नच दिश एव ..
प्रत्यभिज्ञाभ्रान्तित्वे विज्ञानशून्यवादिनौ प्रत्यतिप्रसङ्गकथनम् ।
मूलम्
- नच दिश एव भ्रान्तिकल्पिताः ; विज्ञानशून्ययोरपि साम्यात् । नचाऽ-दित्योदयादिनैव दिक्कल्पना ; अन्धकारेऽपि दिङ्मात्रप्रतीतेः ।
तत्त्वमञ्जरी
अबाधितानां दिशां भ्रान्तिकल्पितत्वाङ्गीकारे बौद्धविशेषाभ्यामबाधितत्वेनाङ्गीकृतयोः विज्ञानशून्ययोरपि भ्रान्तिकल्पितत्वं स्यात् । न चाऽदित्योदयोल्लेखेनैव दिक्कल्पना न स्वरूपतो दिशः सन्तीति वाच्यम् । अन्धकार आदित्यदर्शनाभावेऽपि दिङ्मात्रप्रतीतेः ।
टीका
अत्र बौद्धैकदेशिनौ विज्ञानशून्यवादिनावाहतुः । स्यादयं प्रसङ्गः सौत्रान्तिकादीनां यैर्दिशो नित्यत्वमङ्गीकृतं नास्माकम् । विज्ञानातिरिक्तं शून्यातिरिक्तं वा सर्वं भ्रान्तिकल्पितमित्यङ्गी-कारात् । तत्र दिगेव भ्रान्तिकल्पिता, कुतस्तस्या नित्यत्वं, कुतस्तरां तत्प्रत्यभिज्ञाया अभ्रान्तित्वं, येनातिप्रसङ्गः स्यादित्यत आह- नच दिश एवेति ।। दिगिति प्रकृतेऽपि दिश इति बहुवचनं दिशां बहुत्वमपि सत्यमिति ज्ञापनार्थम् । तेनैकैव दिग् उपचारेण दशव्यवहारभागिति वदन्तो वैशेषिकादयो निरस्ता भवन्ति । श्रुतिस्मृतिलोकव्यवहारसिद्धस्य दशत्वस्य निष्कारणमुपचरितत्वग्रहणा-नुपपत्तेः । कुतो नेति चेत् । किं दिशां भ्रान्तिकल्पितत्वं केनचित्प्रमाणेनोच्यते, एवमेव वा । नाऽद्यः । प्रपञ्चमिथ्यात्वप्रमाणानामन्यत्र दूषितत्वात् । असाधारणप्रमाणस्यानुपलम्भात् । न द्वितीयः । अतिप्रसङ्गादित्याह- विज्ञानेति ।। प्रमाणेन विनैव भ्रान्तिकल्पितत्वकल्पनस्य सत्यत्वेना-भ्युपगतयोर्विज्ञानशून्ययोर्विषयेऽपि कर्तुं शक्यत्वात्तयोरपि भ्रान्तिकल्पितत्वमापद्येत ।
ननु यस्य स्वरूपमेव परोपाधिनिबन्धनं तन्मिथ्या, यथा अङ्गुल्यवष्टब्धनयनोपाधिनिमित्तोऽ-परश्चन्द्रमाः । परोपाधिकं च दिक्स्वरूपम्, आदित्योदयादिनैव दिक्कल्पनात् । तत्कथं दिशो भ्रान्ति-कल्पितत्वे प्रमाणाभाव इत्यत आह- नचाऽदित्येति ।। कुतो नेति चेत् । दिक्सामान्यस्वरूपम् आदित्योदयादिकल्प्यम् उत तद्विशेषस्वरूपम् । नाऽद्य इत्याह- अन्धकारेऽपीति ।। पराभि-मतोपाध्यभावोपलक्षणमन्धकारग्रहणम् । यदि दिक्स्वरूपमौपाधिकं स्यात्तर्हि उपाधिं विना नोपलभ्येत । नहि नयनस्याङ्गुल्यवश्व्म्भेन विनाऽपरश्चन्द्रमा उपलभ्यते । उपलभ्यते चोपाधित्वाभि-मतादित्योदयाद्यभावेऽपि दिक्स्वरूपम् । तत्कथं तदुपाधिकं स्यात् । अवकाशमात्रं हि दिगुच्यते । तच्च परनिरपेक्षेणैव साक्षिणा सर्वावस्थासु प्राणभृन्मात्रस्य सिद्धम् । कथमन्यथाऽन्धकारे कर-प्रसारणमपि कुर्युः । द्वितीयेऽपि किं दिग्विशेषस्वरूपमात्रमादित्योदयादिना कल्प्यमुत तदीयं प्राच्या-दित्वम् । तत्राऽद्यस्यैतदेवोत्तरम्- अन्धकारेऽपीति ।। अवकाशभागा एव हि दिग्विशेषाः । तेऽप्यादित्योदयादिनिरपेक्षेण साक्षिणैव प्रतीयन्ते । कथमन्यथा तदभावेऽपि मूर्तान्तरावष्टब्धाकाश-भागपरित्यागेन भागान्तरे करप्रसारणादिकं क्रियते । नच भागानामौपाधिकत्वम् । स्वतो निर्भागस्योपाधिनाऽपि सम्बन्धाभावात् । प्राच्यादित्वं च यदि तत्स्वलक्षणं तदैतदेवोत्तरम् ।। अन्धकारेऽपीति ।। अथ प्राच्यादिशब्दवाच्यत्वं तदपि शब्दार्थसम्बन्धस्यौत्पत्तिकत्वेन न काल्पनिकम् ।
भावबोधः
नन्वन्धकारे सत्यालोकाभावो वर्तते न तु दिगुपाधित्वेन पराभिमतानां सूर्योदयादीनां सर्वेषाम-भावः । तथा च तेषां दिक्कल्पकत्वाङ्गीकारे कथमेतद्व्यभिचारप्रदर्शनमित्यत आह- पराभिमतेति ।।
भावदीपः
सौत्रान्तिकादीनामित्यादिपदेन वैभाषिकपरिग्रहः ।। श्रुतीति ।। ‘देवमनुष्या दिशो व्यभजन्त प्राची देवा दक्षिणां पितरः’ इत्यादिश्रुतिसिद्धस्य ‘दिशो दश दशास्योऽसावजयत् खलु लीलया’ इत्यादिस्मृतिसिद्धस्य चेत्यर्थः ।। अन्यत्रेति ।। ‘वैधर्म्याच्च न स्वप्नादिवत्’ इति सूत्रभाष्यानुव्याख्यानादाविति भावः ।। असाधार-णेति ।। दिङ्मात्रकल्पितत्वबोधकप्रमाणस्येत्यर्थः । विषयेऽपीति सप्तम्यर्थोक्तिः । अवयवद्वयोपेतानुमान-प्रयोगमाशङ्कते- ननु यस्येति ।। पराभिमतेति ।। नक्षत्रचन्द्रोदयाद्यभावोपलक्षणमित्यर्थः । अन्यथाऽदि-त्योदयाभावेऽप्यन्यमेवोपाधिमन्धकारे ब्रूयात् । गृहादावन्धकारे कस्याप्यभावादिति भावः । अनौपाधिकत्वमेव व्यनक्ति- अवकाशमात्रमिति ।। सम्बन्धाभावादिति ।। कृत्स्नसम्बन्धैकदेशसम्बन्धविकल्पानुपपत्त्यादिनेति भावः ।। तत्स्वलक्षणमिति ।। भागस्वरूपमित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
मूलगतैवकाराभिप्रायमाह- कुतस्तस्या इत्यादिना ।। सत्यं स्वाभाविकम् । आद्येऽपि किं प्रपञ्चमिथ्यात्वप्रमाणमेव दिशां भ्रान्तिकल्पितत्वे प्रमाणं दिशामपि प्रपञ्चान्तर्गतत्वादित्युच्यते किं वा दिशामेव भ्रान्तिकल्पितत्वसाधकमसाधारणं प्रमाणं किञ्चिदुच्यते । नाऽद्य इत्याह- प्रपञ्चेति ।। न द्वितीय इत्याह- असाधारणेति ।। दिशां भ्रान्तिकल्पितत्वेऽसाधारणप्रमाणमाशङ्कते- नन्विति ।। ‘सौगतास्तु सोपनीतिमुदा-हृतिम्’ इति वचनाद्यस्येत्यादिना द्व्यवयवप्रयोग इति ज्ञातव्यम् । अनेन, दिशो भ्रान्तिकल्पिताः, परोपाधि-निबन्धनस्वरूपवत्त्वात्, अङ्गुल्यवष्टब्धनयनोपाधिनिमित्तापरचन्द्र इवेत्यनुमानमुक्तं भवति । अनुमाने स्वरूपा-सिद्धिं वक्तुमाह- किं दिक्सामान्येत्यादि ।। नन्वन्धकारेऽपीति कथमुक्तम्, परेण ह्यादित्योदयादिनैव दिक्कल्प-नोक्ता न त्वालोकेन । तथा चान्धकारे सत्यालोकाभावो वर्तत इत्येव प्राप्तं न तु दिगुपाधित्वेन पराभिमतानामादि-त्योदयादीनां सर्वेषामभावः । न हि सूर्योदयाद्यभावोऽन्धकारः । तथा चाऽदित्योदयादीनां दिक्कल्पकत्वाङ्गीकारे कथमेतद्व्यभिचारप्रदर्शनमित्यत आह- पराभिमतेति ।। कथमादित्योदयाभावेऽपि दिक्स्वरूपम् उपलभ्यत इत्यतस्तदुपपादयति- अवकाशमात्रमिति ।। केवलाव्याकृताकाशमेवेत्यर्थः ।। दिगित्युच्यत इति ।। दिक्-सामान्यमित्युच्यत इत्यर्थः ।। परनिरपेक्षेणेति ।। आदित्योदयादिरूपोपाधिनिरपेक्षेणेत्यर्थः ।। सर्वावस्था-स्विति ।। आदित्योदयसद्भावदशायां तदभावदशायां चेत्यर्थः ।। अन्यथेति ।। साक्षिणाऽवकाशमात्ररूप-दिक्सामान्यस्वरूपस्यासिद्धत्व इत्यर्थः । अन्धकारे दिक्सामान्यस्वरूपकल्पकादित्योदयाद्युपाध्यभावदशायाम् ।। अवकाशभागा एवेति ।। अव्याकृताकाशस्यांशा एवेत्यर्थः ।। अन्यथेति ।। अव्याकृताकाशप्रदेश-रूपदिग्विशेषस्वरूपस्य साक्षिणा प्रतीत्यनङ्गीकार इत्यर्थः । तदभावेऽपि दिग्विशेषस्वरूपमात्रकल्पकादि-त्योदयाद्युपाध्यभावेऽपि ।। मूर्तान्तरेति ।। कुड्यादीत्यर्थः । ननु दिग्विशेषस्वरूपत्वेनाभिमतानाम् अव-काशभागानामौपाधिकत्वे परोपाधिकत्वेन दिग्विशेषस्वरूपाणां मिथ्यात्वमेव प्राप्तमित्याशङ्क्य निषेधति- नच भागानामिति ।। सम्बन्धाभावादिति ।। उपाधिसम्बन्धार्थं पुनरौपाधिकभागान्तरकल्पने चानवस्थेति भावः । तदीयं दिग्विशेषस्वरूपसम्बन्धि यत्प्राच्यादित्वं तदादित्योदयादिना कल्प्यमिति द्वितीयपक्षं दूषयितुमाह- (श्री.टि.) प्राच्यादित्वं चेति ।। तत्स्वरूपेति ।। दिग्विशेषस्वरूपेत्यर्थः ।। अन्धकारेऽपीतीति ।। दिग्विशेषस्वरूपं चाऽदित्योदयादिनिरपेक्षेण साक्षिणैव प्रतीयते । कथमन्यथा मूर्तान्तरावष्टब्धावकाशभाग-परित्यागेन भागान्तरे करप्रसारणादिकं कुर्युरित्युक्तमेवोत्तरमित्यर्थः । तदपि प्राच्यादिशब्दवाच्यत्वमपि । न काल्पनिकमित्यन्वयः। न काल्पनिकम् अस्माच्छब्दादयमर्थो बोद्धव्य इति परमेश्वरेच्छारूपसङ्केतो नेत्यर्थः । येन प्राच्यादिशब्दवाच्यत्वस्य परमेश्वरेच्छारूपपरोपाधिकत्वप्राप्त्या पुनर्मिथ्यात्वं स्यादिति भावः । कुतो न काल्पनिकमित्यत उक्तम्- शब्दार्थसम्बन्धस्यौत्पत्तिकत्वेनेति ।। स्वाभाविकत्वेनेत्यर्थः । यथोक्तं जैमिनिना ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति । उक्तं चानुव्याख्याने ‘नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिध्यते’ इति । सङ्केतपक्षस्तु सुधायां दूषित इत्यवधेयम् ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु सेयं दिगित्येकवचनस्य प्रस्तुतत्वात्तदनुसारेण, न च दिगेव भ्रान्तिकल्पिता इत्येकवचनमेव प्रयोक्तव्यम् । तत्किमिति दिश इति बहुवचनस्य प्रयोग इत्यतस्तत्प्रयोजनमाह- दिगितीति ।। किं तद्बहुत्वस्य सत्यताज्ञापनेनापि सिद्ध्यतीत्यत आह- तेनेति ।। ननु वैशेषिकाद्युक्तरीत्या बहुत्वस्यौपचारिकत्वमेव किं न स्यादित्यतः किं साधकप्रमाणाभावादौपचारिकत्वाश्रयणं बाधकसद्भावाद्वा इति विकल्पं मनसि निधायाऽद्यं दूषयति- श्रुतिस्मृतीति ।। द्वितीयमसिद्ध्या दूषयति- निष्कारणमिति ।। आद्ये प्रमाणं भवत् साधारणं वा स्यादसाधारणं वेति विकल्पं मनसि निधायाऽद्यं दूषयति- प्रपञ्चेति ।। अन्यत्रेति ।। मिथ्यात्वानुमानखण्डनादौ, अत्रैव ग्रन्थेऽपि प्रदेशान्तरे वा इत्यर्थः । द्वितीयं दूषयति- असाधारणस्येति ।। दिङ्मात्रमिथ्यात्वसाधकस्येत्यर्थः ।। प्रमाणाभाव इति ।। असाधारणप्रमाणाभाव इत्यर्थः । ननु दिश उपाधिनिबन्धनत्वे परेण शङ्किते तन्निरासा-योपाध्यभावेऽपि प्रतीयमानत्वमेव वाच्यम् । न त्वन्धकारेऽपि प्रतीयमानत्वम् अनुपयोगादित्यत आह- पराभि-मतेति ।। अप्रयोजकत्वनिरासाय तर्कमूलभूतां व्याप्तिम् उपपादयति- नहीति ।। इश्वपत्तिं निरस्यति- उपलभ्यते चेति ।। ननु पराभिमतोपाध्यभावदशायां तत्स्वरूपोपलम्भकाभावात्स एव नास्तीति नेश्वपत्तिपरिहार इत्यत आह- तच्चेति ।। नन्वन्धकारे करप्रसारणान्यथानुपपत्त्या परनिरपेक्षेण साक्षिणा सर्वावस्थास्ववकाशज्ञानसिद्धावपि न दिक्स्वरूपज्ञानसिद्धिरिति नानेन दिक्सामान्यस्वरूपस्यौपाधिकत्वाभावसिद्धिरित्यत उक्तम्- अवकाशमात्रं हीति ।। पूर्वोत्तरभावेन योजनीयम् । उपपत्तिबाधितं च भागानामौपाधिकत्वकल्पनमित्याह - न चेति ।। तत्कथमित्यतोऽसम्बद्धस्योपाधेर्भेदकताया अतिप्रसङ्गदुष्टत्वेनासम्भवात् सम्बद्धपक्षेऽप्युपाधिसम्बन्धस्याऽकाशे सर्वगतत्वे कृत्स्नस्याप्याकाशस्य एकोपाधिना ग्रस्तत्वेनोपाधेर्भेदकत्वाभावापत्त्या एकदेशगतत्वं वाच्यम् । न च तत्सम्भवति । तथा हि । स किमेकदेशः स्वाभाविको वा औपाधिको वा । नाऽद्यः । आकाशस्य स्वतो निर्भागत्वाभ्युपगमेन तदयोगात् । नान्त्यः । ‘एकदेशेऽनवस्था स्यात्’ इत्युक्तन्यायेनानवस्थाप्रसङ्गादि-त्याशयेनाऽह- स्वत इति ।। औत्पत्तिकत्वेनेति ।। स्वाभाविकत्वेनेत्यर्थः । ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति जैमिनिसूत्रादिति भावः ।
लघुप्रभा
(व्या.टि.)
विज्ञानशून्यवादिनाविति ।। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ इति णिनिरिति भावः । कुतस्तरा-मिति ।। ‘किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे’ इत्यव्ययपूर्वात्तरप आम्प्रत्यय इति भावः ।। श्रुतिस्मृतीति ।। ‘प्राची दिगग्निर्देवता’ इत्यादिश्रुतिः, ‘विद्रवन्ति दिशो दश’ इत्यादिस्मृतिः, ताभ्यामित्यर्थः । आद्येऽपि साधारणेन उतासाधारणेनेत्याद्यं द्वेधा विकल्प्य क्रमेण निराह- प्रपञ्चमिथ्यात्वेत्यादिना ।। विषयेऽपीति ।। अनेन मूलं विषयसप्तम्यन्तमिति सूचितम् । परोपाधिकत्वभ्रान्तिकल्पितत्वेऽसाधारणप्रमाणमभिसन्धायोदाहरणोपनयौ दर्शयति- ननु यस्येति ।। उदयादीत्यादिपदेन चन्द्रतारकाद्युदयग्रहणम् । नन्वन्धकारेऽपीत्यसङ्गतम् । न ह्यालोकगम्यत्वं परोऽब्रवीद्येन प्रतीत्या तन्निवर्तेत । औपाधिकत्वमेव हि सोऽभ्यधात् ततः कथमनेन तन्निरास इत्यत आह- पराभिमतेति ।। फलितमाह- यदीत्यादिना ।। तर्कमूलभूतां व्याप्तिं दर्शयति- नहीति ।। ननु दिशः परत्वापरत्वानुमेयतया निरपेक्षप्रतीतिरसिद्धेत्यत आह- अवकाशमात्रं हीति ।। दिश आकाशाद् भेदे प्रमाणाभावादिति भावः । साक्षिणैवेति ।। ‘अव्याकृतं हि गगनं साक्षिगोचरम्’ इत्यनुव्याख्यानोक्तेरिति भावः । विपक्षे बाधकमाह- अन्यथेति ।। अवकाशज्ञान इत्यर्थः । उपाधिसम्बन्धानुपपत्त्या च भागानामौपाधिकत्वं निराह- नचेति ।। सम्बन्धाभावादिति ।। ‘न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः’ इत्युक्तदिशेति भावः । द्वितीयेऽपि किं प्राच्यादित्वं स्वलक्षणमुत तच्छब्दवाच्यत्वमिति विकल्प्याऽद्यं दूषयति- प्राच्यादित्वमिति ।। स्वलक्षणमिति ।। प्राच्यादिशब्दशक्यस्वरूपमात्रमित्यर्थः । द्वितीयं दूषयितुमनुवदति- अथेति ।। वाच्यत्व-मित्यनेन वाच्यतावच्छेदकप्राचीत्वादिकमुपलक्षणीयम् । तदपि नित्यत्वान्न काल्पनिकमिति चावधेयम् । ससम्बन्धिकस्य प्राचीत्वादेरनङ्गीकारे वाच्यत्वस्य वक्ष्यमाणसम्बन्धिशब्दत्वस्य चानुपपत्तेः ।