इत्यादि । मधुकृतो भ्रमराः मधु निस्तिष्ठन्ति निर्मिमते । कथम्? नानात्ययानां नानागतीनां परस्परविलक्षणानां वृक्षाणां रसानां समवहारं समूहम् एकतां मिश्रतां गमयन्ति । यथा ते नानावृक्षरसाः तत्र मिश्रतायां विद्यमानमपि विवेकं परस्परभेदं न लभन्ते न जानन्ति अमुष्याम्रस्य वृक्षस्याहं रसोऽस्मि अयं तु अन्यस्येति । तथाऽपरोऽपि अमुष्य पनसस्याहं रसोऽस्मि अयं तु अन्यस्येति । एवमेव खलु सोम्य इमाः सर्वाः प्रजाः जीवाः परमेश्वरशक्तिभिरेव स्वे स्वे शरीरे सति परमेश्वरे सम्पद्य तेन मिश्रीभावं प्राप्य सति सम्पत्स्यामहे, उपलक्षणमेतत्, सम्पन्नाः सम्पद्यामह इति न विदुः । इह लोके ते प्रसिद्धाः व्याघ्रो वेत्यादि यद्यद्भवन्ति तत्तदा त(अ)स्मात् परमेश्वराश्रितत्वाज्ञानापराधाद्भवन्तीति । एतेन योऽयमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्तेर्भङ्गो दर्शितो भवति ।। २ ।।
भवत्वचेतनानां नानावृक्षरसानां भेदापरिज्ञानम् । मया तु चेतनत्वेन हेतुर्विशेष्यत इत्यभिप्रायेण पुनः पृष्टे पितोवाच- इमाः सोम्य इत्यादि ।। इमाः प्रसिद्धा गङ्गाद्या नदीदेवताः प्राच्यः प्रागञ्चनात् प्राचीशब्दवाच्याः पुरस्तात् स्यन्दन्ते स्रवन्ति । तथा प्रत्यगञ्चनात् प्रतीचीशब्दवाच्याः पश्चात् स्यन्दन्ते । एवमत्यन्तविलक्षणास्ता मेघादिद्वारेण समुद्रादुत्पन्ना उत्पन्नजलत्वात्समुद्रमेव अपियन्ति प्रविशन्ति । तथापि स समुद्र एव भवति । ता नदीदेवता यथा तत्र समुद्रे इयं गङ्गाऽहमस्मि, इयन्तु यमुनाऽयं च समुद्र इत्येवमन्या अपि न विदुः । एवमेव खलु सोम्येमाः सर्वाः प्रजाः सतः परमेश्वराद् आगम्य उत्पद्यापि सत आगच्छामहे उत्पन्नाः स्म इति न विदुः । एवं परमेश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न विदुः । त इहेत्यादि पूर्ववत् । अनेन चेतनत्वविशिष्टस्यापि हेतोरनैकान्त्यमुक्तं भवति ।। ३ ।।
भावबोधः
इत्याशयवतेति ।। अनेन ज्ञातेऽर्थे भूय इति पुनःपुनरुपदेशप्रार्थनं नानुपपन्नमित्युक्तम्भवति । नदी-देवता इति ।। अन्यथा पूर्वदृष्टान्तवैषम्याभावे एतद्दृष्टान्तोक्तिर्व्यर्था स्यादिति भावः । प्रागञ्चनादिति ।। नदीषु दिग्विशेषवत्प्राचीशब्दरूढेरभावादिति भावः ।
भावदीपः
पुत्रेणेति ।। श्वेतकेतुना । पितोवाच उद्दालकः नवखण्डेनोवाचेत्यर्थः । मूलस्थतच्छब्देन परामृश्यं दर्शयितुं पूर्वशेषं दर्शयति- यथा सोम्येत्यादि ।। इत्यादीत्यादिपदेन ते यथा न विवेकं लभन्त इत्यादिमूलोक्त-वाक्यग्रहः । तद्व्याचष्टे- मधुकृत इति ।। अत्र खण्डानामर्थोक्तिः छान्दोग्यभाष्योक्तदिशा ज्ञेया । वृक्षाणां रसानामिति ।। वृक्षसम्बन्धिपुष्परसानामित्यर्थः । सतीत्यनुवादः परमेश्वर इति व्याख्या । सच्छब्दस्य तत्परतायाः ‘ईक्षतिकर्मव्यपदेशात्सः’ इत्यत्र समर्थनादिति भावः । सम्पद्येत्यादौ स्वातन्त्र्यभ्रमनिरासायोक्तम्- परमेश्वर-शक्तिभिरिति ।। त इत्यस्य प्रजापरामर्शित्वे ता इति भाव्यमित्यत आह- ते प्रसिद्धा इति ।। यद्यदिति यच्छब्दद्वय-निर्दिष्टस्यापि एकेन तच्छब्देन परामर्शं मत्वाऽन्यत्तत्पदं हेत्वर्थं मत्वा तस्यार्थमाह- तस्मात्परमेश्वरेत्यादि ।। तद् व्याघ्रादिरूपं भवन्ति । भगवदाश्रितत्वाज्ञानिप्रजा इत्यनुषङ्गः । नन्वेतावता न मत्तोऽन्योऽस्मिन्देहेऽस्ती-त्यादिना कृतचोद्यस्य कः प्रतीकार इत्यत आह- एतेनेति ।। रसदृष्टान्तेन प्रजेश्वरयोर्भेदे सत्यपि तदज्ञानकथनेनेति वा, सत्यपि भेदे रसानां तददृष्टिकथनेनेति वार्थः । प्राक् हेतोरेवोक्त्या व्याप्तेरनुक्तत्वात् तत्स्वरूपं व्यक्तीकृत्य ‘इति व्याप्तेर्भङ्गः’ इत्युक्तम् । रसेषु हेतुसत्त्वेऽपि साध्याभावादिति भावः ।। २ ।।
हेतुर्विशेष्यत इति ।। मया भेदेनानुपलभ्यमानत्वादिति हेतुरित्यर्थः । मूलोपात्तस्येमाः सोम्येत्यादिवाक्य-स्यार्थमाह- इमा इति ।। प्राचीशब्दस्य दिग्विशेषे रूढस्य योगेन घटयति- प्रागञ्चनादिति ।। प्रपूर्वादञ्चतेः क्विपि नलोपे ङीप्प्रत्यये रूपमिति भावः । एवं प्रतीचीत्यत्रापि प्रत्यगर्थात् प्रतीत्युपसर्गादञ्चते रूपं ध्येयम् । समुद्रात्समुद्रमित्येतत् मध्ये शेषोक्त्या घटयति- मेघादीति ।। पर्वतोत्पन्नानां कथं समुद्रादुत्पन्नत्वमित्याशङ्का-परिहाराय- समुद्रादुत्पन्नजलत्वादिति ।। तद्घटनाय मेघद्वारेणेति । जलत्वादिति ।। देवतानामभिमन्य-मानोत्पत्त्योत्पन्नत्वव्यपदेश इति भावः ।
‘स्वकीयमुदकं नद्यः समुद्रे नैव जानते ।
वायुस्तु तत्पृथग्ज्ञात्वा मेघे कृत्वा प्रवर्षति ।।’
इत्युक्तेरिति भावः । तथापीति ।। नदीनां समुद्रप्रवेशे स तोयराशिरेवेति वा तदभिमान्येवेति वा समुद्रो भवति न नदीदेवतानां समुद्रैक्यमित्येवकारो भिन्नक्रमो योज्यः । न विदुरिति ।। स्वकीयमिति प्रागुक्तस्मृत्युक्त-दिशा स्वस्वाभिमन्यमानजलं न विदुरित्यर्थः। मूलमुपलक्षकमित्युपेत्याह- एवं परमेश्वर इति ।। ३ ।।
वाक्यार्थदीपिका
(श्री.टि.)
ननु ज्ञातेऽर्थे भूय इति पुनरुपदेशप्रार्थनमनुपपन्नमित्यतस्तदभिप्रायमाह- न मत्तोऽन्य इति ।। सम्पद्यामहे इदानीम् । सम्पन्नाः पूर्वम् । सम्पत्स्यामह उत्तरत्र । भङ्ग इति ।। नानावृक्षरसेषु व्यभिचार इत्यर्थः ।। २ ।। गङ्गाद्या नदीदेवता इति ।। अन्यथा जडग्रहणे चेतनत्वे सति भेदेन मया अनुपलभ्यमानत्वादिति चेतनत्वविशिष्टहेतोर्व्यभिचाराप्राप्तेरिति भावः । ननु प्राच्यादिशब्दस्य दिग्विशेषे रूढत्वात्कथं प्राच्यः प्रतीच्यो नद्य इति सामानाधिकरण्यमित्यत आह- प्रागञ्चनादिति ।। ‘अञ्चु गतिपूजनयोः’ प्राचीदिगभिमुखं गमनादित्यर्थः । पुरस्तात् प्राचीदिगभिमुखम् । स्यन्दन्ते स्रवन्तीति ।। ‘स्यन्दू प्रस्रवणे’ इति धातोरित्यर्थः। प्रत्यगञ्चनात् प्रतीचीदिगभिमुखं गमनात् । पश्चात् प्रतीचीदिगभिमुखम् । तथा च प्राच्यादिशब्दानां यौगिक-त्वाद्युक्तं सामानाधिकरण्यमिति भावः । ननु नदीदेवतानां कथं समुद्रादुत्पत्तिरित्यत आह- समुद्रादुत्पन्न-जलत्वादिति ।। ननु नदीजलस्यापि कथं समुद्रादुत्पत्तिरित्यत उक्तम्- मेघादिद्वारेणेति ।। नदीनां समुद्रे प्रवेशेन परस्परं मिश्रीभावेऽपि वायुस्तत्तन्नद्युदकं विवेकेन ज्ञात्वा मेघे कृत्वा प्रवर्षति तेन नदीषु जलपूर्तिर्भवतीति हि पौराणिकी प्रसिद्धिः । यथोक्तं ‘स्वकीयमुदकं नद्यः समुद्रे नैव जानते । वायुस्तु तत्पृथग् ज्ञात्वा मेघे कृत्वा प्रवर्षति’ इति । तथा चाभिमन्यमानजलानां समुद्रादुत्पन्नत्वात्तदभिमानिदेवतास्वपि तदुत्पन्नत्वव्यवहारो युक्त इति भावः । तथापि स समुद्र एव भवतीति ।। नदीनां समुद्रे प्रवेशेऽपि सः समुद्रः समुद्र एव भवति न तु नद्य इत्यर्थः । इदं चोत्तरत्र विवृतं भविष्यति । न विदुरिति ।। स्वाभिमन्यमानं जलं विविक्ततया न विदुरित्यर्थः । आगच्छामह इदानीम्, उत्पत्स्यामह उत्तरत्र, उत्पन्नाः स्मः पूर्वम् । एवं परमेश्वरे स्थित्वापीत्यादि ।। नन्वेतत्किमर्थमुच्यत उपनिषदि व्याख्येयाभावादिति चेदुच्यते । न हि गृहादागतस्य गृहे प्रविष्टस्येत्युत्तरत्र भगवत्पादैः ‘जीवगमनक्रियां प्रति ब्रह्मणोऽपादानत्वं जीवप्रवेशक्रियां प्रत्यधिकरणत्वं चेत्युभयं विवक्षितम्’ इत्युच्यते । अत एव ‘नदीसमुद्रदृष्टान्ते द्वयस्यापि विवक्षितत्वाच्च’ इति टीकाऽपि । अतस्तदनुसारेणेदं पूरितमिति ध्येयम् । अनैकान्त्यमुक्तं भवतीति ।। नदीदेवतास्विति शेषः । ननु नदीदेवतासु कथं व्यभिचारः । मिश्रितत्वेन स्वाभिमन्यमानजलज्ञानाभावेऽपि गङ्गादिदेवतानां परस्परं भिन्नत्वेन स्वस्वरूपज्ञानसद्भावादिति चेत्सत्यम् । स्वाभिमन्यमानतया स्वदेहभूतजलानां परस्परं मिश्रितत्वेन पञ्चद्रौपदीवदेकदेहवत्त्वन्यायप्राप्त्या विवेक-ज्ञाने क्षीरनीरवच्चिद्योगात् स्वपरस्वरूपज्ञानमत्यन्तविविक्ततया नास्तीति व्यभिचारकथनं नानुपपन्नमिति भावः ।। ३ ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
चेतनत्वविशिष्टहेतोरप्यनैकान्तिकतालाभाय नदीदेवता इति देवताग्रहणम् । नदीमात्रग्रहणे तदप्रसङ्गादिति द्रष्टव्यम् । दिग्विशेषरूढप्राच्यादिशब्दवाच्यत्वस्य नदीषु रूढ्या बाधितत्वाद्योगेन तदुपपादयति- प्रागञ्चनादित्यादिना ।।
लघुप्रभा
(व्या.टि.)
आद्यप्रकरणसङ्गतत्वेन द्वितीयप्रकरणमवतारयति- एवमिति ।।
(व्या.टि.) ‘यदि स्वतोऽन्यः परमो देहेऽस्मिन् संव्यवस्थितः ।
न दृश्यते कुत इति भूयः पप्रच्छ पुत्रकः ।।’
इति सामसंहिताभिहितं साकूतं वितत्याह- न मत्तोऽन्य इति ।।
‘अज्ञैरदृश्यमानोऽपि न भेदो नास्ति पुत्रक ।
यथा पुष्परसा युक्ता अजानन्तोऽपि भेदिनः ।
अजानन्तोऽपि पुरुषास्तथा विष्णोर्हि भेदिनः ।।’
इति सामसंहितां मनसि निधाय व्याचष्टे- मधुकृतो भ्रमरा इति ।। वृक्षाणां रसानामिति व्यधिकरणषष्ठ्यौ । तत्र श्रुतौ यथापदस्य द्विरुक्तेर्वाक्यभेदेन योज्यम् । तत्र पूर्ववाक्ये गमयन्तीत्यतः परम्, एवमेवेत्यारभ्य सर्वाः प्रजा इत्यन्तं दार्ष्टान्तिकवाक्यं द्वितीयान्ततया परिणाम्य परमेश्वरशक्तयः सति सम्पादयन्तीति कर्तृपदमध्याहृत्य तच्छेषतया आपूरणीयम् । द्वितीयवाक्ये यथाश्रुति प्रथमान्ततयैव संयोजयति- एवमेवेति ।। ‘परमेश्वरशक्तिभिरेव स्वे स्वे शरीरे सति परमेश्वरे सम्पद्य’ इति टीकावाक्यपर्यालोचनया लब्धोऽयमर्थ इत्यवधेयम् । सम्पद्येति क्त्वः पूर्वकालविहिततया लृटोऽसम्बन्धादाह- उपलक्षणमेतदिति ।। लृडन्तं भूतभवत्प्रत्ययान्तरोपलक्षकमित्यर्थः । सति सम्पद्यामहि, सति समपद्यामहे, सति समपत्स्यामहे इति त्रैकालिकी सत्सम्पत्तिं न विदुः । विदुरिति ‘विदो लटो वा’ इति वेत्तेर्लटो झेरुसिति भावः । अस्मादिति वक्तव्ये आ इत्यनूद्य अस्मादिति व्याख्यातम् । तत्पक्षे इदमः त्यदाद्यत्वे पररूपत्वे ङसेः स्मादादेशे ‘हलि लोपः’ इति आपि हलादाविदम इदो लोपे ‘सुपां सुलुक्’ इत्याकारादेशे पूर्वसवर्णदीर्घे च रूपं बोध्यम् । तस्मादिति पाठे तु, एकेनैव तच्छब्देन सर्वोपसंहार-सिद्धेर्द्वितीयतत्पदस्य हेतुपरत्वात्, आङो भवतीति व्यवहितान्वयश्च बोध्यः । यद्वा तदेत्यव्ययं तस्मादित्यर्थे । अव्ययानामनेकार्थत्वादिति बोध्यम् । अज्ञानापराधादित्युपलक्षणम् । अनाश्रितत्वान्याश्रितत्वज्ञानापराधादित्यपि द्रष्टव्यम् ।
‘अदृष्टाश्रुतवस्तुत्वात्स जीवो यः पुनर्भवः’ इतिवत् ।
‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम् ।
यथाप्रज्ञं हि सम्भवाः’
इति श्रुतेरपि सत्त्वादिति भावः ।
‘इति पित्रोपदिष्टः सन् पुत्रः पप्रच्छ तं पुनः ।
चेतनानामविज्ञानं कथमित्येव चिन्तयन् ।।’
इति सामसंहिताया अनुशयेन तृतीयं प्रकरणं व्याचिख्यासुराह- भवत्विति ।। नदीदेवता इति ।। ननु कथं (व्या.टि.) नदीनां देवतात्वम् । स्रवन्तीनां नदीनां तासामम्भोऽभिन्नत्वेन जडतयाऽध्यक्षीकरणात् । स्नानीय-पानीयतायुक्तेश्च । ‘यथाऽपः प्रवता यन्ति’ इति श्रुतेश्च । ‘नह्यम्मयानि तीर्थानि न देवाः’ इति ‘एकाचो नित्यम्’ इति विकारार्थमयडन्तप्रयोगाच्च । तासां देवतात्वे मानाभावाच्चेति चेदुच्यते । ऋचि सर्वनदीदेवताके ‘याः प्रवतो निवतः’ इति मन्त्रे ‘शिवा देवीः’ इति सर्वासां देवीत्वोक्तेः । ‘इमं मे’ इति मन्त्रे शृणुहीति श्रवणप्रार्थनेन, ‘शिवेन मा चक्षुषा पश्यतापः शिवया तनुवोऽपः स्पृशत’ इति दर्शनस्पर्शनप्रार्थनेन चोपलक्षणया शरीरित्वोक्तेश्च । ‘अप्सु वै वरुणः’ इति वरुणाधिष्ठानत्वोक्तेश्च । ‘आपो वै सर्वा देवताः’ इति सर्वदेवताधिष्ठानत्व-विवक्षया तदभेदोक्तेश्च । विशिष्यापि गङ्गायास्तावत् ‘स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः’ इति साक्षाद्विष्णु-रूपत्वोक्तेश्च । ‘गङ्गे च यमुने चैव’ इत्यत्र जले सन्निधिप्रार्थनाच्च । ‘नन्दिनी नलिनी’ इत्यत्र स्वनामपाठकस्य ‘तत्र तत्र वसाम्यहम्’ इति जलाशये वासप्रतिज्ञानाच्च । ‘नमस्ते जलशायिने’ इति विष्णोर्जलशायित्वोक्तेश्च । ‘पूर्णचन्द्रनिभानने देवि’ इति गङ्गायाः सुन्दरशरीरदेवत्वयोरुक्तेश्च । गोदावर्या अपि ‘गौतमप्रार्थिता देवी’ इति देवीत्वोक्तेश्च । ‘गोदावरि नमोऽस्तु ते’ इति नम्यत्वोक्तेश्च । कृष्णाया अपि ‘वेदेन प्रार्थिते देवि’ इति देवीत्वोक्तेश्च । अन्यासामपि ‘नृसिंहपादोद्भवे देवि, वराहदंश्व््रोद्भवे देवि, सह्यपादोद्भवे देवि’ इत्यादिना देवत्वनम्यत्वार्घ्यग्रहणाद्युक्त्या देवत्वसिद्धेश्च । तासां च ‘देवादिवदपि लोके’, ‘दृश्यते च’ इति सूत्रकृतैव दृश्यत्वादृश्यत्वसामर्थ्याद्युक्तेश्च नाध्यक्षविरोधः । तदगोचरे तद्विरोधायुक्तेः । नापि प्रमाणाभावः । बहुश्रुतिस्मृतिभिरेव चितामचिच्छरीराणामुक्तेरिति रहस्यम् । पद्मपुराणे-
‘मदासने कनिष्ठेयं भवद्भिः संविवेशिता ।
तस्मात्सर्वे जडीभूता नदीरूपा भविष्यथ ।।’
इति सिंहाद्रिकृतब्रह्मयज्ञे स्वावमानेन कनिष्ठासनदानेन मुनीनां सावित्रीशापान्नदीत्वोक्तेश्च ।
प्राक्प्रत्यगर्थाभ्यां प्रप्रतिभ्याम् अञ्चेः क्विपि उगित्वान्ङीपि ‘अनिदिताम्’ इति नलोपे ‘अचः’ इत्यकारलोपे ‘चौ’ इति पूर्वाणो दीर्घे प्राचीप्रतीचीशब्दौ व्युत्पादनीयौ । पुरस्तात् पूर्वस्यां दिशि गङ्गाद्याः स्यन्दन्ते । ‘स्यन्दू प्रस्रवणे’ स्रवन्तीत्यर्थः । पश्चादिति ।। प्रतीची दिशं प्रति नर्मदाद्याः स्यन्दन्ते । समुद्रादुत्पन्ना इति संयोजयिष्यन् द्वारमाह- मेघादिद्वारेणेति ।। संवदति चेममर्थं तैत्तिरीयश्रुतिः- ‘उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः’ इति । समुद्रमेवेति ।। संवदन्ति चेममर्थं ‘सृजा वृष्टिंं दिव आद्भिः समुद्रं पृण’ ‘आकाशात्पतितं तोयं यथा गच्छति सागरम्’ ‘सलिलवच्च तन्नियमः’ इति श्रुतिस्मृतिसूत्राणि । इति समुद्र एवेति ।। मुद्रया सहितः समुद्रः । अतिवेलो न भवितव्यमिति मुद्रितत्वादित्यर्थः । अहमस्मीत्युपलक्षणं मत्वा व्याचश्व्े- इयन्त्विति ।। इतीत्यतः परं गङ्गा न वेदेति शेषः । पुनरियमहमस्मीत्येतद्व्याचश्व्े- एवमन्येति ।। अन्याऽपि यमुनाऽपि न वेदेति शेषः । वीप्सा सर्वोपसंहारार्थेत्याह- एवमन्यापीति ।। गोदावर्यपीत्यर्थः । बहुवचनान्तपाठे तु यथाश्रुतान्वयः । प्रत्येकं सम्बन्ध इति भावः । न विदुरिति ।। इत्थं सर्वनदीदेवता इति पूर्वेणान्वयः । (व्या.टि.) उत्पन्नाः स्म इति ।। उपलक्षणमेतत् । उत्पत्स्यामह इति च ग्राह्यम् । अत्रोक्तं सदुत्पन्नत्वा-ज्ञानमुपलक्षणं पूर्वप्रकरणोक्ताश्रितत्वाज्ञानस्येत्याह- एवमिति ।। किमनेनोत्तरितमुद्दालकेनेत्यत आह- अनेनेति ।। चेतनत्वविशिष्टस्यापीति ।। न मत्तोऽन्योऽस्मिन्देहेऽस्ति चेतनेन मयाऽनुपलभ्यमानत्वादिति चेतनत्वगर्भितस्येत्यर्थः । अनेन
‘तं प्रत्याह यथा नद्यश्चेतनाश्च समुद्रगाः ।
स्वं वारि नैव जानन्ति प्रजास्तद्वत्प्रजालये ।।’
इति सामसंहिता विवृता भवति ।