न च जगत्प्रत्यक्षस्य ..

अनुभवसिद्धस्य केवलयुक्तितो बाधस्य कथनेऽतिप्रसङ्गोद्भावनम्

मूलम्

- न च जगत्प्रत्यक्षस्य मिथ्यात्वं केनापि प्रमाणेन निश्चितम् । विशेषतश्च ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य न मिथ्यात्वं दृष्टम् । अतश्च संसारस्य सत्यत्वात् सत्यस्य चानिवृत्त्यङ्गीकारान्न मोक्षः स्यात् । अनुभवसिद्धस्य बलवदनुभवं विना  युक्तित  एव  मिथ्यात्वाङ्गीकारे  आत्मनोऽपि  मिथ्यात्वं  स्यात्    युक्तिश्च सर्वस्यान्यस्य मिथ्यात्वाङ्गीकारात् । द्विधा कल्पने कल्पनागौरवमिति ।।

तत्त्वमञ्जरी

अनुभवस्याव्यभिचारनियमात् विशेषतोऽपि मिथ्याविषयत्वं न दृष्टम् । न मोक्षः स्यात् मायिपक्षे । अनुभवापलापेऽतिप्रसङ्गमाह- अनुभवसिद्धस्येति ।। आत्ममिथ्यात्वे युक्तिमाह- युक्तिश्चेति ।। जगति असत्य इति सत्य इति द्विधा कल्पने कल्पनागौरवम् ।

टीका 

नन्वेवमेव तर्हि जगत्प्रत्यक्षस्याप्यपटुत्वे यद्यपि अनुमानागमौ न तस्य बाधकौ । तथाऽपि तेन अबाधितौ जगन्मिथ्यात्वं निश्चाययिष्यत इति चेत्, किमस्य प्रतिभासतोऽपटुत्वं कल्प्यते, उत कारणसद्भावादनुमीयते । नाऽद्यः । सत्य एव स्तम्भ इति निश्चायकतयैवावभासनात् । द्वितीयेऽपि न तावदसम्भावना परीक्षाभावो वा कारणं, तदभावात्  । अतः प्रागेवायथार्थतया निश्चितत्वं वाच्यम् । न च तदप्यस्तीत्याह- न चेति ।। मिथ्यात्वम् अयथार्थत्वम् । यथा चैतत्तत्तथोपपादितं प्राक् । अत्र सर्वत्र प्रत्यक्षशब्देनापरोक्षज्ञानमात्रं विवक्षितं न तु प्रमाणम् । ततो न व्याघातादिदोष-प्रसङ्गः । एवं सम्भावितदोषस्य यथार्थत्वायथार्थत्वविकल्पशङ्काविषयस्यापि घटादिसत्यताग्राहिणः प्रत्यक्षस्य बाह्यस्य यदा नायथार्थत्वं किमुत तदा तद्विपरीतस्य साक्षिणो वक्तव्यमित्याशयवानाह- विशेषतश्चेति ।। ज्ञानं मानसम् । अज्ञानं भावरूपम् । आत्मभेद ईश्वराज्जीवान्तरात् जडाच्च आत्मनो भेदः । आदिपदेन इच्छादीनां ज्ञानाद्यभावस्य च ग्रहणम् । न दृष्टमिति साक्ष्यनुभवस्य यथार्थत्वनियमं सूचयति ।

घटादेर्बाह्यस्य ज्ञानादेरान्तरस्य च जगतः तन्मिथ्यात्वस्यापि मिथ्यात्वात् अन्योन्याश्रयत्वा-दिकं भूषणमेव नतु दूषणमिति शङ्कानिरासार्थं समर्थितेनैव बन्धसत्यत्वेन अन्यदपि सिद्धमिति प्रसङ्गेनाह- अतश्चेति ।। साक्ष्यनुभवस्य यथार्थत्वनियमादित्यर्थः । संसारस्य ज्ञानाज्ञानादि-रूपस्याङ्गीकारान्मायावादि(ना)नां न मोक्षः स्यात् । ततश्चैकजीववादिवदेषामपि बद्धमुक्त-व्यवस्थाऽसिद्धेः व्यर्थो बहुजीववादाङ्गीकार इति भावः ।

ननु शुक्तिरजतादिकं साक्षिवेद्यं बाध्यत इति कथं तस्य यथार्थत्वनियम इति चेन्न । इन्द्रिय-व्यापारान्वयव्यतिरेकानुविधायित्वेन रजतादिज्ञानस्यैन्द्रियकत्वात् । अधिष्ठानग्रहण एवेन्द्रियस्य व्यापार इति चेन्न । कल्पकाभावात् । प्रतीतिसमयमात्रपरिवर्तिना रजतेनेन्द्रियसन्निकर्षानुपपत्तेरेवं कल्प्यत इति चेन्न । अनिर्वचनीयख्यातेः निराकृतत्वात् । अन्यथाख्यातिनये तु शुक्तिका-सन्निकृष्टेनेन्द्रियेण शुक्तिकैवात्यन्तासद्रजताकारेण प्रतीयत इत्युपपद्यत इति ।

(ननु) ‘घटादेः ज्ञानादेश्च प्रत्यक्षसिद्धस्य युक्तिमात्रेण बाधो नास्ति । बलवता प्रत्यक्षादिना विना युक्तिमात्रेण प्रत्यक्षसिद्धस्य क्वापि बाधादर्शनात्’ इत्युक्तम् । विपक्षे बाधकाकाङ्क्षायां च भूतचतुष्टयस्येत्यादिना बाधकमप्युक्तम् । तदसत् । पृथिव्याः पृथिवीत्वाभावादेः सर्वमिथ्यात्व-वादिनोऽभीष्टत्वादित्यतोऽतिप्रसङ्गान्तरमाह- अनुभवेति ।। अनुभवः साक्षिप्रत्यक्षं बाह्यञ्च । बलवदनुभवं विनेति बाह्यापेक्षयोक्तम् । आत्मनोऽपि मिथ्यात्वं स्यात् तस्यापि साक्षिप्रत्यक्ष-सिद्धत्वात् । स्वयंप्रकाश एवाऽत्मेति चोत्तरत्र निराकरिष्यते ।

नन्वात्मनो मिथ्यात्वं प्रतिपादयन्ती युक्तिरेव नास्ति याऽऽत्मानुभवस्य बाधिका स्यादित्यत आह- युक्तिश्चेति ।। आत्ममिथ्यात्वसाधिकाऽस्तीति शेषः । कथमस्तीत्यत आह- सर्वस्येति ।। आत्मनोऽन्यस्य सर्वस्य मिथ्यात्वाङ्गीकारात्तद्दृष्टान्तेन वस्तुत्वादिनाऽऽत्मनो मिथ्यात्वं साध्यत इत्यर्थः । व्यभिचारपरिहारार्थं सर्वस्येत्युक्तम् । विपक्षे बाधकाभावादप्रयोजकं वस्तुत्वादिकमित्यत आह- द्विधेति ।। यद्यात्मा सत्यः स्यात्तदाऽऽत्मा सत्यः अन्यन्मिथ्येति द्विधा कल्पने कल्पनागौरवं स्यादिति बाधकसद्भावात् नाप्रयोजकत्वम् । इति युक्तिश्चास्तीति सम्बन्धः ।

ननु सर्वस्य मिथ्यात्वं सिद्धान्तिना नाङ्गीकृतं तत्कथमेवमनुमानम् । शुक्तिरजतादेः दृष्टान्तस्य सम्भवेऽपि व्यभिचारापरिहारादिति चेन्न । परन्यायेन परस्यानिष्टापादनात् । किञ्च प्रत्यक्षसिद्धस्यापि युक्त्या बाधो भवतीति वदन्तं परं प्रति शून्यवादी यद्येवमनुमानं प्रयुञ्जीत तदा न तस्योत्तरमित्य-भिप्रायः । अत एवाङ्गीकारादित्युक्तम् । नन्वात्मनो वस्तुत्वादिधर्मानङ्गीकारादसिद्धो हेतुरिति चेन्न । तद्व्यवहारलोपप्रसङ्गात् । काल्पनिकधर्मसद्भवाद् व्यवहारोपपत्तिः, सत्यधर्माभावादसिद्धिरिति चेत्तर्हि दृश्यत्वादेरपि सत्यत्वाभावादसिद्धिः स्यात् । वस्तु च मिथ्या चेति विरुद्धमिति चेत् । दृश्यं च मिथ्या चेति कुतो न विरुद्धम् । शुक्तिरजतादौ सह दर्शनान्नेति चेत्, समं वस्तुत्वे । वास्तवं वस्तुत्वं तत्र नास्तीति चेत्, दृश्यत्वमपि तथेति समानम् । यादृशतादृशदृश्यत्वं तत्रास्तीति चेत्, वस्तुत्वमपि तथाभूतमस्तीति कुतो विरुद्धत्वम् । तत्सत्यमित्यादिश्रुत्या बाधितमनुमानमिति चेत्, विश्वं सत्यमित्यादिश्रुत्या प्रपञ्चमिथ्यात्वानुमानमपि कथं न बाधितम् । व्यावहारिकसत्यत्वपरा सा श्रुतिरिति चेदन्याऽपि तथा किं न स्यात् । उपक्रमादिलिङ्गान्यपि तात्पर्यं ज्ञापयन्त्यन्यपरतामेव निवारयन्ति न तु पारमार्थिकत्वम् । किञ्च प्रत्यक्षमिव युक्त्या श्रुतिरपि किन्न बाध्यते । युक्तिः पुरुषमतिकल्पिता सम्भावितदोषा । श्रुतिस्त्वपौरुषेयी न तथेति चेत्, तर्हि साक्षिप्रत्यक्षमपि न तथेति तुल्यम् । अपि चाविद्यामूला श्रुतिः कथमसम्भावितदोषा भवेत् ।

मिथ्यात्वमसत्त्वं चेत्, दृष्टान्तस्य मायावादिरीत्या साध्यविकलता । अनिर्वचनीयत्वं चेत् शून्यवादिनोऽप्रसिद्धविशेषणत्वमिति चेन्न । दृश्यत्वाद्यनुमानेऽपि तुल्यत्वात् । सत्यविवेक-साधनाददोष इति चेदात्ममिथ्यात्वानुमानेऽपि समानमेतत् । अनिर्वचनीयवादिनैव केनचिदात्मनि मिथ्यात्वे साधिते किमुत्तरम् ।

भावबोधः

अत्र सर्वत्रेति ।। ‘न च प्रत्यक्षदृष्टस्य’ इति, ‘प्रत्यक्षापटुत्वस्य’ इति, ‘प्रत्यक्षस्य हि दूरे’ इति त्रिष्वपि वाक्येष्वित्यर्थः । न व्याघातादीत्यादिपदेन बलवत्पदवैयर्थ्यादिकं ग्राह्यम् । मानसमिति ।। तत्रैव मिथ्यात्वस्य शङ्काऽर्हत्वादिति भावः । भावरूपमिति ।। आदिपदेन सुखाद्यभावसङ्ग्राहकतयाऽवश्यव्याख्येयेन ज्ञानाभाव-ग्रहणसम्भवाच्च । तत्परत्वेनाप्यज्ञानपदं योजनीयमिति भावः । बाह्यप्रत्यक्षस्य साक्षिणश्च प्रकृतत्वादुभय-परामर्शकत्वमतश्शब्दस्य न मन्तव्यमित्याह- साक्ष्यनुभवस्येति ।। अत एवाऽह- संसारस्य ज्ञानाज्ञानरूप-स्येति ।। ‘नित्यत्वाङ्गीकारान्न मोक्षः स्यात्’ इत्युक्तिबलादेवं व्याख्येयम् । घटादेरुक्तयुक्त्या नित्यत्वाङ्गीकारस्य मोक्षाभावोपपादकत्वाभावादिति भावः । बाह्यापेक्षयोक्तमिति ।। अनुभवपदेन बाह्यस्यापि गृहीतत्वात्तद-पेक्षयेत्यर्थः । उभयापेक्षया चेत्क्वचिद्बलवता साक्षिणा दुर्बलसाक्षिणो बाध इत्युक्तं स्यात् । न च तत्सम्भवति । साक्षिणो याथार्थ्यनियमाङ्गीकारविरोधादिति भावः । नन्वात्मनोऽवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूप-स्वप्रकाशत्वाङ्गीकारात्कथं साक्षिसिद्धत्वमित्यत आह- स्वयम्प्रकाश एवेति ।। इति द्विधा कल्पन इति ।। अनेन धाप्रत्ययाभिप्राय उक्तो भवति । शुक्तिरजतादेरिति ।। शुक्तिरजतादौ बस्तुत्वरूपहेत्वभावेऽप्यादि-पदोक्तज्ञेयत्वाभिप्रायेणेदमिति द्रष्टव्यम् । तर्केऽप्यापाद्यापादकयोर्व्याप्तिर्वक्तव्येत्यत उक्तम्- परन्यायेनेति ।। अत एवाङ्गीकारादिति ।। शून्यवादिमायावादिभ्यामपि सर्वमिथ्यात्वस्याङ्गीकारान्नान्यतरव्याप्तिहीनत्वमिति ज्ञापयितुमङ्गीकारादित्युक्तमित्यर्थः । दृश्यत्वादेरपीति ।। प्रपञ्चमिथ्यात्वसाधकत्वेन प्रयुक्तदृश्यत्वादेरपि त्वन्मते सत्यत्वाभावात्प्रपञ्चे सत्यदृश्यत्वाभावेन असिद्धिः स्यादित्यर्थः । न तु पारमार्थिकत्वमिति ।। आत्मसत्त्यत्वस्य व्यवस्थापयन्तीत्यर्थः ।

भावदीपः

प्रतिभासत इति ।। अपटुत्वावभासबलादित्यर्थः । आद्योऽसिद्ध इति भावेनाह- नाऽद्य इति ।। असत्त्वादिभ्रमनिरासायाऽह- मिथ्यात्वमयथार्थत्वमिति ।। उपपादितं प्रागिति ।। ‘न च सत्यत्वाङ्गीकारे कश्चिद्दोषः’ इतिवाक्यव्याख्यानावसर इति भावः । यद्वा ‘तद्वशत्वज्ञापनार्थमेव सृष्ट्यादिकथनम्’ इत्यादिना मिथ्यात्वपरश्रुतिस्मृतीनामन्यथाव्याख्यानेनोपपादितमित्यर्थः । अथ वा ‘न चाभेदे कश्चिदागमः’ इत्यादिना पराभिप्रेताशेषवाक्यानां प्रत्यक्षबाधकानामन्यथाव्याख्यानेनोपपादितमित्यर्थः । दृश्यत्वाद्यनुमानानां च ‘एवमा-द्यनन्त’ इतिवाक्यव्याख्याने निरस्तत्वादिति भावः । न व्याघातादीति ।। प्रत्यक्षप्रमाणस्यान्यथात्वं मिथ्यार्थक-त्वमित्यस्य व्याहतेः । प्रमाणेन निश्चितमित्युक्त्ययोग आदिपदार्थः । असम्भावितत्वादिति भावः । तद्विपरीत-स्येति ।। असम्भावितदोषादेरित्यर्थः । मानसं मनोवृत्तिरूपम् । समर्थितेनेति ।। ‘दृष्टस्य वस्तुनो मिथ्यात्वकल्पने’ इत्यादिना समर्थितेनेत्यर्थः । प्रकृतत्वादाह- ज्ञानाज्ञानादिरूपस्येति ।। परमतरीत्या शङ्कते- ननु शुक्तिरजता-दिकमिति ।। दुश्व्ेन्द्रियसन्निकृष्टशुक्त्याकारवृत्त्या क्षुभितं शुक्त्यधिष्ठानचैतन्यावरकाज्ञानम् अनिर्वचनीय-रजतात्मना भ्रमरूपज्ञानात्मना च परिणमत इति प्रक्रियामाश्रित्याऽह- प्रतीतिसमयमात्रेति ।। निराकृत-त्वादिति ।। ‘सदसद्वैलक्षण्ये प्रमाणाभावात्’ इत्यादिना ‘नाद्वितीयत्वं युज्यते’ इत्यन्तेन निराकृतत्वादित्यर्थः। ख्यात्यन्तरपक्षेऽपि कथमसता सन्निकर्ष इत्यत आह- अन्यथाख्यातीति ।। घटादेरिति ।। ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्यादिना पूर्वत्र, ‘न च जगत्प्रत्यक्षस्य’ इत्यादिनाऽत्र च युक्तिमात्रेण बाधो नास्तीत्युक्तम् । ‘शुक्तिरजतादिप्रतीतेरपि बलवत्प्रत्यक्षविरुद्धत्वादेव भ्रमत्वं न तर्कमात्रात्’ इत्यनेन पूर्वत्र क्वापि बाधादर्शनादित्युक्तमित्यर्थः । साक्ष्यपेक्षया बलवतोऽभावादाह- बलवदनुभवं विनेति ।। बाह्यापेक्ष-योक्तमिति ।। साक्षिसिद्धत्वमात्मनो नास्ति येनातिप्रसङ्ग आपद्येत । किन्तु स्वयम्प्रकाशरूप एवेत्यत आह- स्वयम्प्रकाश एवेति ।। उत्तरत्रेति ।। ‘न च स्वेनापि ज्ञेयत्वं तैरुच्यते’ इत्यादिवाक्यव्याख्यानावसर इत्यर्थः । व्यभिचारपरिहारार्थमिति ।। अन्यस्येत्येवोक्तौ यस्य कस्यचिदमिथ्यात्वेनाप्युपपत्त्या व्यभिचारापत्तेस्तन्निरा-साय सर्वस्येत्युक्तमित्यर्थः । इतिपदस्य पूर्वेणान्वयमाह- इति युक्तिश्चास्तीति सम्बन्ध इति ।। शुक्ति-रजतादेरिति ।। रजतात्मना प्रतीतशुक्तिशकलादेरित्यर्थः । तत्र तेनाकारेण मिथ्यात्वस्य वस्तुत्वस्य च सत्त्वादिति भावः । यद्वा वस्तुत्वादित्यस्य ज्ञानगोचरत्वादित्यर्थः । यद्वा वास्तववस्तुत्वस्याभावेऽपि यादृशतादृशं प्रातीतिकं तदस्तीत्यग्रे व्यक्तम् । अनिष्टापादनादिति ।। विश्वसत्यत्ववाद्युत्तरपक्षे यदि कृत्स्नमपि जगन्मिथ्या स्यात्तदाऽऽ-त्माऽपि मिथ्या स्याद्वस्तुत्वादेरविशेषात् । अन्यथा द्विधा कल्पने कल्पनागौरवमित्यनिष्टापादनरूपत्वेन योज्य-मित्युक्तं भवति । युक्तिश्चेत्युक्तिस्वारस्यानुरोधेन प्रागुक्तानुमानरूपत्वेऽपि न दोष इत्याह-किञ्चेति ।। परम्प्रतीति ।।  मायिनं प्रतीत्यर्थः । शून्यवादीति ।। तेनापि सर्वमिथ्यात्वाङ्गीकारेणानैकान्त्याभावादिति भावः । इत्युक्तमिति ।।  सर्वमिथ्यात्वस्योभयसम्मतत्वद्योतनायाङ्गीकारादित्युक्तमित्यर्थः । दृश्यत्वादे-रिति ।। जगन्मिथ्यात्वसाधकहेतोरित्यर्थः । बाधितमनुमानमिति ।। आत्ममिथ्यात्वानुमानमित्यर्थः । ननूपक्रमादिलिङ्गानि तत्सत्यमित्यादिश्रुतिबोध्यसत्यत्वस्य पारमार्थिकत्वमेव गमयिष्यन्तीत्यत आह- उपक्रमा-दीति ।। ज्ञापयन्तीति शत्रन्तम् । न तु पारमार्थिकत्वमिति ।। तात्पर्यविषयस्येति, गमयन्तीति च योज्यम् । युक्त्येति ।। वस्तुत्वादि प्रागुक्तयुक्त्या ‘तत्सत्यम्’ इत्यादिश्रुतिरपीत्यर्थः । शून्यवाद्युक्तात्ममिथ्यात्वानुमाने साध्यस्य विकल्पदोषावाह- मिथ्यात्वमिति ।।

वाक्यार्थदीपिका

(श्री.टि.)

प्रतिभासत इति ।। ल्यब्लोपनिमित्ता पञ्चमी । प्रतिभासमारभ्य तदुत्पत्तिमारभ्येत्यर्थः । तथा च किं प्रागेव दोषनिश्चयेनापट्वेव ज्ञानमुत्पद्यत इति पृश्व्ं भवतीति द्रष्टव्यम् । कारणेति ।। अपटुत्व इत्यर्थः । अनुमीयत इति ।। सवितृसुषिरशुक्तिरजतादिविषयप्रत्यक्षवदिति शेषः । निश्चायकतयैवेति ।। दोषाजन्यतया पटुतयैव साक्षिणाऽवभासनान्नापट्वेवाऽदितो ज्ञानमुत्पद्यत इति भावः । तदभावादिति ।। सवितृसुषिरादाविव प्रागेवार्थाभावनिश्चयरूपकारणस्य शुक्तिरजतादाविव परीक्षाप्रवृत्त्यभावरूपकारणस्य चाभावादित्यर्थः । उपपादितमिति ।। मिथ्यात्वसाधकप्रमाणाभावस्य प्रागुक्तत्वादित्यर्थः । इदमुपलक्षणम् । नापि जगत्प्रत्यक्षस्य सन्देहवदपटुत्वम् एकाकारविषयकत्वादित्यपि द्रष्टव्यम् । तथा च जगत्प्रत्यक्षस्य सर्वापटुप्रत्यक्षवैलक्षण्यमिति भावः । ननु ‘न च प्रत्यक्षदृष्टस्य’ ‘प्रत्यक्षापटुत्वस्यैव’ ‘प्रत्यक्षस्य हि दूरे’ इति त्रिष्वपि वाक्येषु यदि प्रत्यक्षशब्देन (श्री.टि.) निर्दोषार्थेन्द्रियसन्निकर्षजन्यं प्रमाणरूपमपरोक्षज्ञानं विवक्षितं तर्ह्याद्यवाक्ये तस्य प्रत्यक्षागमाभ्यां बाधोक्तिव्याघातः । बलवत्पदवैयर्थ्यं च । द्वितीयवाक्येऽपटुत्वोक्तिव्याघातः । तृतीयवाक्ये मन्दग्राहितया परिमाणादावन्यथात्वोक्तिव्याघात इत्यत आह- अत्र सर्वत्रेति ।। त्रिष्वपि वाक्येष्वित्यर्थः । आदिशब्देनाऽदि-वाक्ये बलवच्छब्दवैयर्थ्यं ग्राह्यम् । ज्ञानं मानसमिति ।। मनोवृत्तिरूपमित्यर्थः । साक्षिरूपस्वरूपानुभवस्य विषयीकारितया पृथगुक्तत्वादिति भावः । अज्ञानं भावरूपमिति ।। सिद्धान्ते ज्ञानाभावातिरिक्तं भावरूपमज्ञानं जीवस्वरूपाद्यावरकत्वोक्त्यन्यथाऽनुपपत्त्या स्वीकर्तव्यम् । ज्ञानाभावस्याऽवरकत्वायोगादिति सम्प्रदायविदः। इदं च भावरूपाज्ञानं सत्त्वादिगुणात्मिका प्रकृतिरेवेति मन्तव्यम् । उपपादितमेतन्निपुणतरं तत्त्वसङ्ख्यानटीका-विवरणेऽस्माभिः । आत्मनो भेद इति ।। जीवस्य भेद इत्यर्थः । ईश्वरादिप्रतियोगिको जीवधर्मिको भेद इति यावत्  । जीवस्याहमिति साक्षिसिद्धत्वेन तद्धर्मिकभेदस्यापि साक्षिविषयत्वादिति भावः । ज्ञानाद्यभाव-स्येति ।। समुदायापेक्षमेकवचनम् । ज्ञानादिप्रतियोगिकाभावानामित्यर्थः ।

उत्तरवाक्यमवतारयति- घटादेरित्यादिना ।। तन्मिथ्यात्वस्यापीति ।। बाह्यान्तरजगन्निष्ठमिथ्यात्व-स्यापीत्यर्थः । साक्षिवेद्यमिति ।। प्रातिभासिकत्वादिति भावः । तस्य साक्ष्यनुमवस्य । ऐन्द्रियकत्वादिति ।। तथा च शुक्तिरजतादिज्ञानस्यैन्द्रियकत्वेन साक्षिवेद्यत्वाभावादित्यर्थः । ऐन्द्रियकज्ञानस्य च यथार्थत्वनियमो नास्त्येवेति भावः । अधिष्ठानेति ।। शुक्तिरूपाधिष्ठानेत्यर्थः । तथा चान्यत्रानुपक्षीणान्वयव्यतिरेकौ न स्त इति भावः । अधिष्ठानग्रहण एवेन्द्रियव्यापारस्योपक्षयकल्पकमाशङ्कते- प्रतीतीति ।। रजतेनेन्द्रियसन्नि-कर्षाङ्गीकारे घटादिवत्सन्निकर्षात्प्राक् रजतस्य सत्त्वं वक्तव्यम् । तन्न सम्भवति । प्रतीतिमात्रशरीरकत्वाङ्गी-कारादिति भावः । अनिर्वचनीयेति ।। प्रातिभासिकेत्यर्थः । स्यादिदं यदीदं रजतमित्यत्र प्रतीयमानं रजतं प्रातिभासिकं स्यात् । न चैवम् । प्रातिभासिकताया अनिर्वचनीयत्वे च रजतस्येत्यादिना प्राङ्निराकृतत्वादिति भावः । ननु तर्हि प्रतीयमानं रजतं कीदृशमिति चेदसदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवादसदेवेति वदामः। तर्ह्यसता रजतेनेन्द्रियस्य सन्निकर्षायोगात्कथं प्रतीतिरिति चेत्तत्राऽह- अन्यथाख्यातिनये त्विति ।। दोष-वशाच्छुक्तिरेवात्यन्ताऽसद्रजतात्मना प्रतीयत इत्यभिनवान्यथाख्यातिवादिनामस्माकं सिद्धान्त इत्यर्थः । शुक्ति-केति ।। तथा च नासता रजतेन सन्निकर्षोऽङ्गीकृत इति भावः । शुक्तिकैवेति ।। दोषवशादिति शेषः । उपपद्यत इति ।। रजतादिज्ञानस्यैन्द्रियकत्वमिति शेषः । विपक्ष इति ।। प्रत्यक्षसिद्धस्य युक्तिमात्रेण बाधाङ्गीकारे किं बाधकमित्याकाङ्क्षायामित्यर्थः । इत्यादिनेति ।। ‘भूतचतुष्टयस्य पृथिवीत्वादृश्व्ेः पृथिव्या अपि पृथिवीत्वं न स्यात्’ इत्यादिनेत्यर्थः । अनुभवशब्देन  साक्षिणोऽपि  गृहीतत्वात्तदपेक्षयाऽन्यस्य  प्रबलस्यानुभवस्याभावादाह- बाह्यापेक्षयोक्तमिति ।। अनुभवशब्देन बाह्यस्यापि गृहीतत्वात्तदपेक्षयेत्यर्थः । उभयापेक्षया चेत्तर्हि क्वचिद्बलवता साक्षिणा दुर्बलसाक्षिणो बाध इत्युक्तं स्यात् । न च तत्सम्भवति । मोक्षयोग्यानां साक्षिणो याथार्थ्यनियमाङ्गीकार-विरोधादिति भावः । तस्यापीति ।। जीवचैतन्यस्याप्यहमिति साक्षिप्रत्यक्षसिद्धत्वादित्यर्थः । तस्यैव ब्रह्मत्वादिति (श्री.टि.) हृदयम् । नन्वात्मनोऽवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वाङ्गीकारात्कथं तस्य साक्षि-सिद्धत्वमित्यत आह- स्वयंप्रकाश एवाऽत्मेति चेति ।। उत्तत्रेति ।। न च स्वेनापि ज्ञेयमित्यादिना उत्तरत्रेत्यर्थः। आत्मानुभवेति ।। अहमित्यात्मस्वरूपावगाहिसाक्ष्यनुभवेत्यर्थः । वस्तुत्वादिनेत्यादिपदेन ज्ञेयत्वं ग्राह्यम् । शुक्तिरजतादिदृष्टान्तेनेति शेषः । सर्वस्येत्युक्तमिति ।। यद्यात्मव्यतिरिक्तं किञ्चित्सत्यं स्यात्तर्ह्येव व्यभिचारः स्यादिति भावः । एवमनुमानं कुतो न सम्भवतीत्यत आह- शुक्तिरजतादेरिति ।। शुक्तिरजतादौ वस्तुत्व-हेत्वभावेऽप्यादिपदोक्तज्ञेयत्वरूपहेत्वभिप्रायेणेदमिति ज्ञातव्यम् । व्यभिचारेति ।। घटादिप्रपञ्चे भवत्पक्षे व्यभिचारापरिहारादित्यर्थः । आपादनादिति ।। नैवमस्माभिरस्मद्रीत्योच्यते, किन्त्वात्मनोऽन्यस्य सर्वस्य त्वया मिथ्यात्वाङ्गीकारेण त्वन्मते व्यभिचाराभावात् त्वद्रीत्यैव शुक्तिरजतदृष्टान्तेनाऽत्मनोऽपि मिथ्यात्वं स्यादि-त्यापाद्यत इत्यर्थः । शून्यवादी सर्वस्य मिथ्यात्वाङ्गीकारवादी  । एवमनुमानम् आत्मा मिथ्या वस्तुत्वाद्रूप्यवदि-त्यनुमानम् । तथा च सर्वस्य मिथ्यात्वं शून्यवादिना नाङ्गीकृतमिति कथमेवमनुमानं, घटादि प्रपञ्चे व्यभिचारा-परिहारादिति शङ्का तं  प्रति    सम्भवतीत्याशयः    परन्यायेन किञ्चेत्युक्ताभिप्रायद्वये ज्ञापकमाह-अत एवेति ।। आद्याभिप्राये मायिनाऽङ्गीकारादित्यर्थः । द्वितीयाभिप्राये शून्यवादिनाऽङ्गीकारादित्यर्थो द्रष्टव्यः ।

वस्तुत्वाद्यनुमानस्यासिद्ध्यादिदोषानाशङ्क्य निराकरोति- नन्वित्यादिना ।। तद्व्यवहारेति ।। आत्मा वस्त्वित्यादिव्यवहारेत्यर्थः । केचित्तु आदिपदोक्तज्ञेयत्वरूपधर्मानङ्गीकारे आत्मव्यवहार एव न स्यात् । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादिति भाव इत्याहुः । सत्येति ।। पारमार्थिकेत्यर्थः । दृश्यत्वादेरपीति ।। सत्यं प्रत्यक्षदृष्टस्य मिथ्यात्वकल्पनं बाधकप्रमाणाधीनमिति । तथाऽप्युपपद्यते जगतो मिथ्यात्वकल्पनं दृयत्वाद्यनुमानस्य बाधकस्य सत्त्वादित्येवं प्रपञ्चमिथ्यात्वसाधकत्वेन त्वदुपन्यस्तस्यापि दृश्यत्वादेस्त्वन्मते सत्यत्वाभावात्प्रपञ्चे सत्यभूत-दृश्यत्वाभावेनासिद्धिः स्यादित्यर्थः । ननु दृश्यत्वमिथ्यात्वयोर्न सहानवस्थानरूपो विरोधः । कुत इति चेत्तत्राऽह- शुक्तिरजतादाविति ।। तर्हि वस्तुत्वमिथ्यात्वयोरपि शुक्तिरजतादौ सहदर्शनान्न विरुद्धत्वमिति सममेवेत्याह- सममिति ।। ननु वस्तुत्वमिथ्यात्वयोः शुक्तिरजतादौ न सहावस्थानम् । कुत इति चेत्तत्राऽह-वास्तवमिति ।। तथेति ।। वास्तवं शुक्तिरजते नास्तीत्यर्थः । तथा च दृश्यत्वमिथ्यात्वयोरपि शुक्तिरजतादौ सहदर्शनान्न विरोध इत्युक्तमसदिति भावः । यादृशतादृशं कल्पितम् । तत्र शुक्तिरजते । एवञ्च सहदर्शनमेवास्तीति न विरोध इति भावः । तथाभूतं कल्पितम् । अनुमानम् आत्ममिथ्यात्वानुमानम् । सा श्रुतिः विश्वं सत्यमित्यादि-श्रुतिः । अन्या तत्सत्यमित्यादिकाऽऽत्मसत्यत्वश्रुतिः ।

ननु ब्रह्मसत्यत्वावेदकश्रुतीनामुपक्रमादिलिङ्गसचिवत्वात्पारमार्थिकसत्यतापरत्वमिति चेत्तत्राऽह- उपक्रमा-दिलिङ्गानीति ।। ज्ञापयन्ति सन्ति । अन्यपरतां ‘तत्सत्यम्’ इत्यादिश्रुतीनामात्मातिरिक्ते वस्तुनि तात्पर्योपे-तताम् । न तु पारमार्थिकत्वमिति ।। श्रुतिप्रतिपादितात्मसत्यत्वस्य पारमार्थिकत्वं न व्यवस्थापयन्तीत्यर्थः । श्रुतिरपीति ।। आत्ममिथ्यात्वसाधकयुक्त्या तत्सत्यमित्यादिकाऽऽत्मसत्यत्वपरा श्रुतिरपि किं न बाध्यत इत्यर्थः। (श्री.टि.) अपौरुषेयी पुरुषमतिकल्पिता न भवतीत्यर्थः । न तथेति ।। सम्भावितदोषा नेत्यर्थः । न तथेति तुल्यमिति ।। नित्यत्वेन सम्भावितदोषं न भवतीति तुल्यमित्यर्थः । श्रुतेरपौरुषेयत्वेनासम्भावितदोषत्वं परेणोक्त-मङ्गीकृत्य प्रतिबन्द्योत्तरमुक्तम् । वस्तुतस्तु तदेव नास्तीत्याह- अपि चेति ।। कथमिति ।। आविद्यकत्वस्यैव दोषत्वादिति भावः । शङ्कते- मिथ्यात्वमिति ।। आत्मा मिथ्येत्यनुमाने साध्यभूतं मिथ्यात्वमित्यर्थः । मायावादिरीत्येति ।। तेन शुक्तिरजतादेः सदसद्वैलक्षण्यरूपानिर्वचनीयत्वाङ्गीकारादिति भावः । शून्यवादिन इति ।। ‘शून्यवादी यद्येवमनुमानं प्रयुञ्जीत’ इति पूर्वमुक्तत्वादिति भावः । अप्रसिद्धेति ।। तेन सर्वस्याप्यसत्त्वाङ्गी-कारेणानिर्वचनीयस्य वस्तुनस्तन्मतेऽप्रसिद्धत्वादिति भावः । तुल्यत्वादिति ।। तत्रापि मिथ्यात्वमसत्त्वं चेत्, मायिमते दृष्टान्ते साध्यवैकल्यम्, अनिर्वचनीयत्वं चेत् सिद्धान्तिनो मतेऽप्रसिद्धविशेषणत्वमित्यर्थः । सत्यविवे-केति ।। सद्भिन्नत्वरूपं मिथ्यात्वं साध्यत इति न दृश्यत्वानुमाने साध्यवैकल्यादिदोष इत्यर्थः । समानमेत-दिति ।। सद्भिन्नत्वरूपे मिथ्यात्वे साधिते साध्यवैकल्यादिदोषो नास्तीति समानमित्यर्थः । किमुत्तरमिति ।। अप्रसिद्धविशेषणत्वानवकाशादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

प्रतिभासत इति ।। सवितृसुषिरमिति ज्ञानवज्ज्ञानस्वभावत इत्यर्थः । अत्र सर्वत्रेति ।। ‘न च प्रत्यक्षदृष्टस्य’ इति, ‘प्रत्यक्षापटुत्वस्यैव’ इति, ‘प्रत्यक्षस्य हि दूरे’ इति त्रिष्वपि वाक्येष्वित्यर्थः । व्याघातादी-त्यादिपदेन बलवत्पदवैयर्थ्यादिपरिग्रहः । एवमिति ।। पौरुषेयतया सम्भावितदोषस्य तत एव यथार्थत्वायथार्थत्व-विकल्पशङ्काविषयस्यापीति योजना । ज्ञानं मानसमिति ।। अयमाशयः-न ज्ञानस्य स्वरूपेण मिथ्यात्वं तन्मिथ्यात्वभ्रान्तित्वयोः कारणम् । तथा सति वेदान्तजन्यवृत्तिज्ञानस्यापि स्वरूपतो मिथ्यात्वेन तस्यापि मिथ्यात्वभ्रान्तित्वयोः प्रसङ्गात् । किन्तु ‘तद्विषयस्यान्यथात्वमेव भ्रान्तित्वादौ कारणम्’ इति पूर्वग्रन्थानुरोधात् तद्विषयान्यथात्वमेव । ततश्चात्र वाक्ये ज्ञानशब्देन स्वरूपज्ञानस्यैव ग्रहणे तद्रूपविषयान्यथात्वमेव तद्ग्राहकसाक्षिणो भ्रान्तित्वादौ कारणं वक्तव्यं स्यात् । न च तत्सम्भवति । स्वरूपज्ञानस्यानन्यथात्वनियमेन विषयान्यथात्व-रूपकारणाभावेन तद्ग्राहकसाक्षिणि भ्रान्तित्वादिशङ्काया एवाप्रसरेण तन्निरासानुपपत्तिप्रसङ्गात् । अतो न ज्ञानशब्देन स्वरूपज्ञानस्य ग्रहणम् । किन्तु मानसस्यैव । तस्य च मिथ्यात्वशङ्काऽर्हत्वात् तत्प्रयुक्तायास्तद्ग्राहक-साक्षिणि मिथ्यात्वादिशङ्कायाः प्रसरेण तन्निराकरणस्योपपन्नत्वलाभादिति । भावरूपमिति ।। यद्यपि ज्ञाना-भावोऽप्यज्ञानशब्देन ग्रहीतुं शक्यते, तथाऽपि सुखाद्यभावपरतयाऽवश्यं व्याख्येयेनाऽदिशब्देनैव सुखाभावस्येव ज्ञानाभावस्यापि ग्रहणं स्वरसम् । न तु भावसङ्ग्राहकज्ञानसमभिव्याहृताज्ञानशब्देनेति भावेनेदं व्याख्यानमिति द्रष्टव्यम् । बन्धसत्यत्वेनान्यसिद्धिवर्णनस्य प्रकृतेऽसङ्गतिमाशङ्क्य परिहरति- प्रसङ्गेनेति ।। साक्ष्यनुभवस्य बाह्यप्रत्यक्षस्य च याथार्थ्यस्य प्रकृतत्वादत इत्यस्य तदुभयपरामर्शकत्वभ्रान्तिं निवारयति- साक्ष्यनुभवस्य (पां.टि.) यथार्थत्वनियमादित्यर्थ इति ।। अत एवाऽह- ज्ञानाज्ञानादिरूपसंसारस्येति ।। यद्यप्यात्मीय-पुत्रपौत्रादेरपि संसारशब्दार्थत्वं सम्भवति । तथाऽपि ‘अनिवृत्त्यङ्गीकारान्न मोक्षः स्यात्’ इत्युत्तरग्रन्थानुसारादेवं व्याख्यानम् । पुत्राद्यनुवर्त्यत्वस्य मुक्त्यभावोपपादकत्वाभावादिति ध्येयम् । बाह्यापेक्षयोक्तमिति ।। अनुभवपदेन बाह्यस्यापि गृहीतत्वात्तदपेक्षयेत्यर्थः । उभयापेक्षया चेत्क्वचिद्बलवता साक्षिणा दुर्बलसाक्षिणो बाध इत्युक्तं स्यात् । न च तत्सम्भवति । साक्षिणो याथार्थ्यनियमाङ्गीकारविरोधादिति भावः । नन्वात्मनोऽवेद्यत्वे सत्य-परोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वाङ्गीकारात्कथञ्च साक्षिसिद्धत्वमित्यत आह- स्वयं प्रकाश एव आत्मे-तीति ।। उत्तरत्रेति ।। ‘न च स्वेनापि ज्ञेयत्वं तैरुच्यते’ इत्यादिनेति शेषः । शुक्तिरजतादेरिति ।। यद्यपि शुक्तिरजतादेरवस्तुत्वेन साधनाभावान्न दृष्टान्तत्वं सम्भवति । तथाऽपि वस्तुत्वादिनेत्यनेनातद्गुणसंविज्ञान-बहुव्रीहिणा ज्ञेयत्वपरिग्रहात्तस्य च शुक्तिरजतादौ सत्त्वान्न साधनवैकल्यमित्यभिप्रेत्येदमुक्तमिति द्रष्टव्यम् । अत एवेति ।। तर्कस्य नान्यतररीत्याऽपि व्याप्तिहीनत्वमिति ज्ञापनार्थं ‘शून्यवादिमायावादिभ्यां सर्वमिथ्या-त्वाङ्गीकारात्’ इत्युक्तमित्यर्थः । लोपेति ।। व्यवहारस्य तन्मूलकत्वेनासति तस्मिंस्तदसम्भवादिति भावः । दृश्यत्वादेरिति  ।।  प्रपञ्चमिथ्यात्वसाधकत्वेन त्वदुपन्यस्तदृश्यत्वजडत्वपरिच्छिन्नत्वादेरित्यर्थः  । सत्य-त्वेति ।। तेषां सत्यत्वे तत्र दृश्यत्वादिवृत्तौ तत्रैवानैकान्त्यस्य, अवृत्तौ चाज्ञानासिद्ध्यादेः प्रसङ्गादिति भावः । सममिति ।। यद्यपि शुक्तिरजतादौ न वस्तुत्वम् । तथाऽप्यतद्गुणसंविज्ञानबहुव्रीहिणा पूर्वोक्तज्ञेयत्वहेत्वभिप्रायेणेदं समत्वकथनमिति द्रष्टव्यम् । तथाभूतमिति ।। यादृशतादृशमित्यर्थः । तत्सत्यमिति ।। ब्रह्मसत्त्वावेदिका श्रुतिरपि व्यावहारिकपरा किन्न स्यादित्यर्थः । ननु ‘तत्सत्यम्’ इति ब्रह्मसत्यत्वाऽवेदकश्रुतीनामुपक्रमादि-तात्पर्यलिङ्गैस्तत्पारमार्थिकत्वसाधकत्वसिद्धेर्न व्यावहारिकसत्यत्वपरत्वमित्याशङ्क्याऽह- उपक्रमादीति ।। न त्विति ।। आत्मसत्यत्वस्य पारमार्थिकत्वं व्यवस्थापयतीत्यर्थः । अन्यथा कुरूपां शूरञ्चोद्दिश्य शतकृत्वः प्रयुक्तस्याहो दर्शनीयेति शूर इति च वाक्यस्य तत्पारमार्थिकत्वसाधकत्वप्रसङ्गादिति भावः ।

लघुप्रभा

(व्या.टि.)

एतन्न्यायसाम्यं शङ्कते-नन्वेवमेवेति ।। निश्चाययिष्यत अवधारयत इत्यर्थः । प्रतिभासत इति ।। ज्ञानप्रतिभासतः ज्ञानानुभवादित्यर्थः । निश्चितत्वमिति ।। अपटुत्वस्येति शेषः । प्रत्यक्षपदेनापरोक्षज्ञान-स्वीकारात्तदनुरोधेन व्याचष्टे- अयथार्थत्वमिति ।। व्याघातादीति ।। आदिपदेनापसिद्धान्तः । विशेषतश्चेति मूलोक्तकैमुत्यहेतुं विवृण्वन्नाशयं प्रकाशयति- एवमित्यादिना ।। यथार्थत्वायथार्थत्वे विकल्पौ विरुद्धकोटी यस्याः सा शङ्का तथोक्ता । भावद्वन्द्वलाभायाऽह- भावरूपमिति ।। आत्मशब्दो धर्मिपर इत्याह- ईश्वरादि-त्यादिना ।। इच्छादीनामित्यादिपदेन द्वेषादिपरिग्रहः । न दृष्टमितीति ।। अर्थव्यभिचारव्यवच्छेदेनेत्यर्थः । दूषणभूषणत्वशङ्कानिरासाय प्रवृत्तस्य मोक्षाभावप्रसञ्जने कः प्रसङ्ग इत्यतः प्रसङ्ग एव सङ्गतिरित्याह- घटादे-रित्यादिना ।। अत इत्येतच्छब्दपरामृष्टं दर्शयति- साक्ष्यनुभवस्येति ।। ज्ञानाज्ञानादिरूपतयेति ।। द्वन्द्वस्य बन्धकत्वादित्यर्थः । भावसाधनाङ्गीकारपदार्थस्य कर्त्रपेक्षत्वात्तमाह- मायावादिनेति ।। प्रसञ्जनफलमाह- (व्या.टि.) ततश्चेति ।। साक्षिबोध्यं न बाध्यत इति व्याप्तेर्भङ्गं गिरति- नन्विति ।। ऐन्द्रियकत्वादिति ।। इन्द्रियजन्मत्वादित्यर्थः । प्राग्वहतीये ठकि रूपम्१ । अन्वयव्यतिरेकयोरन्यथासिद्धिं शङ्कते- अधिष्ठानेति ।। अन्यथासिद्धिकल्पिकामनुपपत्तिं कल्पयति- प्रतीति ।। किमियमनुपपत्तिरनिर्वचनीयख्यातिनये अभिनवान्यथा-ख्यातिनये वा । नाऽद्य इत्याह- अनिर्वचनीयख्यातेरिति ।। द्वितीये त्वाह- अन्यथाख्यातीति ।। उपपद्यत इति ।। सन्निकर्ष इति शेषः । तथा चानुपपत्त्यभावाज्ज्ञानस्यैन्द्रियकत्वं सिद्धमित्यर्थः । ‘प्रत्यक्षसिद्धस्य युक्तिमात्रेण बाधे भूतचतुष्टयस्य’ इत्यतिप्रसङ्गस्योक्तत्वात्पुनरुक्तिरित्यत आह-घटादेरित्यानिना ।। अभीष्टत्वादिति ।। ततश्चोक्तस्येष्टाऽपादनत्वेन तर्काभासत्वात्पुनरुक्तिर्युक्तेति भावः । बाह्यापेक्षयेति ।। साक्षितो बलवतोऽन्यस्या-भावादिति भावः । आपादनसम्भवायाऽपादकं दर्शयति- तस्यापीति ।। उत्तरत्रेति ।। ‘न च स्वेन विज्ञेयत्वं तैरुच्यते’ इति ग्रन्थ इत्यर्थः । शेष इति ।। वाक्यशेष इत्यर्थः । दृष्टान्तमात्रस्यासाधकत्वात्तदुक्त्यभिसंहितहेतु-माह- वस्तुत्वादिनेति ।। इतिकरणस्य पूर्वेणान्वयं दर्शयति- इति युक्तिश्चेति ।।

वादिनो व्याप्त्यभावेनानुमानासम्भवमाशङ्कते- नन्विति ।। शुक्तिरजतादेरिति ।। रजतत्वादिना प्रतीत-शुक्त्यादेरित्यर्थः । मिथ्यात्वं च रजतत्वाकारेण बोध्यम् । आरोपितरजतग्रहणे तु वास्तववस्तुत्वासम्भवेऽपि वक्ष्यमाणयादृशतादृशवस्तुत्वस्य वा ज्ञेयत्वरूपवस्तुत्वस्य वा वस्तुत्वादिनेत्यतद्गुणसंविज्ञानबहुव्रीहिणोक्तस्य ज्ञेयत्वस्य वा तत्र सत्त्वान्न साधनवैकल्यमित्यवधेयम् । आपादनादिति ।। तन्मते व्यभिचाराभावात्तस्यानुमानं युक्तमिति भावः । रीत्यन्तरेण साधनमपि साधयति- किञ्चेति ।। परन्यायेनेति वाद्यन्तररीतेरिति चोपष्टम्भके-नोपष्टम्भयति- अत एवेति ।। आत्ममिथ्यात्वानुमानं निरसितुमसिद्धिमाशङ्कते- नन्विति ।। तदिति ।। आत्मनो वस्तुत्वव्यवहार इत्यर्थः । प्रतिबन्दी गृह्णाति- तर्हीति ।। व्याघातमाशङ्कते- वस्तु चेति ।। समोऽयं दोषस्तवा-पीत्याह- दृश्यञ्चेति ।। नेतीति ।। व्याघात इति शेषः । सममिति ।। वस्तुत्वमिथ्यात्वयोरपि तत्र सहदर्शनमि-त्यर्थः । तथेति ।। वास्तवं नास्तीत्यर्थः । यादृशतादृशमिति ।। व्यावहारिकमित्यर्थः । तत्र शुक्तिरजतादौ । तथाभूतमिति ।। दृश्यत्वसदृशमित्यर्थः । अनुमानमिति ।। आत्ममिथ्यात्वानुमानमित्यर्थः । श्रुतिः विश्वं सत्यमित्यादिका । अन्याऽपीति ।। तत्सत्यमित्यादिकेत्यर्थः । आत्ममिथ्यात्व उपक्रमादितात्पर्यलिङ्गविरोध-माशङ्क्याऽन्यथासिद्धिमाह- उपक्रमादीति ।। ज्ञापयन्तीति शत्रन्तम् । किञ्चेति ।। अन्यद्वेत्यर्थः । श्रुतिः आत्मसत्यत्वपरा । वैषम्यमाशङ्कते- युक्तिरिति ।। दुस्तरां प्रतिबन्दितरङ्गिणी बध्नाति- तर्हीति ।। अविद्यामूलेति हेतुगर्भम् । कथम् आक्षेपे । आत्ममिथ्यात्वानुमाने साध्यं विकल्प्य दूषयति- असत्त्वञ्चेदिति ।। दृष्टान्तस्य शुक्तिरजतादेरित्यर्थः । शून्यवादिन इति ।। तस्यासत्त्ववादित्वादित्यर्थः । अदोष इति ।। उभयदोषाभाव इत्यर्थः । केनचिदिति ।। वैतण्डिकेनेत्यर्थः । किमुत्तरमिति ।। तस्यानिर्वचनीयप्रसिद्ध्या साध्यवैकल्याप्रसिद्ध-विशेषणत्वयोरभावान्निरुत्तरमात्ममिथ्यात्वसाधनमित्यर्थः ।