‘अमृतस्यैष सेतुः’..
जीवानां मुक्तावपि श्रीरमणेन साम्यैक्ययोरभावस्य श्रुतिप्रमाणेन दृढीकरणम्
मूलम्
- ‘अमृतस्यैष सेतुः’, ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’
इत्यादि च ।
‘नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् ।
गुणैः सर्वैः शतगुणा मोदन्त इति हि श्रुतिः ।। इति पाद्मे ।
अतो निश्शेषदोषवर्जितः पूर्णाऽनन्तगुणो नारायण इति सिद्धम् ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-
र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।
स्वतन्त्रायाखिलेशाय निर्दोषगुणरूपिणे ।
प्रेयसे मे सुपूर्णाय नमो नारायणाय ते ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विविष्णुतत्त्वविनिर्णये
तृतीयः परिच्छेदः समाप्तः ।।
तत्त्वमञ्जरी
निगमयति- अत इति ।। इदानीमात्मस्वरूपसंवेदनपूर्वकमिमं ग्रन्थं केशवे समर्पयति गुरुस्वरूपं जानतामेव हि गुरुभक्तिद्वारेण विद्या फलतीति । यस्य वायोः बत्थिेत्यादिवेदवचने त्रीणि रूपाण्युदितानि । अलं दिव्यानि स्तुत्यानि । यस्य देवस्य महद्रूपं मूलरूपं इत्थमेव निहि-तम् । श्रीमन्नारायणेन त्रयाणां वपुषां प्रादुष्करणार्थमेव क्ल्प्तम् । तन्मूलरूपं कीदृग्भूतमित्याकाङ्क्षा-यामाह- बडित्यादि ।। बट् बलरूपम् । डकारस्य कारः । (अस्यां च शाखायां कास्य डकारः।) ‘नेदीयसः कूयाताः पणी स्व ईक्षत’ इतिवत् । परोक्षत्वात् ततत्वाद्वा दर्शतं दर्शनरूपम् । ज्ञान-रूपम् । तृतीयात् तृतीयस्यापि अतिशयार्थत्वात् । दुष्टान् भर्जयतीति भर्गः । त्रीणि रूपाणि कानीत्याकाङ्क्षायामाह- प्रथमकं रामवचोनयं हनूमद्रूपमित्यर्थः । द्वितीयं वपुः पृक्षः । पृतना, सम्पृक्तत्वात् पृगित्युच्यते । तां क्षपयतीति पृक्षः । भीमसेन इति यावत् । तृतीयं मध्वः । मधुशब्द आनन्दवाची । ‘कामानलं मधुलवैः शमयन् दुरापैः’ इत्यादौ दृष्टत्वात् । अकारस्तीर्थवाची । पापप्रतिषेधरूपत्वात् तीर्थस्य । एवं मध्वः आनन्दतीर्थः । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्’ इति वचनाद्वा । यत्तु एतत् यत्तु देशकालाभ्यां सन्निकृश्व्ं मध्वाख्यं तृतीयं वपुः अमुना रूपेण तेन वायुना केशवे श्रीमद्विष्णुतत्वनिर्णयाख्यो ग्रन्थः कृत इति । अत्र बट् तदित्यादिना तद्वेदवचनं च सूचयति ।
स्वाधीन सर्वामरपूर्वनाथ निर्दोषसंवित्सुखसद्गुणात्मन् ।
प्रियादतिप्रेष्ठ सुपूर्ण तुभ्यं नमोऽस्तु नारायण मध्ववन्द्य ।। १ ।।
श्रीमन्दहासेन्दुकलामुदारां पुष्णन्ति मुष्णन्ति च ये तमांसि ।
अपूर्वपक्षा अपि ते कटाक्षाः पायासुरायासहरा हरेर्नः ।। २ ।।
एतान् त्रिविक्रममहार्यवरांश्च मध्वान् व्यासांश्च क्लृप्तवरसूत्रमणिप्रदीपान् ।
वन्दे गुरून् गुरुतमानपि मे गुरूणां साक्षादहो गुरुतमांश्च गुणाम्बुराशीन् ।। ३ ।।
जातां गुरूणां करुणाम्बुसिक्तया विद्याख्यवल्या......? माधवागमात् ।
नारायणस्यार्पयते पदाम्बुजे नारायणो मञ्जरि तत्त्वमञ्जरीम् ।। ४ ।।
।। ॐ इति श्रीमदानन्दतीर्थभगवत्पादविरचितश्रीमद्विष्णुतत्त्वनिर्णयटीकायां तत्त्वमञ्जर्यां तृतीयं विशेषणम् ।।
टीका
मुक्तस्य भगवत्साम्यमैक्यं च नास्तीत्यत्र श्रुतिद्वयमपि पठति- अमृतस्येति ।। अमृतस्य मुक्तसमुदायस्य एष परमात्मा सेतुरिव सेतुः आश्रयः । परस्परमपि मुक्तानां साम्यं नास्ति । किमुत परमात्मनेति भावेन तत्र पुराणवाक्यं पठति- नृपाद्या इति ।। इति हि श्रुतिरिति पुराणकृत् स्वोक्तार्थे ‘युवा स्यात्स यो मनुष्याणां राद्धः’ इत्यादिश्रुतिं सम्मतित्वेन दर्शयति । अथ वा सज्जनसंविद इत्युक्तम् । तत्र कोऽसौ मोक्षः, कुतश्च तस्योक्तलक्षणभगवत्संवित्साध्यत्वमिति शङ्कां विशेषणत्रयसाधनावसाने विष्णुं सर्वगुणैरित्यादिना परिहरतीति । इदानी तृतीयपरिच्छेदार्थ-मुपसंहरति- अत इति ।।
एवं समापितप्रकरणो भगवानाचार्यो भक्तानां स्वस्वरूपं ख्यापयन् स्वकृतग्रन्थं केशवे समर्पय-न्नाह- यस्येति ।। ग्रन्थान्तरादस्य श्लोकस्यार्थोऽवगन्तव्यः । अन्तेऽपि मङ्गलाचरणस्य कर्तव्यत्वा-न्नारायणस्य स्तुतिप्रणामौ करोति- स्वतन्त्रायेति ।।
आनन्दसिन्धवे पूर्णप्रज्ञाचार्याप्तबन्धवे ।
नमः श्रीहरये स्वान्तध्वान्तौघतिमिरारये ।। १ ।।
मया रचितया विष्णुतत्त्वनिर्णयटीकया ।
यत्पुण्यं भावि तत्सर्वमवाप्नोतु गुरुर्मम ।। २ ।।
आनन्दतीर्थभगवद्वचसां विशिष्टव्याख्यानकर्मणि सुरा अधिकारिणोऽत्र ।
यन्मादृशोऽपि यतते तदतीव हास्यं किं नाम भक्तिविवशस्य विभूषणं तत् ।। ३ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्विष्णुतत्त्वविनिर्णयस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तृतीयः परिच्छेदः समाप्तः ।।
भावबोधः
कोऽसौ मोक्ष इति ।। संविच्छब्दस्य पूर्वमेव मोक्षलक्षकत्वोक्तेर्मोक्षज्ञानयोः साध्यसाधनभावप्रदर्शनं च लाक्षणिकपदप्रयोगप्रयोजनमित्युक्तत्वाच्चेति भावः । तृतीयपरिच्छेदार्थमिति ।। अत एवैतदुपसंहारानुरोधेन ‘विष्णुं सर्वगुणैः’ इत्यादिवाक्यमेतत्परिच्छेदान्तर्गतत्वेन व्याख्यातमिति द्रष्टव्यम् । विशिष्टव्याख्यानकर्म-णीति ।। विशिष्टव्याख्यनेत्युक्तत्वात् सुरा अधिकारिण इत्युक्तं युक्तम् ।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्विष्णुतत्त्वविनिर्णयस्य जयतीर्थाचार्यश्रीचरणविरचितटीकाया भावबोधः श्रीमद्रघुपवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिना कृतः समाप्तः ।।
भावदीपः
संविच्छब्दस्य मोक्षलक्षकत्वस्य तत्रैवोक्त्या सज्जनमोक्षायेत्युक्तप्रायत्वात्तथैव पृच्छति- कोऽसौ मोक्ष इति ।। साध्यसाधनभावज्ञापनं लक्षणाश्रयणप्रयोजनमित्यपि तत्रैवोक्तत्वादाह-कुतश्च तस्येत्यादिना ।। आहेत्यत्रापि स्वरूपमित्यनुषङ्गः । ग्रन्थान्तरादिति ।। भाष्यटीकारूपादिति वा हनुशब्दो ज्ञानवाचीत्यादि-ग्रन्थान्तरादिति वाऽर्थः । तथा हि- यस्य वायोर्देवस्य बलित्थेत्यादिवेदवचने क्रीडादिगुणयुक्तानि त्रीणि रूपाण्यु-दितानि तस्य यत्तृतीयं रूपम् अमुनाऽयं ग्रन्थः केशवविषये कृत इत्यन्वयः । कीदृशं चास्य मूलरूपं कानि च त्रीणि कीदृशानीति तत्राऽह- अलमिति । तदस्य वायोर्मूलरूपं बट् बलात्मकं ज्ञानरूपं, भर्गो जगद्भरणगमनगुणं, महत् महनीयम् । तदित्थम्भूतमेव रूपत्रयावताराय भगवता निहितं स्थापितमवतीर्णं च । तत्र प्रथमं हनुमदाख्यं वपुः रामस्य वचांसि सीतां प्रति नीतवत् । रामविषयवचांसि मूलरामायणादिरूपाणि शिष्येषु नीतवद्वा । रामवचसि नयो न्याय आज्ञारूपस्तद्युक्तं वा । द्वितीयं वपुर्भीमनामकं कुरुपृतनाक्षयकरम् । तृतीयं वपुः आनन्दरूपस्य हरेः प्रतिपादकशास्त्रनिर्मातृ मध्वाभिधमिति । चरमपादेनैव पूर्तौ त्रिपाद्याः किं कृत्यमित्यत आह- स्तुतीति ।। साऽपि तत्प्रीत्यर्थेति भावः । स्वयमपि ग्रन्थान्ते मङ्गलमाचरति- आनन्देति ।। विशिष्ट-व्याख्यानेति ।। प्रातीतिकार्थान्तरनिरासेन तात्पर्यार्थव्याख्यानकर्मणि दक्षिणामूर्तिप्रभृतयः सुरा अधिकारिण इत्यर्थः । तर्हि किमिति भवद्भिर्व्याख्यातमित्यत उक्तम्- भक्तिविवशस्य विभूषणं तदिति ।।
अमन्दानन्दसन्दोहदेहायेन्दीवरत्विषे ।
नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।।
।। इति श्रीमद्विष्णुतत्त्वविनिर्णयटीकाभावदीपे श्रीमद्राघवेन्द्रयतिकृते तृतीयः परिच्छेदः ।।
वाक्यार्थदीपिका
(श्री.टि.)
मूले शतधृत्यन्ता इति ।। शतधृतिश्चतुर्मुखस्तदन्ता इत्यर्थः । युवा स्यादिति ।। ‘युवा स्यात् साधुयुवाध्यायकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः’ इत्यादिकामानन्दतारतम्यप्रतिपादनपरां तैत्तिरीयश्रुतिं ‘स यो मनुष्याणां राद्धः समृद्धोऽधिपतिः’ इत्यादिकाम् आनन्दमर्यादाकथनपरां बृहदारण्यकश्रुतिं चोपादत्त इत्यर्थः । कोऽसौ मोक्ष इति ।। ‘संविच्छब्देन तत्साध्यो मोक्ष उपलक्ष्यते’ इति संविच्छब्दस्य पूर्वं मोक्षलक्षकत्वोक्तेः, ‘मोक्षज्ञानयोः साध्यसाधनभावप्रदर्शनं लाक्षणिकपदप्रयोजनम्’ इत्युक्तत्वाच्चेति भावः । उक्तलक्षणेति ।। निर्दोषाशेषसद्गुणत्वादिलक्षणोपेतो यो भगवान् तत्संवित्साध्यत्वमित्यर्थः । परिहरतीति ।। तथा च लिङ्गशरीरसम्बन्धरूपसंसारनिवृत्त्यनन्तरं निर्दुःखानन्दानुभव एव मोक्षः । स चोक्तलक्षणभगवत्संवित्साध्य इत्युक्तं भवतीति द्रष्टव्यम् । स्वस्वरूपं ख्यापयन्निति ।। भगवत्स्वरूपस्येवाधिकार्युत्तममुख्यप्राणावतारभूतस्वस्वरूपज्ञानस्यापि भक्तानां मोक्षसाधनत्वादिति भावः । ग्रन्थान्तरादिति ।। यस्य वायोर्देवस्य बलित्थेत्यादिवेदवचने दिव्यानि क्रीडादिगुणयुक्तानि त्रीणि रूपाण्युदितानि तस्य यत् तृतीयं रूपम्, अमुना रूपेणायं ग्रन्थः केशवे विषये तद्विषयतया कृत इत्यन्वयः । तत्प्रतिपादकत्वात् (श्री.टि.) तस्मिन्नर्पित इति तात्पर्यम् । कीदृशञ्चास्य मूलरूपं, कानि च तानि त्रीणि रूपाणि, कीदृशानीति तत्राऽह- अलमित्यादिना ।। तस्य वायोर्मूलरूपम् अलं सम्यक् बट् बलात्मकं दर्शतं ज्ञानरूपं भर्गो जगद्भरणगमनगुणं महत् महनीयं पूज्यं तत् इत्थम्भूतमेव रूपत्रयावताराय भगवता निहितं प्रेरितम् अवतीर्णं च । तत्र यस्य प्रथमकं हनुमदाख्यं वपुः रामस्य वचांसि सीतां प्रति नीतवत्, रामविषयकवचांसि मूलरामायण-रूपाणि शिष्येषु नीतवद्वा, रामवचसि यो नयो न्यायः आज्ञारूपस्तद्युक्तं वा । यस्य द्वितीयं वपुर्भीमनामकं पृक्षः पृतं सेनां क्षिणोतीति पृक्षः उपपदान्त्यतकारलोपः । कुरुपृतनाक्षयकरम् । यस्यैतत् तृतीयं वपुः मध्वः मधुशब्दः सुखवाची । ‘मधु द्यौरस्तु नः पिता’ इति प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । तथा च मधु आनन्दकरम् आनन्दरूपस्य हरेः प्रतिपादकं वा तीर्थं शास्त्रं तन्निर्मात्रिति यावत् मध्वाभिधमिति । यथोक्तम्-
‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ।
मध्व आनन्दतीर्थः स्यात्तृतीया मारुती तनुः ।।’ इति ।
स्वरित्यत्रेव उकारलोपो मन्तव्यः । अन्यथा मधुवेति स्यादित्यवगन्तव्यम् । अतः परमाप्तप्रणीतत्वादयं ग्रन्थः सकलसुजनैरादरेणाङ्गीकार्य इति भावः । इत्येवं तत्त्वप्रदीपिकादिरूपाद्ग्रन्थान्तरादस्य श्लोकस्यार्थोऽवगन्तव्य इत्यर्थः । अन्तेऽपीति ।। स्वस्वरूपप्रतिपादनेनैव ग्रन्थो न परिसमापनीय इत्याशयेनेति भावः । सर्वदाऽपरोक्षीकृत-भगवत्स्वरूपत्वाद्ग्रन्थपरिसमाप्तिसमये विशेषतस्तमपरोक्षीचकार । अतो मूले ‘नारायणाय ते’ इत्यपरोक्षनिर्देश इत्यवगन्तव्यम् । अन्तेऽपि मङ्गलाचरणस्यावश्यं कर्तव्यतया शिष्टाचारपरम्पराप्राप्तत्वात् परिसमापितग्रन्थो भगवान् टीकाकारोऽन्तेऽपि श्रीहरिनमनरूपं मङ्गलमाचरति- आनन्दसिन्धव इति ।। ‘स्वान्तं हृन्मानसं मनः’ इत्यभिधानात् स्वान्तं मानसं तत्रत्यं यद् ध्वान्तम् अज्ञानं तस्य तन्निरसन इति यावत् । तिमिरारिः सूर्यः, तस्मा इत्यर्थः । एतत्प्रकरणटीकाकरणजनितं पुण्यं स्वगुरवे समर्पयति- मयेति ।। इदानी स्वगर्वं परिहरति- आनन्दतीर्थेति ।। व्याख्यानकर्मणि व्याख्यानकरणे । विशिष्टव्याख्यानकर्मणीत्युक्तत्वात् सुरा अधिकारिण इत्युक्तं युक्तम् । यतत इति यत् तदिति सम्बन्धः । हास्यं हासास्पदम् । हासास्पदत्वे यतनं व्यर्थमित्याशङ्कते- किं नामेति ।। उत्तरमाह- भक्तीति ।। आनन्दतीर्थभगवत्पादेषु भक्तिपराधीनस्य मम भक्तिपारवश्येन तद्वचनव्याख्याने आग्रहविशेषयुक्तस्येति यावत् । तदिति ।। सुराधिकारिकानन्दतीर्थवचसां व्याख्याने यतनं विभूषणमलङ्कार एव । तथा चास्य ग्रन्थस्य भक्तिपरवशेन मया कृतत्वं विचार्य सूरयोऽत्र न दोषान् विचारयेयुः। तद्भक्त्या तत्कारुण्यसरणिं प्रपन्नोऽहमपि यत्किञ्चिद्वदन् महतां मान्य एवास्मीत्याशय इत्यशेषमतिमङ्गलम् ।
यस्तत्त्वदेवान् सम्प्रेर्य कारयामास सत्कृतिम् ।
गुर्वन्तःस्थानन्दतीर्थहृद्गतं व्यासमाभजे ।। १ ।।
श्रीयादवार्यसत्पादसेवकेन यथामति ।
तत्त्वनिर्णयटीकाया विवृतिस्तदनुग्रहात् ।। २ ।।
(श्री.टि.) श्रीनिवासेन रचिता नाम्ना वाक्यार्थदीपिका ।
व्यासपादार्पिता भूयात् सतां व्याख्योपकारिणी ।। ३ ।।
जयराजवचांसि क्व क्व चाहं मन्दबुद्धिमान् ।
तथाऽप्यस्मद्गुरुवरानुग्रहः किं न साधयेत् ।। ४ ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्विष्णुतत्त्वविनिर्णटीकाविवृतौ वाक्यार्थदीपिकायां तृतीयः परिच्छेदः ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
श्रुतिद्वयमिति ।। श्रुत्यन्तरद्वयमित्यर्थः । अमृतस्येति जातावेकवचनमिति भावेन समुदायस्ये-त्युक्तम् । कोऽसौ मोक्ष इति ।। संविच्छब्दस्य लक्षणया तत्साध्यमोक्षपरत्वस्य प्रागेवोक्तत्वादेवं शङ्केति ध्येयम् । ग्रन्थान्तरादिति ।। भाष्यादिटीकात इत्यर्थः । विशिष्टेति ।। अत एव सुरा अधिकारिणोऽत्रेत्युपपन्नमिति सकलमकलङ्कम् ।
यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ।
अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोस्सेवा ।। १ ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्येण केशवभट्टारकेण विरचितायां गुरुराजमार्गानुवर्तिन्यां विष्णुतत्त्वविनिर्णयटीकागतविषमपदवाक्यार्थविवृतौ तृतीयः परिच्छेदः समाप्तः ।।
लघुप्रभा
(व्या.टि.)
श्रुतिद्वयमपीति ।। आद्यायामाश्रयाश्रयिभावोक्तेरुभयाभावः । द्वितीयस्यां साहित्योक्तेरुभया-भावसिद्धिरिति । अत्र तारतम्योक्तेर्भावमाह- परस्परमपीति ।। नृपाद्या इतीति ।।
‘क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।
आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः ।
रुद्रो ब्रह्मेति क्रमशः तेषु चैवोत्तरोत्तराः ।
नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेऽपि च ।
सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तराः ।।’
इति स्मृत्यन्तरादान्तरालिकोऽवधिरवसेयः । औत्सर्गिकोऽयं नियमः । अनुभाष्यच्छान्दोग्यभाष्यतैत्तिरीय-बृहद्भाष्यादिषु विशेषोऽवसेयः । तत्र ‘युवा स्याद्’ इति तैत्तिरीया द्वितीया काण्वी । एवं विष्णुं सर्वगुणैरित्यादि परमतनिरसनपरतया व्याख्यायाधुना आद्यपद्योक्तफलसमर्थनपरतयाऽपि व्याचश्व्े- अथ वेति ।। तत्समर्थने का सङ्गतिरित्यतोऽवसर एवेत्याह- विशेषणत्रयसाधनावसान इति ।। तत्र संसारवर्जितः, निर्दुःखानन्द-(व्या.टि.) भुगित्याद्यचोद्यपरिहारः । शिश्व्ं द्वितीयस्येति विवेकः । पुनरुक्तिपरिहारायोपसंहार इत्याह- इदानी-मिति ।। वर्जित इति पूर्ण इति नारायणविशेषणम् ।
ननु ‘न ध्याख्यापॄमूर्च्छिमदाम्’ इति निष्ठातस्य नत्वनिषेधात्कथं पूर्ण इति । मैवम् । ‘वा दान्तशान्त-पूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ इति णिचि निपातनात्साधुरवधेयः । एतदैकरूप्याय पूर्वं विशेषणसमासः कृतः इत्यशेषमतिमङ्गलम् । स्वस्वरूपमिति ।। मुमुक्षुणा भगवत्स्वरूपस्येव भागवततारतम्यस्याप्यवश्यं वेद्यत्वात् तदवसानस्य ‘इयदामननात्’ इत्युक्तदिशा प्राणावधित्वेन तस्याप्यवश्यं ज्ञेयत्वादित्यर्थः । समर्पयन्निति ।। अनेन मूलं समर्पित इति शेषेण पूरणीयमित्युक्तं भवति । ग्रन्थान्तरादिति ।। न्यायसुधाग्रन्थादित्यर्थः । ननु सुधायां ‘भृञ् भरणे, गम्लृ गतौ, आभ्यामसुन् प्रत्ययो डिच्च’ इति भर्गशब्दो निरुक्तः । तदयुक्तम् । तथात्वे सकारान्तत्वेन जिज्ञासाधिकरणभाष्ये ‘स एव भर्गशब्दार्थः’ इति निर्देष्टव्यत्वेन भर्गशब्दार्थ इति निर्देशायोगादिति चेत्, अत्रेदमवधेयम् । अत्र बलित्थेति श्रुतौ श्लोके च रूपविशेषणत्वेन नपुंसकतया असुन्प्रत्ययान्ततया व्याख्या-तम् । तत्र तु गायत्र्यां देवविशेषणतया पुंलिङ्गत्वात्तथा निर्देशः । अत एवात्र भरणगमनकर्तृ इति नपुंसकतया निर्देशः कृतः । तत्र तु गायत्र्यां यो भर्गो देव इति देवविशेषणतया उ(ड)प्रत्ययमुपेत्य भरणगमनयोगादित्येवो-क्तम् । न तु प्रत्ययो निर्दिष्टः । तत्रापि रूपविशेषणत्वे सकारान्ततैव । वस्तुतस्तु सकारान्तस्वरूपविशेषणत्व-मविवादम् । अकारान्तस्य देवविशेषणतया प्रतीतस्य ‘हरः स्मरहरो भर्गः’ इति हरनामसु पाठाद्धराभिधानश्रुत्या गायात्र्या हरपरताऽपनोदायाकारान्तस्यैव भगवति समन्वेतव्यतया स एव भर्गशब्दार्थः, स एव तत्र निरुक्त इति न सुधायां पूर्वोत्तरग्रन्थविरोधः इति दिक् । अन्तेऽपीति ।। मङ्गलसंवलितस्यैव सफलत्वादित्यर्थः । टीका-कृदप्यन्ते मङ्गलङ्गिलति- आनन्दसिन्धव इति ।। ‘निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपङ्कजे’ इत्युक्तार्थमनुतिष्ठति- मयेति ।। पुण्यमिति ।। ‘व्याख्यैकस्य शतोत्तरा’ इत्युक्तमित्यर्थः । कृतकृत्यस्य स्वस्य प्रारब्धाविघ्नपरिसमाप्त्यैवा-धिकारसिद्धेरन्येषां तद्व्याचिख्यासाशां प्रत्यस्यति- आनन्दतीर्थेति ।। विभूषणम् अलङ्कारनिकरः ।
विश्वोदयस्थितिलयोन्नियमादिहेतुं मायापतिं रघुपतिं मनसा नमामि ।
प्राभासि यन्नियमनादिह विष्णुतत्त्वनिर्णायिका श्रुतिततिप्रविचारटीका ।। १ ।।
अनया प्रभया श्रीपदीपायितसमर्पया ।
यद्भावि भव्यं तत्सर्वमाप्नुयाद्देशिको मम ।। २ ।।
।। इति श्रीमद्विष्णुतत्त्वविनिर्णयटीकागूढभावप्रकाशिका प्रभा समाप्ता ।।
।। समाप्तश्चायं ग्रन्थः ।।
श्रीमध्वेशार्पणमस्तु