स चैकजीवो ..
भेदप्रवणैकजीववादे दोषोद्भावनम्
मूलम्
- स चैकजीवो यदि भेदवादी भवति तस्य तत्रैव दार्ढ्यान्न कदाचिद्भेदनिवृत्तिरिति न कस्यापि मुक्तिः स्यात् । तेन यथा कल्पितं तथैव भवतीति तेनैकजीववादिनां नित्यनिरयकल्पने स एव स्यात् ।।
टीका
भेदप्रवणपक्षं दूषयति-स चेति ।। तर्हि तस्य तत्रैव दार्ढ्याद् भेदविषय एव दृढसंस्कार-त्वात् । ‘पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सन्’ इति वचनात् । मोक्षश्रुतिप्रामाण्यात्तस्य भेद-वासनाक्षयोऽद्वैतज्ञानञ्च भविष्यतीति चेत्, तर्हि नासौ कल्पको जीवः भेदप्रवणत्वस्यापगमात् । उपलक्षणत्वपक्षे चोक्तत्वात् । दोषान्तरं चाह- तेनेति ।। इतिशब्दो हेतौ । क्रियाकारकफलरूपस्य सर्वस्य तत्कल्पनामात्रशरीरत्वादिति भावः ।
अयमत्र समुदायार्थः । गुर्वादिनिश्चयपक्षाणामतिप्रसङ्गदुष्टत्वादसम्भवाच्चानुपपत्तावनिश्चय-पक्षेऽङ्गीकार्ये प्रतिज्ञैव नाङ्गं धत्त इति नानुमानसम्भवः । अथ वा निश्चयाभावपक्षे मोक्षसाधना-नुष्ठानासम्भवान्निश्चयोऽवश्यमङ्गीकार्यः । तत्र च कल्पकस्य जीवस्य गुर्वाद्यन्यतमत्वं व्यापकम् । ‘परस्परविरोधे तु न प्रकारान्तरस्थितिः’ इति न्यायात् । न च तदुक्तविधया युक्तमिति व्यापक-निवृत्त्या व्याप्यनिवृत्तेः बाधितविषयमनुमानमिति ।
भावबोधः
उपलक्षणत्वपक्षे चोक्तत्वादिति ।। भेदप्रवणत्वोपलक्षितानां बहूनां दृश्यमानत्वादेकस्यैव भेद-प्रवणत्वोपलक्षितस्य कल्पकत्वमिति निश्चयोऽनुपपन्न इत्यनिश्चयपक्ष एवाऽपन्न इत्युक्तत्वादित्यर्थः । क्रिया-कारकफलरूपस्येति ।। नित्यनरकस्य फलरूपत्वादिति भावः । नन्वेकाज्ञानपरिकल्पितत्वे इत्यादिना मूलग्रन्थेन विप्रतिपन्नम् एकाज्ञानपरिकल्पितं दृश्यत्वादिति परकीयानुमाने किं दूषणमित्यत आह- अयमत्र समुदायार्थ इति ।।
भावदीपः
भेदेति ।। प्राग्विकल्पितभेदप्रवणकल्पकत्वपक्षमित्यर्थः । स चेतीति ।। भेदप्रवणो गुरुर्वा शिष्यो वाऽस्त्विति भावः । पूर्वाभ्यासेनेति ।। षष्ठे गीतावचने पूर्वं यस्मिन्नर्थे स्वस्य परिचयाधिक्यमस्ति तेनैवाभ्या-सेन अवशोऽपि महाप्रयत्नहीनोऽपि तदर्थविषय एव स पुमान् ह्रियते प्रवर्त्यत इत्युक्तेर्न कदाचित्तस्य भेदबुद्धि-निवृत्तिरित्यर्थः । उपलक्षणत्वपक्षे चोक्तत्वादिति ।। अनिश्चयपक्ष एवाऽपन्न इत्युक्तत्वादित्यर्थः । स्पष्टार्थ-त्वान्मूलस्याऽकाङ्क्षित हेतुमात्रमाह- क्रियेति ।। ज्ञानभोजनगमनशयनादिक्रिया, कर्तृकर्मकरणादीनि क्रियाजनककारकाणि, घटादिव्यवहारधनधान्यस्वर्गादीनि फलानि, एतद्रूपस्येत्यर्थः। कल्पकपुरुषनिश्चयानिश्चय-पक्षदोषोक्त्या लब्धं परोक्तानुमानदोषं निष्कृष्य दर्शयति- अयमत्रेति ।। गुर्वादीति ।। ऐक्यप्रवणगुरुशिष्य-भेदप्रवणाः कल्पका इति निश्चयपक्षाणामित्यर्थः । ‘एकाज्ञानकल्पितत्वे च’ इत्यादिवाक्यत्रयस्य तथा ‘तस्यैवाऽ-चार्यभावे स्वयमेव’ इत्यादिवाक्यत्रयस्य तथा ‘तस्य तत्रैव दार्ढ्यात्’ इत्यादिवाक्यद्वयस्य चार्थानुवादः- अति-प्रसङ्गदुष्टत्वादिति ।। ‘न च बहूनां दृश्यमानत्वादेव’ इत्यादिवाक्यत्रयस्यार्थानुवादः- असम्भवाच्चेति ।। नाङ्गं धत्त इति ।। विशेषणाप्रसिद्ध्या स्वरूपनिष्पत्तिमेव न लभत इत्यर्थः । निश्चयेति ।। ऐक्यप्रवणगुरुशिष्य-भेदप्रवणानामन्यतमः कल्पक इति निश्चयाभावेत्यर्थः । ‘तस्य तस्य तथा’ इत्यादिवाक्यद्वयार्थस्यानुवादः- मोक्षे-त्यादि ।। ऐक्यप्रवणगुरुशिष्यभेदप्रवणपुरुषत्वेभ्योऽपि प्रकारान्तरं कल्पकत्वव्यापकमस्त्वित्यत आह- परस्प-रेति ।। घटत्वाघटत्वयोरिवैक्यप्रवणत्वाऽक्रान्तगुर्वादित्वभेदप्रवणत्वाऽक्रान्तपुरुषत्वयोश्चान्योन्यविरोधान्न ततोऽन्यः प्रकारोऽस्तीति भावः । उक्तविधयेति ।। अतिप्रसङ्गादसम्भवाच्चेत्युक्तविधयेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि)
भेदप्रवणपक्षमिति ।। भेदप्रवणो गुरुः शिष्यश्चेति निश्चयपक्षमित्यर्थः । दृढसंस्कारत्वात् दृढसंस्कार-वत्त्वादित्यर्थः । वृत्तसंस्कारत्वादिति पाठे स्थितसंस्कारत्वादित्यर्थो द्रष्टव्यः । दृढोऽपि संस्कारो निवर्तिष्यत इति चेत्तत्राऽह- पूर्वाभ्यासेनेति ।। पूर्वसंस्कारेणेत्यर्थः । मोक्षश्रुतीति ।। औतज्ञानान्मोक्ष इत्येवमर्थाः श्रुतयस्ता-वत्सन्ति । तत्र कल्पकस्य गुरोः शिष्यस्य वा दृढाया अपि भेदवासनायाः क्षयोऽद्वैतज्ञानं च भविष्यतीति कल्प्यते । अन्यथा दृढाया अपि भेदवासनाया अनिवृत्तौ औतज्ञानाभावे च मोक्षश्रुत्यप्रामाण्यप्रसङ्गादित्यर्थः । कुतो न कल्पक इत्यत आह- भेदप्रवणत्वस्येति ।। भेदवासनानाशेन औतज्ञानाङ्गीकारे भेदप्रवणत्वस्याप-गतत्वाद्भेदप्रवणः कल्पक इति गतः पक्ष इति भावः ।
ननु भेदप्रवणो गुरुः शिष्यो वा कल्पक इत्यस्य भेदप्रवणत्वोपलक्षितो गुरुः शिष्यो वा कल्पक इत्यर्थः । तथा च भेदवासनाक्षयेनाद्वैतज्ञानदशायां भेदप्रवणत्वस्य प्राक् स्थितत्वेन तदुपलक्षितत्वानपगमाद्युक्तं कल्पकत्व-मित्याशङ्क्य भेदप्रवणत्वोपलक्षितानां बहूनां गुरूणां शिष्याणां वा दृश्यमानत्वादस्यैव भेदप्रवणत्वोपलक्षितस्य गुरोः शिष्यस्य वा कल्पकत्वमिति निश्चयो न युज्यत इत्यनिश्चयपक्ष एवाऽपन्नः । स च मोक्षसाधनानुष्ठानासम्भव इति दूषित इत्यभिप्रायेणाऽह- उपलक्षितत्वपक्षे चेति ।। दोषस्येति शेषः । मूले तेन भेदप्रवणेन गुरुणा शिष्येण वा यथा कल्पितं तथैव भवतीति हेतोस्तेन भेदप्रवणेन गुरुणा शिष्येण वा एकजीववादिनामद्वैतिनामन्धन्तम-आख्यो नित्यनिरयो भवतीति कल्पने स नित्यनिरयस्स्यादेवेत्युक्तम् । तत्कुत इत्यतस्तदुपपादयति- क्रिया-कारकेति ।। क्रिया यज्ञादि । कारकम् इन्द्रियादि । फल स्वर्गनरकादि । तथा च नित्यनरकस्यापि फलान्तर्गत-त्वादिति भावः । नन्वेतावता प्रबन्धेन विप्रतिपन्नम् एकजीवाज्ञानपरिकल्पितं दृश्यत्वादित्यनुमानस्य किं दूषणमुक्तमित्यत आह- अयमत्र समुदायार्थ इति ।। अतिप्रसङ्गेति ।। सर्वमिदं मदज्ञानपरिकल्पितमिति जानतः पुनः शिष्यादिबोधनं न युज्यत इत्यनेनोक्तातिप्रसङ्गेत्यर्थः । असम्भवाच्चेति ।। न च बहूनामित्युक्त-रीत्येत्यर्थः । नाङ्गं धत्त इति ।। अप्रसिद्धविशेषणत्वेनेति भावः । ननु निश्चयपक्षानुपपत्तावनिश्चयपक्षः, अनिश्चय-पक्षानुपपत्तौ निश्चयपक्षश्च कुतोऽङ्गीकार्य इत्यत आह- परस्परेति ।। परस्परविरोधोपेतपदार्थद्वयमध्ये एकस्य प्रतिषेधेऽन्यस्यैव प्राप्तिः न तु प्रकारान्तरे तृतीये स्थितिरित्यर्थः । तथा च ‘परस्परविरुद्धयोरन्यतर-निषेधस्यान्यतरविधिनान्तरीयकत्वात्’ इति न्यायादिति यावत् । व्यापकेति ।। गुरुत्वादीत्यर्थः । व्याप्य-निवृत्तेरिति ।। कल्पकजीवनिवृत्तेरित्यर्थः । जीवस्य कल्पकत्वनिवृत्तेरिति यावत् । बाधितविषयमिति ।। उक्तरीत्यैकजीवाज्ञानपरिकल्पितत्वरूपसाध्याभावनिश्चयाद् दृश्यत्वानुमानं बाधितविषयमित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
तस्य तत्रैव दृढसंस्कारत्वनियामकमाह- पूर्वेति ।। शङ्कते- मोक्षेति ।। अन्यथा तच्छ्रुतिविरोधादिति भावः । ननु भेदप्रवणत्वं न विशेषणम् । किन्तु उपलक्षणमेव । ततश्च तदुपलक्षितस्य कल्पकत्वं भविष्यतीत्यत आह- उपलक्षणत्वपक्षे चेति ।। भेदप्रवणोपलक्षितानां बहूनां दृश्यमानत्वादस्यैव भेदप्रवणोपलक्षितस्य कल्पकत्व-मिति निश्चयोऽनुपपन्न इत्यनिश्चयपक्ष एवाऽपन्न इत्युक्तत्वादित्यर्थः । क्रियाकारकेति ।। नित्यनरकस्य फल-रूपत्वादिति भावः । नन्वेतावता विप्रतिपन्नं सर्वं जीवजडात्मकम् एकजीवाज्ञानकरिकल्पितं दृश्यत्वात् स्वप्नवत् इत्यनुमानस्य किं दूषणमुक्तं भवतीत्यत आह- अयमत्रेति ।।
लघुप्रभा
(व्या.टि.)
मायी शङ्कते-मोक्षश्रुतीति ।। भेदप्रवणत्वस्येति ।। कल्पकविशेषणस्येत्यर्थः । उक्तत्वादिति ।। अनिश्चयपक्षापत्तेरित्यर्थः । ननु निश्चयपक्षदूषणेनानिश्चयपक्षावशेषे अनिश्चयपक्षदूषणेन निश्चयपक्षावशेषे चानुमानस्य किं दूषणमुक्तमित्यतः, अखण्डलब्धार्थमाह- अयमत्रेत्यादिना ।। नाङ्गं धत्ते ।। अनिश्चयपक्षावशेषे प्रतिज्ञाभङ्गो दोष इत्यर्थः । परस्परेति ।। पारस्करादित्वात्सुट् । इतीत्यतः परं निश्चयपक्षावशेषे दोष इति व्यवस्थेति शेषः ।