प्रत्यक्षादेरागमस्य..
उपजीव्यतया प्रबलेन प्रत्यक्षेण विरोधादभेदाऽगमाप्रामाण्यसमर्थनम्
मूलम्
- प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम् । विषया-भावे स्वस्यैवाप्रामाण्यप्राप्तेः । तेनैव ह्यनुमानादिनाऽऽगमस्य विषयः सिद्ध्यति तत्पक्षेऽपि । अनुमानेन ह्यनुवादित्वपक्ष ईश्वरो बोद्धव्यः, प्रत्यक्षेण चाऽगमः । अतस्तयोर्विरोधे प्रामाण्यं न स्यात् । अनुमानसिद्धेश्वराच्च भेदोऽनुभवत एव सिद्धो जीवस्य ; असर्वकर्तृत्वेनानुभवात् ।
तत्त्वमञ्जरी
तर्हि प्राबल्यादभेदागमस्यापि प्रामाण्यं स्थितमित्यत आह- प्रत्यक्षादेरिति ।। येन यस्य विषयः स्वरूपं वाऽवगम्यते तत् तस्योपजीव्यम् । तद्विरोधाद् विषयाभावे स्वस्यैव उपजीवक-स्याप्रामाण्यप्राप्तेः । सामान्यत उक्तमर्थं विशिनश्व् ि- तेनैव हीति ।। अभेदादेः कस्यचिद् धर्मस्य ज्ञानं धर्मिज्ञानानन्तरीयकम् । तस्मात् किञ्चिद् धर्मिग्राहकप्रमाणमेष्टव्यम् । तत्र जीवेश्वरयोर्धर्मिणोस्तु ग्राहकौ प्रत्यक्षागमाविति प्राप्तम् । ते तु वेदं भेदेनैव धर्मिणं ग्राहयन्तमनुवादीत्यनादृत्यानुमानेन बोद्धव्यो धर्मीत्यभ्युपगच्छन्ति । एवं चेत् विषयद्वारेणाभेदागमस्यानुमानमुपजीव्यं स्यात् । श्रोत्रप्रत्यक्षेण चाऽगमस्वरूपं बोद्धव्यम् । तस्मात् तदपि स्वरूपद्वारेणोपजीव्यमभेदागमस्य । इतश्चाभेदागमः उपजीव्यप्रमाणविरुद्ध इत्याह- अनुमानेति ।। साक्षिज्ञानापरपर्यायोऽनुभवो हि जीवस्वरूप उपजीव्यप्रमाणम् ।
टीका
एवं भेदवाक्यैस्तेषामनुवादकत्वसिद्धये परेणाङ्गीकृताभ्यां भेदप्रतिपादकाभ्यां प्रत्यक्षानु-मानाभ्यां वा प्रतिरुद्धत्वान्नाभेदवाक्यानां प्रामाण्यमित्युक्तम् । इदानी न केवलं समबलप्रमाण-प्रतिरुद्धत्वादप्रामाण्यं किन्तु प्रबलप्रमाणबाधितत्वाच्चेति वक्तुं सामान्यन्यायं तावद् व्युत्पादयति- प्रत्यक्षादेरिति ।। यद्यपि प्रत्यक्षानुमानाभ्यामागमस्य प्राबल्यमित्युत्सर्गः, तथापि यत्र प्रत्यक्षा-नुमानयोरागमं प्रत्युपजीव्यत्वं तत्र तयोरेव ततो बलवत्त्वम् । तत एव तद्विरोधे तस्य न प्रामाण्यमिति तावदङ्गीकार्यम् । कुत इति चेत्, उच्यते । उपजीव्योपजीवकयोर्हि विरोधे न तावदुभयं प्रमाणं वस्तुनो द्वैरूप्यापातात् । नाप्युभयमप्रमाणं वस्तुनो निःस्वभावत्वापत्तेः । ततोऽन्यतरस्यैवा-प्रामाण्येऽवश्यमङ्गीकार्ये, न तावदुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यमङ्गीकर्तुमुचितम् । कुत इत्यत आह- विषयेति ।। येन हि यस्य विषयः सिद्ध्यति तत्तस्योपजीव्यम् । यथा पर्वतग्राहकं धूमानुमानस्य । तथाचोपजीवकविरोधेनोपजीव्यस्याप्रामाण्ये सत्युपजीवकस्य विषयो न सिद्ध्येत् । विषयाभावे स्वोदयाभावेनाबोधकत्वलक्षणमप्रामाण्यं प्राप्नोति । यत्स्वयं नोदेतुमलं नापि बोधयितुं कथं तदुपजीव्यमप्रमाणीकुर्यात् । अतः परिशेषादनपेक्षतया प्रबलस्योपजीव्यस्य विरोधेन सापेक्षतया दुर्बलमुपजीवकमेवाप्रमाणं भवतीति सिद्ध्यति । यद्यपि येन यस्योत्थानं भवति तत्तस्योपजीव्यं न धर्मिग्राहकमात्रम्, तथाऽपि प्रकृतापेक्षयैतदुक्तमिति मन्तव्यम् ।
अस्त्वेवमुपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यं प्रकृते तु किमायातमित्यत आह- तेनैव हीति ।। भेदवाक्यानामनुवादकत्वसिद्ध्यर्थं परोपन्यस्तेनैव । अनेन नास्माभिर्बलादिदमुच्यते किन्तु परेणापीदमङ्गीकृतमिति सूचयति । न केवलं भेदागमस्य किन्तु तत्पक्षेऽप्यागमस्य भेदागम-वदभेदागमस्यापीति यावत् । जीवं विषयीकृत्य तस्येश्वरेणाभेदो वा बोधनीयः ‘तत्त्वमसि’ इति । ईश्वरं विषयीकृत्य वा तस्य जीवाभेदः ‘क्षेत्रज्ञं चापि मां विद्धि’ इति । उभावपि विषयीकृत्याभेदमात्रं वा ‘नेह नानाऽस्ति’ इति । सर्वथा जीवेश्वरसिद्ध्या भवितव्यम् । तत्रेश्वरः कार्यत्वाद्यनुमानसिद्धो जीवश्च प्रत्यक्षसिद्ध इति प्रत्यक्षानुमाने तत्त्वमस्याद्यागमस्योपजीव्ये । एतदेव विवृणोति- अनुमानेन हीति ।। कुत इत्यत उक्तम्- अनुवादित्वपक्ष इति ।। भेदवाक्यानामनुवादित्वसिद्ध्यर्थं परेणानुमानस्येश्वरसाधनायोपन्यस्तत्वात् । आगच्छत्यवगच्छतीत्यागमो जीवः । यद्वा जीवस्य प्रत्यक्षसिद्धत्वं प्रसिद्धमिति तदनुक्त्वा स्वरूपग्राहकस्याप्युपजीव्यत्वं भवतीति ज्ञापयितुं ‘प्रत्यक्षेण चाऽगमः’ इत्युक्तम् । अथवा चशब्देन जीवं समुच्चिनोति । ततोऽपि किं प्रकृत इत्यत आह- अत इति ।। यत उपजीव्यमुपजीवकात्प्रबलम्, उपजीव्ये चाभेदागमस्य प्रत्यक्षानुमाने, अतः तयोः प्रत्यक्षानुमानयोर्विरोधे सत्यभेदागमस्य प्रामाण्यं न स्यात् । भवतु प्रत्यक्षादिकमभेदागमस्योपजीव्यं किन्तु तद्विरोधस्तु नास्ति । नहि प्रत्यक्षं जीवमीश्वराद्भिन्नत्वेन गृह्णाति, नाप्यनुमानमीश्वरं जीवात् । येन तद्विरोधः स्यात् । किं नाम तत्स्वरूपमात्रम् । तथाभूते एवात्रोपजीव्ये । तत्कथमभेदा-गमस्य प्रामाण्यं न स्यादित्यत आह- अनुमानेति ।। तत्कथमित्यत आह- असर्वेति ।। यद्यप्य-न्योन्यानपेक्षे प्रत्यक्षानुमाने न जीवेश्वरभेदं गोचरयतः तथापि कार्यत्वाद्यनुमानेन सर्वकर्तृत्वादि-लक्षणमीश्वरं ज्ञातवतः साक्षिणा च तद्विरुद्धस्वभावमात्मानमनुभवतः ततो भेदज्ञानमवर्जनीय-मेवेति । आगम एवेश्वरं गृह्णन्नुपजीव्यो नानुमानमिति चेन्न । तस्यापि ‘यः सर्वज्ञः’ इत्यादेरनुमान-तुल्यत्वात् ।
आगमग्राहकप्रत्यक्षस्योपजीव्यत्वोक्तेरयमुपयोगः । ‘नेह नानाऽस्ति’ इत्यैक्यागमेन हि स्वप्रभृतेर्भेदप्रपञ्चस्य मिथ्यात्वमुच्यते । तत्र चाऽगमादिग्राहकं प्रत्यक्षादिकमुपजीव्यमिति तद्विरोधेन तस्याप्रामाण्यमिति ।
भावबोधः
ननु प्रत्यक्षादेरागमस्य प्राबल्यमित्युत्सर्गस्य उपजीव्यतद्विरोधे नागमस्य प्राबल्यमिति, तयोरेव प्राबल्य-मिति वा अपवादो वक्तव्यः । ‘नोपजीव्यप्रमाणविरोधे प्रामाण्यम्’ इति कथमुक्तमित्यतोऽपवादवाक्यप्रदर्शन-पूर्वकं यदर्थमुत्सर्गापवादन्याय उक्तस्तत्प्रतिपादकं तदित्यभिप्रेत्य वाक्यं योजयति- यद्यपीत्यादिना ।। स्वोदया-भावेनेति ।। स्वस्य लिङ्गपरामर्शादेरुत्पत्त्यभावेनेत्यर्थः । अबोधकत्वलक्षणेति ।। अनुत्पन्नस्य विपरीतबोधकत्व-लक्षणाप्रामाण्यासम्भवेऽपि बोधकत्वाभावरूपाबोधकत्वं सम्भवत्येवेति भावः । स्वस्यैवेत्येवकाराभिप्रायमाह- यत्स्वयमिति ।। नन्वेवमुपजीव्याप्रामाण्यस्यानङ्गीकार्यत्वेऽपि ‘नोपजीव्यप्रमाणविरोधे प्रामाण्यम्’ इत्युक्तोप-जीवकाप्रामाण्याङ्गीकारे किमायातमित्यत आह- अतः परिशेषादिति ।। विरुद्धयोरेकाङ्गीकारबाधकस्यैवे-तराङ्गीकारसाधकत्वादिति भावः । न धर्मिग्राहकमात्रमिति ।। विषयाभाव इत्यनेन धर्मिग्राहकत्वेन यद्यस्योप-जीव्यं तत्रैव विरो(धे)ध उपजीवकाप्रामाण्याङ्गीकारसाधकत्वेनोक्त एवोपजीव्याप्रामाण्यानङ्गीकारे बाधकत्वे-नोक्तः न सर्वत्रोपजीव्योपजीवकविरोधे । तथा च व्याप्ति(वाक्या)शक्त्यादिमात्रग्राहकत्वेन यद्यस्योपजीव्यं तयोर्विरोधे नियमनं न सिध्येदिति भावः । प्रकृतापेक्षयैवेति ।। जीवेश्वरग्राहकत्वेनोपजीव्यभूतप्रत्यक्षानुमान-विरोधेनैवाऽगमस्याप्रामाण्यमङ्गीकार्यमिति यत्प्रकृतं तदपेक्षयैव विषयाभाव इत्यनेन नियामकमुक्तम् । न सर्वत्रोपजीव्योपजीवकयोर्विरोधे । प्रकृतप्रत्यक्षानुमानयोस्तु पक्षभेदेनाभेदबोधकतत्त्वमसीत्याद्यागमविषय-ग्राहकत्वमप्यस्त्येवेति भावः । इति सूचयतीति ।। तथा चोपजीव्यप्रत्यक्षादिविरोधस्य नाऽपाद्यदूषणत्वमिति भावः । न केवलमस्मत्पक्ष इत्यन्यथाप्रतीतिनिरासायापिशब्दाभिप्रायमाह- न केवलमिति ।। उभावपीति ।। ‘नेह नाना’ इत्यत्र इहेत्यस्य जीवब्रह्मानुस्यूतचैतन्यमात्रपरत्वादिति भावः । चशब्देनेति ।। तथाचाऽगमश्चेति चशब्दान्वय इति भावः । ‘अनुमानसिद्ध’ इत्यनेनोक्तमर्थमाह- यद्यप्यन्योन्यानपेक्ष इति ।। प्रतियोगि-ज्ञानाभावादिति भावः । अनुमानतुल्यत्वादिति ।। स(कर्तृकत्व)र्वकर्तृत्वादिवैशिष्ट्यविषयकानुमिति-जनकत्ववत् सार्वज्ञादिवैशिष्ट्यविषयकज्ञानजनकत्वादिति भावः ।
भावदीपः
भेदवाक्यैरिति ।। अग्रेतनवाशब्दोऽत्रापि योज्यः । उत्सर्ग इति ।। अपवादभिन्नस्थल इत्यर्थः । पर्वतग्राहकमिति ।। विशेष्यतया पर्वतस्याप्यनुमानविषयत्वादिति भावः । न धर्मिग्राहकमात्रमिति ।। एतेन विषयशब्दो धर्मिपर इत्युक्तं भवति । प्रकृते प्रत्यक्षादिग्राह्ययोर्जीवेशयोर्भेदधर्मित्वादिति भावः । तत्पक्षेऽपी-त्यत्राऽगमपदमनुवृत्त्याऽर्थमाह- तत्पक्षेऽप्यागमस्येति ।। जीवाभेद इति ।। बोधनीय इत्यनुषङ्गः । क्षेत्रज्ञं जीवं मामिति कृष्णवाक्यम् । पररीत्यैतदुक्तिः । नेह नानेति ।। इह जीवेश्वररूपचेतने नाना भेद इत्यर्थः । आगमग्राहकेति ।। ‘प्रत्यक्षेण चाऽगमः’ इत्यनेनेति योज्यम् । ‘अयमुपयोगः’ इत्युक्तमाह- नेह नानाऽस्तीति ।।
वाक्यार्थदीपिका
(श्री.टि.)
किन्तु प्रबलप्रमाणबाधितत्वाच्चेति वक्तुमिति ।। ‘अतस्तयोर्विरोधे प्रामाण्यं न स्यात्’ इत्यत्रे-त्यर्थः । यद्यपीति ।। तथा च न प्रत्यक्षानुमानविरोधेनाभेदागमस्याप्रामाण्यं वक्तुमुचितमिति भावः । तत एव बलवत्त्वादेव । द्वैरूप्यापातादिति ।। विरुद्धधर्मद्वयालिङ्गितत्वापातादित्यर्थः । विषयो धर्मी । पर्वतग्राहकं प्रत्यक्षम् । स्वोदयाभावेनेति ।। स्वस्योपजीवकस्योदयाभावेनेत्यर्थः । अबोधकत्वलक्षणमप्रामाण्यमिति ।। अनुत्पन्नस्य विपरीतबोधकत्वलक्षणाप्रामाण्यासम्भवेऽपि बोधकत्वाभावरूपाबोधकत्वरूपाप्रामाण्यं सम्भव-त्येव । धर्म्यभावे तत्र धर्मसंसर्गोऽनुमानेन वाऽगमेन वा बोधयितुं न शक्यते । ‘सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयते’ इति वचनात् । अतो बोधकत्वाभावरूपाप्रामाण्यं प्राप्नोतीत्यर्थः । स्वस्यैवेत्येवकाराभिप्रायमाह- यत्स्वयमिति ।। येन यस्येति ।। तथा च लिङ्गादिग्राहकस्याप्युपजीव्यत्वेन येन यस्य विषयो धर्मी सिद्ध्यति । तत्तस्योपजीव्यमित्युपजीव्यलक्षणमयुक्तमिति भावः । प्रकृतापेक्षयेति ।। जीवेश्वररूपधर्मिग्राहकतयैव प्रत्यक्षादेरुपजीव्यत्वस्य प्रकृतत्वादित्यर्थः । एतदुक्तमिति ।। विषयाभाव इत्यनेन धर्मिग्राहकस्यैवोप-जीव्यत्वमुक्तमित्यर्थः । वस्तुतस्तु येन विना यस्योत्थानं न भवति तत्तस्योपजीव्यमित्येतदेवोपजीव्यलक्षणमिति भावः । तेनैवेति वचनेन सूचितमर्थमाह- अनेनेति ।। इदमिति ।। भेदग्राहकयोः प्रत्यक्षानुमानयोरभेदागमं प्रत्युपजीव्यत्वमस्माभिर्बलात्कारेण नोच्यत इत्यर्थः । न केवलमस्मत्पक्षे किन्तु तत्पक्षेऽपीत्यन्यथाप्रतीति-निरासायापिशब्दाभिप्रायमाह- न केवलमिति ।। तत्पक्षेऽप्यागमस्येति पदद्वयमनूद्य तदभिप्रायमाह (न केवलमित्यादेरभिप्रायमाह)- भेदागमवदित्यादिना ।। भेदग्राहकयोः प्रत्यक्षानुमानयोरभेदागमं प्रति कथं धर्मिग्राहकत्वेनोपजीव्यत्वमित्यतस्तदुपपादयति- जीवं विषयीकृत्येत्यादिना ।। विषयीकृत्य धर्मीकृत्य । तत्त्वमसीति ।। त्वं तदसीति तदर्थः । क्षेत्रज्ञं चापीति ।। मां क्षेत्रज्ञं जीवं विद्धीत्यर्थः । नेह नानेति ।। इह जीवब्रह्मणोः, तदुभयानुस्यूतचिन्मात्रस्येति यावत्, नाना भेदो नास्तीत्यर्थः । एतदेवेति ।। प्रत्यक्षानुमान-योरभेदागमं प्रति धर्मिग्राहकतयोपजीव्यत्वमेव विवृणोतीत्यर्थः । स्वरूपग्राहकस्यापीति ।। नेह नानाऽस्ती-त्याद्यभेदागमस्वरूपग्राहकश्रोत्रप्रत्यक्षस्यापीत्यर्थः । चशब्देनेति ।। तथा च नात्र जीवस्य प्रत्यक्षसिद्धत्वानुक्ति-रिति भावः । प्रत्यक्षानुमानयोर्विरोध इति ।। प्रत्यक्षानुमानयोस्सकाशाद्विरोधे सतीत्यर्थः । भवत्वित्यादि ।। यद्यप्यनुवादित्वपक्ष इत्यनेन भेदागमानामनुवादकत्वसिद्ध्यर्थं प्रत्यक्षादेर्भेदग्राहकत्वं वाच्यमेव । अन्यथा भेदागमानामनुवादकत्वमेव न स्यादिति प्रतिपादितत्वेन शङ्कैवैषा नोपपन्ना । तथाऽप्यनुवादित्वपक्ष इत्यस्याभि-प्रायमजानतः शङ्केयमिति ज्ञातव्यमित्याहुः । तथाभूते एवेति ।। स्वरूपमात्रग्राहके एव प्रत्यक्षानुमाने अभेदागमं प्रत्युपजीव्ये इत्यर्थः । अनुमानसिद्धेत्यनेनाभिप्रेतमर्थमाह- यद्यपीत्यादिना ।। अन्योन्यानपेक्षे इति ।। प्रतियोगिज्ञानाभावादित्याशयः । प्रत्यक्षानुमाने जीवेश्वरस्वरूपमात्रग्राहके । तद्विरुद्धस्वभावम् असार्वज्ञादि-(श्री.टि.) विशिष्टम् । ततः ईश्वरात् । प्रतियोगिभूतेश्वरस्य ज्ञातत्वादिति भावः । अवर्जनीयमेवेति ।। प्रत्यक्षे धर्मिणि भेदकधर्मसाक्षात्कारस्य भेदसाक्षात्कारव्याप्तत्वादिति भावः । शङ्कते- नानुमानमिति ।। येन सर्वकर्तृ-त्वादिविशिष्टतयेश्वरज्ञानापत्तिरिति भावः । तस्यापि आगमस्यापि । अनुमानतुल्यत्वादिति ।। यथाऽनुमानस्य सर्वकर्तृत्वादिवैशिष्ट्यविषयकानुमितिजनकत्वम् एवं ‘यस्सर्वज्ञः’ इत्यादेरागमस्यापि सार्वज्ञादिवैशिष्ट्य-विषयकज्ञानजनकत्वादिति भावः । ‘प्रत्यक्षेण चाऽगमः’ इति प्रत्यक्षस्याऽगमस्वरूपग्राहकत्वमुक्तम् । तदनुपयुक्तं कस्मादुक्तमित्यत आह- आगमग्राहकेति ।। स्वप्रभृतेरिति ।। अन्यथा स्वस्मिन्नेव प्रामाण्यं प्रतिहतमिति कथमन्यस्यापि मिथ्यात्वं प्रतिपादयेदिति भावः । तत्रेति ।। ‘नेह नाना’ इत्यत्रेत्यर्थः । तद्विरोधेनेति ।। आगमस्वरूपसत्ताग्राहिश्रोत्रप्रत्यक्षविरोधेन स्वस्य मिथ्यात्वबोधनायोगेन स्वस्मिन् प्रामाण्यं प्रतिहतमिति कथं स्वव्यतिरिक्तस्य भेदप्रपञ्चस्य मिथ्यात्वं बोधयेदित्यर्थः । तथा च स्वप्रभृतेरित्याद्युक्तमयुक्तमिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भेदागमविरोधादभेदागमस्याप्रामाण्यव्युत्पादनावसरे ‘प्रत्यक्षादेरागमस्य’ इत्यागमप्राबल्यस्यौत्सर्गि-कत्ववर्णनमसङ्गतमित्याशङ्क्य वृत्तानुवादपूर्वकं तत्सङ्गमयति- एवमिति ।। द्वयोरपि प्रामाण्यस्यैव वा अप्रामाण्यस्यैव वोपजीवकविरोधेनोपजीव्यस्याप्रामाण्यस्यैव वा सम्भवादुपजीव्यविरोधेनोपजीवकाप्रामाण्य-मित्येतत्कुत इत्याशङ्कते- कुत एतदिति चेदिति ।। द्वैरूप्येति ।। विषयाबाधघटितत्वात्प्रामाण्यस्य वस्तुनो द्वैरूप्यं विना द्वयोः प्रामाण्यानुपपत्तेरिति भावः । निःस्वभावत्वापत्तेरिति ।। तेन विना द्वयोरप्रामाण्यायोगादिति भावः । येन हि यस्य विषय इति ।। न चैवम् ‘यथा पर्वतग्राहकमनुमानस्य’ इत्युत्तरवाक्यविरोधः, वह्नेरेव धूमानुमानविषयत्वेन पर्वतस्य धूमानुमानाविषयत्वादिति वाच्यम् । विषयशब्दस्य धर्मिपरत्वेन तदुपपत्तेः । तत्परत्वं च सामान्यशब्दस्य विशेषलक्षणयेत्येके । धर्मिपर्याय एव विषयशब्द इत्यप्याहुः । न धर्मिग्राहकमात्र-मिति ।। उक्तनियमे धर्मिग्राहकस्यैवोपजीव्यत्वापत्त्या साध्यहेतुव्याप्त्यादिग्राहकस्यानुपजीव्यत्वप्रसङ्गेन बहुविप्लवापातादिति भावः । ननु ‘प्रत्यक्षेण च जीवः’ इति वक्तव्यं, तत्कथम् ‘प्रत्यक्षेण चाऽगमः’ इत्युक्ति-रित्यतोऽत्राऽगमशब्दस्य योगेन जीवपरतया न वक्तव्यानुक्तिरित्याशयेन योगेन जीवपरतामाह- आगच्छ-तीति ।। ‘ग्रहवृदृनिश्चिगमश्च’ इत्याङ्पूर्वाद्गमेरकर्तरि कारके, भावे च अपो विधानात्तदन्तागमशब्दस्य कर्तृभूतजीवपरत्वं क्लिष्टमित्यरुच्या तस्य जीवपरत्वं परित्यज्य प्रसिद्धागमपरतामेवाऽश्रित्य तदुक्तेः प्रयोजनमाह- यद्वेति ।। अत्र पक्षे जीवस्य प्रत्यक्षसिद्धत्वस्य प्रसिद्धतयाऽनुक्तिराश्रयणीया भवतीत्यपरितोषात्पक्षान्तरमाह- अथ वेति ।। अनेन प्रत्यक्षेणाऽगमः, चशब्दाज्जीवश्चेति मूलयोजना सूचिता भवति । तथाभूते एवेति ।। जीवेश्वरस्वरूपमात्रग्राहकप्रत्यक्षानुमाने एवेत्यर्थः ।
लघुप्रभा
(व्या.टि.)
अत्र प्रकरणशुद्ध्यै उक्तवक्ष्यमाणार्थभेदं दर्शयति- एवमित्यादिना ।। भेदवाक्यैरिति ।। प्रतिरुद्ध-त्वादिति वक्ष्यमाणेनान्वयः । प्रत्यक्षानुमानाभ्यामव्यवस्थितविकल्पार्थो वाशब्दः । सामान्यन्यायमिति ।। उपजीव्यविरोधेनोपजीवकस्याप्रामाण्यमिति सामान्यन्यायमित्यर्थः । सामान्यन्याये सिद्धे प्रत्यक्षादेरुपजीव्यत्वं (व्या.टि.) साधयिष्याम इति तावच्छब्दः । अपि इति तथापीति व्याचिख्यासुर्यद्यपितथाप्योर्नित्यसम्बन्धाद् यद्यपीत्याध्याहृत्य व्याचश्व्े- यद्यपीत्यादिना ।। प्रत्यक्षानुमानाभ्यामिति ।। अनेनेति मूले प्रत्यक्षादेरिति पञ्चमी तद्गुणसंविज्ञानबहुव्रीहिर्भाषितपुंस्कत्वात् पुंवद्भावश्चेति सूचयति- उत्सर्ग इति ।। ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इत्युदाहरिष्यमाणत्वाद् ब्रह्मतर्के जात्येत्युक्तेरिति भावः । द्वैरूप्येति ।। विरुद्धोभय-प्रकारेत्यर्थः । निःस्वभावत्वेति ।। विरुद्धोभयान्यतरप्रकाराभावे स्वरूपहान्यापत्तेरित्यर्थः । उपजीव्यलक्षणमाह- येन हीति ।। तदुदाहृत्य दर्शयति- यथेति ।। अनिश्व्ं प्रसञ्जयति- विषय इति ।। तेनापि प्रसञ्जयति- विषया-भावेनेति ।। तत्रेष्टापत्तिमापादकाङ्गीकारव्याघातेन विहन्ति- यत्स्वयमिति ।। कथमित्याक्षेपे । न कथमपी-त्यर्थः । विरोध्यप्रमाणीकरणोपायस्वरूपलाभाद्यभावादिति भावः । व्युत्पादितसामान्यन्यायं सप्रमाणं दर्शयति- अत इति ।। प्रसक्तप्रतिक्षेपादित्यर्थः । अनपेक्षतयेति ।। उपजीव्यप्राबल्ये हेतुः । एवं सापेक्षतयेति दौर्बल्ये लक्षणान्तरमाशङ्कते- यद्यपीति ।। नेति ।। लक्ष्यमात्राव्यापनादिति शेषः । तदङ्गीकरोति- तथाऽपीति ।। प्रकृतेति ।। प्रकृतोपजीव्यप्रकारप्रदर्शनमेतत् न सामान्यलक्षणमिति भावः । व्युत्पादितसामान्यन्यायमत्रापि सञ्चारयितुमुपक्षिपति- अस्त्वेवमिति ।। तत्पदपरामृश्व्ं दर्शयति- भेदवाक्यानामिति ।। अस्य वैयर्थ्यमाशङ्क्य कृत्यमाह- अनेनेति ।। तर्हि तत्पक्षेऽपीति व्यर्थं परसिद्धेस्तेनैवेत्यनेन सिद्धेरित्यतो नेदं सिद्ध्यतिनाऽन्वेति आगमपदेनान्वेष्यतीत्यभिप्रेत्य तदन्वयं दिदर्शयिषुरादावपिपदसमुच्चेयं दर्शयति- न केवलमिति ।। तल्लब्धमाह- अभेदागमस्यापीति ।। नन्वभेदागमविषयाभेदस्यापूर्वतयाऽनुमानादिनाऽसिद्धेरयुक्तेयं प्रतिज्ञेत्यतो धर्मिपरोऽयं विषयशब्द इत्यभिप्रेत्याभेदागमत्रैविध्येन तत्सिद्धिप्रकारं दर्शयति- जीवमित्यादिना ।। विषयीकृत्य उद्दिश्ये-त्यर्थः । तदुदाहरति- तत्त्वमिति ।। ननु ‘यच्छब्दयोगः प्राथम्यं स्यादुद्देश्यस्य लक्षणम्’ इत्युक्त्याऽत्र तच्छब्दस्य प्राथम्याद् ब्रह्मण एवोद्देश्यत्वं युक्तमिति चेन्न । ‘ये यजमानास्ते ऋत्विजः’ इत्यार्त्विज्योद्देशेन याजमान-विद्यानभ्युपगमे तन्नियमाभावात् । द्वितीयमुदाहरति- क्षेत्रज्ञं चापीति ।। मां क्षेत्रज्ञं विद्धि इत्युद्देश्यविधेयभावः पूर्ववत् समाधेयः । तृतीयागममुदाहरति- नेहेति ।। कुत इति हेतुप्रश्नस्य अनुवादित्वपक्षे इति सप्तम्यन्तं नोत्तरं, हेत्वनुपन्यासादित्यतस्तदभिप्रेतं हेतुं दर्शयति- भेदवाक्यानामिति ।।
ननु तेनैव हीति पूर्ववाक्ये प्रत्यक्षादिनाऽभेदागमविषयसिद्धिं प्रतिज्ञाय प्रत्यक्षेणाऽगमसिद्धिर्विधीयते, अतः किं केन सङ्गतमभेदबोधन आगमस्याधर्मित्वात्, इत्यतो नात्र रूढार्थपरिग्रहः किन्तु योगेन जीव इत्याह- आगच्छतीति ।। अवगच्छतीति ।। गत्यर्थानां ज्ञानार्थत्वादिति भावः । तर्हि स्वायत्तन्यायविरोध इत्यस्वर-सादाह- यद्वेति ।। ननु तेनैव हीति पूर्ववाक्यप्रतिज्ञातं विषयसाधकत्वरूपं प्रत्यक्षस्योपजीव्यत्वमनुपपाद्य उपजीव्यत्वान्तरोपपादने प्रकरणासङ्गतिरित्यत आह- अथ वेति ।। मूले निरूपकत्वं षष्ठ्यर्थ इत्यागमस्येति पदस्य मण्डूकप्लुत्याऽनुवृत्तिं मत्वा व्याचश्व्े- तयोरित्यादिना ।। ननु नोपजीव्यतामात्रं बाधकत्वप्रयोजकम् अनुमानमात्रोच्छेदापत्तेः । किन्तु विरोध्युपजीव्यत्वम् । न चात्र विरोधोऽस्ति । ग्राह्याभावानवगाहनात् । (व्या.टि.) अन्यथा विशेष्यमात्रग्राहिप्रमाणेन विशिष्टविषयप्रमाणबाधापत्तेः । अतोऽत्र विशिष्टाभावेनाबाधक-त्वाद् युक्तमभेदागमप्रामाण्यमित्याशङ्कते- भवत्वित्यादिना ।। न जीवेश्वरेति ।। नन्विदं वक्ष्यमाणविरु-द्धम् । यद्वक्ष्यति ‘भेदस्तु स्वरूपदर्शन एव सिद्धः’ इति । मैवम् । सामान्यतो भेदस्य स्वरूपदर्शनसिद्धत्वेऽपि तद्विशेषस्य सादृश्यादिदोषप्रतिबन्धेनाग्रहोपपत्तेः । अत एव तत्र प्राय इति, अत्र जीवेश्वरेति प्रतियोगिविशेषोपा-दानम् । अवर्जनीयमेवेति ।। प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्य तद्वैलक्षण्येन धर्मिज्ञानस्य च भेदज्ञानसामग्रीत्वात् । सामग्य्र•श्च कार्यावश्यम्भावनियमादिति भावः । तुल्यत्वादिति ।। अभेदविरोधिसार्वज्ञादि-प्रतिपादकत्वादित्यर्थः । विषयग्राहकत्वेनोपजीव्यत्वोक्तेरप्रामाण्योपयोगित्वेऽपि स्वरूपग्राहकतयोपजीव्यत्वोक्तेः क्वोपयोग इत्यत आह- आगमेति ।। स्वं आगमः । प्रत्यक्षादिकमिति ।। श्रोत्रादिकमित्यर्थः । तद्विरोधे-नेति ।। श्रोत्रस्य शब्दसत्त्वगोचरत्वादित्यर्थः ।