सर्वप्रमाणविरुद्धवचनानामेव..

प्रमाणविरुद्धाभेदागमप्राबल्याङ्गीकारेऽतिप्रसङ्गकथनम्

मूलम्

- सर्वप्रमाणविरुद्धवचनानामेव प्राबल्याङ्गीकारे ‘इदं वाऽगे्र नैव किञ्चनाऽ-सीत् । असतः सदजायत’ इत्यादीनामेवाविचारेण प्रतीयमानस्यार्थस्य सर्व-प्रमाणविरुद्धत्वात् तत्र सर्वागमानां महातात्पर्यं प्रसज्येत । नच तत्र युक्तिविरोध इति वाच्यम् । तस्मिन् पक्षे युक्तिविरुद्धत्वेनाननुवादित्वमिति गुण एव स्यात् । युक्तिसिद्धत्वे ह्यनुवादित्वं स्यात् । अतः प्रमाणसिद्धत्वे तदपलापायुक्तेः, अप्रमाण-सिद्धत्वे च भेदप्रमाणस्यानुवादित्वाभावाच्च न भेदवाक्यानां दौर्बल्यम् ।

तत्त्वमञ्जरी

तदभिमतानुवादकत्वपक्षेऽतिप्रसङ्गमाह- सर्वेति ।। प्रकृतार्थं निगमयति- अतः प्रमा-णेति ।।

टीका 

नन्वेतद् विपरीतमुच्यते प्रमाणान्तरसंवादवतां भेदवाक्यानां प्राबल्यं तद्रहितानामैक्य-वाक्यानां दौर्बल्यमिति । यतः संवादोऽपूर्वताविरोधी तद्राहित्यमपूर्वताहेतुः । अपूर्वता च प्राबल्य-लिङ्गतया प्रसिद्धा । ततः प्रमाणान्तराप्राप्तमपूर्वमर्थं प्रतिपादयतामैक्यवाक्यानामेव प्राबल्यम् । अन्येषामपि वाक्यानां तदेकवाक्यत्वाद् जीवेश्वरैक्ये सर्वागमानां महातात्पर्यमिति । अत्र वक्तव्यम्, किं प्रमाणान्तरविरोधेऽप्यपूर्वतामात्रमाश्रित्यैतदुच्यते,  उत  तदविरोधे    आद्येऽतिप्रसङ्गमाह- सर्वेति ।। सर्वप्रमाणविरुद्धानामैक्यवचनानामेवापूर्वतामात्रेण प्राबल्याङ्गीकारे, तथाऽन्येषामपि वाक्यानां तदेकवाक्यतां व्याख्याय सर्वागमानां जीवेश्वरैक्ये महातात्पर्याङ्गीकारे, ‘इदं वाऽग्रे’ इत्यादीनामेव वाक्यानां प्राबल्यमङ्गीकर्तव्यम् । कुतः? अविचारेण प्रतीयमानस्य तदर्थस्य सर्वप्रमाणविरुद्धत्वात् । सर्वप्रमाणासिद्धत्वादपूर्वतालाभादिति यावत् । तथाचान्येषामपि वाक्यानां तदेकवाक्यतामादाय तत्र शून्यस्यैव जगत्कारणत्वे सर्वागमानां महातात्पर्यमङ्गीकार्यं प्रसज्येता-विशेषादिति । इत्यादीनामर्थस्येति सम्बन्धः । अर्थस्येत्येतावत्युक्ते वस्तुतस्तदर्थत्वं प्रसज्येत । अतोऽविचारेणैव प्रतीयमानस्येत्युक्तम् । एतेन तत्त्वमस्यादिवाक्यानामपि जीवब्रह्मैक्यमवि-चारेणैवार्थतया प्रतीयत इति सूचयति ।

प्रमाणान्तरविरोधाभावेऽपूर्वता प्राबल्यहेतुर्नतु तद्विरोधे । अस्ति च शून्यस्य जगत्कारणत्वे प्रमाणविरोधः    ‘विमतो विनाशः सच्छेषो विनाशत्वाद् युद्धादिविनाशवदिति, आदिकार्यं सत्कारणकं कार्यत्वात् पटवत्’ इत्यादियुक्तिविरोधात् । अतो नातिप्रसङ्ग इति द्वितीयपक्ष-माशङ्क्याऽह- नच तत्रेति ।। कुतो न वाच्यमिति चेत्तद्वदेवैक्यवाक्यानामपि तर्हि सर्वप्रमाण-विरुद्धत्वान्नापूर्वतामात्रेण प्राबल्यमित्यापातादिति परिहारस्य स्फुटत्वात् सोत्प्रासं परिहारान्तर-माह- तस्मिन्निति ।। अननुवादित्वं प्राबल्यकारणमित्यस्मिन् पक्षे युक्तिविरुद्धत्वात् ‘इदं वा’ इत्यादीनां न प्राबल्यमिति वक्तुं न शक्यते । यतो युक्तिविरोधेनाननुवादित्वं भवतीति युक्तिविरोधो गुण एव स्यात्, प्राबल्यकारणस्याननुवादित्वस्य हेतुभूतो युक्तिविरोधः कथं प्राबल्यविघाती भवेदित्यर्थः । युक्तिविरोधः कथमननुवादित्वस्य हेतुरित्यत आह- युक्तीति ।। शून्यस्य जगत्कारणताया युक्तिसिद्धत्वे हि ‘इदं वा’ इत्यादिवाक्यस्यानुवादित्वं स्यात् । ततश्च विरोधिनी युक्तिस्तां साधिकां युक्तिमाभासीकुर्वन्ती स्यादेवाननुवादित्वस्य हेतुरिति भावः ।

इदं वा’ इत्यादिवाक्यवदैक्यवाक्यस्यापि प्रमाणविरुद्धत्वान्नापूर्वतामात्रेण प्राबल्यमिति यदभिप्रेतं तदसत् । भेदवाक्यानां प्रत्यक्षादिसिद्धार्थविषयतयाऽनुवादित्वेन दुर्बलत्वात्, ऐक्या-गमस्याननुवादित्वेन प्राबल्यात्, प्रत्यक्षादेश्चाप्रमाणत्वात् । न हि प्रबलस्य प्रमाणस्य दुर्बलेनाप्रमाणेन च विरोधः किञ्चित्करो भवतीत्याशङ्क्य, उपसंहारव्याजेन प्रागुक्तमेवोत्तरमाह- अत इति ।। भेदवाक्यानामनुवादित्वसिद्ध्यर्थं भेदस्य प्रत्यक्षादिप्रमाणसिद्धत्वेऽङ्गीक्रियमाणे प्रत्यक्षादि-प्रमाणप्रतिरुद्धेनैक्यवाक्येन भेदनिराकरणानुपपत्तिप्रसङ्गात् । तत्परिहाराय यदि प्रत्यक्षादीना-मप्रामाण्यमङ्गीक्रियते भेदवाक्यानां च प्रामाण्यं तदा भेदस्याप्रमाणसिद्धत्वे प्रमाणाप्रमाणयोः समानविषयत्वानुपपत्तेर्भेदप्रमाणस्याऽगमस्यानुवादित्वाभावाद् भेदवाक्यानामेव दौर्बल्यं नाभेदवाक्यानामिति यदुक्तं तन्नेत्यर्थः । अतश्च भेदवाक्यानामेव प्राबल्यमिति ।

भावबोधः

ऐक्यागमप्राबल्याङ्गीकारस्य तदविशिष्टशून्यकारणत्ववाक्यप्राबल्याङ्गीकारं प्रत्येवाऽपादकत्वात्तदेव वक्तव्यम् । तत्र सर्वागमानां तत्रैव तात्पर्यमिति कथमुच्यत इत्यतः ‘तथाऽन्येषाम्’ इत्यादि ‘प्राबल्यमङ्गीकर्तव्यम्’ इत्यन्तं पूरयित्वा ‘सर्वप्रमाणविरुद्धवचनानाम्’ इति वाक्यं व्याचश्व्े- सर्वप्रमाणविरुद्धानामित्या-दिना ।। सर्वप्रमाणासिद्धत्वादिति ।। प्रमाणविरुद्धार्थस्यापूर्वतारूपत्वासम्भवादिति भावः । अङ्गीकार्य-मिति ।। प्राबल्याङ्गीकारस्यैवाऽपादकत्वेनोक्तत्वादिति भावः । इत्यादीनां सर्वागमानामिति सम्बन्धप्रतीतिं वारयितुमाह- इत्यादीनामर्थस्येति सम्बन्ध इति ।। ननु युक्तिसिद्धत्वमनुवादकत्वे प्रयोजकं भवत्तदसिद्धत्वस्या-ननुवादकत्वे हेतुत्वं सम्पादयति न युक्त्यन्तरविरुद्धत्वस्य, तत्कथमेवमुक्तमित्यत आह- ततश्चेति ।।

भावदीपः

(रा.टि.)

प्रसिद्धेति ।। तात्पर्यानुमापकत्वेन प्राबल्यलिङ्गतया प्रसिद्धेत्यर्थः । १प्रमाणान्तरापूर्वमिति ।। प्रमा-णान्तराप्राप्तमित्यर्थः । अग्रे महातात्पर्यमित्यापाद्ये श्रवणादापादकेऽपि तद् ग्राह्यमिति भावेनाऽह- तथेति ।। अपूर्वताया एव प्राबल्यलिङ्गतया शङ्कितत्वात् सर्वप्रमाणविरुद्धत्वोक्तिं तत्रैव पर्यवसाययति- सर्वप्रमाणेति ।। व्यवहितत्वाद्वा प्राबल्यमङ्गीकर्तव्यमित्यध्याहृतप्राबल्यपदान्वितत्वेन स्वयं व्याख्यानाद्वाऽऽह- इति सम्बन्ध इति ।। विमत इति ।। प्रलयकालीनो विनाशः । सच्छेष इति ।। सद्रूपवस्तुशेषवानित्यर्थः । परेण प्रलयेऽ-सद्रूपशून्यमात्रावशेषाङ्गीकारात् तद्विरोध्ययं प्रयोग इति भावः । एवमग्रेऽपि विरोधिनी युक्तिरिति ।। प्रागुक्त-विनाशत्वादिरूपेति भावः । प्रागुक्तमेवेति ।। ‘सिद्धौ च कथमभेदवाक्यस्याबाधः’ इत्यादिनोक्तमेवेत्यर्थः । तदपलापायुक्तेरित्यस्यार्थः- ऐक्यवाक्येनेति ।। अप्रमाणसिद्धत्व इत्यादेरर्थः- तत्परिहारायेत्यादि ।।

वाक्यार्थदीपिका

(श्री.टि.)

एतदित्युक्तं विवृणोति- प्रमाणान्तरेति ।। इति विपरीतमुच्यत इत्यन्वयः । प्रसिद्धेति ।। ‘उपक्रमोप-संहारावभ्यासोऽपूर्वता फलम्’ इत्यादिप्रमाणप्रसिद्धेत्यर्थः । अपूर्वमित्यस्य व्याख्यानं प्रमाणान्तराप्राप्तमिति । प्रमाणान्तरापूर्वमिति पाठे पूर्वं प्रमाणान्तरेणाप्रतिपन्नमित्यर्थः । अन्येषां वाक्यानां भेदवाक्यानाम् । एवमुत्तर-त्रापि । तदेकवाक्यत्वाद् ऐक्यवाक्यैकवाक्यत्वात् । सार्वज्ञदुःखादेस्सत्यत्वे जीवेश्वरयोरैक्यायोगात् नेह नानेत्यादौ तन्निषेद्धुं भेदकधर्मप्रतिपादनेन भेदप्रतिपादकानाम् ‘यस्सर्वज्ञः’ ‘योनिमन्ये प्रपद्यन्ते’ इत्यादीनामैक्यप्रति-पादनायोपयुक्तत्वेनैक्यवाक्यैकवाक्यत्वं द्रष्टव्यम् । एतदुच्यते प्राबल्यमुच्यते । तदविरोध इति ।। प्रमाणान्तरा-विरोधे सत्यपूर्वतामाश्रित्य प्राबल्यमुच्यत इत्यर्थः । अविचारेणेति ।। आपाततः प्रतीतस्येत्यर्थः । तदर्थस्य तेषां वाक्यानामर्थस्य शून्यजगत्कारणत्वस्य । अन्येषाम् ‘सदेव सोम्य’ इत्यादिवाक्यानाम् । तदेकवाक्यताम् इदं वा इत्यादिशून्यजगत्कारणत्वप्रतिपादकवाक्यैकवाक्यताम् । अविशेषादिति ।। प्रमाणान्तरविरोधेऽपि प्राबल्यहेतोरपूर्वताया अविशिष्टत्वात् । इत्यादीनां सर्वागमानामित्यन्वयभ्रान्तिं वारयितुमाह- इत्यादीनामर्थ-स्येति ।। एतेनेति ।। अतिप्रसङ्गस्थल इदं वा इत्यादिवाक्यार्थस्याविचारेण प्रतीयमानत्वकथनेनेत्यर्थः । तथा च इदं वेत्यादिवाक्यवदैक्यवाक्यस्यापि सर्वप्रमाणविरुद्धत्वान्नापूर्वतामात्रेण प्राबल्यमित्यभिप्रायः । शङ्कते- प्रमाणान्तरेणेति ।। विनाशत्वादिति ।। न च समवायिकारणनाशप्रयुक्तकार्यनाशे व्यभिचारः शङ्क्यः । (श्री.टि.) तत्रापि समवायिकारणावयवादेरेव कस्यचिदवशिष्टत्वेन साध्यस्यापि सत्त्वादित्याहुः । घटादिकार्य-मादाय  सिद्धसाधनतापरिहारायाऽदिकार्यमित्युक्तम्    सोत्प्रासं सोल्लुण्ठं, सोपहासमित्यर्थः    अनुवादित्वं स्यादिति ।। युक्तिसिद्धार्थप्रतिपादकत्वादित्यर्थः । ननु कथमनेन युक्तिविरोधस्याननुवादित्वे हेतुत्वमुप(यात)-पादितमित्यत आह- ततश्चेति ।। युक्तिसिद्धत्वेऽनुवादित्वप्रसङ्गादित्यर्थः । विरोधिनी युक्तिरिति ।। ‘इदं वा’ इत्यादिवाक्यानां यद्युक्तिविरोध उच्यते सा शून्यस्य जगत्कारणत्वविरोधिनी, विमतो विनाशः सच्छेष इत्यादिका युक्तिरित्यर्थः । साधिकामिति ।। ‘इदं वा’ इत्यादिवाक्यानामनुवादित्वार्थं शून्यजगत्कारणत्व-साधिकामित्यर्थः । अननुवादित्वस्य हेतुरिति ।। ‘इदं वा’ इत्यादिवाक्यानामिति शेषः । तथा च साधक-युक्तेराभासकत्वे इदं वा इत्यादिवाक्यार्थस्य प्रमाणान्तरासिद्धत्वप्राप्त्या युक्तिविरोधोऽननुवादित्वस्य हेतुर्भव-त्येवेत्यर्थः । यदभिप्रेतमिति ।। एतेन ‘तत्त्वमसि’ इत्यादिवाक्यानामपि जीवब्रह्मैक्यमविचारेणैवार्थतया प्रती-यत इति सूचयतीत्युक्तत्वादिति द्रष्टव्यम् । ननु तर्ह्यैक्यागमस्य प्रत्यक्षादिविरोध एव स्यादित्यत आह- प्रत्यक्षा-देश्चेति  ।।  किञ्चिदिति  ।।  विषयापहारमित्यर्थः    पुनरुक्तिपरिहारायोपसंहारव्याजेनेत्युक्तम्    प्रागुक्त-मेवेति ।। ‘न चाप्रमाणसिद्धेनानुवादित्वं प्रमाणस्य भवति’ इति प्रागुक्तमेवेत्यर्थः । अप्रमाणसिद्धत्व इति ।। अप्रमाणभूतप्रत्यक्षादिसिद्धत्व इत्यर्थः । भेदावगाहिप्रत्यक्षादेरप्रामाण्य इति यावत् ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

एतदित्युक्तमेव विशदयति- प्रमाणान्तरसंवादवतामित्यादि ।। यत्र सर्वप्रमाणविरुद्धानामैक्य-वचनानामपूर्वतामात्रेण प्राबल्यात् तदेकवाक्यतया सर्वागमानामैक्ये तात्पर्यं, तत्र सर्वप्रमाणविरुद्धानाम् ‘इदं वा अग्रे’ इत्यादिवचनानामपूर्वतामात्रेण प्राबल्यात् तदेकवाक्यतया सर्वागमानां शून्यस्य जगत्कारणत्वे तात्पर्य-मिति व्याप्तौ दृष्टान्ताभावेन तदसिद्ध्या व्याप्तिविकलत्वात्तर्काभासोऽयमित्यतोऽत्र दृष्टान्ताभावेन विशेषव्याप्त्य-भावेऽपि ‘यदविशिष्टस्य यस्य यद्भवति’ इत्याद्यविशेषलक्षणसामान्यव्याप्तेः सत्त्वान्नोक्तदोष इत्याशयेनाऽह- अविशेषादिति ।। एतेनेति ।। शून्यजगत्कारणताया अविचारेण ‘इदं वाऽग्रे’ इत्यादिवाक्यानां प्रतीयमानार्थत्व-वचनेनेत्यर्थः । माऽस्तु तर्हि भेदागमविरोधेनैक्यागमस्याप्रामाण्याभावः । भेदग्राहकप्रत्यक्षादिविरोधेन तु स्यादेव तस्याप्रामाण्यमित्यत आह- प्रत्यक्षादेश्चेति ।।

लघुप्रभा

(व्या.टि.)

विशेषणप्रयोजनमाह- एतेनेति ।। सोत्प्रासं सोपहासमित्यर्थः ।