यं वै सोम्यैतमणिमानं ..

अणिमधानादृष्टान्तवाक्यस्य जीवेश्वर भेद परत्वस्य समर्थनम्

मूलम्

- ‘यं वै सोम्यैतमणिमानं न निभालायसेऽस्य सोम्यैषोऽणिम्न एवं महान्यग्रो-धस्तिष्ठति’ इत्यत्रापि अणिमाशब्देन पर एवाभिहितः । ‘स एषोऽणिमैतदात्म्यमिदं सर्वम् । तत्सत्यम् । स आत्माऽतत्त्वमसि श्वेतकेतो’ इत्युक्तत्वाच्च । धानासु तु ‘अण्व्य इवेमा धाना’ इति स्त्रीलिङ्गप्रयोगादिवशब्दप्रयोगाच्च नाणिमत्वम् । न च ता न निभाल-यसे । ऐतदात्म्यमित्येतदीयम् । स आत्मेत्यात्मशब्दस्तु पर एव । ‘द्युभ्वाद्यायतनं स्वशब्दात्’ ‘नानुमानमतच्छब्दात्’ ‘प्राणभृच्च’ इत्यत्र ‘तमेवैकं जानथात्मानम्’ इति स्वशब्दपर्यायात्मशब्दान्न प्रकृतिजीवावभिधीयेते । किन्तु पर एवेति भगवता व्यासेनाभिहितम् । अत आत्मशब्दस्त्वस्मिन्नेव मुख्यः ।

आततत्वाच्च मातृत्वादात्मेति परमो हरिः ।

आत्माभासास्तदन्ये ये न ह्येतेषां तता गुणाः ।।’ इति परमोपनिषदि ।

तत्त्वमञ्जरी

अस्याणिम्नो नियमनादेवं महान्यग्रोधस्तिष्ठति । स एषोऽणिमेत्यादेरयमर्थः- तेन तेन दृष्टान्तेन स्पष्टीकृतनियन्तृत्वादिविशेषः स एषोऽणिमा सूक्ष्मरूपः परमात्माऽयम् । ऐतदात्म्यमिदं जगत् । एतदीयमित्यर्थः । तद्ध्याह - ऐतदात्म्यमित्येतदीयमिति ।। तत् सत्यम्  तस्मादेतदीय-त्वात् सत्यं, न मिथ्या । अस्य सत्यसृष्टित्वात् । सोऽणिमा कीदृश इत्याकाङ्क्षायां, स आत्मा स्वामी, हे श्वेतकेतो त्वमतदसि ततः स्वामिनोऽन्यजीवाख्यं वस्त्वसि ।

अत्र वाव किल सोम्यैतमणिमानं न निभालयसे अत्रैव किल’ इति । अयं भावः - यथोदके दोषा निहितलवणं प्रातश्चक्षुषा न निभालयसे तथाऽपीमं युक्त्याऽस्तीति जानासि च, एवमेवात्राऽत्मन्येतमणिमानं न निभालयसे हि, सोम्य । अथाप्यत्रैव नियन्तृत्वेनास्ति किला-यम् । किलशब्दः श्रुत्याचार्योपदेशसूचकः ।

स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाऽचार्यवान्  पुरुषो वेद’ इत्यत्रापि यथा पुरुषो गन्धारानेव विचार्य प्राप्नोति एवमेव विशिष्टाचार्यवान् पुरुषो ब्रह्म विचार्य वेदेति ह्यर्थः ।

टीका  

ननु अणिमधानादृष्टान्तो न जीवपरमात्मभेदविषयः । तत्प्रतिपादकपदादर्शनादित्यत आह- यं वा इति ।। अत्रापि जीवपरभेद एवोक्त इति शेषः । कथं? यतोऽणिमशब्देन पर एवाभिहित इति योजना । अथ वा यथा पूर्ववाक्ये जीवशब्देन तथाऽत्रापि अणिमशब्देनेति । तथा च पूर्वोक्तरीत्या भेदपरत्वं सिद्धमिति भावः । अणिमशब्दस्य परमेश्वरवाचित्वं कुत इति चेत्, अर्थसम्भवात्, अत्रैव प्रकरणे प्रयोगाच्चेत्याह- स एष इति ।। अन्यथा प्रकृतपरित्यागप्रसङ्ग इति भावः । नन्वत्राणिमशब्देन धाना उच्यन्ते । तासामप्यणुत्वेन प्रकृतत्वाद् ‘यमेतम्’ इति परामर्शोपपत्तेः । तथा च यथा सूक्ष्मधाना-सामर्थ्यात् तत्परिणामो महान्यग्रोधस्तिष्ठति एवं परमसूक्ष्मपरमात्मसामर्थ्यात् तत्परिणामोऽयं प्रपञ्च इति वाक्यार्थः सम्पद्यत इति । तत्राह- धानासु त्विति ।। धानासु तु नाणिमत्वमिति सम्बन्धः । धानानामत्र नाणिमशब्दविषयत्वमित्यर्थः । धाना हि स्त्रीलिङ्गेन बहुवचनान्तेन इवशब्द-शिरस्केनाणुशब्देन प्रकृताः । ताः कथं भावप्रत्ययान्तेन पुंलिङ्गेनैकवचनान्तेन इवशब्दरहितेनाणिम-शब्देन परामृष्टा इति शक्यते व्याख्यातुम् । शब्दभेदादर्थविरोधाच्च । इवशब्देन हि मुख्याणुत्वा-भावोऽवगम्यते । अत्र तु तदभावान्मुख्यमेवाणुत्वम् । अर्थान्तरविरोधाच्च नैवमित्याह- नचेति ।। अणिम्नो हि ‘न निभालयसे’ इत्यदृश्यत्वमुक्तम् । न च ता धानाः श्वेतकेतुर्न पश्यति । किमत्र पश्यसीति पृष्टेन अण्व्य इवेमा धानाः पश्यामीत्युक्तत्वात् । अतोऽपि न धानाविषयोऽयमणिम-शब्दः । किञ्चास्मिन्पक्षे धानाभेदनादिकमपि व्यर्थम् । धानाया एव वटोपादानत्वात् ।

नन्वणिमशब्दस्य परमात्मनि वृत्तिप्रदर्शनार्थमुदाहृतेऽस्मिन्नेव वाक्ये जीवेश्वरैक्यम् ‘ऐतदात्म्य-मिदं सर्वम्’ इति प्रतीयते । एतत् सदाऽऽत्मा यस्य सर्वस्य तदेतदात्मा, तस्य भावः ऐतदात्म्यम् । एतेन सदाख्येनात्मनात्मवत् सर्वमिदं जगत् । नान्योऽस्त्यस्यात्मा संसारीति । तत्कथमुक्तमस्मिन् प्रकरणे भेद एवोच्यत इति, तत्राह- ऐतदात्म्यमिति ।। इत्यस्यैतदीयमित्यर्थ इत्यर्थः । एतत् सदाऽऽत्मा यस्येत्येवास्तु व्याख्यानम् । आत्मशब्दस्तु स्वामिवाची भावप्रत्ययस्तु परस्यापि व्यर्थः। एतेन, ऐतदात्म्यम् एतत्स्वामिकमेतदीयमिति सिद्ध्यति । अथ वा एष चासावात्मा चैतदात्मा । विचित्रा हि तद्धितगतिरिति वचनात्, एतदात्मन इदमित्यर्थे तद्धितोऽयमित्युक्तं भवति । वैयर्थ्यादर्थान्तरग्रहणस्य ज्यायस्त्वात् । एवं चास्य वाक्यस्यार्थान्तरसम्भवान्न जीवेश्वराभेद-विषयत्वनियम इति भावः ।

तथापि ‘स आत्मा’ इत्यैक्यमुच्यते सोऽणिमैवात्मा जीव इति, तत्राह- स इति ।। आत्मेति शब्दो यस्यासावात्मशब्दः परः परमात्मैव न जीवः । अथ वा आत्मेतिशब्दः परे परमात्मन्येव तद्विषय एवेत्यर्थः । नन्वात्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि रूढत्वात्कथमेतदित्यत आह- द्युभ्वाद्यायतनमिति ।। इत्यत्र त्रिसूत्र्यामिति प्रमेयं भगवताऽभिहितमिति सम्बन्धः । अभिधीयेते यस्मिन् द्यौरित्यादिवाक्ये । प्रकृतिजीवावित्युपलक्षणं, वायुरुद्रावपीत्यपि ग्राह्यम् । न प्रकृति-जीवौ इत्युत्तरसूत्रद्वयार्थः । तत्र हेतुः- स्वशब्दादिति ।। तस्य व्याख्यानम्- स्वशब्देति ।। स्वशब्दाभावात् स्ववाचकशब्दस्याप्यन्यस्यादर्शनात् । ततः किमित्यत आह- अत इति ।। यस्मिन् द्यौरिति वाक्ये किं जीवादिः प्रतिपाद्य उत परमात्मेति सन्दिह्य जीवादिरिति प्राप्ते परमात्मैव, आत्मशब्दात्, न जीवादिरतच्छब्दात्- तदीयशब्दाभावाच्चेति सिद्धान्तितम् । यद्यात्मशब्दो जीववाची स्यात् कथं तर्ह्यात्मशब्दमत्रार्थे हेतुं कुर्यात् । विरुद्धत्वप्रसङ्गात् । आत्मशब्दमत्रार्थे हेतुं वदता सूत्रकारेण आत्मशब्दः परमात्मवाच्येवेत्यङ्गीकृतमिति गम्यते । अतो न तस्य जीवे वृत्तिरिति । कथं तर्हि तस्य प्रयोग इत्यत उक्तम्- मुख्य इति ।। अमुख्यया वृत्त्या जीवे प्रयोग इति भावः । अत्र श्रुतिं चाह- आततत्वाच्चेति ।। देशतः कालतो गुणतश्च व्याप्तत्वात् । मातृत्वाद् ज्ञातृत्वान्निर्मातृत्वा-द्वा । आङ्पूर्वात् तनोतेः, माङ् माने इत्यतश्च डन्प्रत्ययः । आत्मेति शब्देन हरिः परमो मुख्यो वाच्यः । आत्माऽऽभासा अमुख्यवृत्त्याऽऽत्मशब्दार्थाः । कुतः- न हीति ।।

एतेनैतदपि निरस्तम्- ‘‘यद्यत्रात्मशब्दः  परमात्मवाची स्यात्,  तदा स आत्मेत्यस्य  ‘स  स’ इत्यर्थः स्यात् । तथा च वैयर्थ्यम् । न च आत्मशब्दवाच्यत्वविधानं, वैयर्थ्यादेव’’ इति । आतत्वादि-ज्ञापनार्थत्वात् । अथ वा आत्मसम्बन्धीदमित्युक्ते कोऽसावात्मेत्याकाङ्क्षायामेतदित्युक्तम् । तस्यैवेदं विवरणम्- सोऽणिमाऽऽत्मेति । परपक्षे तु ऐतदात्म्यमित्युक्तत्वात् स आत्मेति व्यर्थमेवेति ।

भावबोधः

अथवेति ।। अनेनापिशब्दो विष्णुवाचकपदसद्भावमात्रसमुच्चयार्थ इत्युक्तं भवति । नन्वेतस्मिन् व्याख्याने एतद्व्युत्पादनस्य प्रयोजनं न दृश्यत इत्यत आह- तथा चेति ।। अर्थसम्भवादिति ।। मुख्याणुत्वरूप-पदार्थस्यादृश्यत्वरूपवाक्यार्थस्य  च सम्भवादित्यर्थः । एतच्च ‘धानासु तु’ इत्यादिमूलेनार्थविरोधरूपपरपक्षबाधक-प्रदर्शनेन सूचितमिति भावः । बहुवचनान्तेनेति ।।  अनेन स्त्रीलिङ्गप्रयोगाद्युपलक्षणमित्युक्तं भवति । अत एव- ‘अण्व्य इवेमा धानाः’ इतिश्रुत्युदाहरणमिति भावः । धानास्विवशब्दप्रयोगाभावादिवशब्दाच्चेति कथमित्यत आह-इव शब्दशिरस्केनेति ।। अणुशब्देनेति ।। भावप्रत्ययरहिताणुशब्देनेत्यर्थः । इवशब्देन हीति ।। अनेन इवशब्दाच्चेत्येतद् अर्थविरोधप्रदर्शनार्थम्,  अन्यत्  शब्दभेदप्रदर्शनार्थमुदाहृतमित्युक्तं भवति । अस्मिन्पक्ष इति ।। अणिमशब्दस्य धानावाचकत्वमङ्गीकृत्य यथा सूक्ष्मधानासामर्थ्यादित्याद्युक्तप्रकारेण वाक्ययोजनापक्ष इत्यर्थः । वृत्तिप्रदर्शनार्थमुदाहृत इति ।। तथा ‘न चाभेदे कश्चिदागमः’ इत्युक्तोपपादनसमय एवेदं सम्यग् व्याख्येयम् । अत्र कथं व्याख्यायत इत्यसङ्गतिर्न शङ्क्येति भावः । वायुरुद्रावपीत्यपि ग्राह्यमिति ।। प्रकृतिशब्दो रुद्रस्य जीवशब्दश्च वायोरुपलक्षक इति ज्ञातव्यम् । तथा च ‘नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः’ ‘एतैरेव हेतुभिर्न जीवो वायुश्च’ इति भाष्यविरोधो नेति भावः । यथायोगं सूत्रव्याख्यानसम्बन्धः न यथाक्रम-मित्याह- न प्रकृतिजीवावितीति ।। ननु सौत्रस्य स्वशब्दादित्यस्य स्वशब्दपर्यायात्मशब्दादित्यर्थकत्वे सूत्रमिद-मात्मशब्दस्य विष्णुवाचकत्वे प्रमाणं स्यात् । न चैवम् । ‘स्वातन्त्र्यात्स्व इति प्रोक्तः’ इति प्रमाणसिद्धविष्णु-वाचकस्वशब्दादिति वा स्वशब्दपर्यायनारायणादिशब्दादिति वा व्याख्यानोपपत्तेरित्यत आह- स्वशब्देति ।। यस्मिन् द्यौरिति वाक्ये स्वशब्दस्याभावात् । विष्णुवाचकस्यान्यस्य नारायणादिशब्दस्याप्यदर्शनादित्यर्थः । अतच्छब्दादित्येतदपि ‘विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकम् । श्रुतिर्वक्ति’ इत्यनुव्याख्यानोक्तप्रकारेण स्वशब्दपर्यायात्मादिशब्दादित्यनेनैव व्याख्यातमित्याह- जीवादिरात्मशब्दादिति ।। ‘भस्मधरोग्रत्वादि-तच्छब्दाभावात्’ इति भाष्यं मनसि निधायाह- तदीयशब्दाभावाच्चेति ।। विरुद्धत्वप्रसङ्गादिति ।। आत्मशब्दस्य प्रत्यगात्मनि जीव एव रूढत्वे आत्मशब्दवाच्यत्वहेतोर्द्युभ्वाद्यायतनस्य विष्णुत्वसाधनेेऽविष्णुत्वेन व्याप्तत्वाद् विरुद्धत्वप्रसङ्गः । अजीवत्वसाधने जीवत्वेन व्याप्तत्वाद्विरुद्धत्वं स्यादित्यर्थः । परमात्मवाच्येवेत्यङ्गीकृत-मिति ।। विरुद्धत्वपरिहारायोभयवाचकत्वाङ्गीकारे व्यभिचारप्रसङ्गेन पुनर्हेतुत्वं न स्यादित्येवमङ्गीकृतमित्यर्थः।  अमुख्ययेति ।।  सूत्रे हेतुत्वेनोक्तात्मशब्दो मुख्यवृत्तिरेवेति भावः । देशत इति ।। अनेन ‘न ह्येतेषां तता गुणाः’ इत्यत्र तता गुणा इत्येतद्देशकालव्याप्तत्वोपलक्षणमित्युक्तं भवति । अत एवात्र गुणतश्चेत्युक्तम् । एतदित्युक्तमिति ।। ऐतदात्म्यमिति वाक्ये एतदित्युक्तमित्यर्थः । ऐतदात्म्यमित्युक्तत्वादिति ।। ऐतदात्म्यमित्यनेनैव त्वदुक्तरीत्या जीवेश्वराभेदस्योक्तत्वात्पुनस्तत्प्रतिपादनार्थं स आत्मेति व्यर्थमेवेत्यर्थः ।

भावदीपः

अपिपदार्थघटनायाह- इति शेष इति ।। प्रकारान्तरेण घटनायाह- अथ वेति ।। नात्र शेषो वाच्य इति भावः ।  अर्थविरोधाच्चेत्युक्तं व्यनक्ति- इवशब्देनेति ।।  प्रतीयत इत्युक्तं व्यनक्ति- एतत्सदात्मे-त्यादि ।। सदेव सोम्येत्यादिना प्रकृतत्वादेतच्छब्देन तदेव परामृश्यत इति भावः । आत्मवदिति ।। स्वरूप-वदित्यर्थः । अस्येति ।। जगत इत्यर्थः । इत्येवास्त्विति ।। परोक्तमेवास्त्वित्यर्थः । तद्धितोऽयमिति ।। ष्यञ्प्रत्यये रूपमित्यर्थः । कुत एवं कल्पनेत्यत आह- वैयर्थ्यादिति ।। अर्थान्तरेति ।। तस्येदमित्यर्थे तद्धित-प्रत्ययमुपेत्यैतदीयमित्यर्थान्तरग्रहणस्येत्यर्थः ।

त्रिसूत्र्यामिति ।। ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसंज्ञायां ‘द्विगोः’ इति ङीप् । अभिहितमित्यस्यान्वयाय पर एवेतीतिपदानन्तरं शेषमाह- इति प्रमेयमिति ।। ‘नानुमानात्मकाऽगमपरिकल्पितरुद्रोऽत्र वाच्यः’ इति, ‘एतैरेव हेतुभिर्न जीवो वायुश्च’ इति च सूत्रभाष्यानुरोधादाह- प्रकृतिजीवावित्युपलक्षणमित्यादि ।। अप्रतीतेर्विवेकमाह- न प्रकृतिजीवावित्युत्तरसूत्रद्वयार्थ इति ।। तत्र न प्रकृतिरुद्राविति ‘नानुमानमतच्छब्दात्’ इत्यस्य, वायुजीवौ न द्युभ्वाद्यायतनमिति तु ‘प्राणभृच्च’ इति सूत्रस्यार्थः । तत्रेति ।। प्रथमसूत्रार्थ इत्यर्थः । कुत एवं व्याख्या स्वेतिशब्दादिति ? स्वस्य शब्दः स्वशब्दः, स्ववाचकशब्द इति विग्रहेण वाचकशब्दान्तरस्यापि सुवचत्वादित्यत आह- स्वशब्दाभावादित्यादिना ।। जीवादिरिति ।। प्रकृतिवायुरुद्रा आदिपदेन ग्राह्याः । तदीयेति ।। जीवादिबोधकशब्दाभावाच्चेत्यर्थः । स ‘एषोऽन्तश्चरते बहुधा जायमानः’ इति जायमानशब्दस्तु ‘अजायमानो बहुधा विजायते’ इति श्रुत्या विष्णौ सावकाश इति भावः । विरुद्धत्वेति ।। यस्मिन्निति वाक्ये जीवो न प्रतिपाद्यः किन्तु विष्णुरेव । जीववाचकशब्दस्य वाक्येऽसत्त्वादित्युक्तौ विरुद्धत्वप्रसङ्गादित्यर्थः । अत्रार्थ इति ।। द्युभ्वाद्यायतनं जीवो न किन्तु विष्णुरेवेत्युक्तेऽर्थ इत्यर्थः । तत्रेति ।। जीवे ‘हृदि ह्येष आत्मा’ इत्यादौ प्रयोग इत्यर्थः । ज्ञातृत्वादिति ।। ‘माङ् माने’ इति धातोरिति भावः । निर्मातृत्वादिति ।। ‘मा निर्माणे’ इति धातुपाठादिति भावः । डन्प्रत्यय इति ।। आतन् मा इति स्थिते ‘उणादयो बहुलम्’ इति वा निरुक्तिबलाद्वा डन्प्रत्यये ‘चुटू’ इति डकारलोपे डित्त्वसामर्थ्यादभस्यापि टेर्लोपे स्वाद्युत्पत्तावात्मेति रूपमिति भावः । ‘अदिभूभ्यां डुतच्’ इत्यादाविव धातुद्वयादप्यस्ति प्रत्यय इति भावः । श्रुत्यर्थमाह- आत्मेतीति ।। एतेनेत्युक्तं व्यनक्ति- आततत्वादीति ।। ऐतदात्म्यमित्यत्रैतच्छब्दव्याख्यानरूपत्वान्न व्यर्थतेत्याह- अथ वेति ।। इत्युक्त इति ।। ‘ऐतदात्म्यमिदं सर्वम्’ इत्यत्र ‘आत्मन इदम् आत्म्यम्’ इतीदं सर्वं जगदात्म-सम्बन्धीत्युक्ते सति कोऽसावात्मेत्याकाङ्क्षायामात्मविशेषणत्वेनैतदित्युक्तम् । एष आत्मा एतद् आत्मा, तस्येदमैतदात्म्यमिति  । तथोक्तावप्येतच्छब्देनेव आत्मेत्येतच्छब्देनापि को वा कथ्यत इति जिज्ञासायां स आत्मेति तच्छब्देन पूर्वप्रकृताणिमशब्दनिर्दिश्व्ं  स इत्यनूद्य ‘सोऽणिमा आत्मा न जीवः’ इत्युच्यत इत्यर्थः । परपक्षे त्विति ।। स आत्मेत्यत्र जीवेशाभेद एवोच्यत इति पक्ष इत्यर्थः । प्राक्परोक्तरीत्या ऐतदात्म्यपदेनैवाभेदस्य प्राप्तेरिति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

तथाऽत्रापीति ।। अनेनापिशब्दो विष्णुवाचकपदसद्भावमात्रसमुच्चयार्थ इत्युक्तं भवति । पूर्वोक्त-रीत्येति ।। ‘यथा सूक्ष्मवटबीजे दृश्यमानेऽपि यत्प्रभावात् वटावस्थानं स बीजान्तर्गतः परमात्मा परमसूक्ष्मत्वान्न दृश्यते तथा जीवादपि सूक्ष्मत्वात्तदन्तर्गतोऽपि परमात्मा न दृश्यते’ इति पूर्वोक्तरीत्येत्यर्थः । अर्थसम्भवा-दिति ।। अणिमशब्दार्थभूतस्य मुख्याणुत्वस्याणोरणीयानिति श्रुत्या परमेश्वर एव सम्भवात् ‘अणिमानं न निभालयसे’ इत्युक्तादृश्यत्वरूपवाक्यार्थस्य च तस्मिन्नेव सम्भवादित्यर्थः । प्रयोगाच्चेति ।। अणिमशब्दस्य परमेश्वरे प्रयोगाच्चेत्यर्थः । मूले इत्युक्तत्वादिति ।। इति प्रकृतत्वादित्यर्थः । नन्वत्रेति ।। ‘यं वै सोम्यैत-मणिमानम्’ इति वाक्य इत्यर्थः । नन्वत्राणिमशब्देन परमात्मैवोच्यत इति वक्तव्यम् । स एषोऽणिमेति पूर्वखण्डान्तेऽणिमशब्देन परमात्मन एव प्रकृतत्वात् यं वै सोम्येति वाक्ये ‘यमेतमणिमानम्’ इति परामर्श उपपद्यते । धानाग्रहणे त्वप्रकृतपरामर्श इति चेत्तत्राह- तासामपि प्रकृतत्वादिति ।। ‘अण्व्य इवेमा धानाः’ इति पूर्ववाक्य इत्यर्थः । ननु धानानां कथमणुशब्देन प्रकृतत्वमित्यत उक्तम्- अणुत्वेनेति ।। सूक्ष्मत्वेनेत्यर्थः। यमेतमिति परामर्शेति ।। यमेतमणिमानमिति परामर्शेत्यर्थः । धाना हीत्यनन्तरं ‘अण्व्य इवेति’ इति शेषः । स्त्रीलिङ्गप्रयोगादित्युपलक्षणमित्यभिप्रेत्य बहुवचनान्तेनेत्युक्तम्    धानास्विवशब्दप्रयोगाभावादिवशब्द-प्रयोगाच्चेति कथमुक्तमित्यत उक्तम्- इवशब्दशिरस्केनेति ।। अणुशब्देनेति ।। भावप्रत्ययरहिताणुशब्देने-त्यर्थः । भावप्रत्ययान्तेनेति ।। ‘पृथ्वादिभ्य इमनिज्वा’ इति सूत्रेणाणुशब्दाद्भावे इमनिच्प्रत्यय इति भावः । शब्दभेदादिति ।। स्त्रीलिङ्गप्रयोगादित्यनेन शब्दभेद उपपादितः । स्त्रीलिङ्गबहुवचनान्तभावप्रत्ययरहिताणुशब्दो धानास्वण्व्य इति प्रयुक्तः । अत्र त्वतादृशोऽणिमशब्द इति शब्दभेदादित्यर्थः । इवशब्दाच्चेत्यनेनार्थविरोध उपपादितः । तमुपपादयति- इवशब्देन हीति ।। धानानामिति शेषः । अत्र त्विति ।। यं वै सोम्यैतमणिमानमिति वाक्ये इवशब्दाभावात्परमात्मनो मुख्यमेवाणुत्वमणिमशब्देनावगम्यत इत्यर्थः । अस्मिन्पक्ष इति ।। अणिम-शब्दस्य धानावाचकत्वमङ्गीकृत्य ‘यथा सूक्ष्मधानासामर्थ्यात्तत्परिणामो महान्यग्रोधस्तिष्ठति’ इत्याद्युक्तप्रकारेण वाक्ययोजनापक्ष इत्यर्थः । ननु वटोपादानस्य धानान्तस्सत्त्वात् तत्सामर्थ्यान्महान्यग्रोधस्तिष्ठतीति वक्तुं धानाभेदनादिकं सार्थकमिति चेत्तत्राह- धानाया एवेति ।। ननु ‘न चाभेदे कश्चिदागमः’ इत्युक्तोपपादनसमय एवैतदात्म्यमिति वाक्यमुदाहृत्य सम्यग्व्याख्येयम् । अत्रोदाहृत्य व्याख्याने त्वसङ्गतिरित्याशङ्कापरिहारायोक्तम्- परमात्मनि वृत्तिप्रदर्शनार्थमुदाहृत इति ।। अत्र प्रकरणे परमात्मन्यणिमशब्दस्य वृत्तिसद्भावः, प्रयोग इति यावत् तत्प्रदर्शनार्थमुदाहृत इत्यर्थः । अतो नासङ्गतिरिति भावः । एतत्सत् ब्रह्म ।

ननु कथमनेन जीवेश्वरैक्यं लभ्यतेऽतस्तत्तात्पर्यमाह- एतेनेति ।। यदिदं जगत् आत्मवद् जीववत्, तत्सदाख्ये-नात्मना ब्रह्मणैवात्मवदित्यर्थः । तद्व्यावर्त्यमाह- नान्योऽस्तीति ।। अन्यः सदन्यः । संसारी जीवः । तथाच जीवेश्वरैक्यलाभ इति भावः । एतदीयमित्यनन्तरं इत्यर्थ इति शेषमभिप्रेत्याह- एतदीयमित्यर्थ इत्यर्थ इति ।। एतदीयमित्यर्थमुपपादयति- एतत्सदात्मेत्यादिना ।। तर्ह्युक्तरीत्या जीवेश्वराभेदः प्राप्त एवेति चेत्तत्राह- आत्म-(श्री.टि.) शब्दस्त्विति ।। ननु तर्हीदं सर्वमेतदात्मेत्येव स्यात्, न त्वैतदात्म्यमिति भावार्थकष्यञ्प्रत्ययप्रयोगः। एतत्स्वामिकमिति भवदभिप्रेतार्थस्य भावप्रत्ययं विनाऽपि सिद्धेरिति चेत् सममेतत्तावपीत्याह- भावप्रत्यय-स्त्विति ।। भावार्थकष्यञ्प्रत्ययस्तवापि व्यर्थः । एतत्सदात्मा यस्य, एतेन सदाख्येन आत्मनेत्यादित्वदभिप्रेतार्थ-स्यापि तं विनैव सिद्धेरित्यर्थः । ननु सुखमेव सौख्यमित्यत्रेव एतदात्मैवैतदात्म्यमिति ष्यञ्प्रत्ययस्य स्वार्थिकत्वं मया स्वीक्रियते इति चेत्, समं ममापीति भावः । ननु ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति सूत्रेण कर्मणि भावे च ष्यञ्प्रत्ययो विहितः । जडस्य कर्म भावो वा जाड्यम् । ब्राह्मणस्य कर्म भावो वा ब्राह्मण्य-मिति । तथा ‘चतुर्वर्णादिभ्यः स्वार्थ उपसङ्ख्यानम्’ इति वार्तिकेन स्वार्थे ष्यञ्प्रत्ययो विहितः । चत्वारो वर्णा एव चातुर्वर्ण्यम् । त्रयो लोका एव त्रैलोक्यम् । चत्वार आत्मान एव चातुरात्म्यमिति । तथा च तस्येदमिति सम्बन्धार्थे कथं ष्यञ्प्रत्ययो व्याख्यायत इत्यत उक्तम्- विचित्रा हि तद्धितगतिरिति ।। एतदात्मन इद-मिति ।। एतदात्मनः सम्बन्धि एतदीयमित्यर्थः । तद्धितोऽयमिति ।। तद्धितष्यञ्प्रत्ययान्तमित्यर्थः । तथा चैतदात्मशब्दात् सम्बन्धार्थे ष्यञ्प्रत्यये ‘षः प्रत्ययस्य’ इति प्रत्ययाद्यस्य षस्य लोपे हलन्त्यमिति ञकारलोपे ‘तद्धितेष्वचामादेः’ ञिति णिति च प्रत्यये परे अचामादेरचो वृद्धिस्स्यादिति सूत्रेण ञित्त्वादादिवृद्धौ ‘नस्तद्धिते’ इति टिलोपे सत्यैतदात्म्यमिति रूपमिति भावः । ननु विचित्रा हि तद्धितगतिरिति वचनानुसारेण तस्येदमित्यर्थे ष्यञ्प्रत्ययाश्रयणं गौणमिति चेत्तत्राह- वैयर्थ्यादिति ।। त्वत्पक्षे तस्य स्वार्थिकत्वाश्रयणेन व्यर्थत्वादित्यर्थः । अर्थान्तरेति ।। तस्येदमित्येवं सम्बन्धरूपार्थान्तरेत्यर्थः ।

कथमुच्यत इत्यतस्तद्व्याख्याति- सोऽणिमैवेति ।। आत्मेतिशब्दो यस्येति ।। आत्मेति शब्दो वाचको यस्येत्यर्थः । आत्मशब्दः आत्मशब्दवाच्यः । तद्विषयः तत्प्रतिपादकः । प्रत्यगात्मनि अन्तरात्मनि जीव इत्यर्थः ।  ईश्वरस्तु परमात्मेति सोपपदात्मशब्दवाच्यतया प्रसिद्ध इति भावः ।  वायुरुद्रावपीत्यपि ग्राह्य-मिति ।। तथा च ‘नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः’ इति भाष्यानुसारेण प्रकृतिशब्दो रुद्रस्य ‘एतैरेव हेतुभिर्न जीवो वायुश्च’ इति भाष्यानुसारेण जीवशब्दो वायोरुपलक्षक इत्यर्थः । ‘द्युभ्वाद्यायतनम्’ इति सूत्रमुदाहृत्य न प्रकृतिजीवावित्युक्त्या द्युभ्वाद्यायतनमिति प्रथमसूत्रमपि प्रकृतेर्द्युभ्वाद्यायतनत्वप्रतिषेधकमिति प्रतीयत अत आह- न प्रकृतिजीवावितीति ।। उत्तरसूत्रद्वयार्थ इति ।। ‘नानुमानम्’ इति सूत्रम् ‘नानुमानात्म-कागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात्’ इति न्यायेन प्रकृतिवाचकशब्दाभावान्नानु-मानात्मकागमपरिकल्पिता प्रकृतिरत्र वाच्येति न प्रकृतिर्द्युभ्वाद्यायतनमित्येवं द्वितीयं सूत्रं प्रकृतेर्द्युभ्वाद्यायतनत्व-प्रतिषेधकम् । ‘प्राणभृच्च’ इति सूत्रं ‘एतैरेव हेतुभिर्न जीवो वायुश्च’ इति भाष्योक्तरीत्या जीवस्य तत्प्रति-षेधकमित्यर्थः ।

ननु स्वशब्दपर्यायात्मशब्दादिति कुतो व्याख्यायते । किं नाम ‘स्वातन्त्र्यात्स्व इति प्रोक्तः’ इति प्रमाणप्रसिद्ध-विष्णुवाचकस्वशब्दसद्भावादिति कुतो न व्याख्यायत इत्यत आह- स्वशब्दाभावादिति ।। ‘यस्मिन्द्यौः पृथिवी (श्री.टि.) चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः’ इति विषयवाक्ये स्व इति शब्दः, तस्याभावादित्यर्थः । नन्वथापि स्वस्य वाचकः शब्दः स्वशब्द इत्यङ्गीकृत्य स्ववाचकनारायणादिशब्दसद्भावादिति कस्मान्न व्याख्यायत इत्यत आह- वाचकशब्दस्यापीति ।। विष्णु-वाचकस्यान्यस्य नारायणादिशब्दस्याप्यदर्शनादित्यर्थः । प्रतिपाद्य इति ।। द्युभ्वाद्यायतनत्वेनेत्यर्थः । परमा-त्मैवेति ।। द्युभ्वाद्यायतनमित्यर्थः । स्वशब्दादित्यस्यार्थः- आत्मशब्दादिति ।। नानुमानं, प्राणभृच्चेत्यस्यार्थः- न जीवादिरिति ।। अतच्छब्दादित्यस्य ‘विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्ति’ इत्यनुव्याख्यानानुसारेणार्थमाह- आत्मशब्दादिति ।। ‘भस्मधरोग्रत्वादितच्छब्दाभावात्’ इति भाष्यं मनसि निधायातच्छब्दादित्यस्यैवार्थान्तरमाह- तदीयशब्दाभावाच्चेति ।।

आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।

स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ।

यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।

आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ।।’

इत्यनुव्याख्यानं मनसि निधायोपपादयति- यद्यात्मशब्द इत्यादिना ।। अत्रार्थ इति ।। द्युभ्वाद्यायतनस्य विष्णुत्वे जीवादित्वाभावे चेत्यर्थः । विरुद्धत्वप्रसङ्गादिति ।। आत्मशब्दस्य प्रत्यगात्मनि जीव एव रूढत्वे द्युभ्वाद्यायतनं विष्णुरेव आत्मशब्दवाच्यत्वादित्यनुमाने आत्मशब्दवाच्यत्वहेतोरविष्णुत्वेन व्याप्तत्वाद्विरुद्धत्व-प्रसङ्गः । द्युभ्वाद्यायतनं न जीवादिरात्मशब्दवाच्यत्वादित्यनुमानेऽप्यात्मशब्दवाच्यत्वस्य जीवत्वेन व्याप्तत्वाच्च विरुद्धत्वप्रसङ्ग इत्यर्थः । अमुख्यया वृत्त्येति ।। मुख्यवृत्त्याऽऽत्मशब्दवाच्यत्वमेव तत्र हेतुत्वेन विवक्षितमित्यर्थः।

तनोतेरिति ।। ‘तनु विस्तारे’ इति धातोरित्यर्थः । विस्तारो व्याप्तिः । माङ् मान इति ।।

मानं ज्ञानं लयश्चैव निर्माणं चापि कथ्यते’

इति वचनान्मानमिति ज्ञानं निर्माणं चोच्यत इत्यर्थः । ततश्चाङ्पूर्वकात् ‘तनु विस्तारे’ ‘माङ् माने’ आभ्यां डन् प्रत्यये डित्त्वात् धातुद्वयेऽपि टिभूतस्य अन् इत्यस्य आ इत्यस्य च लोपे आत् म् अन्= आत्मन् इति प्रातिपदिकसिद्धिः । ननु धातुद्वयोपरि एकः प्रत्ययः कथमानीयते वैयाकरणसम्प्रदायाभावादिति चेन्न । ‘अदिभूभ्यां डुतच्’ इति सूत्रेण ‘अद भक्षणे’ ‘भू सत्तायाम्’ इति धातुद्वयोपर्येकं डुतच्प्रत्ययमानीय अद्भुतमिति रूपस्योणादिवृत्तौ साधितत्वादित्यवधेयम् । स स इत्यर्थः स्यादिति ।। स आत्मेति तच्छब्देन ऐतदात्म्यमिति प्रकृतात्मैव परामर्शनीयः, तथा चात्मा आत्मेत्यर्थस्यादित्यर्थ इत्याहुः । वस्तुतस्तु सोऽणिमैवात्मेति व्याख्याना-दुभयोरपि परमात्मवाचकत्वेन विश्वं विष्णुरितिवत्पर्यायत्वप्राप्त्या वैयर्थ्यादित्यर्थः । ननु सोऽणिमाऽऽत्मशब्दवाच्य इत्यात्मशब्दवाच्यत्वं विधीयत इति नोक्तदोष इत्याशङ्क्य निराकरोति- न चेति ।। वैयर्थ्यादेवेति ।। आत्मशब्द-वाच्यत्वविधानस्यापि वैयर्थ्यादिति भावः । एतेनेत्युक्तं विशदयति- आततत्वादिति ।। आततत्वादिज्ञापनार्थ-(श्री.टि.) मात्मशब्दवाच्यत्वं विधीयत इति न वैयर्थ्यमिति भावः । इत्युक्त इति ।। आत्म्यमित्यनेनेत्यर्थः। एतदित्युक्तमिति ।। ऐतदात्म्यमिति वाक्ये एतदित्युक्तमित्यर्थः । तस्यैवेति ।। एतदात्मेत्यस्यैवेत्यर्थः । इदं स आत्मेति वाक्यम् । सोऽणिमेति एतदित्यस्य विवरणम् । आत्म्यमित्यत्रत्यात्मशब्दानुवाद आत्मेति । तथा च ऐतदात्म्यमित्यस्य एषः पूर्वमणिमशब्देन प्रकृतश्चासावात्मा चैतदात्मा, तस्येदमैतदात्म्यमित्यर्थो द्रष्टव्य इत्युक्तं भवति । इत्युक्तत्वादिति ।। इति वाक्येन जीवेशाभेदस्य प्रतिपादितत्वादित्यर्थः । व्यर्थमेवेति ।। तेनाप्यभेदस्यैव प्रतिपादनेन पुनरुक्तिप्रसङ्गादित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

भावप्रत्यय इति ।। भावार्थे ष्यञ्प्रत्यय इत्यर्थः । तेन विनापि पराभिमतार्थसिद्धेः । तथा च मां प्रति तत्पर्यनुयोगो न युक्त इति भावः । ननु भावार्थे ष्यञ्विधानात् कथमिदमर्थे तद्व्युत्पादनमित्यतः, ‘तद्धिताः’ इति बहुवचनप्रयोगलब्धात् ‘विचित्रा हि तद्धितगतिः’ इति वचनात् भावार्थविहितस्यापीदमर्थे विधानसिद्धेर्नानु-पपत्तिरिति भावेनाह- विचित्रेति ।। तर्हि त्वत्पक्षेऽपि क्लिष्टकल्पनाश्रयणात्पक्षद्वयसाम्यमेवेत्यत आह- वैयर्थ्या-दिति ।। उक्तयोजनायां जघन्यबहुव्रीह्याश्रयणं भवतीत्यरुचिं मन्वानः पक्षान्तरमाह- अथवेति ।। उत्तरसूत्र-द्वयेति ।। ‘नानुमानमतच्छब्दात्’ ‘प्राणभृच्च’ इत्युत्तरसूत्रद्वयेत्यर्थः । कथं तर्हीति ।। ‘हृदि ह्येष आत्मा’ इत्यत्रेत्यर्थः । डन्प्रत्यय इति ।। बाहुलकात् धातुद्वयात् डन्प्रत्यये डित्त्वादुभयत्र टिलोपे च सति आत्मन्निति प्रातिपदिकनिष्पत्तिरिति भावः ।

लघुप्रभा

(व्या.टि.)

वाक्यं भेदेन योजयितुं शेषं पूरयति- अत्रापीति ।। जीवपरभेद इति सप्तमी । उक्त इति ।। अणिमधानादृष्टान्त इत्यर्थः । अत्र जीववाचिपदाभावेन प्रथमान्तानन्वयात् ।

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिवेदना ।।’

इति गीतारीत्या बीजजीवस्यैव धानारूपेण दृश्यत्वपरिग्रहे यथाश्रुत एवान्वयः । एकवाक्यतया योजयति- अथ वेति ।। पूर्वोक्तेति ।। ‘तत्र यथा सूक्ष्मवटबीजे दृश्यमानेऽपि’ इत्युक्तभावदिशेत्यर्थः । कुत इति किं हेतुं पृच्छसि प्रमाणं वा । आद्ये प्राह- अर्थेति ।। द्वितीये आह- प्रयोगाच्चेति ।। अप्रकृतत्वाद् यमेतमिति परामर्शायोग इत्यत आह- तासामपीति ।। तद्ग्रहणे प्रकृतानुगुण्येन वाक्यार्थमाह- तथा चेति ।। अर्थविरोधमुपपादयति- इवशब्देन हीति ।। श्येनयागे ‘यथा वै श्येनः’ इति श्येनसादृश्योक्त्या मुख्यश्येनत्वाभावदर्शनादिति हिशब्दार्थः। उक्तत्वादिति ।। किमत्र पश्यसीति प्रश्नवाक्ये किंशब्दस्य द्वितीयान्तत्वेन तत्प्रतिवचनगताणुधानाशब्दयोरपि  द्वितीयान्तत्वे  कारकपदस्य क्रियापदापेक्षत्वेन पश्यामीति क्रियापदस्याप्युक्तप्रायत्वादित्यर्थः । अस्मिन्पक्ष इति ।। धानापदेनोपादानोपादान इत्यर्थः । मायी ‘मृदात्मा घटः’ इतिवदात्मपदस्य स्वरूपार्थत्वं मत्वा व्याचश्व्े- एतत्सदिति ।। प्रत्यगर्थत्वाभिप्रायेण वाऽऽह- एतेनेति ।। ‘ओमित्येकाक्षरम्’ इति प्रणवस्यैकाक्षरत्ववदैतदात्म्य-पदस्यैतदीयत्वभ्रमं वारयति- इत्यस्येति ।। कथमनेनास्यार्थस्य लाभ इत्यत आह- आत्मशब्दस्त्विति ।।

(व्या.टि.) ‘विष्णुरात्मा भगवतो भवस्यामिततेजसः’ इति भारते,

सूर्य आत्मा जगतस्तस्थुषश्च’ इत्यादौ स्वामिन्यप्यात्मपदप्रयोगात् । सूर्यस्य स्थावरजङ्गमात्मकत्वायोगाच्च तत्र तद्वाचित्वमवसीयत इत्यर्थः । परस्यापीति ।। तथा च ‘यत्रोभयोः समो दोषः’ इति न्यायात् न तेन वादी पर्यनुयोज्य इति भावः । अर्थान्तरे तत्सार्थक्यमाह- अथवेति ।। इदमित्यर्थ इति ।। तस्य भाव इति निर्दिष्टार्थ-परित्यागेनार्थान्तरग्रहणमन्याय्यमित्यत आह- वैयर्थ्यादिति ।। अत एव पूर्वतन्त्रे ‘यद्यपि चतुरवत्ती यजमानः पञ्चवत्तैव वपा कार्या’ इत्यत्र ‘वाक्यवैयर्थ्याद्वपाशब्दे लक्षणैव ज्यायसी’ इत्युक्तं दशमे । एतदात्मशब्दादेतदीय-मित्यर्थे छप्रत्ययस्थाने ष्यञ्प्रत्ययो वा । ‘व्यत्ययो बहुलम्’ इति सूत्रात् । अन्नादाय इत्यादौ कर्मण्यणि प्राप्तव्येऽच् यथा ।

आत्मशब्दस्य प्रत्यगर्थत्वभ्रान्त्या शङ्कते- तथापीति ।। आत्मशब्द इत्यत्र बहुव्रीहिकर्मधारययोः, पर एवेत्यत्र सप्तमीप्रथमयोश्च सम्भवादुभयत्र(था) व्याचश्व्े- आत्मेतीत्यादिना ।। पर इति ।। परमात्मन्येवेत्यर्थः । निरुप-पदस्येति ।। अनेन जीवात्मपरात्मपरमात्मशब्दानां सोपपदानामन्यपरत्वमभिप्रैति । अत्रेत्येतच्छब्दनिर्दिष्टं दर्शयति- त्रिसूत्र्यामिति ।। ‘द्विगोः’ इति ङीप् । अत्रेतिशब्दो वाक्यार्थपरामर्शीत्याह- इति प्रमेयमिति ।। वायुरुद्रावपीति ।। ‘नानुमानम्’ इति सूत्रे ‘नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः’ इति भाषितत्वात्, ‘प्राणभृच्च’ इति सूत्रे ‘एतैरेव हेतुभिर्न जीवो वायुश्च’ इति चशब्देन वायोरपि समुच्चितत्वादित्यर्थः । ननु स्वेतिशब्दः स्वशब्दः, स्वस्य शब्दः स्वशब्द इति वाऽस्तु विग्रहः, किं पर्यायग्रहणेनेत्यत आह- स्वशब्देति ।। अन्य-स्येति ।। अनेन स्वस्य शब्दः स्वशब्द इत्येव विग्रहः । स्वीयत्वं कथमस्येत्यतः षष्ठ्यर्थघटनाय पर्यायेत्युक्तमिति हृदयम् । ननु गृहीतशब्दपरित्यागेन पर्यायग्रहणं क्व दृष्टमिति चेत्, ‘सभाराजाऽमनुष्यपूर्वा’ इत्यत्र राजपर्याय- इनादिशब्दा एव गृहीताः । इनसभमीश्वरसभमित्यादेरेवोदाहृतत्वात् । राजसभेति गृहीतशब्दस्य प्रत्युदाहृत-त्वाच्चेत्यवेहि । अधिकरणशरीरं रचयति- यस्मिन्द्यौरित्यादिना ।।

यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।

आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।

स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराड् ।।’

इति तदी(तुरी)याद्यपादीयानुव्याख्यानमनुरुन्धान आह- यद्यात्मशब्द इत्यादिना ।। अमुख्ययेति ।। परम-मुख्यवृत्त्यपेक्षया । यथोक्तमनुव्याख्याने-  ‘तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता । उपलक्षणा च गौणी च’ इति । ‘अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोऽश्वा एवास्मै समीचो दधाति’ इतिवत् । तत्र पशूना-मेवापशुत्वोक्तेः प्रशंसैव निमित्तमुक्तं ‘प्रशंसा’ इति सूत्रे । अन्यथा व्याहतिप्राप्तेः । तथेहापीति रहस्यम् ।

परोक्तार्थपरित्यागाय व्याचश्व्े- देशत इत्यादिना ।। निर्मातृत्वादित्यनेन ‘मा निर्माने’ इति धातुप्रकृतिकत्व-(व्या.टि.) मप्यात्मशब्दस्याभिप्रैति । चशब्देन प्रकृत्यन्तरसमुच्चयः । डन्प्रत्यय इति ।। डित्त्वादुभयत्र टिलोप इति भावः । न च धातुद्वयात्प्रत्ययो न दृष्टचर इति वाच्यम् । ‘अदिभूभ्यां डुतच् इति यथा’ इति सुधादौ निदर्शित-त्वात् । न च दृष्टान्तोऽसम्मतः, ‘अदिभुवो डुतच्’ इत्येवार्वाचीनपाठादिति वाच्यम् । अदिभूभ्यामिति द्विवचनान्त एव पञ्चपादीदशपाद्यादिषु प्राचीनः सार्वजनीनः पाठः । तत्र न शङ्कापङ्कः । एकवचनान्तार्वाचीनपाठेऽपि ‘अस्ति-सिचोऽपृक्ते’ इत्यादिवद् द्वन्द्वैकवद्भावेनैकवचनोपपत्तेर्धातुद्वयात्प्रत्यये नेदं बाधकम् । आश्चर्यार्थाव्ययानुकरणत्वे अतीति निर्देशप्रसङ्गः । अदितिदान्ताव्ययपाठस्य शपथनिर्णेयत्वात् । न च धातोरित्येकवचनाधिकारो बाधकः। यथा प्रातिपदिकादित्येकवचनाधिकारेऽपि ऐतिह्यमित्यादिसिद्धये ‘अनन्तावसथेतिहभेषजाञ्ञ्यः’ इति इतिहेति-निपातसमुदायादपि तद्धितः, यथा वा ‘वर्णात्कारः’ इत्येकवचनाधिकारेऽपि स्वाहाकारः स्वधाकारो वषट्कारो वौषट्कार इत्यादिसिद्धये समुदायादपि प्रत्ययः स्वीकृतः, तथाऽत्रापि धातुसमुदायादपि प्रत्ययोत्पत्तौ बाधका-भावात् । अत एव वेदभाष्ये ‘दिधिषुरित्यत्र धातुद्वयादुकारप्रत्ययः’ इत्युक्तं भट्टभास्करेण । दिधिं धैर्यं, स्यति त्यजति इति भट्टोजिव्याख्यानं मात्सर्यमूलमेव । ‘माङ् माने ऊख गतौ इति धातुद्वयादचि मयूखः’ इति मुकुटः। तत्खण्डनमपि भट्टोजिकृतं मत्सरमूलम् । न चैकस्योभयत्र कार्यकरणानुपपत्तिरिति वाच्यम् । श्रौतनिर्वचनबलात् प्रकृतिप्रत्ययकल्पनवत् तत्कार्यकल्पनस्यापीष्टरूपानुरोधेन युक्तत्वात् । तस्माद्धातुद्वयादेकप्रत्ययानुपपत्तिरिति मूर्खप्रलापमात्रमिति दिक् ।

ननु शङ्कितरि रूढिमारूढे कथं योगमात्रेण समाधानं, तस्य ततो दुर्बलत्वादिति चेन्मैवम् । ‘आत्मब्रह्मादयः शब्दाः साक्षाद् ब्रह्माभिधायिनः’ इति स्मृत्या भगवति रूढेरपि सत्त्वात् । न च सत्यां तस्यां योगमात्रस्वीकारो नोचित इत्यतस्तत्र बाधकपरिहारार्थत्वादित्याशयेन शङ्कितबाधकमनूद्यावद्यति- एतेनेति ।। वैयर्थ्यमिति ।। उद्देश्यतावच्छेदकविधेययोरैक्ये अनुवादविधानाद्ययोगेन शाब्दबोधानुपपत्तिरित्यर्थः । प्रमाकरणं प्रमाणमि-त्यादावैकार्थ्यमाशङ्क्य शक्यशब्दवाच्यत्वविधानाच्छाब्दबोधोपपत्तिरिति नैयायिकमतं दूषयिष्यन्ननुवदति- न चेति ।। दूषयति- वैयर्थ्यादेवेति ।। अर्थशास्त्रे शब्दस्याव्युत्पाद-नीयत्वात्तस्याव्युत्पन्नाधिकारिकत्वादित्यर्थः। अथ वा शब्दवृत्तेः प्राग(ज्ञात)लग्नशब्दप्रयोगप्रत्यययोरयोगेन गृहीतसङ्गतिकं प्रति गृहीतत्वादेव, अगृहीतसङ्गतिकं प्रति प्रवृत्तिनिवृत्त्यनौपायिकत्वेन नैष्फल्यादित्यर्थः । अथ वैतदात्म्यमिति पूर्ववाक्य एवैतस्यात्मत्वानुवादेनैव तद्वाच्यत्वसिद्धेर्न तद्विधानम् । ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायादित्यर्थः । आत-तत्वादिज्ञापनेति ।। योगवृत्त्या आततत्वादेरज्ञातस्य ज्ञापनादप्राप्तविधिसम्भवः ।

अर्थान्तरभ्रमनिरासार्थत्वेनापि सार्थक्यमाह-  अथ वेति ।। उक्त इति ।। ष्यञन्तेनेत्यर्थः । कोऽसा-विति ।। आत्मशब्दस्यानेकार्थत्वादिति शेषः । सोऽणिमेति ।। स एतच्छब्दपरामृष्टः अणिमेति । अनेनाणूनामपि जीवानां नात्रात्मपदेन ग्रहणं, किन्त्वणिम्न एवेति जीवानामुक्तजगत्स्वामित्वं वारयतीत्यर्थः । स्वपक्षदार्ढ्याय (व्या.टि.) परपक्षं दूषयति- परपक्षे त्विति ।। उक्तत्वादिति ।। नान्योऽस्त्यस्यात्मा संसारीति जीवेश्वरैक्य-स्योक्तत्वा-दित्यर्थः ।