आत्माज्ञानात्मकत्वे ..
जगद्भिन्नत्वेन दृश्यमानस्यात्मनो जगदारोपाधिष्ठानत्वस्य निरासः
मूलम्
- आत्माज्ञानात्मकत्वे च जगत आत्मनो भिन्नत्वेन न दृश्येत । न हि शुक्तेर्भेदेन रजतं दृश्यते भ्रान्तौ । न चैकमेव युगपद्बहुधा दृश्यते भ्रान्तौ । न चाऽत्मनि भेदभ्रमः क्वापि दृष्टः ।
तत्त्वमञ्जरी
इतश्चात्माधिष्ठानको भ्रमो न युज्यत इत्याह- आत्माज्ञानेति ।। एकैव रज्जुः क्रमेण हि भूच्छिद्रबलीवर्दमूत्रितसर्पादिरूपेण बहुधा दृश्यते । न तु युगपदित्यभिप्रायेण युगपत्पदं उपनि-बबन्ध । एकस्मिन्नेवात्मनि युगपत् घटपटाद्यनेकपदार्थाध्यास इति हि तन्मतम् । एवं एकजीववादिनं निरस्येदानी बहुजीववादं निराकरोति- न चात्मनि भेदभ्रम इत्यादिना ।। अयमर्थः । यथैकस्मिन्नेव चन्द्रे भेदभ्रमो दृश्यते तथैकस्मिन्नेवात्मनि भेदभ्रम इति हि तैरुच्यते । स च खल्वात्मनि कुत्रापि नानुभूतः ।
टीका
एवं प्रसङ्गादनात्मनि आत्मारोपमपाकृत्य प्रकृतमेव जगदारोपस्याऽत्माधिष्ठानत्वं युक्त्यन्तरेण निराकरोति- आत्मेति ।। आत्मनो यदावरणमज्ञानं तद् आत्माज्ञानम् । तदात्मकत्वे पररीत्या तदुपादानकस्वरूपप्रतिभासत्वे । स्वरीत्या तु तन्निमित्तप्रतीतिकत्व इति व्याख्येयम् । न दृश्येत जगदिति शेषः । यद्यात्माधिष्ठानत्वे चेत्येवोच्येत तदाऽधिष्ठानाधिष्ठेययोः कुण्डबदरयोः परस्परं भिन्नत्वेन दृश्यमानत्वाद्व्याप्तिहीनोऽयं प्रसङ्ग इति छलावतारः स्यात् । तत्परिहारायाधि-ष्ठानाधिष्ठेयस्वरूपव्याख्यानार्थं ‘आत्माज्ञानात्मकत्वे च जगत’ इत्युक्तम् । यदज्ञानेनाऽवृता-साधारणाकारं सद् असत्यवस्त्वन्तरात्मनाऽवभासते तदधिष्ठानम् । इतरदधिष्ठेयमिति ह्यत्र विव-क्षितम् । तत्कथं व्याप्तिभङ्ग इति । प्रसङ्गस्य व्याप्तिमुपपादयति- न हीति ।। शुक्तिसमीपस्थं रजतान्तरं दृश्यत एवेत्यतो भ्रान्तावित्युक्तम् । तदारोपितमिति यावत् । अथवा भ्रान्तेरुत्थितेन भेदेन दृश्यत एवेत्यत इदमुक्तम् ।
तथा चैवं प्रसङ्गः । यदि जगद् आत्मन्यारोपितं स्यात् तदा आत्मनोऽपि भिन्नत्वेन न दृश्येत । यद् यत्राऽरोपितं तत् ततो भिन्नत्वेन न प्रतीयते । यथा शुक्तिकायामारोपितं रजतं न शुक्तिकया भिन्नत्वेन भ्रान्तौ दृश्यते । दृश्यते चेदमिदानी जगद् आत्मनो भिन्नत्वेन । तस्मान्न तत्राऽरोपित-मिति ।
अत्र धर्म्यारोपे भिन्नत्वेनेति भेदेनेति च यथाश्रुतं ग्राह्यम् । धर्मारोपे त्वसंसृष्टत्वेनेति । न च तर्कस्येष्टापादनत्वमनुमानस्य चासिद्धिराशङ्कनीया । प्रत्यग्पराग्भावेन भेदप्रतीते ः स्फुटत्वात् । प्राग्विरोधेन प्रतीतिरुक्ता । इदानी तु भेदप्रतीतिमात्रमिति भेदः ।
भेदेन प्रतीयमानमपि तत्राऽरोपितं चेत्कदाऽप्यारोपानिवृत्तिः स्यात् । किञ्चैकस्मिन्नात्मनि सर्वं जगत्कल्पितं न भवति युगपद्बहुधा दृश्यमानत्वात्, आत्मा वा युगपद्बहुधा दृश्यमानस्याधिष्ठानं न भवति एकत्वादित्यनुमानद्वयस्य व्याप्तिमुपपादयति- न चेति ।। येनैतयोरनुमानयोर्व्याप्तिर्भज्येतेति शेषः । आदौ रजतत्वेन दृश्व्ं पश्चाच्छुक्तिकात्वेन दृश्यत इत्यतो भ्रान्तावित्युक्तम् । भ्रान्तावेव रज्जुखण्डसर्पमालाबलीवर्दमूत्रत्वेन क्रमेण दृश्यते । तत्परिहारार्थं युगपदित्युक्तम् । अनेनैव सर्वव्यभिचारपरिहारो भविष्यतीति चेत्तर्हि स्वरूपकथनाय भ्रान्तावित्युक्तम् । प्रागधिष्ठानाधि-ष्ठेययोर्विरोधभेदावाश्रित्यानुमितम् । इदानी त्वारोप्यतयाऽभिमते जगति बहुविधत्वमाश्रित्येति भेदः ।
नन्वात्मा एकविध एव । जगत्तु बहुविधं प्रतीयताम् । तथाऽपि तत् तत्राऽरोपितं भविष्यति । जगद्गतस्य बाहुविध्यस्य सत्यत्वे ह्यध्यासानुपपत्तिः स्यात् । न चैवं यतस्तदप्यारोपितमिति चेत्, कुत्रेति वक्तव्यम् । आत्मन्येवेति चेत्, किं धर्मित्वेनोत धर्मत्वेन । पक्षद्वयमप्यनुपपन्नमित्याह- न चेति ।। न हि कश्चिदहं न भेद इति वा भिन्न इति वा भ्रान्तो दृश्यत इत्यर्थः । भेदो बाहुविध्यम् । परस्पर(रं भे) भेदप्रतीतिमाश्रित्यानुमातव्यमिति सूचयितुं भेदग्रहणं कृतम् ।
भावबोधः
इति व्याख्येयमिति ।। तथा च यथाश्रुतापादकस्य शुक्तिरजतादावभावेन स्वरीत्या व्याप्तिग्रहणं न सम्भवतीति शङ्काऽवकाशो नेति भावः। ननु भ्रान्तावित्युक्तेऽपि न दोषपरिहारः । शुक्तिरजतयोरिमे रजते इति भ्रान्तौ शुक्तेर्भेदेन रजतस्य दर्शनादित्यत आह- तदारोपितमिति यावदिति ।। प्राग्विरोधप्रतीतिरिति ।। ‘न चाऽत्मन्यनात्मभ्रमः’ इत्यत्राऽत्मत्वानात्मत्वप्रकारकविरुद्धधर्मप्रतीतिरेव भ्रमासम्भवे हेतुत्वेनोक्तेत्यर्थः। तर्हि बाहुविध्यभ्रम इत्येव कुतो नोक्तमित्यत आह- परस्परमिति ।। आत्मा परस्परं भिन्नत्वेन दृश्यमानस्याधिष्ठानं न भवति अभिन्नत्वादित्यनुमानमत्र द्रष्टव्यम् । अस्मिन्पक्षे भेदभ्रम इति भेदसंसर्गभ्रम इत्यर्थ इति ज्ञातव्यम् ।
भावदीपः
स्वरीत्येति ।। सिद्धान्तरीत्येत्यर्थः । तथा सति यद् यदज्ञाननिमित्तप्रतीतिकं तत् ततो भेदेन न प्रतीयते, यथा शुक्तिरूप्यमिति व्याप्तिःस्वमते सम्भवति ।पराभिमतार्थे तु परमत एव तत्र व्याप्तिरिति भावः । रजतान्तरं दृश्यत एवेत्यत्र शुक्तितो भेदेनेति योज्यम् । भ्रान्तेनापि समीपस्थस्य भेदेन दर्शनात्तात्पर्यमाह- तदारोपितमिति ।। दार्ष्टान्तिकदृष्टान्तवाक्यद्वयोक्तानुवादो भिन्नत्वेन भेदेन चेति । धर्मारोपे त्विति ।। जडत्व-परिच्छिन्नत्वादिजगद्धर्मारोपे रजतत्वधर्मारोपे चेत्यर्थः । अनुमानस्य चेति ।। जगदात्मनि नाऽरोपितं ततो भेदेन प्रतीयमानत्वात् सामान्यव्याप्त्या शुक्तिसमीपस्थरजतवदित्यभिमतानुमानस्य चेत्यर्थः । आत्मपदेन प्रत्यगर्थमेवाभिप्रेत्याऽह- प्रत्यक्पराग्भावेनेति ।। ‘न चाऽत्मनि’ इत्यादिग्रन्थेन ‘आत्माज्ञान’ इत्यादिग्रन्थस्य पौनरुक्त्यमाशङ्क्याऽह - प्राग्विरोधेनेति ।। तर्कानुमानयोरप्रयोजकत्वशङ्कां निराह -भेदेनेति ।। सर्प-मालेति ।। सर्पतया मालात्वेन बलीवर्दस्य मूत्रतयेत्यर्थः । भेदपदप्रयोगे कृत्यमाह- परस्परेति ।। जगदन्तर्गत-पदार्थानामन्योन्यभेदप्रतीतिमाश्रित्यापीत्यर्थः । आत्मा स्वान्तर्भेदोपेतजगदारोपाधिष्ठानं न भवति स्वान्तर्भेद-हीनत्वाद्गगनवत् । तादृशं जगद्वा स्वान्तर्भेदहीनात्मनि नाऽरोपितं परस्परं स्वान्तर्भेदवत्त्वात् शुक्तौ रूप्यसमुदाय-वदित्यनुमातव्यमित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि)
ननु स्वमते आरोपितस्य शुक्तिरजतादेरत्यन्तासत्त्वेनाज्ञानोपादानकत्वाभावाद् यद् यदज्ञानपरिकल्पितं तत् ततो भिन्नत्वेन न दृश्येत इति व्याप्तिग्रहणं शुक्तिरजतादौ न सम्भवतीत्यत आह- स्वरीत्या त्विति ।। अत्यन्तासतोऽपि शुक्तिरजतादेरधिष्ठानाज्ञाननिमित्तप्रतीतिकत्वाङ्गीकारादिति भावः । इत्येवोच्येतेति ।। यदधिष्ठेयं तदधिष्ठानाद्भिन्नत्वेन न दृश्येतेत्येव यद्युच्येतेत्यर्थः । छलेति ।। वक्ष्यमाणाभिप्रायेण प्रयुक्तयोरधि-ष्ठानाधिष्ठेयशब्दयोराधाराधेयभावरूपाभिप्रायान्तरं कल्पयित्वा दूषणादित्यर्थः । एवमुक्तेऽपि कुण्डबदरादौ कथं व्यभिचारपरिहार इत्यत आह । यदज्ञानेनेति ।। रजतान्तरं सत्यभूतं रजतमित्यर्थः । दृश्यत इति ।। प्रमायामि-त्यर्थः । ननु भ्रान्तावित्युक्तेऽपि न दोषपरिहारः । समीपस्थयोः शुक्तिरजतयोरिमे रजते इति भ्रान्तौ शुक्तेर्भेदेन रजतस्य दर्शनादित्यत आह- तदारोपितमिति यावदिति ।। तथा च भ्रान्तौ शुक्त्यारोपितरजतभिन्नं वास्तवं यद्रजतं तदेव शुक्तेर्भेदेन प्रतीयते न तु तत्रारोपितं यद्रजतं तदित्यर्थः । दृश्यत एवेति ।। शुक्तेर्भेदेन रजतमि-त्यर्थः । इदमुक्तमिति ।। भ्रान्ताविति विशेषणमुक्तमित्यर्थः । धर्म्यारोपे इदं रजतमिति तादात्म्यारोपे । धर्मारोपे अत्र रजतत्वमिति तन्निष्ठधर्मसंसर्गारोप इत्यर्थः । भिन्नत्वेन भेदेनेत्यनयोरर्थमाह- असंसृष्टत्वे-नेति ।। तर्कस्येति ।। यदि जगदात्मन्यारोपितं स्यात्तदाऽऽत्मनो भिन्नत्वेन न दृश्येतेति तर्कस्येत्यर्थः । अनुमान-स्येति ।। जगदात्मन्यारोपितं न भवति ततो भेदेन दृश्यमानत्वादित्यनुमानस्येत्यर्थः । तर्के विपर्ययपर्यवसान-लब्धमिदमनुमानमित्यवगन्तव्यम् । ‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्ट ः’ इति पूर्वग्रन्थेन गतार्थतां परिहरति- प्रागिति ।। आत्मत्वानात्मत्वप्रकारकविरुद्धधर्मप्रतीतिरेव भ्रमासम्भवे हेतुत्वेनोक्ता । इदानी तु भेदप्रतीतिमात्र-मेव भ्रमासम्भवे हेतुत्वेनोच्यत इत्यर्थः । असिद्धिपरिहारायैव प्रत्यक्पराग्भावेन भेदप्रतीतेः स्फुटत्वादित्युक्त-(श्री.टि) मित्यवगन्तव्यम् । अनुमानेऽप्रयोजकतापरिहाराय बाधकं तर्कमाह- भेदेन प्रतीयमानमपीति ।। आदावित्यनन्तरमेकमेव शुक्तिकाशकलमिति शेषः । तथा च तत्र व्यभिचार इत्यर्थः । अनेनैवेति ।। युगपदिति विशेषणेनैवेत्यर्थः । सर्वेति ।। आदौ रजतत्वेन दृश्व्ं पश्चाच्छुक्तिकात्वेन दृश्यत इत्युक्तः । शुक्तिशकले व्यभिचारपरिहारोऽपि युगपदित्यनेनैव भविष्यति । अतस्तदर्थं भ्रान्ताविति न वक्तव्यमित्यर्थः । गतार्थतां परिहरति- प्रागिति ।। अनुमितं जगतोऽनारोपितत्वमिति शेषः । अप्रयोजकत्वमाशङ्कते- नन्विति ।। धर्मित्वेनेति ।। अहं बाहुविध्यमिति तादात्म्येनेत्यर्थः । धर्मत्वेनेति ।। अहं बाहुविध्यवानिति बहुविधत्व-रूपधर्मसंसर्गवत्त्वेनेत्यर्थः । ननु तर्हि न चाऽत्मनि बाहुविध्यभ्रमः क्वापि दृष्ट इत्येव कस्मान्नोक्तमित्यत आह- परस्परमिति ।। आत्मा परस्परं भिन्नत्वेन दृश्यमानस्य जगतोऽधिष्ठानं न भवति अभिन्नत्वादित्यनुमानमत्र द्रष्टव्यम् । अस्मिन्पक्षे भेदभ्रम इत्यस्य भेदसंसर्गभ्रम इत्यर्थो द्रष्टव्यः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि)
आत्माधिष्ठानत्वमिति ।। जगदारोपस्याऽत्माधिष्ठानकत्वमित्यर्थः । आत्माज्ञानमित्यस्यात्माश्रित-मज्ञानमित्यर्थः प्रतीयते, स च न युक्तः । शुक्त्याद्याश्रिताज्ञानाकल्पिते शुक्तिरजतादौ व्याप्तिग्रहासम्भवादतो व्याचष्टे- आत्मनो यदावरणमिति ।। शुक्तिरूप्यादिकं तु शुक्त्याद्यावरकाज्ञानकल्पितमेवेति युक्तस्तत्र व्याप्तिग्रह इति भावः । इति व्याख्येयमिति ।। तथा च यथाश्रुतापादकस्य शुक्तिरजतादावभावेन स्वरीत्या व्याप्तिग्रहणं न सम्भवतीति शङ्काऽवकाशो नेति भावः। नन्वेवमपि कुण्डबदरादौ कथं व्यभिचारपरिहार इत्यत आह-यदज्ञाने-नेति ।। ननु भ्रान्तावित्यनेनापि न दोषपरिहारः । शुक्तिरजतयोरिमे रजते इति भ्रान्तौ वस्तुतः शुक्तिरजत-विषयत्वादित्यत आह- तदारोपितमिति यावदिति ।। इदमुक्तमिति ।। भ्रान्तावितीदमुक्तमित्यर्थः । नन्वेवं तर्हि पूर्वप्रसङ्गाभेद इत्यत आह- प्रागिति ।। ‘न चाऽत्मन्यनात्मभ्रमः’ इत्यत्राऽत्मत्वानात्मत्वरूपविरुद्धधर्म-प्रतीतिरेवाऽत्मन्यनात्मभ्रमासम्भवे हेतुत्वेनोक्तेत्यर्थः । भेदप्रतीतिमात्रमिति ।। आरोपासम्भवे हेतुत्वेनोक्तं न तु विरोधप्रतीतिरिति न पौनरुक्त्यमित्यर्थः । अस्तु भेदेन प्रतीतिस्तथाऽप्यारोपोऽस्त्वित्यप्रयोजकत्वमाशङ्क्य विपक्षे बाधकसत्त्वान्न तदिति भावेन तदाह- भेदेनेति ।। अनेनैवेति ।। युगपदित्यनेनैव भ्रान्तिपदनिरसनीय-व्यभिचारस्यापि परिहारात् तदानर्थक्यमित्यर्थः । तर्हीति ।। भ्रान्तावित्यस्य स्वरूपकथनत्वेनाव्यावर्तकतया हेतुशरीरप्रवेशासम्मतेर्न तदानर्थक्यमिति भावः । ननु चोक्तप्रसङ्गप्रतिपादकत्वात्पूर्वेण पौनरुक्त्यमित्यतः प्रकार-भेदान्न तदिति भावेनाऽह- प्रागधिष्ठानेति ।। विरोधभेदमिति ।। विरोधसहितो भेदो विरोधभेदस्तमित्यर्थः । यद्यपि भेदमाश्रित्य पूर्वमारोपासम्भव उक्त इत्येव वक्तुमुचितं भेदेन प्रतीत्यैवाऽरोपासम्भवस्योक्तत्वात् । तथाऽपि तत्पूर्ववाक्ये विरोधप्रतीतिमाश्रित्याप्यारोपासम्भवस्योक्तत्वात् तदसम्भवप्रतिपादकग्रन्थद्वयेन पौनरुक्त्यपरिहारोऽयमिति ज्ञापयितुं विरोधग्रहणमिति द्रष्टव्यम् । क्वचिट्टीकायां विरोधभेदावाश्रित्येति पाठः । स स्पष्ट एव । आत्मनि बहुविधत्वेन प्रतीयमानजगद्भ्रमस्य परेणोक्तत्वेऽपि भेदभ्रमस्यानुक्तत्वेन भेदपदस्यात्र भेदपरत्वानुपपत्तेर्बाहुविध्यपरतया तद्व्याचष्टे- भेदो बाहुविध्यमिति ।। नन्वेवं नाऽत्मनि बाहुविध्यभ्रमो दृष्ट (पां.टि) इत्येव वक्तव्यं, किं भेदग्रहणेनेत्यत आह- परस्परमिति ।। आत्मा परस्परं भिन्नत्वेन दृश्यमान-स्याधिष्ठानं न भवत्यभिन्नत्वादित्यनुमानस्यापि सूचनार्थं भेदग्रहणं कृतमित्यर्थः ।
लघुप्रभा
प्रकृतमनुसरतीत्याह- एवमिति ।। अज्ञानपदस्य ज्ञानाभावपरत्वेऽभावस्योपादानत्वावरणत्व-योरसम्भवादनुक्तेश्चासदनुवादत्वमपाचिकीर्षुरज्ञानपदं विज्ञापयति- आत्मन इति ।। आवरणाव्रियमाणभावः षष्ठ्यर्थ इति भावः । परेणाज्ञानातिरिक्तस्याज्ञानकार्यतोररीकरणादन्यथाऽनुवाद इत्याशङ्क्य मतभेदेन द्वेधा व्याचष्टे- पररीत्येत्यादि ।। तदुपादानं ययोस्तौ तदुपादानकौ । ‘शेषाद्विभाषा ’ इति कप् । स्वरूपं च प्रतिभासश्च स्वरूपप्रतिभासौ तथाभूतौ तौ यस्य तस्य भावस्तत्त्वं तस्मिन्नित्यर्थः । भ्रमोपादानमज्ञानमिति तैस्तल्लक्षण-करणादिति भावः । तन्निमित्तेति ।। अत्राऽत्मशब्दो निमित्तपर इत्युक्तं भवति । जगत इति ।। पूर्वानुमितस्याऽ-काङ्क्षोपरमाद्विभक्तिपरिणामे मानाभावाच्चेत्याशयेन व्याचष्टे- जगदिति शेष इति ।। नन्वात्माधिष्ठानत्व इति लघ्वक्षरैरनुवादसम्भवे किमिति गुर्वक्षरैस्तदर्थानुवादेनेत्यतः तत्फलमाह- यदीति ।। छलेति ।। सामान्य-फलस्येत्यर्थः । अधिष्ठानाधिष्ठेयपदविवक्षितार्थकथनेन छलत्वं विच्छिनत्ति- यदिति ।। पृथक्पदम् । उपपादय-तीति ।। व्यभिचारपरिहारेणेति शेषः । रजतान्तरमिति ।। आरोपितभिन्नं सत्यमित्यर्थः । इत्यत इति ।। व्यभिचारादित्यर्थः । दृश्यत इति ।। इदं रजतमित्याकलितोऽस्मीत्यनुभवादिति भावः । तथा चेति ।। उदाहरणे भ्रान्तिपदप्रयोगेणेत्यर्थः । अत्र सर्वत्राऽत्मशब्दः प्रत्यक्परः । प्रसङ्गस्याऽरोपद्वयसाधारण्याय तृतीयान्तस्यार्थ-भेदमाह- अत्रेति ।। स्फुटत्वादिति ।। सुदृढनिरूढत्वादित्यर्थः । अन्यथाऽनुभवविरोधं च सूचयेदिति । ‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’ इति प्राचीनग्रन्थेन पुनरुक्तिमाशङ्क्य निराह- प्रागिति ।। व्यावर्तकप्रत्यक्त्वादि-धर्मप्रतीतिरुक्ता । व्यावृत्तिप्रतीतिरत्रोच्यत इति भेद इति भावः । विपक्षे बाधकमाह- भेदेनेति ।। निवर्तकान्त-राभावादस्याप्यनिवर्तकत्वेऽकारणकार्योत्पत्तियोगेन निवृत्तिलक्षणकार्यं कदाऽपि न स्यादित्यर्थः । न चैकमेवेति व्याप्तिवचनाभिहितमनुमानद्वयं दर्शयति- किञ्चेति ।। आद्ये हेतुपदकृत्यमाह- आदावित्यादिना ।। भ्रान्ति-पदवैयर्थ्यमाशङ्कते- अनेनैवेति ।। युगपत्पदेनैवेत्यर्थः । सर्वेति ।। भ्रान्तिपदव्यावृत्तेत्यर्थः । स्वरूपेति ।। उपरञ्जकविशेषणमित्यर्थः । पुनरुक्तिं व्युदस्यति- प्रागिति ।। बहुविधत्वमिति ।। अनेकप्रकारमित्यर्थः । हेतोरप्रयोजकतामाशङ्कते- नन्विति ।। धर्मित्वेनेति ।। अधिष्ठानतादात्म्येनेत्यर्थः । धर्मत्वेनेति ।। संसृष्ट-त्वेनेत्यर्थः । अनुपपन्नमिति ।। अनुभवविरुद्धमित्यर्थः । व्यावृत्तेरुक्तेः प्रकृतानुपयुक्तेश्च भेदपदं विवृणोति- भेदो बाहुविध्यमिति ।। गौणप्रयोगस्यार्थान्तरसूचनेन साफल्यमाह- परस्परेति ।। परस्परस्य जीवजडात्मक-प्रपञ्चस्येत्यर्थः । तथा च नाऽत्मा परस्परभिन्नतया प्रतीयमानप्रपञ्चारोपाधिष्ठानम् अभेदेनैकरस्येन प्रतीयमान-त्वादित्यनुमानं सूचितम् ।