नचापौरुषेयं...सर्वसमयाभिमतधर्माद्यसिद्धेः

अपौरुषेयवाक्यासम्भावनानिरासः

मूलम्

- नचापौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः ।।

तत्त्वमञ्जरी

वाक्यस्यापौरुषेयत्वमेवासिद्धमित्यत आह- न चापौरुषेयमिति ।।

टीका 

अत्राऽहुर्वेद प्रामाण्यवादिनो बाह्याश्च । वेदस्यापौरुषेयत्वं न युक्तम् । घटत्वनीरूपत्वयोरिव वाक्यत्वापौरुषेयत्वयोः परस्परपरिहारेणैव वृत्त्युपलब्धेर्द्वयोरेकत्रासम्भावितत्वात् । नच तत्साधनमपि युक्तम् । सम्भावितस्यैव साधनार्हत्वात्  । यथोक्तम्- ‘सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतः’ इति । नहि मम कर्णं प्रविश्य गजो गर्जतीत्येतत् साधनार्हं, किन्त्वनादरणीयमेवेत्यत आह- नचेति ।। अपौरुषेयं वाक्यमेव नास्तीत्यनेन वाक्यत्वापौरुषेयत्वयोः परस्परपरिहारेणैव वृत्तिरित्याचष्टे  । अतो वेदोऽपौरुषेय इत्येतदसम्भावित-मेवेति वाक्यशेषः    इतः परः ‘अपौरुषेयत्वं च स्वत एव’ इत्यतः प्राक्तनो ग्रन्थः सम्भाव-नार्थः । कुतो न वाच्यमित्यत आह- तदभाव इति ।। धर्मादिकं तावदतीन्द्रियं वस्तु सर्व-समयानामभिमतम् । ततस्तत्तत्समयिभिः प्रामाणिकत्वेन तदङ्गीकरणीयम् । प्रामाणिकतयाऽ-भ्युपगतस्यैवार्थस्य शास्त्रसिद्धान्तत्वात् । नचापौरुषेयं वाक्यं विना धर्मादिसाधकं प्रमाणमस्ति । अतोऽपौरुषेयवाक्याभावे धर्माद्यसिद्धिप्रसङ्गाद् अप्रामाणिकस्य च सर्वशास्त्राभिमतत्वायोगात् सर्वैस्समयिभिर्धर्मादिनिश्चयार्थं किमप्यपौरुषेयं वाक्यमङ्गीकार्यम् । ततश्च वाक्यत्वापौरुषेयत्वयोः क्वचित् समावेशे सर्वैरङ्गीकर्तव्ये कुतो ‘वेदोऽपौरुषेयः’ इत्येतदसम्भावितम् इति ।।

भावदीपः

।। अत्रेति ।। वेदापौरुषेयत्वविषये वाक्यत्वाभावरूपं बाधकमाहुरित्यर्थः । तदेव स्पष्टमाह- वेद-स्येति ।। सम्भावितस्यैव साधनं कुत इत्यत आह- न हीति ।। तत इति ।। परस्परपरिहारेण वर्तनादित्यर्थः । शेषोक्त्या मूलयोजनायां ज्ञापकमाह- इतः पर इति ।। शिष्यमनस्समाधानाय वाऽह- इतः पर इति ।। मूलोक्तापादनं धर्मादेरपौरुषेयैकप्रमाणकत्वसिद्धावेव घटते नान्यथेति तदादौ स्वयमुक्त्वा मूलोक्तं घटयति- धर्मादिकमिति ।। आपाद्यस्यानिश्व्त्वसिद्धयेऽभिमतमित्यन्तोक्तिः- अत इति ।। अपौरुषेयैकप्रमाण-कत्वाद्धर्मादेरित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

बाह्यास्तदप्रामाण्यवादिनः । ननु वाक्यत्वापौरुषेयत्वयोरेकत्र समावेशं साधयिष्यामीति चेत्तत्राऽह- न चेति ।। युक्तं युक्तिसिद्धं च नेत्यर्थः । कुत इत्यत आह- सम्भावितस्यैवेति ।। प्रतिज्ञाया अर्थ इति ।। साध्यधर्मविशिष्टधर्मिवचनरूपप्रतिज्ञाया अर्थो विशेषणीभूतस्साध्यधर्म इत्यर्थः । पक्ष इति पाठेऽप्ययमेवार्थः । अतो वेद इति ।। वेदस्यापि वाक्यविशेषत्वादित्यर्थः ।। सर्वशास्त्राभिमतत्वायोगादिति ।। सर्वशास्त्र-सिद्धान्ततयाऽभिमतत्वायोगादित्यर्थः ।

लघुप्रभा

(व्या.टि.)

वेदप्रामाण्यवादिनो  नैयायिकादयः । बाह्या वेदबाह्या वेदाप्रामाण्यवादिनो बौद्धाद्या इत्यर्थः । घटत्वनीरूपत्वयोरिति ।। निरो ‘रो रि’ इति रेफलोपे ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घे नीरूपसिद्धिः । परस्परपरिहारेणैवेति ।।  परस्पराभावव्याप्यत्वेनैवेत्यर्थः। एकत्र समावेशस्येति शेषः ।। सम्भावितस्यै-वेति ।। सम्भावनाविषयस्यैवेत्यर्थः ।। साधनेति ।। एकधर्मिसम्बन्धितयेति शेषः ।। मृत इति ।। व्याघातेना-पोदित इत्यर्थः । कर्णमिति ।। महतः सुषिरप्रवेशादर्शनादित्यर्थः । ‘नच’ इति मूले चशब्दः शङ्कानिराससमु-च्चये । एतच्छङ्कानिराससमुच्चितस्यैव प्रमाणस्य विवक्षितसाधकत्वात् । यथोक्तं प्राक् ‘एवमन्यत्रापि’ इति । परस्परपरिहारेणैवेति ।। एवेति सामानाधिकरण्यबुद्धिं व्यवच्छिनत्ति- असम्भावितमेवेति ।। यथा घटत्वसामान्यावच्छेदेन नीरूपत्वाभावग्रहे नीलघटत्वरूपविशेषावच्छेदेनापि न तद्विशिष्टबुद्धिः तथाऽत्रापि वाक्यत्वसामान्यावच्छेदेनापौरुषेयत्वाभावग्रहान्न तद्व्याप्यवेदत्वावच्छेदेनाप्यपौरुषेयत्वबुद्धिः । बाधबुद्धेः प्रतिबन्धकत्वादिति । अथ वा तद्विशिष्टबुद्धित्वावच्छिन्नं प्रति तदभावज्ञानस्येव तदभावव्याप्यवत्ताज्ञानस्यापि साक्षात्प्रतिबन्धकता । तथा च रूपित्वज्ञानं प्रति नीरूपत्वज्ञानस्येव नीरूपत्वव्याप्यगुणत्वज्ञानस्यापि प्रतिबन्ध-कता । तथाऽपौरुषेयत्वज्ञानं प्रति तदभावज्ञानस्येव तद्व्याप्यवाक्यत्वज्ञानस्यापि प्रतिबन्धकत्वमिति बोध्यम् । शिष्यमनःसमाधातुम् उत्तरग्रन्थसन्दर्भगर्भमाह- इतः पर इति ।। प्राक्तन इति ।। प्रागित्यव्ययात् ‘सायञ्चिरम्’ इत्यनेन ट्यौ तुटि च रूपसिद्धिः  ।। सम्भावनार्थ इति ।।  सम्भावना  उत्कटकोटिकसन्देहः ।। निश्चयार्थ-मिति ।। अनेन तदन्यथाऽनुपपत्तिं प्रमाणयति- अपौरुषेयमिति ।। तदेकप्रमाणकत्वात्तस्येति भावः ।