लघुप्रभा
लघुप्रभा
ननु वन्दनम् अभिवादनं स्तुतिर्वा । नाऽद्यः । तस्य ‘नमो भवाय’ इत्यादाविव गुणाभिधानमन्तराऽपि सम्भवात् । न द्वितीयः । गुणविशिष्टगुण्यभिधानरूपस्तुतेर्गुणान्तरोपादानेनापि सम्भवात् नियमेनैतद्वि-शेषणत्रयोपादानवैयर्थ्यम् इत्याशङ्क्य तदुपयोगकथनेन तत्त्रयस्यावश्यम्भावमुद्भावयति- नानिर्धारित-स्वरूपेत्यादिना ।। नानिर्धारितस्येत्येवोक्तेऽसम्भवः । केनापि रूपेण सर्वस्यापि निश्चितत्वात् । न हि सर्वेणापि रूपेण सर्वं सन्दिग्धम् । किन्तु यत्र सादृश्यादिप्रतिबन्धः तेनैव रूपेण । अतो नानिर्धारितस्वरूपस्येत्युक्तम् । स्वम्- असाधारणं रूपं- धर्मो यस्येति । रूपशब्दस्य स्वपरसाधारणत्वात् स्वेति । तथा च स्मृतिः ‘यस्य गोत्रं न जानाति नाम रूपं त्रिपूरुषम् । तस्य कन्याप्रणयनं नमस्कारं च वर्जयेत्’ इति ।। लक्षणेनेति ।। ‘पृथग्वि-नानानाभिस्तृतीयाऽन्यतरस्याम्’ इति विनायोगे तृतीया । निर्दोषत्वस्य गुणविशेषणत्वे सच्छब्देन पुनरुक्तिम्, धर्मात्मनैव निर्दोषत्वभ्रमं च, तदर्थान्तरोक्तावपि लक्षणैक्यभ्रमं च, लक्षणैक्ये च लक्षणान्याहेत्यवतारासङ्गतिम्, ‘वर्जितः सर्व’ इत्युदाहरिष्यमाणमानानामसङ्गतिं च परिहर्तुं विवक्षितसमासे विग्रहं ग्राहयति- निर्दोषश्चासा-विति ।। तथाऽपि लक्षणद्वयमेव स्यादित्यतः समस्यमानपदे प्रत्येकमनन्तलक्षणपरतया व्याचश्व्े- निर्दोष-ग्रहणेनेत्यादिना ।।
ननु किमिदं निर्दोषत्वम् । यत्किञ्चिद्दोषाभावो वा यावद्दोषाभावो वा । आद्येऽप्यन्यदीयदोषाभावो वा तत्सजातीयदोषाभावो वा ब्रह्मीयदोषाभावो वा । नाऽद्यः । जीवेऽतिव्याप्तेः । दोषिणोऽपि तस्यान्यदीयदोषाभावात् । न द्वितीयः । तत्सजातीयोऽपि निषेधाधिकरणे प्रमितो वा आरोपितो वा । नाऽद्यः । व्याघातात् । न द्वितीयः । आरोपितस्यालीकत्वेन तदभावस्य सार्वत्रिकत्वेनातिव्याप्तेर्वज्रलेपायितत्वात् । सदसतोरेकजात्यसम्भवाच्च । न तृतीयः । सिद्धौ व्याघातात् । असिद्धावतिव्याप्तेः । किञ्च ब्रह्मीयत्वस्य व्यधि-करणधर्मतया तदवच्छिन्नस्यालीकत्वेन तदभावस्य सार्वत्रिकत्वापत्तिः । द्वितीयेऽपि यावत्त्वं दोषविशेषण-मभावविशेषणं वा । नाऽद्यः । व्यासज्यवृत्तिधर्मावच्छिन्नस्य प्रतियोगिमत्यपि सत्त्वेन पुनरतिव्याप्तेः । न द्वितीयः । ब्रह्मण्यपि दोषप्रागभावादेरभावेनासम्भवादित्यत आह- पारतन्त्र्यराहित्यादीनीति ।। पारतन्त्र्यस्य प्रसिद्धसाधारणदोषस्य ग्रहणेन दोषतया प्रामाणिकत्वं, राहित्यपदेनात्यन्ताभावं सूचयता दोषतया प्रामाणिक-प्रतियोगिकोऽत्यन्ताभावो निर्दोषत्वम् । न त्वप्रामाणिकप्रतियोगिकः । तस्य जीवेऽपि सत्त्वादिति सूचितम् । राहित्यपदोत्तरादिपदेन च राहित्यानां पृथक् लक्षणत्वं सूचयता प्रतियोग्यानन्त्येनाभावानन्त्याल्लक्षणानन्त्यमपि सूचितम् । असाधारणश्रमचिन्तादिराहित्यपरिग्रहेऽपि अपराधीनत्वविशेषणान्न दोषः ।
अत्र यद्विकल्पितं तत्राऽद्ये आद्यं तावदङ्गीकुर्मः । तत्र परकीयस्यापि पारतन्त्र्यरूपसाधारणदोषस्य किञ्चित्पदेन ग्रहणाद् ब्रह्मेतरसर्वस्यापि तद्दोषित्वेनातिव्याप्त्यभावात् । न चैवं प्रामाणिकप्रतिषेधापत्तिरिति वाच्यम् । ‘अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः’ इत्युक्तदिशा अन्योन्यवन्निष्ठा-त्यन्ताभावप्रतियोगित्वरूप-विरुद्धतायाः स्वीकार्यतया अत्यन्ताभावस्य प्रामाणिकप्रतियोगिकताया आवश्य-कत्वात् । अन्यथाऽभावाभावो भाव इति नियमेनाज्ञतादीनां प्राप्त्या भेदवादभङ्गप्रसङ्गात् । ‘न ते महित्वमन्व-श्नुवन्ति’, ‘अदुःखमसुखम्’, ‘वर्जितः सर्वदोषैर्यः’ इत्यादिश्रुतिषु, ‘न च स्वातन्त्र्यमन्यगं करोति’ इति स्मृतौ, ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’, ‘न च स्मार्तमतद्धर्माभिलापात्’, ‘नानुमानमतच्छब्दात्’, ‘अन्य-भावव्यावृत्तेश्च’, ‘अरूपवदेव हि तत्प्रधानत्वात्’, ‘तद्भूतस्य च तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः’, ‘अभावं बादरिराह ह्येवम्’, ‘अत एव चानन्याधिपतिः’ इत्यादिसूत्रतद्भाष्यटीकासु, ‘तदभावस्य तद्भानपूर्वकत्वं चान्यत्र तस्य सत्त्वादेवेष्टम्’ इति मूले, ‘अन्यत्र देशान्तरे कालान्तरे च तस्य प्रतियोगिनः सत्त्वादेव’ इति टीकायां, ‘स्वोपाधावनिषेधात् परोपाधौ निषेधात्’ इति सुधायाम्, ‘अनात्म्ये जैवगुणविधुरे’ इति तत्त्व-प्रकाशिकायाम्, ‘अत्यन्ताभावस्य नित्यत्वात् कालभेदेन विरोधपरिहारासम्भवेन देशभेदेनैव विरोधः परिहर-णीयः’ इति मन्दारमञ्जर्यां च प्रामाणिकप्रतियोगिकात्यन्ताभावस्याभिधानानुपपत्तेश्च । तस्मान्निषेधः प्रामाणिक-प्रतियोगिकतया मुनित्रयसम्मत इति ज्ञायते । स च क्वाचित्कोऽपि सार्वकालिकत्वाद् अत्यन्ताभाव एव । उक्तं चैतल्लक्षणं भगवत्पादैः ‘सदाभावः’ इति । पदार्थविदोऽपि ‘त्रैकालिकनिषेधोऽत्यन्ताभावः’ इत्याहुः । न चास्य सदाभावत्वेऽपि नात्यन्ताभावत्वमिति वाच्यम् । अत्यन्ताभावस्य सदाभावपदेन ग्रहणात् । तदुक्तं तत्त्वसङ्ख्यान-टीकायाम् ‘प्रसिद्धसञ्ज्ञातिक्रमणेन सञ्ज्ञान्तरकरणमुद्देशेनैव लक्षणस्यापि सूचनार्थम्’ इति । न चात्यन्ता-भावप्रतियोगित्वे दोषस्यासत्त्वापत्तिरिति वाच्यम् । किमसत्त्वमात्रमापाद्यते उतात्यन्तासत्त्वम् । नाऽद्यः ।तन्निष्ठात्यान्ताभावप्रतियोगिनः तत्रासत्त्वस्येष्टत्वात् । न द्वितीयः । सार्वत्रिकसार्वकालिकात्यन्ता-भावप्रतियोगिन एवात्यन्तासत्त्वात् । अस्य चातथात्वात् । अत एव न्यायामृते ‘त्रिकालसर्वदेशीयनिषेधा-प्रतियोगिता । सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी’ इति सत्तालक्षणे सर्वदेशीयपदमुपात्तम् । न च सदाभावस्य देशविशेषानाकलनात् क्वाचित्कत्वानुपपत्तिरिति वाच्यम् । दोषो ब्रह्मणि सदा नास्ति, स्वातन्त्र्यमन्यत्र सदा नास्तीत्येव प्रतीतेः । ‘देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते’ इत्यनुव्याख्यानोक्तदिशा सत्ताप्रतीतेः देशकालोभयप्रतीत्यविनाभूतत्वेन निषेधसत्ताप्रतीतेरपि तथात्वात् प्रामाणिकस्यान्यत्रिकात्यन्ताभावो निष्प्रत्यूह इत्याद्यं लक्षणं निरवद्यम् ।
एवं जीवदोषसदृशदोषस्य जीवान्तरे प्रामाणिकत्वात्तदभावोऽपि ब्रह्मलक्षणम् । ब्रह्मीयदोषस्य चाप्रामाणिक-त्वात्तदभावो न लक्षणम् । एवं प्रामाणिकयावद्दोषाभावोऽपि लक्षणम् । किञ्चिद्दोषाभावस्य जीवान्तरेऽपि सत्त्वाद्यावदिति । तच्च दोषत्वावच्छिन्नाभावतात्पर्यद्योतकमिति नोक्तदोषः । अत एव तत्त्वप्रकाशिकायां चिन्ता-सन्तापेत्यादिना प्रामाणिकयावद्दोषाभावपरतया दोषवर्जितपदं व्याख्यातम् । एवं च केनापि दोषेणास्पृष्ट-त्वमित्यर्थलाभान्न क्वाप्यतिव्याप्तिः । तदुक्तं चन्द्रिकायाम् - ‘अस्पृष्टदोषगन्धाय’ इति । इति सर्वं सुस्थम् ।
अत्र केचिद् दोषात्यन्ताभावरूपं निर्दोषत्वं कथं भगवतो लक्षणम् । सिद्धान्ते प्रामाणिकप्रतियोगिका-त्यन्ताभावाभावेन दोषाणां जीवे प्रामाणिकतया तत्प्रतियोगिकात्यन्ताभावासम्भवादित्याशङ्क्य, निर्दोषत्वं नाम आरोपितदोषात्यन्ताभावः । स एव च भगवल्लक्षणम् । आरोपितदोषाणां चाप्रामाणिकतया तत्प्रति-योगिकात्यन्ताभावसम्भवादिति समादधुः । तन्नातीव चमच्चरीकरीति । तथा हि । प्रामाणिकप्रतियोगिका-त्यन्ताभावो नास्तीति क्वापि विस्पष्टवचनाभावेन तन्निश्चयायोगात् । श्रुतिस्मृतिसूत्रैः पूर्वं तस्य समर्थितत्वाच्च । तदनङ्गीकारे बाधकसत्त्वाच्च । तथा हि । प्रामाणिकस्य घटत्वादेरन्योपाधौ निषेधस्तावद् भावनिषेधत्वेना-भावः । स क इति प्रष्टव्यम् । न तावदन्योन्याभावः । तादात्म्यानारोपात् । नापि प्रध्वंसप्रागभावौ । पूर्वोत्तरं तत्र प्रतियोगिनः सत्त्वापत्तेः । यदि च नात्यन्ताभावः तदा अभावचातुर्विध्यभङ्गप्रसङ्गः । त्रैकालिकाभाव(त्व)स्वीकारे पर्यायेणात्यन्ताभावस्यैव स्वीकारेण नाममात्रे विवादायोगात् । किं चायम्, अत्यन्ताभावः, प्रागभावप्रध्वंसान्यत्वे सति संसर्गाभावत्वात् कूर्मरोमाभाववदित्यनुमानेन तन्निषेधस्यात्यन्ताभावत्वसिद्धेः । अपि च प्रामाणिकस्य अत्यन्ताभावो नास्तीति वदन् वादी प्रष्टव्यः । किमभाव एव नास्ति उत तस्याऽत्यन्तिकत्वं नास्तीति । नाऽद्यः। सुधायाम् - ‘स्वोपाधावनिषेधात्परोपाधौ निषेधात्’ इति व्यवस्थया सदसत्त्वस्वीकारात् । न द्वितीयः । आत्यन्ति-कत्वमपि त्रैकालिकत्वरूपं निषिध्यते सार्वत्रिकत्वविशिश्व्ं तद्वा । नाऽद्यः । घटत्वादिनिषेधस्य पटादौ सर्वदा प्रतीयमानत्वेन त्रैकालिकत्वस्य निषेद्धुमनर्हत्वात् । द्वितीये निषिध्यतां न नो हानिः । अत एव सुधायां सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी इति परकीयानुमानदूषणावसरे उक्तविशिश्वत्यन्तिकत्वं निरुच्योक्तम् ‘यद्धि सकलदेशकालासत् तदत्यन्ताभावप्रतियोगीत्युच्यते यथा शशविषाणादिकम् । घटादौ च सत्त्वम्, अभावप्रति-योगित्वलक्षणमसत्त्वं च प्रत्यक्षादिसिद्धमिति’ इति । तथा च वैवक्षिकात्यन्ताभावप्रतियोगित्वाभावेऽपि सतस्त्रैकालिकात्यन्ताभावप्रतियोगित्वमक्षुण्णमेव । अत एवाभावस्योभयविधात्यन्तिकत्वे तत्प्रतियोग्यपि अत्यन्तासदित्युच्यते । एकविधात्यन्तिकत्वे तु अभावप्रतियोगीत्यसदित्युच्यते । अत एव तर्कताण्डवे ‘केवला-न्वय्यभावप्रतियोगित्वे गगनादेरत्यन्तासत्त्वं स्यात्’ इत्यभावस्योभयविधात्यन्तिकत्वेन प्रतियोगिनोऽत्यन्ता-सत्त्वमापादितम् ।
अपि च प्रागभावप्रध्वंसानधिकरणकालस्यात्यन्ताभावानधिकरणत्वे प्रतियोग्यधिकरणकालत्वनियमवद् देशस्यापि तथात्वेन, ब्रह्मणोऽपि तात्त्विकदोषप्रागभावप्रध्वंसात्यन्ताभावानधिकरणस्य तदधिकरणत्वापत्त्या त्वदभिलषितनिर्दोषत्वभङ्गप्रसङ्गः । किञ्च प्रतियोगितावच्छेदकात्यन्ताभावस्य प्रतियोग्यन्योन्याभावव्यापकतया, ब्रह्मणस्तात्त्विकदोषाभावाभावे व्यापकनिवृत्तिन्यायेन दोष्यन्योन्याभावस्यापि अभावापातेन, परस्पर-विरुद्धयोरिति न्यायेन तद्विरोधिदोषितादात्म्यापातेन जितमद्वैतवादिनेति साधु समर्थितो भेदवादः । किञ्च ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इत्यादिश्रुत्या आनुभाविकदोषाभावस्यैवोक्त्या तद्विरोधः । अपि च तात्त्विकधर्माणामत्यन्ताभावाभावे तेषां केवलान्वयित्वापत्त्या व्यतिरेक्यसाधारणधर्मत्वरूपलक्षणत्वा-भावेन तैरितरभेदानुमानानुपपत्तिः । केवलान्वयिलिङ्गमात्रावशेषप्रसङ्ग इत्यादिबहुविप्लवापातः । अपि च तात्त्विकव्यतिरेकिधर्माभावे लक्षणोक्तिव्याघातः । हेतूनां विपक्षवृत्त्यभावाभावेन व्यभिचारित्वापत्तिश्च । तात्त्विकसाध्यप्रतियोगिकाभावाभावेन विपक्षत्वानुपपत्तिश्च । साध्यविपरीतधर्मो विपक्ष इति विपक्षलक्षण-शिक्षणविचक्षणवचनविरोधश्च । किञ्च प्रामाणिकप्रतियोगिकात्यन्ताभावाभावे निर्गुणश्रुतेर्गुणत्रयनिषेध-परत्वानुपपत्तिः । किञ्च सत्त्वलक्षणे प्रतिपन्नोपाधाविति विशेषणवैयर्थ्यम् । मन्दारमञ्जर्यां तु परमतेन प्रत्याग्रहमात्रं न वस्तुस्थितिः । अन्यथा, क्वापि शशशृङ्गं नास्तीत्यत्रापि प्रतियोग्यधिकरणसंसर्गात्यन्ताभावो विषय इति असतः शशशृङ्गादेः न क्वाप्यत्यन्ताभावः स्यात् । न चात्र प्रतियोगिनोऽन्यत्र सत्त्वाद्वैषम्यमिति वाच्यम् । अन्यत्र सत्त्वस्य तत्रात्यन्ताभावप्रतीत्यविरोधित्वात् । किञ्च ‘न तौ पशौ करोति न सोमे अध्वरे न चतुस्त्रिंशदिति ब्रूयात् न गिरा गिरेति ब्रूयात् नास्यान्नमद्यात् नास्य पल्पूलनेन वासः पल्पूलयेयुः’ इत्यादिप्रामाणिकप्रकृत-निषेध एवेश्व् इति पूर्वमीमांसाविरोध इति ।
यच्चाप्युक्तम्, आरोपितदोषात्यन्ताभावो नाम दोषारोपपूर्वकप्रतीतिविषयात्यन्ताभाव इति तन्न । वास्तव-दोषाभावाभावं भगवति प्रतिज्ञाय प्रधानदोषाणामेवाभावेनेति वास्तवदोषाभावेनाऽरोपितदोषाभावसाधने स्ववचनव्याघातात् । वास्तवस्य जैवदोषस्य ब्रह्मण्यभावाभावे आरोपासम्भवात् । तत्सत्त्वे तेनैव निर्दोषत्वोपपत्त्या कल्पनावैयर्थ्याच्च । दोषारोपपूर्वकप्रतीतिविषयाभावस्यापीश्वरगतस्यैवाधिकरणभेदेनाभावभेदाभावेनाप्रामा-णिकप्रतियोगिकतया केवलान्वयित्वेन च जीवादौ सत्त्वेनातिव्याप्तितादवस्थ्याच्च । दोषारोपपूर्वकाभावप्रतीति-विषयत्वस्य लक्षणत्वे व्यर्थविशेष्यत्वापत्तेः । निर्दोषत्वस्याभावरूपत्वानापत्तेश्च । युक्तं चेदं लक्षणम् । तथा हि । निषेधधीकारणमारोपो आहार्यो वा अनाहार्यो वा । नाऽद्यः । तस्य बाधाप्रतिबध्यतया अप्रामाणिकदोषाभावनिश्चयेऽपि ईश्वर इव, प्रधानाविरोधितया च दोषवत्स्वपि तत्सम्भवे तत्पूर्वकनिषेधप्रतीत्युपपत्त्या अतिव्याप्तिः । किञ्च आहार्यारोपस्य स्वविषयप्रतियोगिकाभावनिश्चयरूपबाध-कालीनेच्छाजन्यतया अभावप्रतीतिं प्रत्याहार्यारोपस्य कारणत्वेऽन्योन्याश्रयादिति । न द्वितीयः । प्रतियोगिनोऽ-नाहार्यारोपस्याभावज्ञानविरोधितया तत्कारणत्वायोगात् । यत्र भूतलादौ घटाद्यभावज्ञानं तत्र सर्वत्रानानुभावि-कानाहार्यभ्रमकल्पनापत्तेश्च । सूच्यग्रे हस्तिशतं नास्तीत्यादावनाहार्यारोपासम्भवेनाभावप्रत्ययानापत्तेश्च । दुःखादेरनाहार्यारोपासम्भवेन मयि दुःखादिकं नास्तीत्यभावप्रत्ययानापत्तेश्च । अभावप्रतीतौ (प्रत्यक्षे) अना-हार्यारोपस्य कारणत्वे देवानां देवत्वदशायामनाहार्यारोपाभावेन, रमाब्रह्मादीनां च कदाऽप्यनाहार्यभ्रमाभावेन तेषां भगवति दोषाभावज्ञानानापत्तेश्च । दैत्यानामनाहार्यभ्रमसत्त्वेऽपि तस्यासञ्जातबाधत्वेन मनुष्योत्तमानामेव भगवन्निर्दोषत्वज्ञानापत्तेश्च । तेषामप्यपरोक्षज्ञानानन्तरमनाहार्यासम्भवेनानन्तरं निर्दोषत्वज्ञानानापत्तेश्च । अन्यदीयारोपोपादाने ‘आरोप्य प्रतिषिध्यत इति यावत्’ इति भवदुक्तल्यपोऽयोगः । व्यधिकरणस्य कारण-त्वासम्भवाच्च । किञ्च पक्षद्वयेऽपि आरोपानन्तरं जायमानेऽभावज्ञानेऽभावे प्रकारतया प्रतियोगी भासते न वा । अन्त्येऽनुभवविरोधः । अभावस्य दोषप्रतियोगिकत्वादेरप्रसिद्ध्यापत्तेश्च । ‘तौ विना न ह्यभावश्च’ इत्यनु-व्याख्यानेन, ‘अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एव अत्रेदं नास्तीति प्रतीयते न तौ विना केवल इति अन्वयव्यतिरेकाभ्याम् एकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतत्’ इति तदीयसुधया च स्पष्टं विरोधाच्च । आद्ये तादृशाभावज्ञानातिरिक्तस्याभावाधिकरणे प्रतियोग्यारोपस्यानुभवविरोधः । भूतले घटं न प्रत्येमि किन्तु घटाभावमेवेत्यनुभवात् । ‘झटित्येव परिज्ञानाद्’ इत्यत्र प्रतियोगिस्मृतिमतोऽभावज्ञानं घटादि-ज्ञानवत् झटित्येव जायत इत्युपपादितत्वेन तद्विरोधाच्च । निर्दोषचक्षुष्मतो मार्गे कण्टकाद्यभावं जानतो दोषाभावेन कण्टकाद्यनाहार्यारोपस्य, कण्टकादिप्रत्यक्षस्यानिष्टतया तदाहार्यारोपस्य चायोगेनाऽरोपमात्रायोगश्च । तदभावस्य तज्ज्ञानपूर्वकत्वं चान्यत्र तस्य सत्त्वादेवेष्टमित्येतद्व्याख्यानावसरेऽन्यत्र प्रतियोगिज्ञानमभावज्ञाने कारणं न त्वभावाधिकरण इति स्पष्टमुपपादितत्वेन तद्विरोधश्च । भगवतः स्वनिर्दोषत्वाज्ञानेऽज्ञानरूपदोषस्य तज्ज्ञाने प्रतियोग्यारोपरूपभ्रमरूपदोषस्याऽपत्त्या भगवन्निर्दोषत्वविचारे महोपप्लवापत्तिश्च । न चाऽहार्यारोपस्य न भ्रमत्वमिति वाच्यम् । प्रमाभ्रमोभयबहिर्भूतज्ञानाभावेन प्रमात्वापत्त्या पुनर्दोषित्वापत्तेः । न च गृहीताप्रामाण्य-कत्वेनैतादृशभ्रमस्य न दोषत्वमिति वाच्यम् । शङ्खश्वैत्याकाशनीरूपत्वचन्द्रमण्डलपरिमाणाधिक्यादिनिश्चयवतो जायमानस्य सोपाधिकस्य पैत्यनीलत्वप्रादेशपरिमितत्वादिभ्रमस्य दोषत्वानापत्तेः । भ्रान्तिज्ञ एव भगवान्न तद्विषयज्ञ इति सिद्धान्तविरोधाच्चेत्यलम् ।
न चाभावबुद्धेरभावाधिकरणे प्रतियोगिप्रतीतिसापेक्षत्वाभावे प्रतिषेधस्य प्रसक्तिसापेक्षत्वप्रवादविरोध इति वाच्यम् । प्रतिषेधप्रतिपादनस्य प्रसक्तिसापेक्षत्वपरत्वात्तस्य । ‘प्रतिषेधप्रतिपादनं प्राप्तिपूर्वकम्’ इतीहत्य-टीकोक्तेः । किञ्च प्रतिषेधप्रतिपादनस्यापि प्रसक्तिसापेक्षत्वं नाम नाभावाधिकरणविशेष्यक-प्रतियोगिप्रकारकभ्रमसापेक्षत्वम् । प्रतियोगिभ्रमवत इव तद्रहितस्यापि प्रथमत एव निषेधवाक्येनाभावशाब्द-बोधस्यानुभवसिद्धत्वात् । किन्तु स्वाभावे बोधनीये तादृशप्रतियोगिभ्रमसामग्रीसापेक्षत्वमेव । अन्यथा नान्तरिक्ष इत्यादाविव नित्यानुवादत्वापत्तेः । तथा च जातभ्रमं निवर्तयज्जनिष्यमाणं प्रतिबध्नत् सार्थकं प्रतिषेधवाक्यम् । अत एव जनिष्यमाणप्रतिबन्धकतया तार्तीयबाधस्याप्राप्तबाधत्वव्यवहारः । तस्मान्न प्रसक्तिसापेक्षत्वप्रवाद-विरोधः । नाप्यनारोपपूर्वकप्रतिषेधस्यानुपपत्तेरित्याद्यभियुक्तोक्तिविरोधः । तत्र निषेधपदस्य बाधधीपर-त्वात् । प्रथमत एव जायमाने नेदं रजतमिति ज्ञाने बाधधीरिति व्यवहाराभावात् । नापि ‘प्रसज्य प्रतिषेधति निषेधवाक्यम्’ इति लोकव्यवहारेण ल्यपा अभावाधिकरणे प्रतियोग्यारोपस्य पौर्वकालिकत्वोक्तेस्तद्विरोधः । प्रतियोगित्वेनोपादायेत्येव तदर्थस्वीकारात् । अन्यथा समानकर्तृकत्वाभावापत्तेः । भूतले घटो नास्तीत्यादौ वाक्यभेदापत्तेः । स्वव्याघातापत्तेश्च । वेदे ‘विजरो विमृत्युर्विशोकः’ इत्यादौ, लोके ‘घटाभाववद्भूतलम्’ इत्यादौ तादृशसमभिव्याहाराभावेन तदयोगाच्च । आहार्यत्वानाहार्यत्वादिविकल्पमुखानेकदूषणगणग्रासाच्च ।
एतेनाश्वे गोत्वं नास्तीत्यादावारोपविषयसंसर्गस्य वा अधिकरणसंसृष्टस्य गोत्वादेर्वा प्रतियोगित्वोपगमेन तस्यालीकत्वेनाप्रामाणिकप्रतियोगिकत्वमेवेति प्रत्याशा परास्ता । उक्तरीत्याऽऽरोपायोगात् । अश्वगोत्वसंसर्ग-त्वाश्वसंसृष्टगोत्वत्वादिरूपारोप्यतावच्छेदकाक्रान्तस्याप्रसिद्धतया प्रधानाभावेनाऽरोपायोगाच्च । अभावस्याधि-करणसाकाङ्क्षत्वापत्तेश्च । अभावरूपकर्तृद्वारा सत्तारूपक्रियायामनन्वयेऽधिकरणकारकसप्तम्ययोगाच्च ।
तस्मादभावप्रतीतेरारोपपूर्वत्वे बाधकसद्भावात्तदनङ्गीकारे बाधकाभावाच्च न दोषारोपपूर्वकप्रतीतिविषया-भाववत्त्वरूपलक्षणं परिष्करणीयम् । परिष्करणेऽप्यनुभूयमानारोपस्थले प्रामाणिकस्याप्यारोपोपगमेन नेमौ चूतौ किन्त्वेक एवेतिवन्नावां दोषिणौ किन्त्वहमेवेति बाधप्रतीतिसम्भवेन न अनिष्टस्य प्रामाणिकप्रतियोगि-कत्वस्य हानिसिद्धिरिति प्रामाणिकदोषाभाव एव लक्षणम् । ‘न ह्यस्मन्मते प्रामाणिकस्यैव निषेध इति नियमः’ इति न्यायामृतवाक्यं तु अप्रामाणिकाभावबोधकम् । एवकारनियमपदस्वारस्यात् । अन्यथा तद्विलोपेन वाक्यचारितार्थ्यात् । तस्माद्ये ये प्रामाणिकाः पारतन्त्र्यादयो दोषाः तदभावो लक्षणमिति सकलमकलङ्कम् । अधिकं तु गुरुप्रभायां द्रष्टव्यम् ।
अत्रेदं तत्त्वम् । अशेषसद्गुणपदोक्तज्ञानानन्दादिकं भगवतः स्वरूपलक्षणम् । निर्दोषपदोक्तं पारतन्त्र्या-त्यन्ताभावाज्ञानात्यन्ताभावादिकं तु भिन्नं लक्षणम् । एतत्समनियतस्य दोष्यन्योन्याभावस्य, भावरूप-स्यैतद्वत्त्वस्य च धर्मिस्वरूपत्वेऽपि एतस्य धर्मिस्वरूपत्वाभावात् । खननादिना भूतलादिरूपधर्मिनाशेऽ-प्यनाशादियुक्त्या संसर्गाभावस्य सुधायां भिन्नत्वसमर्थनात् । ‘गोत्रादिसंसर्गाभावस्य ब्रह्मातिरिक्तत्वाभ्युप-गमात्’ इति सुधोक्तेश्च । लक्षणत्वं त्वसाधारणधर्मत्वात्स्पष्टम् । न च ‘दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात्’ इति सुधोक्तेरभावस्य धर्मत्वं नास्तीति वाच्यम् । तत्र ‘एवं धर्मान्’ इति श्रुतिविरोधपरिहाराय लघुप्रभा
तत्रत्यधर्मपदविवक्षामात्रोक्तेः । अभावस्य धर्मत्वस्यैवानङ्गीकारे ‘गोत्राद्यभावोऽपि ब्रह्मविशेषणम्’ इति सुधोक्तिविरोधात् । विशेष्यतैव धर्मित्वमित्येतद्व्याख्यावसरे विशेषणत्वं धर्मत्वमिति स्वयमेवोक्तेः । ‘सर्वधर्मोपपत्तेश्च’ इति सूत्रे ‘सर्वेषां धर्माणां गुणानां दोषाभावानां च’ इति सुधोक्तिविरोधाच्च । ‘अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः’ इत्यनुभाष्यविरोधाच्च । न च लक्षणाख्यधर्मपरं धर्मपदमभिन्नधर्मपरमिति मन्तव्यम् । ‘क्वचित् लक्ष्यातिरिक्तं लक्षणं भवति यथा गन्धवती पृथिवी’ इति सुधोक्तिविरोधात् । तस्माद्दोषा-त्यन्ताभावो भिन्नं लक्षणमिति । एतेन दोषात्यन्ताभावस्य लक्षणत्वं नास्तीति केषाञ्चिदुक्तिः परास्ता । अनाकर-त्वात् । अधिकं गुरुप्रभायामस्मत्कृतायां द्रष्टव्यम् ।