न तु तद्द्वितीयमस्ति’ ..

यद्वैतन्न पश्यतीतिश्रुत्यर्थोपवर्णनम्

मूलम्

- ‘न तु तद्द्वितीयमस्ति’ इति च यत्तद्ब्रह्म द्वैतत्वेन न पश्यति तदेव द्वितीयं नेत्याह । ‘यत्ततोऽन्यद्विभक्तत्वेनैव पश्येत्’ इति वाक्यशेषात् । ‘न हि द्रष्टुर्दृष्टेर्विपरि-लोपो विद्यते’ इति हेतोश्च ।।

तत्त्वमञ्जरी

ननु ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति । न हि द्रष्टुर्दृष्टेः विपरिलोपो विद्यते अविनाशित्वान्न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इत्यादेः सद्वितीयत्वपक्षे का गतिरित्याह- न त्विति ।। यत् मत्स्यकूर्मादिरूपं तद् ब्रह्म द्वैतत्वेन भिन्नत्वेन न पश्यति, तद् द्वितीयमेव नास्ति । न तु किञ्चिदपि द्वितीयं नास्तीत्यर्थः । यदित्यादिवाक्यशेषात् । मुख्य-द्रष्टुर्दृष्टेर्विपरिलोपो बाधो न विद्यते हि ।

टीका 

ननु च ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशि-त्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इति श्रुतौ स्थितायामप्यविद्यायामहङ्कारादि-तत्कार्यविलयमात्रेण क्रियाकारकफलरूपो द्वितीयाभावः सुप्तस्याऽत्मनोऽभिधीयते । तथा हि, प्राग् ज्योतिःशब्देन सुप्तस्य ज्ञानसद्भावोऽभिहितः । पुनः ‘एवमेवायमात्मा प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ इति ज्ञानाभावश्च । तदुभयं विप्रतिषिद्धमित्याशङ्क्येद-मुच्यते । ‘सुप्तो यन्नपश्यतीत्युक्तं तद्वै तत्तथैव । न च विप्रतिषेधः    यतः पश्यन्वै ज्ञानवानेव तन्न पश्यतीत्युक्तम् । कुतो ज्ञानवत्त्वम्? न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वात् । कथं पश्यन्नेव न पश्यति? यत् ततः स्वस्मादन्यद्विभक्तं पश्येत्तद्द्वितीयं तु नास्ति । अतो विषया(द्वितीया)भावान्न पश्यतीत्युच्यते । निर्विषयस्य स्वरूपज्ञानस्य स्थितत्वात्पश्यन्नित्यपि । अतो न परस्परं विरोधः’ इति । एवमविद्याकार्यविलयमात्रेण यदा सुप्तस्यापि द्वैताभावस्तदा कुतो मोक्षे अविद्यायां सर्वात्मना निवृत्तायां द्वैतसद्भावः स्यात् । तत्कथमुक्तं मोक्षानन्तरमपि भेदोऽस्तीति । कथं च मुक्तस्यापि भोगादिसद्भाव इत्यतो यथावद्वाक्यं व्याचश्व्े- न तु तद्द्वितीयमिति ।। इति च श्रुतिरिति शेषः । न तु सुषुप्तौ भेदाभावमित्येवशब्दार्थः ।

शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः’ इति नाडीनां परस्परविलक्षणरूप-वद्भिर्भगवद्रूपैर्व्याप्तत्वमुक्तम् । तेन तद्रूपाणां भेदः प्राप्तः । तथा ‘तद्वा अस्यैतदाप्तकाममकामं रूपम्’ इति षष्ठ्या रूपरूपवद्भेदश्च । तन्निराकर्तुमिदमुच्यते । हृदयस्य भवतीति हृदयशब्देन प्रकृतं ब्रह्म भगवान् यद् यस्माच्छुक्लादिकं रूपं द्वैतं स्वतः परस्परं च भिन्नं न पश्यति तत् तस्माद् द्वितीयं नास्ति न भवति  । भगवता भिन्नत्वेनादृष्टत्वेऽपि कुतो न भिन्नम् । न ह्यस्माभिः शुक्तिकाया भिन्नत्वेन रजतं न दृश्यत इत्येतावता तत्ततो न भिन्नम् । मैवम् । पश्यन् सर्वज्ञ एव तत् शुक्लादिकं भिन्नत्वेन न पश्यति वै । एवन्तर्हि जीवजडात्मकं विश्वमपि किं ततो न भिन्नं, नेत्युच्यते । यद् यस्माद्भगवान् यज्जीवादिकं विभक्तं स्वतो विभक्तं भिन्नं पश्येत् तत् तस्मात्ततोऽन्यदेव । भगवता भेदेन दृष्टत्वेऽपि कुतो भिन्नम् । न हि चन्द्रश्चन्द्राद् भिन्नत्वेनास्माभिर्दृश्यत इत्येतावता भिन्नः । मैवम् । न हि द्रष्टुः परमेश्वरस्य दृष्टेर्ज्ञानस्य विपरिलोपो वैपरीत्यमयथार्थत्वं विद्यते अविनाशित्वात् निर्दोषत्वादबाधितत्वाच्चेत्येवमियं श्रुतिः यत्तत्प्रकृतं शुक्लादिकं रूपं ब्रह्म भगवान् द्वैतत्वेन स्वतः परस्परञ्च भिन्नत्वेन न पश्यति तद् द्वितीयं भिन्नं न भवतीत्येवाऽह । न तु सुप्तौ सकलभेदाभाव-मित्यर्थः । सकलभेदाभावपरमेव एतत्किं न भवतीत्यत आह- यत्ततोऽन्यदिति ।। अर्थानुवादोऽयं शाखान्तरपाठो वा, उक्तरीत्या वाक्यशेषे द्वितीयसद्भावस्योक्तत्वादित्यर्थः । तस्यान्योऽर्थ इति चेन्न । तथा सति विभक्तं यत्पश्येत् तन्नास्तीत्येतावता पूर्णत्वेन शेषवैयर्थ्यात्   

इतोऽपि  निर्विशेषचैतन्यमात्रावस्थानमस्यार्थो न भवतीत्याह- न हीति ।। अत्र हेतुग्रहणं स्वरूपकथनम् । अत्र हि वाक्ये द्रष्टृदृष्ट्योः सम्बन्धकथनेन निर्विशेषत्वं बाध्यते । उपचारोऽयमिति चेन्न । अनुपपत्त्यभावात् । दृष्टेरित्येतावता पूर्णत्वेन द्रष्टृग्रेहणवैयर्थ्याच्च । एतेन द्रष्टुर्दृष्टेरिति सामानाधिकरण्यमित्येतदपि निरस्तम् । किञ्च दृष्टिश्चेत्स्वरूपमात्रं तदा किमपेक्षया कर्तृप्रत्ययः । अतो युक्त एव मोक्षे भेदसद्भावाभ्युपगम इति ।।

भावबोधः

इत्येवशब्दार्थ इति ।। तेन इत्येवमित्येवकारसम्बन्धः सूचितो भवति । अत एव वक्ष्यति ‘भिन्नं न भवतीत्येवाऽह’ इति ।

भावदीपः

क्रियाकारकेति ।। क्रिया ज्ञानम् । कारकाणीन्द्रियाणि । फल व्यवहारादि । अभिधीयत इति ।। इति श्रुताविति पूर्वेणान्वयः । प्रागिति ।। वाजसनेये षष्ठे ‘आत्मैवास्य ज्योतिः’ इति ज्योतिःशब्देनेत्यर्थः । पुनरिति व्याख्यातृवचनं न श्रौतपदम् । ज्ञानाभावश्चेति ।। अभिहित इत्यनुषङ्गः । आहेत्यत्र कर्त्राकाङ्क्षायामाह- इति श्रुतिरिति शेष इति ।। ‘न तु तद्द्वितीयमस्ति’ इति श्रुतिरित्याहेत्यर्थः । अप्रसक्तनिषेधपरत्वनिरासाय प्रसक्तिं दर्शयितुं पूर्ववाक्यमनूद्यार्थमाह- शुक्लस्येति ।। तृतीयार्थे षष्ठी । शुक्लादिवर्णोपेतरूपपञ्चकेन पूर्णा नाड्य इत्यर्थः । नाडीनामिति ।। ‘ता वा अस्यैता हिता नाम नाड्यः यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठति’ इति पूर्ववाक्ये नाडीनां प्रकृतत्वादिति भावः । तद्वा अस्येति ।। शुक्लस्येति वाक्यादुपरितने ‘यद् द्वैतं न पश्यति’ इत्यतः पूर्वतने वाक्येप्राज्ञेनाऽत्मना’ इति प्रकृतं भगवन्तमस्येति परामृश्य तत्प्रसिद्धमेतद्रूपम् आप्तकामम् आप्ता एव कामा न त्वाप्तव्या येन तदाप्तकामम्, पूर्णसुखरूपत्वादात्मैव काम्यत इत्यात्मकामम्, अकामं विषयकामनारहितमिति यावत् । ‘षष्ठी शेषे’ इति सम्बन्धार्थे विहितषष्ठ्या रूपरूपवतोर्भेदश्चाऽप्त इत्यनुषङ्गः । इदमिति ।। यद् द्वैतं न पश्यतीत्यादिवाक्यमुच्यत इत्यर्थः । यत्तद्ब्रह्म द्वैतत्वेन न पश्यतीति मूलोक्तमर्थं श्रौतवाक्यारूढं दर्शयति- हृदयस्येति ।। ‘तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’ इत्यव्यवहितपूर्ववाक्ये हृदि अयत इति व्युत्पत्त्या हृदि विद्यमानस्य शेषो भवतीति हृदयशब्देन प्रकृतमित्यर्थः । यदित्यस्याऽऽवृत्ति-मुपेत्याऽह- यद्यस्माद्यच्छुक्लादिकमिति ।। स्वतः स्वस्मान्मूलरूपादित्यर्थः । यत्ततोऽन्यदित्यादिमूलोक्तमर्थं ‘ततोऽन्यद्विभक्तं यत्पश्येत्’ इति श्रौतवाक्यारूढतया व्याचष्टे- एवं तर्हीति ।। अत्रापि यच्छब्दस्याऽवृत्तिः । प्रकृतहृदयशब्दार्थः- भगवानिति ।। विभक्त इत्यस्यावधिमाह-स्वत इति ।। स्वस्मादित्यर्थः । ततो भगवतः। दुष्टेषु नष्टशब्दप्रयोगर्शनान्नाशोऽत्र दोषशब्दार्थ इति भावेनाविनाशित्वान्निर्दोषत्वादित्युक्तम् । एवं श्रुतिं व्याख्या-येदानी मूलार्थमाह- इत्येवमिति ।। प्रकृतं शुक्लादिकमिति द्वितीयान्तम् । एवकारार्थः- न त्विति ।। उक्त-रीत्येति ।। स्वकृतव्याख्यानरीत्येत्यर्थः । अन्योऽर्थ इतीति ।। प्रागनूदितपरव्याख्यानरीत्येत्यर्थः । उपचार इति ।। राहोः शिरः, घटस्य स्वरूपमित्यादाविवेति भावः । एतेनेति ।। द्रष्टृपदवैयर्थ्येनेत्यर्थः । द्रष्टृदृष्ट्यो-रिति ।। द्रष्ट्री च सा दृष्टिश्चेति विग्रहः । कर्तृप्रत्यय इति ।। द्रष्ट्रीत्यत्र तृच्प्रत्यस्य ‘ण्वुल्तृचौ’ इति कर्तरि विधानादिति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

मोक्षे कैमुत्येन भेदाभावं साधयितुमाह- ननु च यद् द्वैतमित्यादिना ।। अतो न परस्परविरोध इत्यन्तेन । ज्योतिश्शब्देनेति ।। ‘अस्तमितायां वाचि किञ्ज्योतिरयं पुरुष इति आत्मैवास्य ज्योतिः’ इति वाक्ये ज्योतिःशब्देनेत्यर्थः । ज्योतिर्ज्ञानसाधनमिति तदर्थः । यद्वै तदित्यत्र यद् वै तदिति पदच्छेदमभ्युपेत्य यत् न पश्यतीत्युक्तं तद् वै तत्तथैवेति । इत्युक्तमिति ।। न बाह्यं किञ्चन वेद नान्तरमित्यनेनेत्यर्थः । विप्रतिषेधो विरोधः । ज्ञानवानेवेत्यंशमुपपादयितुमाह- कुत इति ।। विपरिलोपो विनाशः । अविनाशित्वादिति ।। अविनाशिजीवस्वरूपत्वादित्यर्थः । न पश्यतीत्युक्तमुपपादयितुमाह- कथमिति ।। व्यवस्थोक्त्या विरोधः (श्री.टि.) परिहृत इत्याह- अत इति ।। इत्यपि उच्यत इति सम्बन्धः । एवं सुप्तौ भेदाभावे लब्धे मोक्षे भेदाभावः कैमुत्यलब्ध इत्याह-  एवमविद्याकार्येति  ।।  भोगादिसद्भाव इत्यत्राऽदिपदेनेश्वरज्ञानं स्वज्ञानं च ग्राह्यम् । तस्य भेदसापेक्षत्वादिति भावः । एवशब्दार्थ इति ।। अनेन, तद् द्वितीयं नेत्येवाऽहेत्येवशब्दसम्बन्धस्सूचितो भवति । अत एवोत्तरत्र वक्ष्यति भिन्नं न भवतीत्येवाऽहेति । शुक्लस्येत्यादि कर्तरि षष्ठी । शुक्लादिभिरित्यर्थः । अत्र शुक्लादिशब्दाः  शुक्लादिरूपवद्वासुदेवादिभगवद्रूपवाचिन इत्याशयेन रूपवद्भिर्भगवद्रूपैरित्युक्तम् । भेदः प्राप्त इति ।। स्थानभेदेन विरुद्धधर्माधिकरणत्वेन च भेदः प्राप्त इत्यर्थः । रूपरूपवद्भेदश्चेति ।। वासुदेवादिरूप-समुदायस्य रूपवता भगवता मूलरूपिणा भेदोऽस्य रूपमिति षष्ठ्या प्राप्त इत्यर्थः । भगवान् मूलरूपी, शुक्लादिकं रूपं शुक्लादिरूपोपेतं वासुदेवादिकं रूपमित्यर्थः । द्वैतमिति ।। अत्र न परोक्तरीत्या यद् वै इति पदविच्छेदः । किन्तु यत् द्वैतमित्येव । परपक्षेऽस्मत्पक्षे च यद्वैतमित्येव श्रुतिपाठः । तत्रास्मन्मते महाव्याकरणसूत्रेण वा निरुक्तत्वाद्वा तकारलोपो द्रष्टव्य इति सम्प्रदायविदः । स्वतः स्वस्मात् । चन्द्रश्चन्द्रादिति ।। अङ्गुल्यवष्टम्भादिनेति शेषः ।

एवं श्रुतिं सम्यग्व्याख्याय न तु तद्द्वितीयमस्तीति च यत्तद्ब्रह्मेत्यादिमूलार्थमाह- इत्येवमियं श्रुतिरित्या-दिना ।। शुक्लादिकं रूपं वासुदेवादिकम् । भगवान् मूलरूपी । ‘ततोऽन्यद्विभक्तं यत्पश्येत्’ इत्येव श्रुतिपाठ-सद्भावात्तथैवोदाहर्तव्ये यत्ततोऽन्यद्विभक्तत्वेनैव पश्येदिति वाक्यशेषादिति कथमुक्तमित्यत आह- अर्थानु-वादोऽयमिति ।। ततोऽन्यद्विभक्तं यत्पश्येदिति वाक्यस्यैवार्थानुवादोऽयमित्यर्थः । शाखान्तरेति ।। सदृशशाखान्तरेत्यर्थः । उक्तरीत्येति ।। यद्यस्माद्भगवान् यत् जीवादिकं विभक्तं स्वतो विभक्तं भिन्नं पश्येत् तत् ततोऽन्य इत्येवमुक्तरीत्येत्यर्थः । अन्योऽर्थ इति ।। यत् ततः स्वस्माद् अन्यद् विभक्तं पश्येत् तद् द्वितीयं तु नास्तीत्युक्तरीत्या द्वितीयमात्रनिषेध एव वाक्यशेषस्यार्थ इत्यर्थः । शेषवैयर्थ्यादिति ।। द्वितीयमस्ति ततोऽन्यदित्यस्य वैयर्थ्यादित्यर्थः । निर्विशेषचैतन्यमात्रावस्थानमस्यार्थो नेत्यत्र ‘न हि द्रश्व्ुर्दृष्टेर्विपरिलोपो विद्यते’ इत्यस्य कथं हेतुत्वमसङ्गतत्वादित्यत आह- अत्रेति ।। स्वरूपकथनं वाक्यस्वरूपकथनमित्यर्थः । एवंरूपे वाक्ये तद्विरोधिप्रमेयस्योक्तत्वादिति यावदिति भावः । सम्बन्धकथनेनेति ।। द्रश्व्ुर्दृष्टेरिति षष्ठीप्रयोगेण ज्ञानवत्त्वरूपविशेषप्राप्तेरित्यर्थः । उपचारोऽयमिति ।। द्रश्व्ुर्दृष्टेरिति सम्बन्धप्रयोगो घटस्य स्वरूपमितिवदुपचरित इत्यर्थः । अनुपपत्तिरिति ।। मुख्यार्थेऽनुपपत्त्यभावादित्यर्थः । वैयर्थ्यादिति ।। अद्रश्व्ुर्दृष्टेरभावादिति भावः । एतेनेति ।। क्रियारूपाया दृष्टेर्द्रश्व्ृत्वाभावेन दृष्टेर्द्रश्व्ृत्वरूपविशेषणकथनस्य व्यर्थत्वेनेत्यर्थः । सामानाधिकरण्य-मिति ।। द्रष्ट्र्या इति भाव्ये छान्दसं लिङ्गव्यत्ययमङ्गीकृत्य द्रष्टुरित्येतद् दृष्टरित्यस्य विशेषणमित्यर्थः । चेच्छब्दो यस्मादित्यर्थे । स्वरूपमात्रमिति ।। दृष्टिशब्दोक्तं ज्ञानं यस्मात् त्वया ब्रह्मस्वरूपमात्रमित्यङ्गीकृतम्, तदा तस्मात् तृच्प्रत्ययः किमपेक्षया कस्यार्थस्यापेक्षयेत्यर्थः । द्रश्व्ृशब्दस्य कर्तरि तृच्प्रत्यये सति निष्पन्नत्वेन निर्विशेष-चैतन्ये च ज्ञानकर्तृत्वरूपज्ञातृत्वस्य बाधितत्वेनार्थाभावाद् वैयर्थ्यमेव तृच्प्रत्ययस्य स्यादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

नन्वस्याः श्रुतेर्न भगवद्गतभेदनिषेधकतया व्याख्यानं युक्तम् । तद्भेदस्याप्राप्ततया तन्निषेधकत्वेऽ-प्रसक्तप्रतिषेधकत्वापातादित्यतः, प्रसक्तिप्रतिपादनपूर्वकं पश्यतीति क्रियायाः कर्तृकारकत्वं च दर्शयन् तत्प्रतिषेधकतामुपपादयति- शुक्लस्येत्यादिना ।। स्वरूपकथनमिति ।। कुतो हेतुग्रहणस्य स्वरूपकथनत्वं कल्प्यते हेतुत्वपरत्वमेव किं न स्यादिति चेन्न । वाक्यशेषस्यापि हेतुत्वेऽपि तत्र पञ्चम्यैव हेतुताप्रतिपादनाद्धेतो-रित्यपि वचनस्यानावश्यकत्ववदिहापि हेतोरित्यवचनेऽपि पञ्चम्यैव हेतुत्वलाभसम्भवेन हेतुत्वस्यावक्तव्य-त्वात् । तथा चेत्युक्तरीत्यैव वाच्यत्वाद्वाक्यशेषव्यावृत्तहेतुत्वान्तरस्य चाभावाद्धेतोरित्येतदधिकं व्यर्थमित्या-शयः    कथमनेन निर्विशेषचैतन्यमात्रावस्थानस्य यत्ततोऽन्यदिति वाक्यार्थत्वनिरास इत्यत आह- अत्र हीति ।। सामानाधिकरण्यमिति ।। द्रश्व्ृरूपा या दृष्टिः तस्या इति सामानाधिकरण्यमित्यर्थः । न चैवं द्रष्ट्या इति ङीप् स्यादिति वाच्यम् । सर्वविधीनां छन्दसि वैकल्पिकत्वेन तदप्रसङ्गात् । कर्तृप्रत्यय इति ।। पश्यतीति द्रष्टेति कर्त्रर्थे विहितो यस्तृच्प्रत्ययः स तदभावे न युक्त इत्यर्थः ।

लघुप्रभा

(व्या.टि.)

‘न तु तद्द्वितीयमस्ति’ इत्यत्र द्वितीयशब्दार्थमाह- क्रियाकारकफलरूपेति ।। अभिधानप्रकारं दर्शयति- तथा हीति ।। प्राग्ज्योतिश्शब्देनेति ।। ‘आत्मैवास्य ज्योतिः’ ‘आत्मनैवायं ज्योतिषाऽऽस्ते’ इति ज्योतिश्शब्देनेत्यर्थः । एवमेवेति ।। ‘यथा प्रियया भार्यया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ इति पूर्वशेषः । यच्छब्दमनुवादतया व्याचष्टे- यन्न पश्यतीत्युक्तमिति ।। वै तदिति पदद्वयं कृत्वा वैपरीत्येनान्वीय व्याचष्टे- तद्वै तत्तथैवेति ।। उत्तरं शेषं विप्रतिषेधशङ्कायाः परिहारं हेतुपरतया व्याचष्टे- यतः पश्यन्निति ।। अविनाशित्वादिति ।। अविनाशिस्वरूपाभिन्नत्वादित्यर्थः । अन्यथा साध्यावैशिष्ट्यापत्तेः । न पश्यतीति प्रकृतात्मपरामर्शकस्तच्छब्द इत्याह- स्वस्मादिति ।। श्रुत्याशयमुद्घाटयति- अथेत्यादिना ।। उक्तमाक्षिपन्नुप-संहरति- तत्कथमिति ।। मूले तदेवेत्येवकारः इत्येवेति भिन्नक्रम इत्याशयेन व्याचष्टे- न त्विति ।। सुषुप्ता-विति ।। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ इति षत्वमिति भावः । श्रुतौ भेदप्राप्तिं दर्शयति- शुक्लस्येत्यादिना ।। तत्र षष्ठी ‘आज्यस्य पूर्णां स्रुवं जुहोति’ ‘घृतस्य जुहोति’ इतिवत् तृतीयार्थ इत्यभिप्रेत्य व्याचष्टे- भगवद्रूपै-रिति ।। षष्ठ्येति ।। अस्येति षष्ठ्येत्यर्थः । तत्पदपरामर्शाय ब्रह्मप्रक्रममाह- हृदयस्य भवतीति ।। ‘तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य’ इति पूर्वशेषः । हृच्छयनात् शोकतरणवितरणलिङ्गाच्चेति भावः । भगवानिति निर्देक्ष्यमाणपुंलिङ्गापेक्षया । अत्र यत्तच्छब्दौ तन्त्रमिति व्याचष्टे- यद्यस्माच्छुक्लादिकमिति, तत्तस्मात्तद्द्वितीयमिति च ।। द्वैतं भिन्नमिति ।। ननु ‘यद्वैतन्न पश्यति’ इत्यत्र यद् वै तदिति त्रैपद्येन यत् द्वैतमिति द्वैपद्येन च पूर्वपक्षसिद्धान्तयोः पदविच्छेदः स्वच्छन्दतः कुतः कृत इति चेत्, पदविच्छेदस्यार्थानुसारिताद्योतनार्थः । अत एव ऋग्भाष्ये शुभस्पतीत्यस्यां ऋचि शुभ इति शोभतेः क्विबन्तस्य षष्ठ्यन्तमाश्रित्य पदभेदेनाऽधुनिकाध्यापक-पाठेऽपि ‘शुभाधिपौ’ इति भगवत्पादैरैकपद्येन व्याख्यातम् । यजुषि च सुवर्णज्योतिरिति द्वैपद्येन पठन्ति । अन्ये तु हिरण्यज्योतिष्टायेत्यैकपद्येन व्याख्यान्ति । ईशावास्यमित्यत्र द्वैपद्येन वाजसनेयकपाठेऽपि ‘आत्मावास्यमिदं (व्या.टि.) विश्वम्’ इति भागवतानुसारेणैव भाष्यकृतैकपद्येन व्याख्यातम् । महाभाष्यकारोऽपि ‘अजेः सञ्ज्ञायाम्’ इति वार्तिकं व्याचक्षाणः ‘अजेः क्यपि आङ्प्रश्लेषे आज्येन’ इत्यत्रावग्रहमाशङ्क्य ‘पदकारैर्नाम लक्षणमनुवर्त्यं न लक्षणेन पदकारा अनुवर्त्याः’ इति वदन् पठ्यमानपदविभागस्याश्रद्धेयतां स्पष्टमाचष्ट । तथा ‘वीप्सायामैकपद्ये समासवच्च बहुलम्’ इति लक्षणप्राप्तेऽपि ‘अन्योन्यसंशये त्वेतत्’ इत्यादिना भाष्यकाराद्यभि-युक्तप्रयुक्तेऽप्याधुनिकाध्यापका वेदे स्वयं यद्यदित्याद्यैकपद्येन पठन्तोऽपि ‘तदन्योन्यस्मै ज्यैष्ठ्यायाऽतिष्ठमानम्’ इत्यादौ भेदेन पठन्तो दृश्यन्ते । किञ्च ‘अरुणो मासकृद्वृकः’ इत्यृचि मासकृत् इति पदभेदेन पाठेऽपि मासानां कर्तेति परेण व्याख्यातम् । अत एव ‘स आत्मा तत्त्वमसि’ इत्यत्र पूर्वोत्तराविरोधायातत्त्वमसीति पदं विच्छिद्याभेदश्रुतिरेवापलापितेति । अतोऽर्थानुसार्येव पदविच्छेद इति सिद्धम् ।

अत्र नञ्परोऽस्तिः अन्योन्याभावार्थकनञ्समभिव्याहारेण भवत्यर्थ इत्याह- न भवतीति ।। अत्रायं प्रयोगः सूचितः- शुक्लादिकं रूपं न भिन्नं भिन्नत्वेन भगवताऽदृष्टत्वादिति । अस्याप्रयोजकतामाशङ्कते- भगवतेति ।। कुत इति ।। निमित्तादित्यर्थः । उच्यत इति ।। ततोऽन्यदिति वाक्यशेष इत्यर्थः । उक्तिप्रकारं दर्शयन्नत्रापि यत्पदं तन्त्रमित्युपेत्याऽह- यद्यस्माज्जीवादिकमिति ।। पश्येदिति प्रकृतं ब्रह्मैव विभक्तमित्यत्र यदि(पदि)न्यायेन प्रतियोगितया सम्बध्यत इत्याह- स्वतो विभक्तमिति ।। अनेनापि प्रयोगान्तरं- विश्वं भगवता भिन्नं तेन भेदेन दृष्टत्वादिति सूचितम् । अत्राप्यप्रयोजकतामाशङ्कते- भगवतेति ।। उत्तरयति- मैवमिति ।। द्रश्व्ुर्दृष्टेरिति वैयधिकरण्येन योजयति- द्रश्व्ुः परमेश्वरस्येति ।। ‘दुष्टे नष्टपदप्रयोगान्नाशशब्दो दोषवाची’ इति गीताभाष्यमनु-रुन्धानो व्याचष्टे- निर्दोषत्वादिति ।। फलितमाह- अबाधितत्वाच्चेति ।। यत्पदपाठव्यत्ययादाह- अर्थानु-वादोऽयमिति ।। अन्योऽर्थ इति ।। ज्ञानस्य विषयाभावरूप इत्यर्थः । शेषवैयर्थ्यादिति ।। अन्यपद-द्वितीयपदवैयर्थ्यादित्यर्थः । स्वरूपकथनमिति ।। वस्तुस्थितिकथनमित्यर्थः । निर्विशेषत्वबाधके तात्पर्यं न हेताविति हृदयम् । तद्बाधकं दर्शयति- अत्र हीति ।। सम्बन्धकथनेनेति ।। द्रष्टुरिति षष्ठ्येत्यर्थः । बाध्यत इति ।। सम्बद्धस्य सखण्डत्वादित्यर्थः । अयमिति ।। सम्बन्धव्यपदेश इत्यर्थः । अनुपपत्तीति ।। सम्बन्धे बाधकाभावादित्यर्थः । पूर्णत्वेनेति ।। ज्ञानविनाशाभिधानस्येत्यर्थः । वैयर्थ्यादिति ।। विगतप्रयोजनत्वाद्विरुद्ध-प्रयोजनत्वाच्चेत्यर्थः । एतेनेति ।। वैयर्थ्यदोषानुषङ्गेणेत्यर्थः । निरस्तमिति ।। लिङ्गभेदेन दूरनिरस्तमित्यर्थः । दोषान्तरं प्रतिजानीते- किञ्चेति ।। कर्तृप्रत्यय इति ।। तृच्प्रत्यय इत्यर्थः । ‘कर्तरि कृत्’ इति तस्य कर्तरि विधानात्क्रियाया निर्विशेषस्वरूपमात्रत्वे क्रियाकारकभावायोगादित्यर्थः । निगमयति- अत इति ।। इति न तु तद्द्वितीयमस्तीति श्रुत्यर्थः ।