न च केनचित् कृत्वा वेद ...
स्वयम्प्रतिभातस्य वेदत्वसमर्थनम्
मूलम्
- न च केनचित् कृत्वा वेद इत्युक्तं वेदसमम् । परम्पराभावात् ।
तत्त्वमञ्जरी
नन्वेवमकर्तृकत्वप्रसिद्धिमतो वेदत्वनिश्चये केनचिदतिगूढतया कृत्वा वेद इत्युक्तमपि वेदसमं स्यात् । तस्याप्यकर्तृकत्वप्रसिद्धिमत्त्वादित्यत आह - न च केनचिदिति ।। अध्यापक-परम्पराया अभावात् ; तन्मूलान्वेषणे तु अकर्तृकत्वप्रसिद्धिरेव न स्यात् ।
टीका
अकर्तृकत्वप्रसिद्धिमद्वाक्यत्वं वेदत्वमिति यद्वेदलक्षणमुक्तं तदयुक्तम् । गूढकर्तृकस्य कृताकर्तृकत्वप्रसिद्धिकस्यापि वाक्यस्य वेदत्वप्रसङ्गात् । अन्यथाऽतिव्यापकत्वादित्यत आह- नच केनचिदिति ।। वेद इत्युक्तं कृताकर्तृकत्वप्रसिद्धिकं वाक्यं वेदसमं प्रसिद्धवेदवद्वेदत्वोपेतं प्रसज्यत इति शेषः । हेतुमाह- परम्परेति ।। अकर्तृकत्वप्रसिद्धिमत्त्वं नाम अनुपलभ्यमानप्रत्यक्षादि-मूलत्वमित्युक्तम् । अस्य चाध्येतृपरम्पराऽभावेन यस्मिन् विच्छेदस्तदीयप्रत्यक्षादिमूलत्व-मनुमानेनोपलभ्यत एव । विमतं वाक्यम् एतत्प्रत्यक्षादिमूलम् अस्मिन् विच्छिन्नपरम्परत्वात् । यद्यस्मिन् विच्छिन्नपरम्परं वाक्यं तत्तत्प्रत्यक्षादिमूलं यथा सम्प्रतिपन्नमिति । अतो नोक्तं वेदलक्षणं गूढकर्तृकेऽस्तीति ।
भावबोधः
गूढकर्तृकवाक्यस्य कर्तुरप्रसिद्धावप्यकर्तृकत्वप्रसिद्ध्यभावात् कथमुक्तलक्षणं वेदत्वमित्यत आह- कृतेति ।।
भावदीपः
(रा.टि.)
।। अन्यथाऽतिव्यापकत्वादिति ।। तस्यावेदत्वे प्रागुक्तवेदलक्षणस्यातिव्यापकत्वादित्यर्थः ।। अस्य चाध्येत्रिति ।। गूढकर्तृकवाक्यस्येत्यर्थः ।। एतत्प्रत्यक्षेति ।। यस्मिन् विच्छेद एतदीयप्रत्यक्षादिमूलमित्यर्थः । विच्छिन्नपरम्परत्वादिति बहुव्रीहिः ।। नोक्तमिति ।। अनुपलभ्यमानप्रत्यक्षादिमूलत्वरूपं वेदलक्षणमित्यर्थः।
वाक्यार्थदीपिका
(श्री.टि.)
ननु गूढकर्तृकवाक्यस्य कर्तुरप्रसिद्धत्वेऽप्यकर्तृकत्वप्रसिद्ध्यभावात् कथं तस्योक्तलक्षणवेदत्वप्रसङ्ग इत्यत उक्तम्- कृताकर्तृकत्वप्रसिद्धिकस्यापीति ।। अन्यथेति ।। वेदत्वानङ्गीकार इत्यर्थः ।। विच्छेद इति ।। अध्येतृपरम्पराविच्छेद इत्यर्थः । सम्प्रतिपन्नमिति ।। कुमारसम्भवादिकं कालिदासादौ विच्छिन्न-परम्परत्वात् तत्प्रत्यक्षादिमूलकमित्यर्थः ।। उक्तं वेदलक्षणमिति ।। अनुपलभ्यमानप्रत्यक्षादिमूलकत्व-रूपाकर्तृकत्वप्रसिद्धिमत्त्वरूपमुक्तं वेदलक्षणमित्यर्थः ।
लघुप्रभा
(व्या.टि.)
वेदलक्षणमतिव्याप्त्या दूषयितुमनुवदति- अकर्तृकत्वेति ।। कृताकर्तृकत्वप्रसिद्धिकस्येति ।। कृता अकर्तृकत्वप्रसिद्धिर्यस्येति विग्रहः ।। अन्यथेति ।। तस्य लक्ष्यबहिर्भाव इत्यर्थः ।। अस्य चेति ।। गूढकर्तृकस्येत्यर्थः ।। विच्छेद इति ।। अध्येतृपरम्पराया इति शेषः । अनुमानप्रकारं दर्शयति- विमतमिति ।। सम्प्रतिपन्नमिति ।। प्रसिद्धकाव्यमित्यर्थः । निगमयति- अत इति ।।