स्वरूपसिद्धावपि..
भेदस्य धर्मिस्वरूपत्वे बाधकस्योद्धारः
मूलम्
- स्वरूपसिद्धावपि तदसिद्धिश्च जीवेश्वरैक्यं वदतः सिद्धैव । भेदस्तु स्वरूपदर्शन एव सिद्धः । प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते । ‘अस्य भेदः’ इति तु ‘पदार्थस्य स्वरूपम्’ इतिवत् ।
तत्त्वमञ्जरी
भेदस्तु सामान्यतः स्वरूपदर्शन एव सिद्धः । पश्चाद् धर्मिप्रतियोग्यपेक्षया विशेषतो गृह्यतां नाम । तदेवोपपादयति- प्राय इति ।। ननु ‘चैत्रस्य पटः’ इतिवत् ‘पटस्य भेदः’ इति सम्बन्ध-व्यवहारात् कथं भेदस्य स्वरूपत्वमित्यत आह- अस्येति ।। न हि पदार्थात् स्वरूपस्य भेदः केनापीष्यते ।
टीका
तथापि न भेदो धर्मिस्वरूपं, तत्प्रतीतावपि कदाचिदप्रतीतेः । यो यत्प्रतीतावपि न प्रतीयते नासौ तत्स्वरूपं यथा घटप्रतीतावप्यप्रतीयमानः पटो न घटस्वरूपम् । नचायमसिद्धो हेतुः, स्थाणुशुक्तिकाप्रतीतावपि पुरुषरजतभेदस्याप्रतीतेः । प्रतीतौ वा संशयविपर्ययानुत्पत्तिप्रसङ्गात् । नह्यप्रतीते स्थाण्वादौ संशयादिर्भवतीत्यत आह- स्वरूपेति ।। धर्मिप्रतीतावपि भेदस्याप्रतीतिः अभेदाविरोधित्वेन जीवेश्वरैक्यं वदतः परस्य सम्मतैव ।
इदमुक्तं भवति- प्रत्यक्चैतन्ये स्वप्रकाशतया सिद्धेऽपि जीवब्रह्मणोरैक्यं न सिद्धम् । अन्यथा उपदेशानर्थक्यप्रसङ्गात् । विप्रतिपत्त्यभावप्रसक्तेश्च । तथापि तत् स्वरूपतया परेणाङ्गीक्रियते । तस्मादयमपि हेतुरन्यतरानैकान्तिक एव भवति । स्वरूपमप्यैक्यमविद्याप्रतिबन्धान्न प्रकाशत इति चेन्न । अनैकान्त्यापरिहारात् । विशेषणप्रक्षेपाभिप्राये चात्रापि सादृश्यादेः प्रतिबन्धकस्य वक्तुं शक्यत्वेन विशेषणासिद्धिप्रसङ्गादिति ।
असिद्धश्चायं हेतुरित्याह- भेदस्त्विति ।। तुशब्देनैक्याद्विशेषमाचष्टे । एवशब्देन नियमम् । कदाचिद्धर्मिस्वरूपसिद्धौ भेदसिद्धेः परेणाप्यभ्युपगतत्वात् । कुत इत्यत आह- प्राय इति ।। भूमार्थं प्राय इत्यव्ययमप्यस्ति । विलक्षणं व्यावृत्तम् । प्राय इति संशयादिस्थलव्युदासार्थम् । तत्रापि विशेषं वक्ष्यामः । यद्यद् दृश्यते तत्तत् सर्वतो व्यावृत्तमेव दृश्यते नतु सर्वात्मकत्वेनेति ह्यनुभवसिद्धम् । व्यावृत्तिरेव च भेदः । नचैकस्मिन् वस्तुन्यनेके भेदाः किन्त्वेक एव । स चेद् दृष्टः कथं तर्हि धर्मिप्रतीतावपि भेदस्याप्रतीतिः सिद्ध्येदिति । तथापि भेदस्य धर्मिस्वरूपत्वं न युज्यते । पटस्य भेद इति तत्सम्बन्धितया प्रतीयमानत्वात् । यो यत्सम्बन्धितया प्रतीयते नासौ तत्स्वरूपम् । यथा कम्बलो ब्राह्मणस्येति । अत आह- अस्येति ।। इति तु सम्बन्धितया प्रतीतिर्व्यपदेशो वेति शेषः । इतिवदुपपद्यत इति च । यथा पदार्थस्य स्वरूपमिति पदार्थसम्बन्धितया प्रतीयमानमपि स्वरूपं न ततोऽन्यत्, तथा भेदोऽपीत्यनैकान्तिकत्वमनेनोक्तम् । तथा ‘आनन्दं ब्रह्मणो विद्वान्’ इत्या-द्युदाहरणीयम् । यदि तत्र भेदातिरिक्तं किमपि सम्बन्धप्रतीतिनिमित्तमुच्यते तर्ह्यत्रापि विशेषं वक्ष्याम इत्यन्यथासिद्धिः । यदि तत्र व्यपदेशमात्रं न प्रतीतिरित्यभिधीयते तदाऽत्रापि तत्सममिति स्वरूपासिद्धिः । अनयैव दिशा पटो भिन्न इति विशेषणतया प्रतीतिरपि न भेदसाधिकेति द्रश्व्-व्यम् । अत एव सर्वतो विलक्षणं हीत्यादिप्रयोगोऽपि युज्यते ।
नन्वेतन्निमित्तान्तरादिकल्पनं भेदस्य धर्मिस्वरूपत्वे सिद्धे स्यात्, तत्रैव किं प्रमाणमिति चेत्, यो भेदमेव नाङ्गीकरोति किं तस्यानया तद्विशेषप्रमाणचिन्तया । स्वरूपे प्रमाणं तूक्तम् । तस्य च बाधकानि परिहृतानि । अनुमानमात्रेण प्रत्यक्षं न बाध्यत इति च वक्ष्यते ।
भावबोधः
ननु संशयादितः पूर्वं भेदाप्रतीतिदशायां स्थाण्वादिधर्म्यपि न प्रतीयते । तथा चासिद्धिरेवेत्यत आह- न ह्यप्रतीत इति ।। संशयादेर्धर्मिज्ञानसाध्यत्वादिति भावः । ऐक्यवचनेन धर्मिप्रतीतावपि भेदाप्रतीतिः कथं परस्य सम्मतेति ज्ञायत इत्यत आह- अभेदाविरोधित्वेनेति ।। ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यबोध्यो यो ब्रह्मणः सर्वाभेदः, तदविरुद्धत्वेनेत्यर्थः । ब्रह्मभिन्नत्वेनैक्यं वदत इति यावत् । ऐक्यस्य ब्रह्मभिन्नत्वे ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यबोध्यः सर्वाभेदो विरुध्येतेति भावः । विप्रतिपत्त्यभावप्रसक्तेश्चेति ।। न च प्रत्यक्चैतन्यस्वरूपभूतैक्यस्याज्ञानविरोधिस्वरूपज्ञानेन सिद्धावप्यज्ञानविरोधिवृत्त्यभावाद्विप्रतिपत्तिसम्भवः, वृत्तिजनकत्वेनोपदेशसार्थक्यं चेति वाच्यम् । प्रत्यक्चैतन्येऽपि विप्रतिपत्त्यादिप्रसङ्गात् । न चेदत्रापि न स्यादविशेषा-दिति भावः । विशेषणप्रक्षेपेति ।। प्रतिबन्धकाभावे सतीति विशेषणप्रक्षेपेत्यर्थः । नियममिति ।। अनेन सिद्ध एवेत्येवकारसम्बन्धः सूचितो भवति । ननु प्रायेणेति प्रायश इति वा वक्तव्यम् । प्राय इति कथमुक्तमित्यत आह- भूमार्थमिति ।। ननु स्थाण्वादौ पुरुषत्वादिसंशयानुरोधेन पुरुषादिप्रतियोगिकभेदाप्रतीत्यङ्गीकारे तमेव भेदं पक्षीकृत्योक्तहेतुना धर्मिस्वरूपत्वाभावः साध्यते, हेत्वसिद्धेरभावादित्यत आह- न चैकस्मिन्निति ।। संशयादिकं च प्रकारान्तरेणोपपादयिष्यत इति भावः । अनुमानमात्रेणेति ।। तथा च प्राचीनो बाधक-परिहारोऽभ्युच्चयत्वेन कृत इति भावः ।
भावदीपः
ननु संशयस्थले विपर्ययस्थले च स्थाणुर्वा शुक्तिर्वा न प्रतीयते । तथाच तत्प्रतीतावप्रतीयमानत्वादिति हेतुरसिद्ध इत्यत आह- नह्यप्रतीत इति ।। धर्मिज्ञानसाध्यत्वात् तयोरिति भावः । अभेदेति ।। धर्मिस्वरूप-भेदयोरभेदाविरोधेनेत्यर्थः । संमतैवेत्युक्तं व्यनक्ति- इदमुक्तं भवतीति ।। न सिद्धं न ज्ञातम् । अन्यथा ज्ञातत्वे तत्त्वमसीत्यैक्योपदेशानर्थक्यप्रसङ्गादित्यर्थः । विप्रतिपत्तीति ।। निश्चिते संशयायोगेन वादिनां विप्रति-पत्तिर्न स्यादित्यर्थः । अयमपीति ।। धर्मिस्वरूपप्रतीतावपि भेदस्याप्रतीयमानत्वादिति हेतुरपीत्यर्थः । विशेष-णेति ।। असति प्रतिबन्धके धर्मिप्रतीतावप्रतीयमानत्वादित्युक्तावित्यर्थः । अत्रापीति ।। स्थाणुशुक्तिकादि-संशयादिस्थलेऽपीत्यर्थः । कुतो नियमोक्तिरित्यत आह- कदाचिदिति ।। विशेषदर्शनदशायामित्यर्थः । अतः सिद्धसाधनतावारणाय यदायदा धर्मिदर्शनं तदातदाऽपीति वक्तुमेवकार इति भावः । कुत इति ।। कुतो नियम इत्यर्थः । कथं तर्हि नियममाचष्ट इत्यतो वा, स्थाण्वादौ भेदाप्रतीतौ तत्रैव प्रागुक्तहेतुसिद्ध्या धर्मिस्वरूपत्वाभावः सिध्येदित्यतो वाऽऽह- तत्रापि विशेषं वक्ष्याम इति ।। ‘ज्ञात्वैव हि प्रायः सर्वतो वैलक्षण्यम्’ इत्येतद्व्याख्यावसर इति भावः । भूमार्थकप्रायशब्दार्थं व्यनक्ति- यद्यद् दृश्यत इति ।। नन्वेवं सर्वप्रतियोगिकभेदानां निरूपकभेदेन अनेकत्वादेकानेकयोः कथमभेद इत्यतो वा, तावद्भेदज्ञाने सार्वज्ञापत्तिरित्यतो वाऽऽह-नचैकस्मिन्निति ।। इति चेति ।। शेष इत्यनुषङ्गः । अनेनेति ।। ‘पदार्थस्य स्वरूपमितिवत्’ इत्यनेन तत्सम्बन्धितया प्रतीयमाने तदभिन्ने स्वरूपेऽनैकान्त्यमुक्तं भवतीत्यर्थः । वैदिकमप्यनैकान्त्यस्थलमाह- तथेति ।। ब्रह्मसम्बन्धितया प्रतीयमानस्यापि तदभिन्नत्वस्य परस्यापि सम्मतेरिति भावः । विशेषं वक्ष्याम इति ।। ‘एकस्मिन्नेव वस्तुनि विशेषः’ इत्येतद्व्याख्याऽवसर इति भावः । अन्यथासिद्धिरिति ।। तत्सम्बन्धितया प्रतीयमानत्वरूप-हेतोर्भेदरूपसाध्येन विना तत्प्रतिनिधिना विशेषेणोपपत्तिरित्यर्थः । स्वरूपासिद्धिरिति ।। तत्सम्बन्धितया प्रतीयमानत्वरूपहेतोरिति योज्यम् । अनयैवेति ।। जीवो ब्रह्माभिन्न इति विशेषणतयैक्यप्रतीतिप्रतिबन्द्युन्नयनरीत्या वा, भेदप्रतिनिधिविशेषतत्सम्बन्धीति प्रतीत्युपपत्तिनिर्वाहोक्तिदिशा वा भेदस्य धर्मिविशेषणतया प्रतीति-रपि धर्मिभेदयोर्भेदसाधिका नेति द्रश्व्व्यमित्यर्थः । भेदप्रतिनिधिविशेषेण तादृशप्रतीत्युपपत्तिरिति भावः । अत एवेति ।। अभेदेऽपि विशेषणतया भेदप्रतीतेर्विशेषशक्तिवशादुपपन्नत्वादेव विलक्षणं व्यावृत्तिमदिति वैलक्षण्यस्य विशेषणतया प्रयोगो युज्यत इत्यर्थः । निमित्तान्तरादीति ।। अन्योन्याश्रयतापरिहारादिरादिपदार्थः । तद्विशे-षेति ।। भेदस्य धर्मिस्वरूपत्वरूपविशेषेत्यर्थः । यस्तु भेदमुपेत्य धर्मिस्वरूपत्वे प्रमाणं पृच्छति तं प्रत्याह- स्वरूपे प्रमाणं त्विति ।। भेदो धर्मिस्वरूपमित्यत्र ‘भेदस्तु स्वरूपदर्शन एव सिद्धः । प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते’ इत्यनेन प्रत्यक्षरूपं प्रमाणमुक्तमित्यर्थः । यद्वा भेदानभ्युपगमवादिनं प्रति भेदस्वरूपं साधनीयमेवेत्यत आह- स्वरूप इति ।। भेदस्वरूप इत्यर्थः । भेदस्त्वित्यादिना वा अयमस्माद्भिन्न इति अनयोः भेद इति प्रागुदाहृतत्वेन वा प्रत्यक्षं प्रमाणमुक्तमित्यर्थः । तस्य चेति ।। प्रत्यक्षप्रमाणस्य, अन्योन्याश्रयत्व-धर्मिप्रतीतावप्रतीयमानत्व-तत्सम्बन्धितया प्रतीयमानत्व-विशेषणविशेष्यभावेन प्रतीयमानत्वरूपबाधकानी-त्यर्थः । प्रागुक्तानुमानानां बाधकत्वमनैकान्त्यादिदुष्टतया नेत्युक्तम् । अधुना बाधकताशङ्काऽपि न युक्तेत्याह- अनुमानमात्रेणेति ।। ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्यादिना वक्ष्यत इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
ननु संशयविपर्ययापेक्षया पूर्वं पुरुषरजतभेदाप्रतीतिदशायां स्थाणुशुक्तिकारूपं धर्म्यपि न प्रतीयते । एवं च स्थाणुशुक्तिकाप्रतीतावपीत्युक्तमयुक्तम् । तथा च तत्प्रतीतावपीति हेतुविशेषणस्यासिद्धिरेवेत्यत आह- न ह्यप्रतीत इति ।। संशयादेर्धर्मिज्ञानसाध्यत्वेन स्थाणुशुक्तिकारूपधर्मिस्वरूपस्यैवाप्रतीतौ संशयादिरेव न स्यात् । अतः संशयादितः पूर्वं धर्मिस्वरूपप्रतीतेरङ्गीकार्यत्वान्न विशेषणासिद्धिरिति भावः । ननु ऐक्यवचनेन धर्मिप्रतीतावपि भेदाप्रतीतिः कथं परस्य सम्मतेति ज्ञायत इत्यत आह- अभेदाविरोधित्वेनेति ।। ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यबोध्यो यो ब्रह्मणः सर्वाभेदस्तदविरुद्धत्वेनेत्यर्थः । ब्रह्माभिन्नत्वेनैक्यं वदत इति यावत् । ऐक्यस्य ब्रह्माभिन्नत्वे ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यबोध्यसर्वाभेदो विरुध्येतेति भावः । केचित्तु ननु जीवेश्वरैक्यं वदत इत्ययुक्तं, विशिष्टयोरैक्यायोगादित्यत उक्तम्- अभेदाविरोधित्वेनेति ।। भिद्यतेऽनेनेति भेदो विशेषः, न विद्यते भेदो यस्य तदभेदं निर्विशेषचैतन्यं, तदविरोधित्वेन तत्स्वरूपत्वेनेत्यर्थः । ब्रह्मस्वरूपत्वेनेति वक्तव्ये, एवमुक्तिस्तु ऐक्यस्य ब्रह्मातिरिक्तत्वे तेनैव ब्रह्मणः सविशेषत्वप्राप्त्या निर्विशेषत्वं न स्यादिति युक्ति-सूचनार्थमित्याहुः । सिद्धेऽपीति ।। अहमिति स्वप्रकाशतया सिद्धेऽपीत्यर्थः । अन्यथेति ।। प्रत्यक्चैतन्या-भिन्नस्याप्यैक्यस्य सिद्धत्वाङ्गीकार इत्यर्थः । उपदेशेति ।। तत्त्वमसीत्याद्युपदेशेत्यर्थः । आनर्थक्येति ।। सिद्धेऽर्थे उपदेशस्य व्यर्थत्वादिति भावः । विप्रतिपत्तीति ।। मायावादितत्त्ववादिनोरित्यर्थः । निश्चितेऽर्थे तदयोगादिति (श्री.टि.) भावः । तथापि ऐक्यस्यासिद्धत्वेऽपि । तत्स्वरूपतया प्रत्यक्चैतन्यस्वरूपतया । अन्यतरेति ।। मायिमत ऐक्येऽनैकान्तिक इत्यर्थः । गूढाभिसन्धिराशङ्कते- स्वरूपमपीति ।। प्रत्यक्चैतन्यस्वरूपमपीत्यर्थः । अपरिहारादिति ।। तत्प्रतीतावप्यप्रतीयमानत्वप्राप्त्या व्यभिचारापरिहारादित्यर्थः । पूर्वपक्ष्यभिसन्धिमुद्घाट्य तं दूषयति- विशेषणप्रक्षेपेति ।। ‘असति प्रतिबन्धके’ इति हेतुविशेषणप्रक्षेपेत्यर्थः । तथा चासति प्रतिबन्धके तत्प्रतीतावप्यप्रतीयमानत्वरूपहेतोरेवाभावान्न व्यभिचार इति भावः । अत्रापीति ।। धर्मिप्रतीतावपि भेदा-प्रतीतावित्यर्थः ।
।। ऐक्याद्विशेषमिति ।। स्वप्रकाशतया प्रत्यक्चैतन्ये सिद्धेऽप्यैक्यं न सिद्धं, नैवं भेदः, किन्तु धर्मिस्वरूपसिद्धौ सिद्ध एवेत्यैक्याद्भेदस्य विशेषमाचष्ट इत्यर्थः । नियममिति ।। आचष्ट इति वर्तते । अनेन सिद्ध एवेत्येवकारस्य सम्बन्धस्सूचितो भवति । कथमेवकारेण नियमलाभ इति चेत्, उच्यते । स्वरूपदर्शने भेदः सिद्ध एवेति वाक्यवृत्त्या विशेषणसङ्गतोऽयमेवकार इत्युक्तं भवति । तस्य चेतरपदार्थतावच्छेदके समभिव्याहृतपदार्थतावच्छेदकव्याप्य-त्वार्थकत्वस्य शङ्खः पाण्डुर एवेत्यादौ दर्शनेनात्रापि धर्मिस्वरूपदर्शने भेददर्शनस्य व्याप्यत्वलाभात् । यदा धर्मिस्वरूपदर्शनं तदा भेददर्शनमिति व्याप्त्यपरपर्यायो नियमो लभ्यत इति भावः । नियमः कुतो वक्तव्य इत्यत आह- कदाचिदिति ।। तथा च तद्वैलक्षण्यकथनाय नियमः कथ्यत इति भावः । ननु प्राय इति कथमुक्तं, भूमार्थे प्रायशः प्रायेणेत्यव्ययस्यैव दर्शनेन प्रायशः प्रायेणेत्येव वक्तव्यत्वादित्यत आह- भूमार्थमिति ।। प्राय इत्यव्ययमिति सम्बन्धः । भूमा बाहुल्यं तदर्थकमित्यर्थः । तथा च प्रायशः प्रायेणेतिवत् प्राय इत्यप्यव्ययं भूमार्थकमस्तीति न दोष इति भावः । अन्ये तु प्राय इति शब्दोऽनशनार्थस्तावदस्ति । ‘प्रायो निरशने पुमान्’ इत्यभिधानेन अनशनार्थस्य प्रायशब्दस्य पुंलिङ्गताविधानात् । ‘प्रायोपविष्टाः’ इति प्रयोगाच्च । प्राय इत्यस्य अव्ययपरत्वे समासायोगेन शब्दरूपत्वावगमात्, तथा च न केवलं प्राय इति शब्दोऽस्ति, किन्त्वव्ययमप्यस्ति, तच्चाव्ययं प्रकृते भूमार्थमित्यर्थ इत्याहुः । प्राय इति विशेषणस्य कृत्यमाह- प्राय इतीति ।। संशयादीति ।। संशयविपर्ययस्थलेऽपि सर्वतो वैलक्षण्यदर्शने तदुच्छेद एव स्यादिति भावः । संशयविपर्ययस्थलेऽपि सर्वतो विलक्षणं पदार्थस्वरूपं न दृश्यत इति यत्प्राय इति विशेषणेनोक्तं तदङ्गीकृत्यैवोक्तम् । वस्तुतस्तु संशयादिस्थलेऽपि विशेषं वक्ष्याम इत्याह- तत्रापीति ।। संशयादिस्थलेऽपि सर्वतो वैलक्षण्यं प्रतीतमेव । न च तर्हि संशयायोग इति वाच्यम् । एक एव खल्वेकस्य वस्तुनो भेदः, अनेकत्वे प्रमाणाभावात् । स च भेदो वस्तुप्रतीतौ प्रतीत एव, किन्तु तस्य घटप्रतियोगिकत्वं पटप्रतियोगिकत्वमित्यादयोऽनन्ता धर्माः । तत्र भेदनिष्ठो यत्प्रतियोगिकत्वरूपो धर्मस्सादृश्यादिवशान्न प्रतीयते तत्र संशयादिकमुत्पद्यते । न तु तत्रापि भेदस्याप्रतीतिरिति ज्ञात्वैवेति वाक्य-व्याख्यानावसरे वक्ष्याम इत्यर्थः । ननु व्यावृत्तिरेव दृश्यते न तु भेद इत्यत आह- व्यावृत्तिरेव चेति ।। नन्वेक-स्मिन्ननेकभेदसद्भावेन स्थाण्वादौ घटादिप्रतियोगिकभेदस्य दृश्व्त्वेऽपि पुरुषत्वादिसंशयानुरोधेन पुरुषादिप्रति-योगिकभेदस्य अदृष्टत्वात्तमेव भेदं पक्षीकृत्य धर्मिप्रतीतावप्यप्रतीयमानत्वहेतुना धर्मिस्वरूपत्वाभावः साध्यते (श्री.टि.) हेत्वसिद्धेरभावादित्यत आह- न चैकस्मिन् वस्तुनीति ।। भेदस्यान्योन्याभावरूपत्वेन तद्भेदेऽधि-करणभेदस्यैव प्रयोजकत्वेन तदभावादिति भावः । संशयादिकं च प्रकारान्तरेणोपपादयिष्यत इति हृदयम् ।
सावधेरित्युक्तां युक्तिमाशङ्कते- तथाऽपीति ।। अवधिशब्दः सम्बन्धिपरः । तथा च सावधेरित्युक्तस्य सम्बन्धिसाहित्येन एकस्य सम्बन्धितयेति यावत्, प्रतीयमानत्वादित्यर्थमभिप्रेत्योपपादयति-पटस्य भेद इत्या-दिना ।। इति चेत्यनन्तरं शेष इति वर्तते । अनैकान्तिकत्वमिति ।। उभयवादिरीत्येति शेषः । उदाहरणीय-मिति ।। अनैकान्त्यस्थलत्वेनेत्यर्थः । ‘ब्रह्मण आनन्दम्’ इति ब्रह्मसम्बन्धितया प्रतीतिसद्भावेऽपि तत्स्वरूपत्व-स्यैव सत्त्वादिति भावः । तत्रेति ।। पदार्थस्य स्वरूपं ब्रह्मण आनन्दमित्यादावित्यर्थः । किमपि उपचारादि-कम् । तर्ह्यत्रापीति ।। तत्र यथा आनन्दादेः ब्रह्मादिस्वरूपत्वेऽपि सम्बन्धप्रतीतेरुपचारादिरूपं निमित्तान्तरमुच्यते एवं भेदस्य धर्मिभूतपटस्वरूपत्वेऽपि पटस्य भेद इति सम्बन्धितया प्रतीतौ निमित्तमभेदे भेदकार्यकारिरूपं विशेषं वक्ष्याम इत्यर्थः । अन्यथासिद्धिरिति ।। पक्षीभूते भेदे सम्बन्धितया प्रतीयमानत्वं च धर्मिस्वरूपत्वाभावरूपं साध्यं विना विशेषेणैव सम्भवतीत्यन्यथासिद्धिरित्यर्थः । तत्र पदार्थस्य स्वरूपं ब्रह्मण आनन्दमित्यत्र । न प्रतीतिरिति ।। तथा च सम्बन्धितया प्रतीयमानत्वरूपहेतोरेवाभावान्न व्यभिचार इति भावः । अत्रापीति ।। पटस्य भेद इत्यपि व्यपदेशमात्रमिति वक्तुं शक्यत्वेन सम्बन्धितया प्रतीयमानत्वहेतोरभावात्स्वरूपासिद्धिरि-त्यर्थः । ननु तथापि भेदो न धर्मिस्वरूपं पटो भिन्न इति तद्विशेषणतया प्रतीयमानत्वात् । यद् यद्विशेषणतया प्रतीयते न तत् तस्य स्वरूपं यथा दण्डो देवदत्तस्येत्यत आह- अनयैवेति ।। ‘आनन्दं ब्रह्मणः’ इत्यादौ व्यभिचारप्रसङ्गादेवेत्यर्थः । भेदसाधिकेति ।। भेदस्य धर्मिस्वरूपाद्भेदसाधिकेत्यर्थः । अत एवेति ।। विशेषणतया प्रतीतेर्भेदसाधकत्वाभावादेवेत्यर्थः । सर्वतो विलक्षणं हीति ।। पदार्थस्वरूपं सर्वतो विलक्षणं सर्वस्माद्भिन्नमिति पदार्थस्वरूपविशेषणतया प्रयोग इत्यर्थः । निमित्तान्तरकल्पनमिति ।। सम्बन्धितया प्रतीतौ भेदातिरिक्तं विशेषरूपं निमित्तान्तरकल्पनमित्यर्थः । तत्रैवेति ।। धर्मिस्वरूपत्व एवेत्यर्थः । यो मायावादी । तद्विशे-षेति ।। तस्य भेदस्य धर्मिस्वरूपत्वरूपप्रमेयविशेषे प्रमाणचिन्तयेत्यर्थः । आर्द्रकवणिजो वहित्रचिन्तावद्व्यर्थ-त्वादिति भावः । ननु भेदस्वरूप एव प्रमाणाभावाद्भेदो मया नाङ्गीक्रियत इत्यत आह- स्वरूप इति ।। भेदस्वरूपसद्भावे प्रत्यक्षमेव प्रमाणमिति ‘भेदस्तु वस्तुस्वरूपदर्शन एव सिद्धः’ इत्यनेनोक्तमित्यर्थः । नन्व-न्योन्याश्रयादिबाधकबाधितं प्रत्यक्षं न भेदस्वरूपे प्रमाणं भवितुमर्हतीत्यत आह- तस्य चेति ।। भेदग्राहि-प्रत्यक्षप्रमाणस्येत्यर्थः । ननु तथापि भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमानमेव भेदप्रत्यक्षस्य बाधकं भविष्य-तीत्यत आह- अनुमानमात्रेणेति ।। वक्ष्यत इति ।। ‘तर्कमात्रतः प्रत्यक्षबाधने’ इत्यादिनेत्यर्थः । तथात्वे कालात्ययापदिष्टमात्रोच्छेदप्रसङ्ग इत्याशयः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु संशयविपर्ययस्थले कुतः पुरुषरजतभेदस्याप्रतीतिः? कुतश्च तस्य स्थाणुशुक्तिकयोः प्रतीतिः? येन स्थाणुशुक्तिकाप्रतीतावपि पुरुषरजतभेदस्याप्रतीत्या तत्प्रतीतावप्यप्रतीयमानत्वरूपहेतोः सिद्धिः स्यादित्यतः (पां.टि.) पुरुषादिभेदस्याप्रतीतिं तत्प्रतीतौ बाधकोपदर्शनेन तावत् कथयति- प्रतीतौ वेति ।। विरोधिनो भेदज्ञानस्य सत्त्वात् तस्याविरोधित्वे च विरोध्यन्तरस्याभावात्तदनिवृत्तिप्रसङ्गादिति भावः । स्थाण्वादिप्रतीतिमपि तदप्रतीतौ बाधककथनेन दर्शयति- न हीति ।। संशयादेर्धर्मिज्ञानसाध्यतया असति तस्मिन् तदनुपपत्तेरकारण-कार्योत्पत्तिप्रसङ्गेन असम्भवादिति भावः । किमनेन शङ्कितानुमानस्य दूषणमुक्तं भवतीत्यत आह- इदमुक्तं भवतीति ।। अन्यथेति ।। ऐक्यस्यापि सिद्धत्व इत्यर्थः । उपदेशेति ।। ‘तत्त्वमसि’ इत्याद्युपदेशेत्यर्थः । ‘अप्राप्त एव शास्त्रस्यार्थवत्त्वम्’इति न्यायादिति भावः । विप्रतिपत्तीति ।। निश्चिते संशयायोगादित्यर्थः । नच स्वरूपज्ञानेनैवैक्यस्य स्वतो भानेऽप्यज्ञानविरोधिन्या वृत्तेरभावाद्विप्रतिपत्त्यादीति वाच्यम् । प्रत्यगर्थवदेव वृत्त्य-भावेऽपि स्वतो भानेनैवैक्येऽपि विप्रतिपत्त्याद्ययोगादित्याशयात् । गूढाभिसन्धिः शङ्कते- स्वरूपमपीति ।। गूढाभिसन्धिरेव परिहरति- नेति ।। इदानी पूर्ववाद्यभिप्रायोद्घाटनेनानैकान्त्यपरिहारमुत्थाप्य स्वाभिप्रायमुद्घा-टयति- विशेषणप्रक्षेपेति ।। असति प्रतिबन्धक इति विशेषणप्रक्षेपेत्यर्थः । नियमोक्तेः प्रयोजनमाह- कदाचि-दिति ।। ननु प्राय इत्यस्य ‘प्रायो भूम्न्यन्तगमने’ इत्यभिधानानुसारेण भूमार्थकाकारान्तपुंलिङ्गप्रायशब्दप्रथमैक-वचनान्ततायाः प्रायो बाहुल्यं सर्वतो विलक्षणं पदार्थस्वरूपं दृश्यत इत्यन्वयासम्भवेनायुक्तत्वात् ‘प्रायेण कृतकृत्यत्वात्’ इत्यादाविव प्रायेण सर्वतो विलक्षणमिति तृतीयान्ततयैव निर्देश्व्व्यत्वात् प्राय इति निर्देशोऽनुपपन्न इत्यतः भूमार्थकाकारान्तप्रायशब्दस्येव ‘प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः’ इत्यभिधानानुसारेण ‘प्रायः सर्वतो विवेक्तारः’ इत्यादाविव बाहुल्येनेत्यर्थस्य प्राय इति सकारान्ताव्ययस्यापि सत्त्वान्न तदर्थकस्य तस्य सर्वतो विलक्षणमित्यनेनान्वयानुपपत्तिरित्यभिप्रायेणाऽह- भूमार्थे प्राय इत्यव्ययमप्यस्तीति ।। तत्रापी-ति ।। संशयस्थलेऽपि । विशेषम् । भेदविषय इति शेषः । वक्ष्यामः । ‘एक एव खल्वेकस्य वस्तुनो भेदोऽनेकत्वे प्रमाणाभावात् । स च वस्तुप्रतीतौ प्रतीयत एव । किन्तु तस्य घटप्रतियोगिकत्वं पटप्रतियोगिकत्वमित्यादयोऽनन्ता धर्माः । तत्र भेदनिष्ठो यत्प्रतियोगिकत्वरूपो धर्मः सादृश्यादिवशान्न प्रतीयते तत्र संशयादिकमुत्पद्यते । न तु तत्रापि भेदस्याप्रतीतिः’ इति विशेषमनुपदमेव वक्ष्याम इत्यर्थः । इति चेत्यतः परं शेष इति शेषः । मूलमुप-लक्षणमित्यभिप्रेत्य वैदिकं व्यभिचारस्थलमप्युदाहरति- तथेति ।।
ननु तथापि भेदो न धर्मिस्वरूपं तद्विशेषणतया प्रतीयमानत्वात् । यो यद्विशेषणतया प्रतीयते नासौ तत्स्वरूपम्, यथा दण्डो देवदत्तस्येत्यतो ब्रह्मविशेषणतया प्रतीयमानस्यापि सत्यत्वादेर्ब्रह्मस्वरूपत्ववद् घटविशेषणत्वेन प्रतीयमानस्यापि तत्स्वरूपत्वमुपपन्नमेव । यदि च व्यपदेशमात्रत्वान्न सा विशेषणविशेष्यभावेन प्रतीतिरिति न व्यभिचार इति मन्यसे तर्हि व्यपदेशमात्रत्वान्न घटो भिन्न इति विशेषणविशेष्यतया प्रतीतिरिति तुल्यमिति स्वरूपासिद्धिः । यदि च क्लृप्तभेदातिरिक्तं किञ्चिद्विशेषणविशेष्यभावप्रतीतिनियामकं कल्प्यते तर्ह्यत्रापि विशेषं वक्ष्याम इत्यन्यथासिद्धिरित्याशयेनाऽह- अनयैव दिशेति ।। ननु भेदस्य धर्मिस्वरूपत्वे सर्वतो वैलक्षण्यं पदार्थ-स्वरूपम् इति प्रयोगः स्यात् न तु सर्वतो विलक्षणमिति सर्वतो वैलक्षण्यविशिष्टतयेत्यत आह- अत एवेति ।। (पां.टि.)भेदस्य धर्मिणा सविशेषाभिन्नत्वादेवेत्यर्थः । स्वरूपे प्रमाणं तूक्तमिति ।। घटपटौ भिन्नावित्यादि-प्रत्यक्षमित्यर्थः । ननु भ्रमत्वात्तस्य प्रत्यक्षस्य न तेन तत्सिद्धिरित्यतो बाधकाभावान्न भ्रमत्वमित्यभिप्रेत्य तद्धि भवदन्योन्याश्रयत्वादिकं वा भेदमिथ्यात्वसाधकमनुमानं वेति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- तस्येति ।। परिहृतानीति ।। ‘पदार्थस्वरूपत्वाद् भेदस्य’ इत्यादिनेति शेषः । द्वितीयं दूषयति- वक्ष्यत इति ।। ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्यादिनेति शेषः ।
लघुप्रभा
(व्या.टि.)
पुनः सामान्यतो दृश्व्ं बाधकमाशङ्कते- तथापीति ।। विशेष्यासिद्धिमाशङ्क्य निराह- न चाय-मिति ।। विपक्षे बाधकमाह- अनुत्पत्तीति ।। तद्भेदज्ञानस्य तदभेदसंशयविपर्ययविरोधित्वादित्यर्थः । विशेषणासिद्धिं निराह- न हीति ।। भवतीति ।। धर्मिज्ञानाभावे संशयादिसामग्य्राभावेन तदुद्भवासम्भव इति भावः । व्याख्याति- धर्मीति ।। स्थाणुशुक्तिकाप्रतीतावपीत्यर्थः । भेदस्य पुरुषरजतभेदस्य । प्रतीतिः परस्य सम्मतैवेत्युत्तरेणान्वयः । यद्यपि ‘धर्मिप्रतीतावपि तदसिद्धिः’ इति मूलानुरोधेन तदप्रतीतिरित्येव वक्तव्यम्, तथापि नेदं साक्षादनैकान्तिकत्वोद्भावनं किन्तु मुखतो प्रयोजकत्वाभिधानं विपक्षे बाधकत्वेन न त्वनैकान्त्यं फलतीत्यभिप्रेत्य भेदस्याप्रतीतिरित्युक्तमित्यवगन्तव्यम् । सम्मतिप्रकारं दर्शयति- अभेदाविरोधित्वेनेति ।। अभेदः स्वरूपत्वं धर्मधर्मिणोरिति शेषः, तेनाविरोधित्वेन सहावस्थितत्वेन, साध्याभावसहावस्थाने साध्या-विनाभावाभावेन अप्रयोजकत्वमित्यर्थः । तुल्ययोगक्षेमयोरन्यतराङ्गीकारेऽपरस्याप्यङ्गीकार्यत्वम् । अन्यथा तत्रा-नैकान्त्यं भवतीत्याशयः । तत्र हेतुगर्भं परविशेषणम् । जीवेश्वरैक्यं वदत इति ।। ऐक्यमित्यतः परं धर्मिस्वरूपं तत्प्रतीतावप्रतीयमानं चेति शेषः । स्वप्रकाशतयेति सिद्धिहेतुप्रदर्शनम् । विपक्षे बाधकमाह- अन्यथेति ।। उपदेशेति ।। ‘तत्त्वमसि’ इत्यादेरित्यर्थः । आनर्थक्येति ।। परोपदेशस्य सन्दिग्धविपर्यस्तान्यतरतत्प्रत्ययार्थ-त्वादित्यर्थः । दोषान्तरमाह- विप्रतिपत्तीति ।। विप्रतिपत्तेर्विपर्ययमूलत्वादित्यर्थः । तथापीति ।। अप्रतीति-सत्त्वेऽपीत्यर्थः । निगमयति- तस्मादिति ।। व्यभिचारस्थले हेतोरन्यथासिद्धिं शङ्कते- स्वरूपमपीति ।। किमेवं वदतः परस्य धर्मिप्रतीतावप्रतीतिमात्रं हेतुरुत बाधकाभावे सतीति विकल्प्याऽद्यमवद्यति- अनै-कान्त्येति ।। द्वितीयं दूषयति- विशेषणेति ।।
असिद्धिवचने तुशब्दवैयर्थ्यादाह- तुशब्देनेति ।। अनेन प्राचीनतदसिद्ध्युपगमः कृत्वाचिन्तयेति ध्वनि-तम् । नियममिति ।। अनेनैवकारः सिद्ध एवेति भिन्नक्रम इति सूचयति । कुतो नियमसाधनमित्यत आह- अभ्युपगतत्वादिति ।। इतरथा परोक्तहेतौ कदाचित्पदवैयर्थ्यादिति भावः । अव्ययमपीत्यपिना शब्दं समुच्चि-नोति । प्रायभवः, प्रायदर्शनादित्यभियुक्तप्रयोगभूमदृष्टेरित्यर्थः । ‘प्रायः स्यात्सन्ततौ मृत्यौ तुल्यबाहुल्ययोरपि’ इति कोशाच्च । कश्चित् ‘अप्यव्ययमस्ति’ इति व्याचख्यौ । तन्न । तथात्वे इत्यप्यव्ययमितीति टीकाग्रन्थविन्यासा-पत्तेः । ननु संशयस्थलव्युदासे पुनरप्रतीतिपिशाचीयपादं दधीतेत्यत आह- तत्रापीति ।। विशेषमिति ।। तत्र तत्प्रतियोगिकत्वधर्माप्रतीतिरेव न तु तद्धर्मभेदाप्रतीतिरिति विशेषमित्यर्थः । वस्तुप्रतीतौ भेदप्रतीतिनियममनु-(व्या.टि.) भवेन साधयति- यद्यदित्यादिना ।। ननु घटादिप्रतीतिः चक्षुरादिजन्या, प्रतियोगिभूतसर्वपदार्थ-ज्ञानं च साक्षिरूपम् । ‘सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते’ इत्यनुभाष्योक्तेः । अतः कथं तेन सह घटप्रतीति-रिति चेत्, नैवम् । यथा अस्तीति वा सदिति वा साक्षिसिद्धकालेन सहैव वस्त्वनुभूयते । यथोक्तमनुव्याख्याने ‘साक्षिसिद्धेन कालेन खचितं ह्येव दृश्यते’ इति । तथाऽत्रापीत्यदोषः । तदुक्तं तैत्तिरीयभाष्ये ‘यथाऽस्तीति वर्तमानः कालो वस्तुना सहैवानुभूयते एवम्’ इति । अनेक इति ।। एकस्वरूपाणामनेकत्वासम्भवादिति भावः ।
बाधकान्तरमाशङ्कते- तथापीति ।। उक्तबाधकापनयेऽपीत्यर्थः । तत्सम्बन्धितयेति ।। वस्तुविशेष्यतये-त्यर्थः । हेतोः सामान्यतो व्याप्तिं दर्शयति- य इति ।। उदाहरति- यथेति ।। ब्राह्मणस्येत्यतः परम् इति तत्सम्बन्धितया प्रतीयमानो न तत्स्वरूपमिति शेषः । इति त्विति ।। तस्मात् परमिति शेषः । इतिवदिति ।। ततः परमिति शेषः । ननु इत्थं शेषद्वयेन किं लब्धमित्यतः परोक्तव्यवस्थाया अनैकान्त्यान्यथासिद्धि-स्वरूपासिद्धयो व्यवतिष्ठन्त इत्याशयेनानैकान्त्यं तावद् दर्शयति- यथेति ।। उदाहरणं वैदिकमपि समुच्चिनोति- तथेति ।। अन्यथासिद्धिं वक्तुमाह- यदीति ।। किमपीति ।। ईशेच्छाविशेषादिकमित्यर्थः । स्वरूपासिद्धिं विवक्षुराह- यदि तत्र व्यपदेश इति ।। उक्तसम्मतसमसमाध्यभिसन्धिं चाऽह- व्यपदेशमात्रमिति ।। अनयैव दिशेति ।। ज्ञानं ब्रह्म, शुक्लः पटः, आनन्द्येव भवतीत्यादिना विशेषणतया प्रतीयमानस्य ज्ञानादेस्तत्स्वरूप-प्रमितेरस्याप्यनैकान्त्यादिप्राप्त्येत्यर्थः । विशेषणविशेष्यभावोपपादनस्य प्रकृतोपयोगमप्याह- अत एवेति ।। ‘सोमाभावे पूतिकाग्रहणम्’ इति सोमादिप्रतिनिधितया श्रुतपूतिकादेः सोमादिकार्यकरत्ववद्भेदाभावे प्रमितभेदकार्यकरत्वेन धर्मिग्राहकमानसिद्धविशेषस्य भेदकार्यकारित्वेन तत्कार्यविशेषणविशेष्यभावादि-प्रतीतिव्यपदेशयोस्तेनैव सिद्धेरित्यर्थः । अभित्तिकचित्रायितमेतत्, मूलासिद्धेरिति शङ्कते- नन्वेतदिति ।। निमित्तान्तरेति ।। निमित्तान्तरं विशेषः । सम्बन्धित्वविशेषणत्वादिप्रतीतेरिति शेषः । आदिपदेन व्यपदेशमात्रत्वपरिग्रहः । किमयं प्रश्नोऽभेदवादिन उत भेदवादिन इति विकल्प्याऽद्ये प्रश्नासङ्गतिमाह-य इति ।। यद्विशेषेति ।। सामान्यसिद्धेर्विशेषजिज्ञासाहेतुत्वेन तदभावे तन्मूलप्रश्नायोगादित्यर्थः । तर्हि स्वरूपे प्रमाणं पृच्छ्यत इत्यत आह- स्वरूप इति ।। उक्तमिति ।। ‘दर्शन एव सिद्धः’ इति ‘सर्वतो विलक्षणं दृश्यते’ इति प्रत्यक्षमुक्तमित्यर्थः । बाधकं शङ्क्यत इत्यत आह- तस्य चेति ।। बाधकानीति ।। अन्योन्याश्रयत्वादीनि । वक्ष्यत इति ।। ‘न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्’ इत्यत्रेति शेषः ।