दुष्टबुद्धीनमेवाप्रामाण्यशङ्केति..

अप्रामाण्य परतस्त्वसमर्थनम्

मूलम्

- दुष्टबुद्धीनमेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यम् । प्रामाण्यं च स्वत एव सिद्धम् ।

तत्त्वमञ्जरी

ननु प्रमाणानामप्रामाण्यमपि प्रामाण्यमिव स्वत एव स्यादित्यत आह - दुष्टेति ।। बुद्धिदोषवतामेव प्रमाणस्याप्रामाण्यशङ्केति यत् तस्मात् परतो दोषादप्रामाण्यम्; प्रामाण्यं स्वाभाविकमेवेति सिद्धम् ।

टीका  

यद्येवं ज्ञानग्राहकमात्रेणैव प्रामाण्यग्रहणमिति प्रामाण्यस्य स्वतस्त्वं स्यात्, तदा ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्रहणं स्वभाव इत्युक्तं भवति । परानपेक्षस्य स्वभावत्वात् । तथाच बौद्धादिवाक्यजनितज्ञानस्यापि साक्षी प्रामाण्यं गृह्णीयात् । स्वभावस्यानपायात् । स चाव्यभिचारीत्यङ्गीकरणीयम् । अन्यथा परीक्षाऽनवस्थाया दुष्परिहारत्वापत्तेः । ततश्च तदपि प्रमाणमापद्येतेत्यत आह- दुष्टेति ।। ज्ञानग्राहकः साक्षी प्रमाणतयैव गृह्णातीत्युत्सर्ग एव । विसंवादलक्षणात् परतोऽपवादादप्रामाण्यं च गृह्णाति । सहकारिणः सहजशक्तिं प्रतिबध्य विपरीतशक्तिं जनयन्तीति हि प्रसिद्धम् । दावदहनदग्धानां वेत्रबीजानां वेत्राङ्कुरमजनयित्वा कदलीकाण्डजनकत्वस्य दर्शनात् । अस्ति च बौद्धादिवाक्यजनितविज्ञानस्य विसंवाद इति तद् अप्रमाणतया साक्षी गृह्णाति । विसंवाददर्शनमप्रामाण्यग्रहणकारणमित्यत्र दृष्टान्तो दुष्टबुद्धीनामेवा-प्रामाण्यशङ्केतीति ।। विसंवाददोषकलुषितमनसां पुंसां वेदजनितविज्ञानेऽप्रामाण्यशङ्का दृष्टैवेति हेतोरिति । नात्राप्रामाण्यशङ्का साक्षिणः किन्तु मनस एव । ‘यत् क्वचिद् व्यभिचारि स्याद्दर्शनं मानसं हि तत्’ इत्युक्तत्वात् । अतः सामान्यमात्रे दृष्टान्तोऽयमिति ज्ञातव्यम् ।

अथवा यदि प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यं स्यात् तर्ह्यप्रामाण्यमपि तथा स्यात् । ज्ञान-धर्मत्वाविशेषात् । तथा च वेदजनितज्ञानस्य प्रामाण्यमिवाप्रामाण्यमपि साक्षिगृहीतमित्यापन्नमि-त्यत आह- दुष्टबुद्धीनामेवेति ।। न प्रामाण्यमिवाप्रामाण्यमपि ज्ञानग्राहकमात्रग्राह्यम्; येनोक्त-दोषः स्यात् । किं तर्हि ? परतो विसंवाददर्शनादनुमीयते । नच वेदजनितज्ञानस्य तत्त्वतो विसंवादोऽस्ति । कुतोऽयं विभाग इत्यत उक्तम्- दुष्टेति ।। अनेनाप्रामाण्यग्रहणस्य युक्त्यनुसन्धान एव भावोऽन्यथाऽभाव उक्तो वेदितव्यः । दुश्व्बुद्धीनामिति अप्रामाण्यशङ्केति च प्रकृतवेदजन्य-ज्ञानापेक्षयोक्तम् । वस्तुतस्तु विसंवादानुसन्धानवतामेवाप्रामाण्यज्ञप्तिर्न तद्रहितानाम् इत्यव्यभि-चरितानन्यथासिद्धान्वयव्यतिरेकसद्भावाद् अनुमेयमेवाप्रामाण्यं, न पुनर्ज्ञानग्राहकमात्रग्राह्यम् इत्युक्तं ज्ञातव्यम् । प्रामाण्यग्रहणस्य तु युक्त्यनुसन्धानापेक्षा नास्तीति प्रागेवोक्तम्  ‘अदुष्टबुद्धीनां स्वत एव सिद्धत्वाच्च प्रामाण्यस्य’ इति । नन्वेवं सति विसंवादाभावे सति प्रामाण्यं प्रतीयत इति तदपि परत एव स्यात्, न स्वत इत्यत आह- प्रामाण्यं चेति ।। नहि दाहाभाव एव वेत्रबीजं वेत्राङ्कुरं जनयतीत्येतावता दाहाभावो वेत्राङ्कुरस्य कारणं भवति    किन्तु ततो विपरीतकार्यानुत्पादे सति वेत्रबीजं स्वमहिम्नैवाङ्कुरं करोति । अन्यथोत्सर्गापवादौ क्वापि न स्यातामिति भावः । किञ्चाप्रामाण्यग्रहणकारणाभावस्यापि प्रामाण्यग्रहणोपयोगाङ्गीकारेऽपि न प्रकृते काचिदस्माकं हानिरिति 

।। इति प्रामाण्यस्वतस्त्ववादः ।।

भावबोधः

ननु दुष्टबुद्धीनामेवेति कथं दृष्टान्तप्रतिपादकम् । ज्ञापकाभावात् । इतिशब्दश्चानर्थक इत्यत आह- विसंवादेति ।। वह्निमत एव महानसादेर्धूमवत्त्वं दृष्टमिति धूमवतः पर्वतस्य वह्निमत्त्वमिति यथेति भावः । अतस्सामान्यमात्र इति ।। निश्चयरूपस्य साक्षिणोऽप्रामाण्यं विषयीकर्तुं दोषसापेक्षत्वे मनसोऽप्रामाण्य-संशयजनने दोषसापे(क्षित)क्षत्वस्य विशिष्य दृष्टान्तत्वासम्भवात् । ज्ञाने साक्षित्वनिश्चयत्वमनःकरणकत्व-संशयत्वाद्यविवक्षया, अप्रामाण्यविषयीकरणे दोषसापेक्षत्वरूपसामान्यमात्रे दृष्टान्त इत्यर्थः । ननु दुष्ट-बुद्धीनामितिवाक्येऽप्रामाण्यशङ्काया विसंवाददोषकलुषितमनोऽन्वयव्यतिरेकावेव बोध्येते, न त्वप्रामाण्य-ग्रहणस्य युक्त्यनुसन्धानान्वयव्यतिरेकौ । तत्कथमेवमुक्तमित्यत आह- दुष्टबुद्धीनामितीति । प्रकृतवेद-जन्येति ।। वेदजन्यज्ञाने संशयविपर्ययलक्षणाप्रामाण्यभ्रम एव । न त्वप्रामाण्यप्रमा । भ्रमोऽपि मनःकरणक एवेति भावः । शङ्कापदं च भ्रममात्रपरमिति द्रष्टव्यम् । वेदज(न्य)नितज्ञानेऽप्रामाण्यभ्रमस्यापि सम्भवात् । अनुमेयमेवाप्रामाण्यमिति ।। विसंवादलक्षणहेत्वनुसन्धानाधीनज्ञानविषय एवेत्यर्थः । साक्षिणोऽप्रामाण्य-विषयीकारित्वेऽपि विसंवादसापेक्षतानियमात् । न तु साक्ष्यग्राह्यमित्यर्थः । अत्र ग्रन्थान्तरे च विसंवादसहकृत-साक्षिग्राह्यत्वस्योक्तत्वेन तद्विरोधापत्तेः ।। न प्रकृते काचिदस्माकं हानिरिति ।। ज्ञानप्रामाण्यस्य विसंवादा-भावसहकृतसाक्षिवेद्यत्वेऽपि न प्रमाणजन्यत्वेन वेदजन्यज्ञानप्रामाण्यनिश्चयः । तथा वेदस्यापि यथार्थज्ञानान्वय-व्यतिरेकाभ्यामेव प्रामाण्यनिश्चयः । तथा च नाऽप्तोक्तत्वस्य कुत्राप्युपयोग इति सकर्तृकत्वाभावे प्रामाण्यासिद्धि-लक्षणबाधकाभावादप्रयोजकं वाक्यत्वानुमानमिति प्रकृतस्य वेदापौरुषेयत्वस्याहानिरित्यर्थः ।

भावदीपः

।। ततश्चेति ।। अव्यभिचारिसाक्षिगृहीतप्रामाण्यकत्वात् । तदपि बौद्धवाक्यजनितज्ञानमपीत्यर्थः। उत्सर्ग एवेति ।। अनियतबहुविषयसम्बन्ध एव, न नियत इत्यर्थः । परत इति मूलानुवादः । विसंवादलक्षणादप-वादादिति व्याख्या    आहितशक्तिकस्सन्निति योज्यम् । गृह्णातीत्युक्त्या मूले  गृह्यत  इति  शेष  इत्युक्तं भवति ।। दावदहनेति ।। वनवह्नीत्यर्थः ।। अस्ति च बौद्धादिवाक्यजनितविज्ञानस्य विसंवाद इति ।। ‘इतरेषां चानुपलब्धेः’ इति सूत्रोक्तदिशा तदुक्तसाधनानुष्ठानेऽपि फलानुपलम्भरूप इति वा ‘नासतोऽदृष्टत्वात्’ इति सूत्रोक्तदिशा वेति भावः । दुष्टबुद्धीनामिति बहुव्रीहिरित्युपेत्य व्याचश्व्े- विसंवादेति ।। इतिशब्दो हेत्वर्थ इत्युपेत्याऽह- इति हेतोरिति ।। अत इति ।। शङ्काया मानसत्वादिति वा साक्षिणो नियतप्रामाण्यादिति वा दोषदर्शने शङ्का भवतीत्येवंरूपार्थ एवायं दृष्टान्तो न साक्षिण इति वा मनस इति वा विशिष्येत्यर्थः । उक्त-शङ्कानिवर्तकतया मूलं योजयितुं परिष्करोति- न प्रामाण्यमिवेति ।। मूलं योजयति- किं तर्हि परत इति ।। अनुमीयत इति ।। विसंवादाऽहितशक्तिकेन साक्षिणा गृह्यत इत्यर्थः । वेदजनितज्ञानेऽप्यप्रामाण्यमनुमी-यतामित्यत आह- नच वेदेति ।। अयं विभाग इति ।। प्रामाण्यं ज्ञानग्राहकसाक्षिणैव, अप्रामाण्यं तु  विसं-वादाऽहितशक्तिकेन गृह्यत इत्ययं विभाग इत्यर्थः ।। दुष्टेतीति ।। व्याख्यानं प्रागिवेति भावः । दुष्टबुद्धीनामि-त्यादिवाक्यसन्दोहेन का युक्तिरुक्तेत्यत आह- अनेनेति ।। एवकारार्थः ।। अन्यथात्वभाव इति ।। नन्वेवं विसंवाददशायामेवाप्रामाण्यज्ञानमिति वाच्यमित्यत आह- दुष्टबुद्धीनामितीति ।। अनृत-व्याघातादिदोषाणां वेदे आपाततः प्रतीतेरिति भावः ।

।। अनुमेयमेवाप्रामाण्यमिति ।। अत्र तर्कताण्डवकारैरुक्तम् ‘अनुमेयमेवाप्रामाण्यम्’ इत्युक्तिः साक्षिणोऽ-प्रामाण्यग्रहणे विसंवादापेक्षा नियतेत्यभिप्राया । अत एव तत्रैव ‘न पुनर्ज्ञानग्राहकमात्रग्राह्यम्’ इत्युक्तम् । वादावल्यां च ‘अप्रामाण्यस्यानुमेयताऽवसायात्’ इत्युक्त्वा ‘न चाप्रामाण्यं क्वचिदिति निरपेक्षेण साक्षिणा निश्चितचरम्’ इत्युक्तम् इति । तथाच ‘अपवादादप्रामाण्यं च साक्षी गृह्णाति’ इति ‘तदप्रमाणतया साक्षी गृह्णाति’ इति च पूर्ववाक्येन ‘साक्षी अपवादकसद्भावेऽप्रामाण्यमपि गृह्णाति’ इति सुधावाक्येन च न विरोध इति ज्ञेयम् ।। परत एव स्यादिति ।। यथा विसंवादसापेक्षसाक्षिग्राह्यत्वादप्रामाण्यं परत इत्युच्यते तथा विसंवादा-भावसापेक्षसाक्षिग्राह्यत्वात् प्रामाण्यमपि परतो ग्राह्यं स्यादित्यर्थः ।। अन्यथेति ।। अपवादस्यापि सामान्य-सामग्य्र•मनुप्रवेशे सति हिंसा पापसाधनं वैधी तु पुण्यसाधनमित्यत्रापवादाभावसाहित्यतत्साहित्यरूप-सामग्रीभेदादेव पापपुण्यरूपकार्यभेदप्राप्त्या सहजशक्त्या हिंसा पापं जनयति विधिरूपापवादाहितशक्त्याऽपवाद-रूपसहकारिबलाद्वा विपरीतकार्यं जनयतीत्येवंरूप उत्सर्गोऽपवादश्च क्वापि न स्यादित्यर्थः ।। न प्रकृत इति ।। वेदस्यापौरुषेयत्वे तस्य वा तज्जन्यज्ञानस्य वाऽऽप्तोक्तत्वगुणाभावाद् आप्तोक्तवाक्यजन्यत्वाभावाद्वा प्रामाण्यं न स्यादिति हानिर्वेदापौरुषेयत्वरूपप्रकृतप्रमेये नेत्यर्थः । अपौरुषेयत्वेऽपि परमार्थतो विसंवादाभावेन प्रामाण्योपपत्तेरित्याशयः ।

वाक्यार्थदीपिका

(श्री.टि.)

।। स्वभावस्येति ।। प्रामाण्यग्राहकत्वस्वभावस्येत्यर्थः ।। स चेति ।। बौद्धादिवाक्यजन्यज्ञान-प्रामाण्यग्राहकस्साक्षीत्यर्थः ।। अन्यथेति ।। साक्षिणोऽव्यभिचारित्वाभावे साक्षिवेद्यसुखादिज्ञानेऽप्यप्रामाण्य-शङ्कापत्त्या तत्रापि परीक्षान्तरापेक्षाप्राप्तौ ‘न परीक्षानवस्था स्यात् साक्षि(सिद्धे)वेद्ये त्वसंशयात्’ इत्येवं परीक्षा-नवस्थापरिहारो भवद्भिः क्रियमाणोऽनुपपन्नः स्यादित्यर्थः ।। तदपीति ।। बौद्धादिवाक्यजन्यज्ञानमपीत्यर्थः । कदलीकाण्डेति ।। काण्डो दण्डः । ‘काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु’ इत्यमरकोशात् । कदलीदण्डे-त्यर्थः । अत्र बुद्धिशब्दो मनःपर इत्यभिप्रायेणोक्तम्- कलुषितमनसामिति ।। ननु दुष्टबुद्धीनामेवेति वाक्यं कथं दृष्टान्तप्रतिपादकं तज्ज्ञापकाभावात्, इतिशब्दश्चानर्थक इत्याशङ्क्य दृष्टान्तत्वज्ञापनाय शङ्केत्यनन्तरं दृष्टेति-पदमध्याहार्यं तेनैवशब्दसम्बन्धः, इतिशब्दश्च हेत्वर्थः, अतो नासङ्गतिरित्याह- दृष्टैवेति ।। दुश्व्बुद्धीना-मित्युक्तेरभिप्रायमाह- नात्रेति ।। अत्र वेदजन्यज्ञाने । तस्य निश्चयरूपत्वादिति भावः । अत्रानुव्याख्यान-सम्मतिमाह- यत् क्वचिदिति ।। ननु कथमयं दृष्टान्तः । दोषकलुषितमनसां वेदजनितविज्ञानेऽप्रामाण्यशङ्काया दृष्टत्वात् प्रकृतेऽपि विसंवादरूपापवादसहकृतसाक्षिणा  बौद्धादिवाक्यजन्यज्ञानेऽप्रामाण्यनिश्चय इत्यस्या-सङ्गतत्वादित्यत आह- अत इति ।। विसंवादसहकृतसाक्षिणा बौद्धादिवाक्यजन्यज्ञानेप्रामाण्यनिश्चय इत्यत्र विसंवादरूपदोषकलुषितमनसां वेदजन्यज्ञानेऽप्रामाण्यशङ्का दृष्टेति विशेषे दृष्टान्तत्वायोगादित्यर्थः ।। सामन्यमात्र इति ।। विसंवादरूपदोषदर्शनमप्रामाण्यग्रहणकारणमित्यत्रैवायं दृष्टान्त इत्यर्थः । शङ्काया अपि ग्रहणत्वादिति भावः ।। आपन्नमिति ।। तथा चाप्रामाण्यस्यापि स्वतस्त्वापत्तिरिति भावः ।। कुतोऽयं विभाग इति ।। प्रामाण्याप्रामाण्ययोर्ज्ञानधर्मत्वेऽपि प्रामाण्यस्य ज्ञानग्राहकमात्रग्राह्यत्व-मप्रामाण्यस्य तु नेत्ययं विभागः कुत इत्यर्थः ।

किमनेनास्मिन्  विभागे  प्रमाणमुक्तमित्यतोऽन्वयव्यतिरेकावेवेत्याह- अनेनेति ।। युक्त्यनुसन्धान एवेति ।। अनृतव्याघाताद्यसद्युक्त्यनुसन्धान एवेत्यर्थः । ननु बौद्धादिवाक्यजन्यज्ञाने विसंवादसहकृतसाक्षिणाऽ-प्रामाण्यनिश्चय इति वक्तव्ये दुष्टबुद्धीनामिति शङ्केति च कस्मादुक्तम् असङ्गतत्वादित्यत आह- दुष्टबुद्धीना-मिति शङ्केति चेति ।। वेदजन्यज्ञाने साक्षिणाऽप्रामाण्यनिश्चयायोगादिति भावः ।। ज्ञप्तिरिति ।। इति  सामान्य-मात्रमेव विवक्षितम् । शङ्कानिश्चययोरुभयोरपि ज्ञप्तित्वादिति भावः ।। अनुमेयमेवेति ।। विसंवादलक्षण-हेत्वनुसन्धानाधीनसाक्षिविषय एवेत्यर्थः । साक्षिणोऽप्रामाण्यविषयीकारित्वे विसंवादसापेक्षतानियमात् । न तु साक्ष्यग्राह्यमित्यर्थः । अन्यथा अत्र ग्रन्थान्तरे च विसंवादसहकृतसाक्षिग्राह्यत्वस्योक्तत्वेन तद्विरोधापत्तेरित्यव-गन्तव्यम् । नन्वप्रामाण्यग्रहणे विसंवादापेक्षावत् प्रामाण्यग्रहणेऽपि संवादरूपयुक्त्यनुसन्धानापेक्षा स्यात् । तथा च प्रामाण्यस्यापि परतस्त्वापत्तिरित्यत आह- प्रामाण्यग्रहणस्य त्विति ।। एवं सतीति ।। विसंवाद-स्याप्रामाण्यग्रहणकारणत्व इत्यर्थः । ततो दाहाभावात् ।। स्वमहिम्नैवेति ।। एवमेव प्रकृतेऽपि विसंवादाभावे सत्येव साक्षी प्रामाण्यं गृह्णातीत्येतावता विसंवादाभावोऽपि न प्रामाण्यज्ञप्तिकारणं भवति । किन्तु ततो विसंवा-(श्री.टि.) दादप्रामाण्यज्ञप्तिरूपविपरीतकार्यानुत्पादे सति साक्षी स्वमहिम्नैव प्रामाण्यं गृह्णातीत्याशयः । अन्य-थेति ।। विसंवादाभावस्यापि प्रामाण्यज्ञप्तिकारणत्व इत्यर्थः ।। उत्सर्गापवादाविति ।। वेत्राङ्कुरं वेत्रबीजं जनयतीतिवत् ‘न हिंस्यात् सर्वा भूतानि’ इति भूतहिंसात्वावच्छेदेनाकर्तव्यत्वमुत्सर्गः । तत्र दाहः प्रतिबन्धकः। अत्र तु ‘अग्नीषोमीयं पशुमालभेत’ इति विहितहिंसारूपोऽपवादो दाहस्थानीयः । तत्र दाहाभावरूपप्रतिबन्धका-भावस्यापि कारणत्वमङ्गीकृत्य दाहाभावविशिष्टवेत्रबीजस्य कारणत्वाङ्गीकारे, अत्राप्यविहितहिंसात्वावच्छेदेना-कर्तव्यत्वनियम एव स्यात्, नोत्सर्गः । सव्यभिचारनियमस्यैवोत्सर्गत्वात् । न ह्यस्य नियमस्य व्यभिचारोऽ-स्ति । एतादृशोत्सर्गाभावे च तन्नियमे व्यभिचारप्रदर्शनार्थं प्रवृत्तस्यापवादस्याप्यसम्भव एव । उक्तरीत्याऽव्यभि-चारस्यैव सम्भवादिति भावः । कारणाभावस्य विसंवादाभावस्य ।। न प्रकृते काचिदस्माकं हानिरिति ।। प्रामाण्यस्य विसंवादाभावसहकृतसाक्षिवेद्यत्वाङ्गीकारेऽपि न प्रकृतस्य वेदापौरुषेयत्वस्य हानिः । विसंवादा-भावस्यैव सहकारित्वप्राप्त्या आप्तोक्तत्वस्य कुत्राप्युपयोगाभावात् । तदैव हानिः स्यात् यद्याप्तोक्तत्वेनैव तत्प्रामाण्यमनुमातव्यमिति त्वदुक्तरीत्या आप्तोक्तत्वस्य सहकारित्वं स्यात्, न चैवम् । अतः सकर्तृकत्वाभावे प्रामाण्यासिद्धिलक्षणबाधकाभावादप्रयोजकं वाक्यत्वानुमानमिति न प्रकृतस्य वेदापौरुषेयत्वस्य हानिरित्यर्थः। अङ्गीकृत्येदमुक्तम् । वस्तुतस्तु कारणीभूताभावप्रतियोगित्वं हि प्रतिबन्धकत्वम् । तथा च प्रतिबन्धकज्ञाने तदभावज्ञानम् । अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वात्, प्रतिबन्धकाभावज्ञाने च प्रतिबन्धकत्वज्ञानम् । तस्य तद्घटितशरीरत्वादित्यन्योन्याश्रयान्न प्रतिबन्धकाभावस्य कारणत्वमिति हृदयम् ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

।। तथा चेति ।। ननु प्रामाण्यग्रहणस्य साक्षिणः स्वभावत्वमेवास्तु । न चैवं बौद्धवाक्यजनितज्ञान-स्यापि साक्षी प्रामाण्यं गृह्णीयादित्युक्तातिप्रसङ्ग इति वाच्यम् । साक्षिणो याथार्थ्यनियमेन यत्र प्रामाण्यमस्ति तत्रैव तद् गृह्णातीत्यङ्गीकारात् । तथा च वेदान्तजनितविज्ञानस्य प्रामाण्यात् तत्र प्रामाण्यग्रहणेऽपि बौद्धादि-वाक्यजनितविज्ञाने प्रामाण्याभावेनैव तद्ग्रहणोपपत्तेः । तदभावेऽपि तद्ग्रहणेऽयाथार्थ्यापातात् । तत् कथमेतदा-पादनमिति चेत् । उच्यते । वेदस्यापौरुषेयत्वे आप्तोक्तत्वाभावेन प्रामाण्याभावात् तज्जनितविज्ञानस्यापि न प्रामाण्यमिति प्रत्यवतिष्ठमानं प्रति प्रामाण्यस्य स्वतस्त्वादाप्तोक्तत्वाभावेऽपि प्रामाण्यं सम्भवतीत्यभिहि-तम् । तत्र च प्रामाण्यस्य स्वतस्त्वेऽयमतिप्रसङ्गः परेणाभिहितः । न चास्यां दशायां वेदप्रामाण्यं तिष्ठतीति शक्यते वक्तुम् । येन यत्र यदस्ति तत्र तद् गृह्यत इति नियमाद् वेदप्रामाण्यग्रहणेऽपि बौद्धादिवाक्यजनितविज्ञाने प्रामाण्यं न गृह्यत इति परिहारः स्यादित्यत्र तात्पर्यमिति ।

।। तदपि प्रमाणमापद्येतेतीति ।। न चेष्टापत्तिरिति वाच्यम् । विरुद्धयोर्द्वयोः प्रामाण्यानुपपत्त्या वेदविरुद्धस्य बौद्धागमस्य तदयोगात्    वेदविरोधिनोऽपि तस्य प्रामाण्ये पुनर्वेदप्रामाण्यं न स्यात् । विरुद्धयोर्द्वयोरपि प्रामाण्ये वस्तुनो द्वैरूप्यं वा आपद्येतेति भावः ।। उत्सर्ग एवेति ।। न तु ज्ञानग्राहकः साक्षी प्रमाणतयैव तद् गृह्णातीति नियम इत्यर्थः । किं तदित्यत आह- विसंवादलक्षणादिति ।। प्रवृत्त्यसामर्थ्यादिरूपादित्यर्थः । कथं (पां.टि.) प्रामाण्यग्रहणे सहजशक्तिमतस्तदग्राहकत्वं सहकारिमात्रेण चाप्रामाण्यग्राहकत्वमित्यत आह- सहकारिण इति ।। नन्वेवं परतोऽप्रामाण्यमित्येतावतैवोक्तरीत्योक्तशङ्कापरिहारसिद्धेः ‘दुष्टबुद्धीनामेव’ इत्यादिपूर्वभागवैयर्थ्य-मित्यत्राऽह- विसंवाददर्शनमिति ।। तथा च दृष्टान्तोपदर्शकत्वान्न वैयर्थ्यमिति भावः। ननु नेदं दृष्टान्तप्रतिपादकम् । अत्र तज्ज्ञापकाभावादित्यत इतिशब्द एव तज्ज्ञापक इति भावेन योजयति-विसंवा-देति ।। तथा च वह्निमत एव महानसादेर्धूमवत्त्वं दृष्टमिति हेतोर्धूमवत एव पर्वतस्य वह्निमत्त्वमित्यर्थसिद्धिवद्, दोषकलुषितमनसां वेदजनितज्ञानेऽप्रामाण्यशङ्का दृष्टैवेति हेतोर्विसंवाददर्शनसहकृतः साक्षी अप्रामाण्यं गृह्णातीति लभ्यत इति भावः । अप्रामाण्यशङ्केति भ्रमस्याप्युपलक्षणं बोध्यम् । ननु साक्षिणो यथार्थनिश्चयमात्रहेतुत्वाद् विसंवाददर्शनादप्यप्रामाण्यशङ्काहेतुत्वं कथं स्यादित्यत आह- नात्रेति ।। तथा च न यथार्थनिश्चयमात्रहेतुत्वाविरोध इति भावः । तर्हि कस्य तद्धेतुत्वमिति पृच्छति- किन्त्विति ।। समाधत्ते- मनस एवेति ।। तत्रोपष्टम्भकमाह- यत् क्वचिदिति ।। नन्वेवं दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । साक्षिणो विसंवादसहकारेणाप्रामाण्यविषयक-यथार्थनिश्चयहेतुत्वान्मनसश्च तत्सहकारेण तद्विषयकसंशयादिहेतुत्वादित्यतः साक्षिनिष्ठस्याप्रामाण्यविषयक-यथार्थनिश्चयहेतुत्वस्य, मनोनिष्ठस्य तद्विषयकसंशयादिहेतुत्वस्य अविवक्षयोभयानुगतस्य दोषसहकारेणा-प्रामाण्यविषयकज्ञानहेतुत्वस्य विवक्षया दृष्टान्तदार्ष्टान्तिकभावस्य विवक्षितत्वान्न वैषम्यमित्याशयेनाऽह- अतः सामान्यमात्र इति ।।

ननु ‘दुष्टबुद्धीनामेवाप्रामाण्यशङ्का’ इत्यनेनाप्रामाण्यग्रहणस्य युक्त्यनुसन्धानान्वयव्यतिरेकावुच्येते इत्युक्त-मयुक्तम् । अत्राप्रामाण्यशङ्काया विसंवादादिदोषकलुषित-मनोऽन्वयव्यतिरेकयोरेव कथनादित्यत आह- दुष्ट-बुद्धीनामिति अप्रामाण्यशङ्केति चेति ।। प्रकृतेति ।। वेदजन्यज्ञाने संशयविपर्ययलक्षणाप्रामाण्यभ्रम एव । न त्वत्राप्रामाण्यप्रमा । भ्रमोऽपि मनःकरणक एवेति भावः ।। अन्यथेति ।। प्रतिबन्धकाभावे कारणत्वेन, कारणीभूतदण्डाभावादौ च प्रतिबन्धकत्वेनाव्यवहारात्, स्वसामग्रीवशेन प्रसक्ते औत्सर्गिकत्वस्य, सत्यपि पुष्कलकारणे यद्वशात् कार्याभावो विपरीतकार्यं वा तस्यापवादकत्वस्य च सर्वसिद्धत्वात् । प्रतिबन्धकाभावस्यापि कारणत्वे तस्यापि सामग्रीकोटिप्रवेशापत्त्या सर्वसिद्धोत्सर्गापवादापलापः स्यादित्यर्थः ।। न प्रकृते काचिदस्माकं हानिरिति ।। ज्ञानप्रामाण्यस्य विसंवादाभावसहकृतसाक्षिवेद्यत्वेऽपि(न)प्रमाणजन्यत्वेन वेदजन्यज्ञान-प्रामाण्यनिश्चयः । तथा वेदस्यापि यथार्थज्ञानान्वयव्यतिरेकाभ्यामेव प्रामाण्यनिश्चयः । तथा चाऽप्तोक्तत्वस्य कुत्राप्युपयोगो नास्तीति सकर्तृकत्वाभावे प्रामाण्यासिद्धिलक्षणबाधकाभावादप्रयोजकं वाक्यत्वानुमानमिति न प्रकृतस्य वेदापौरुषेयत्वस्य हानिरित्यर्थः ।

लघुप्रभा

(व्या.टि.)

प्रामाण्यस्य ज्ञप्तिस्वतस्त्वे बाधकं शङ्कितुमनुवदति- यद्येवमिति ।। प्रामाण्येति ।। ज्ञानग्रहणवदिति भावः । स च साक्षी ।। अन्यथेति ।। साक्षिणोऽप्यर्थव्यभिचारशङ्कायामित्यर्थः । साक्षिणः प्रामाण्यग्रहण-मौत्सर्गिकस्वभाव इति परिहरति- ज्ञानग्राहक इति ।। सहजशक्तिप्रतिबन्धेन विपरीतशक्त्याधानं सहकारि-(व्या.टि.) व्यक्तिविशेषे निदर्शयति- दावेति ।। दुष्टबुद्धीनामित्येतद् वैयर्थ्यपरिहाराय व्याचश्व्े- विसंवा-देति ।।  सामान्यकार्यकारणभावे  विशेषकार्यकारणभावो दृष्टान्त इत्यर्थः ।  तत् स्पष्टं व्याचष्टे- विसंवाद-दोषेति ।। इति हेतोरिति ।। ‘यावद्विशेषयोः’ इति न्यायादिति भावः । ननु साक्षिणो निर्णयरूपत्वात् कथं तच्छङ्का साक्षिण इत्यत आह- नात्रेति ।। ननु तर्हि विषमोऽयं दृष्टान्तः । वेदजन्यज्ञानेऽप्रामाण्यबुद्धिर्मानसी शङ्कारूपा च । बौद्धवाक्यजज्ञानेऽप्रामाण्यबुद्धिः साक्षिरूपा निर्णयरूपा च । अतः कथं तद्दृश्वन्तेनैतत्साधनमित्यत आह- सामान्यमात्र इति ।। अप्रामाण्यग्रहणमात्र इत्यर्थः । मूले शेषं मत्वाऽऽह- अनुमीयत इति ।। न च वेदजन्यज्ञान एव विसंवादेनाप्रामाण्यमनुमीयतामित्यतो हेत्वसिद्ध्या परिहरति- न चेति ।। अप्रामाण्यग्रहणस्य युक्त्यनुसन्धानजन्यत्वप्रतिज्ञायां यथाश्रुतमूल-मसङ्गतमिति भावेन मूलाभिसन्धिमाह- अनेनेति ।। विशेषग्रहणप्रयोजनमाह- दुष्टबुद्धीनामिति ।। अत्र बुद्धिशब्दो मनोवाची शङ्कापदसाहचर्यात् । सामान्यान्वय-व्यतिरेकोक्तिलब्धमर्थमाह- वस्तुतस्त्विति ।। अनुमेयमेवेति ।। विसंवादसापेक्षसाक्षिवेद्यमित्यर्थः । यथाश्रुत-परत्वे ‘साक्षी अपवादकसद्भावेऽ-प्रामाण्यमपि गृह्णाति’ इति सुधया ‘न चाप्रामाण्यं क्वचिदपि निरपेक्षेण साक्षिणा निश्चितचरम्’ इति वादावल्या च विरोधादित्यवधेयम् । अप्रामाण्यग्रहणवत् प्रामाण्यग्रहेऽपि अपौरुषेयत्वादि-युक्त्यपेक्षासाम्येन विनिगमनाविरहः इत्यत आह- प्रामाण्यग्रहणस्य त्विति ।।

युक्त्यपेक्षाभावेऽपि विसंवादाभावापेक्षाऽस्तीति परत एव प्रामाण्यमिति शङ्कते- नन्विति ।। यस्मिन् सत्येव  यद्भवति  नान्यथेत्यन्वयव्यतिरेकयोरन्यथासिद्धिं दर्शयति- ततो विपरीतकार्यानुत्पादे सतीति ।। अङ्कुरं करोतीत्यतः परं एवं ज्ञानेऽपि विसंवादाभावेनाप्रामाण्यग्रहणानुत्पादे सति साक्षी स्वमहिम्नैव प्रामाण्यग्रहणं करोतीति दार्ष्टान्तिकवचनमुपस्कर्तव्यम् । उभयत्रापि विपक्षे बाधकमाह- अन्यथेति ।। प्रतिबन्धकाभावस्यापि कारणत्व इत्यर्थः ।। उत्सर्गापवादाविति ।। सामग्य्र•ः फलावश्यम्भाव उत्सर्गः । सत्यां सामग्य्र•ं यस्मात् कार्यानुत्पादो विपरीतकार्योत्पादो वा सोऽपवादः । प्रतिबन्धकाभावस्यापि कारणत्वे समाग्य्राभावादेव कार्यानु-त्पादसम्भवेनापवादात् कार्यानुत्पाद इति वाचोयुक्ती रिक्ता स्यादित्यर्थः । नन्वेवं भाष्यटीकाविरोधः । तत्र ‘शब्द इति चेन्न’ इति सूत्रभाष्यव्याख्यानावसरे प्रतिबन्धकाभावस्य कारणत्वोक्तेरिति चेन्न । तस्याः कारणतावच्छेदकसाधारणप्रयोजकत्वाभिप्रायत्वात् । तथैवोक्तं तर्कताण्डवे । तदभिप्रायेणात्रापि (कृत्वा) चिन्तयोत्तरयति- किञ्चेति ।। प्रामाण्यग्रहणोपयोगेति ।। प्रामाण्यग्रहणकारणस्याप्रतिबद्धस्यैवादग्ध-बीजवत्कारणत्वात् । कारणत्वोपयोगद्वारा कार्योपयोगेऽपि न साक्षात्कारणत्वमित्यर्थः । दण्डदार्ढ्यादिवत् कारणतावच्छेदकतयेति शेषः ।। न हानिरिति ।। ज्ञानग्रहणकारणातिरिक्तकारणानपेक्षत्वरूपस्वतस्त्व-हानिर्नेत्यर्थः ।

।। इति प्रामाण्यस्वतस्त्ववादः ।।