न चैकजीवाज्ञानपरिकल्पितं ..

प्रपञ्चो यदि विद्येतेति श्रुत्यर्थोपवर्णनम्

मूलम्

- न चैकजीवाज्ञानपरिकल्पितं समस्तमित्यत्र किञ्चिन्मानम् ।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।।’

इत्यस्य चायमर्थः । प्रपञ्चो यदि विद्येत- भवेत उत्पद्येत, तर्हि निवर्तेत, न च निवर्तते । तस्मादनादिरेवायम् । प्रकृष्टः पञ्चविधो भेदः प्रपञ्चः । न चाविद्यमानोऽयं, मायामात्रत्वात् । मायेति भगवत्प्रज्ञा, सैव मानत्राणकर्त्री यस्य तन्मायामात्रम् । परमेश्वरेण ज्ञातत्वाद्, रक्षितत्वाच्च, न द्वैतं भ्रान्तिकल्पितमित्यर्थः । न हीश्वरस्य भ्रान्तिः । तर्ह्यद्वैतः सर्वभावानामिति व्यपदेशः कथमित्यत आह-‘औतं परामर्थतः’ इति । परमार्थापेक्षया ह्यद्वैतं, सर्वस्मादुत्तमोऽर्थः स एक एवेत्यर्थः ।

तत्त्वमञ्जरी

प्रपञ्च इत्यादि मानमत्रास्तीत्यत आह- प्रपञ्च इति ।। विद उत्पत्तौ भवतेरुत्पत्तौ आत्मने-पदमित्यादिनोत्पत्तिवाचित्वमवगम्यते । १तस्य व्यपदेशः औतस्य व्यपदेशः ।

टीका 

नन्वनुमानस्य श्रुतिसाहाय्यवत्त्वान्नैतैर्विकल्पपांसुभिराच्छादनं युक्तं, श्रुत्या विकल्प-दोषाणामाभासीकरणादित्यत आह- न चेति ।। किञ्चिन्मानं काचिच्छ्रुतिरित्यर्थः । ननु कथं नास्ति । ‘प्रपञ्चो यदि’ इति वाक्यस्य सत्त्वात् । अत्र च ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’ इत्येकस्यैव जीवस्य प्रपञ्चकल्पकाज्ञानाश्रयतया प्रतीयमानत्वादित्यतः सम्यगेतद्वाक्यं व्याख्या-तुमाह- प्रपञ्च इति ।। चशब्दस्तुशब्दार्थे । अयं वक्ष्यमाणतया बुद्धिस्थः । प्रतिज्ञातमर्थमाह- प्रपञ्च इति ।। विदेः सत्तार्थत्वमङगीकृत्य भवेतेति व्याख्यातम् । व्यत्ययो बहुलमित्यात्मनेपदम् । सत्ता च कादाचित्की विवक्षितेत्याह- उत्पद्येतेति ।। अथ वा ‘भू प्राप्तावात्मनेपदी’ इत्यस्य विकल्पितण्यन्तस्येदं रूपम् । भवेत सत्तां प्राप्नुयादित्यर्थः । तस्य तात्पर्यमुत्पद्येतेति । यद्वा विद्यतिः सत्तार्थोऽर्थादुत्पत्तिर्लभ्यत इत्यभिप्रेत्य भवेतेत्युक्तम् । अधुना त्वनेकार्थत्वाद्धातूनां विद्यति-रेवोत्पत्तिवाचीत्याह- उत्पद्येतेति ।। यदीत्यस्य तर्हीत्यनेन नित्ययोगात्तर्हीत्यध्याहृतम् । प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात्तदाह- न चेति ।। ननु प्रपञ्चो घटादिरुत्पद्यमानो विनाशवांश्च प्रमाणसिद्धः । ततो नेदमनिष्टापादनं नापि विपर्यये पर्यवसानमित्यत आह- प्रकृष्ट इति ।। नात्र प्रपञ्चो विश्वविस्तारः । किन्तु जातीयरोऽर्थे पञ्चन्शब्दात् डप्रत्ययः । ततश्च पञ्चविधः पञ्चः, स च प्रकृष्टत्वात्प्रपञ्चः । प्रकृष्टत्वं च मोक्षाङ्गज्ञानत्वात् । तत्र विशेष्याकाङ्क्षायां प्रकरणप्राप्तमुक्तम्- भेद इति ।।

तथा हि- ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ इति पूर्वश्लोके अनादिमायया परमेश्वरेच्छया प्रकृत्यादिना च जीवजातस्य ज्ञानावरणलक्षणं सुप्तत्वं, तथैव तत्त्वज्ञानलक्षणः प्रबोधश्चोक्तः । तेन जीवेश्वरयोः जडेश्वरयोः जीवजडयोश्च भेदाः सन्तीति लब्धम् । प्रभोरिच्छया निगडादिना पुरुषे बद्धे मुक्ते च भेदत्रयदर्शनात् । प्राक् ‘प्रभवः सर्वभावा-नाम्’ इति भावशब्दोक्तानां जीवानां मिथो भेदोऽपि लब्धः । तत एवाऽवरणानां जडानामपि मिथो भेदोऽर्थाल्लभ्यते । तेषां पञ्चानामपि भेदानामनादिमाययाऽजमनिद्रमित्यादिविशेषण-सामर्थ्यादनादित्वं लब्धम् । तदिदं पञ्चानामपि भेदानां सत्यत्वमनादित्वञ्चोपपादयितुमिदं श्लोक-द्वयम् । तत्र तावदनादित्वं विपक्षे बाधकप्रसङ्गेनोपपादितम्- प्रपञ्च इति ।। यदि च जडजीवभेदो नश्येत्तदा  जीवस्य  जडत्वापत्त्या  मोक्षशास्त्रवैयर्थ्यापत्तिरित्यादिरूपेण  निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् ।

तृतीयपादं प्रागुक्तसत्यत्वोपपादनायावतारयति- न चेति ।। अयं पञ्चविधो भेदः । अनेनेदं द्वैतमिति प्राक् प्रपञ्चशब्दोक्तार्थस्य परामर्श इति सूचयति । अविद्यमानो भ्रान्तिकल्पितः । विरुद्धोऽयं हेतुरित्यतो व्याख्याति- मायेति ।। मायेतिशब्देन भगवत्प्रज्ञोच्यते । प्रमाणस्योक्तत्वादित्यर्थः । ‘माङ् माने’ ‘त्रैङ् पालने’ इत्याभ्यां मूलविभुजादित्वात्कः । घञर्थे कविधानमिति वा । ततो मायाशब्दस्य बहुव्रीहिः । हेतुहेतुमद्भावप्रकटनाय तात्पर्यमाह- परमेश्वरेणेति ।। परमेश्वरेण ज्ञातत्वेऽपि कुतो न भ्रान्तिकल्पितत्वमित्यत आह- न हीति ।। यदीश्वरदृष्टमपि भ्रान्तिकल्पितं स्यात्तर्हीश्वरस्यापि भ्रान्तिरित्युक्तं स्यात् । न च तद्युक्तम् । निरवद्यत्वश्रुतिविरोधदिति भावः । एवं ‘न हि भ्रान्तिकल्पितं केनचिद् द्रक्ष्यते’ इत्यपि वक्तव्यम् ।

निवर्त्यशङ्काप्रदर्शनपूर्वकं चतुर्थपादमवतार्य पठति- तर्हीति ।। यदि पञ्चविधो भेदः सत्यः स्यादित्यर्थः । कथं? न कथञ्चिदुपपद्येत । अतोऽयुक्तमुक्तम् । अथ वा कथं व्याख्येय इत्यत आक्षेपात्परम्, इत्याक्षेपो जायते यतोऽतः कारणादिति वा आह विरोधित्वेन शङ्कितस्य श्रुत्यन्तर-स्यार्थान्तरमिति शेषः । कथमनेन सा श्रुतिर्व्याख्यातेत्यत आह- परमार्थेति ।। अनेनाद्वैतशब्दो भावप्रधानः । परमार्थत इति पञ्चमी ल्यब्लोपनिमित्तेत्युक्तं भवति    यदिदं परमेश्वरस्याद्वितीयत्वं  ‘औतःसर्वभावानां देवस्तुर्यो विभुः स्मृतः’ इत्यादौ श्रुत्यन्तरे कथ्यते तत्परमार्थमपेक्ष्येत्यर्थः । नन्वेतच्छङ्कितुरप्यभिप्रेतमेव । तेनापि व्यवहारतः सद्द्वितीयत्वं,  परमार्थतोऽद्वितीयत्वमित्यङ्गी-कारादित्यतो विवृणोति- सर्वस्मादिति ।।

भावबोधः

एकजीवाज्ञानपरिकल्पितत्वे पराभिमतानुमानस्य दूषितत्वादुत्तरत्र परोदाहृतश्रुतेरेवार्थप्रच्यावनस्य करिष्यमाणत्वादाह- काचिच्छ्रुतिरिति ।। ननु ‘प्रपञ्चो यदि विद्येत’ इति वाक्यं मायामात्रमिति पदबलेनाज्ञान-कल्पितत्वमात्रे प्रमाणम् । एकजीवाज्ञानपरिकल्पितत्वे कथं प्रमाणतयोदाह्रियत इत्यत आह- अत्र चेति ।। एकस्यैवेति ।। जीव इत्येकवचनादिति भावः । ननु सत्तार्थकविदिव्याख्यानरूपभवतेरपि सत्तार्थकत्वात्कथं भवेत इत्यात्मनेपदम् । प्राप्त्यर्थकभवतेरेव आत्मनेपदित्वादित्यत आह- व्यत्यय इति ।। अर्थादिति ।। निवर्तेतेति विनाशस्याऽपाद्यत्वेन तदापादकत्वेनोक्तसत्त्वस्य कादाचित्कत्वमेवार्थाल्लभ्यत इत्यर्थः । अन्यथा व्याप्त्यभावेनाऽ-पाद्याऽपादकभावो न स्यादिति भावः । जातीयरोऽर्थ इति ।। ‘प्रकारवचने जातीयर्’ इति प्रकाररूपार्थे जातीयरो विधानादिति भावः । तथैव तत्त्वज्ञानलक्षण इति ।। अनेनेश्वरेच्छार्थकत्वेन मायाशब्दस्य प्रबुध्यत इत्यत्रान्वयः सूचितो भवति । मिथो भेद इति ।। भावानामिति बहुवचनेन भावशब्दोक्तजीवानां बहुत्वोक्तेर्बहुत्वस्य बाधकाभावे भेदसमानाधिकरणत्वादिति भावः । तत एवेति ।। जीवानां भेदेऽप्यावरणस्याभेदे एकस्य तत्त्व-ज्ञानेनाऽवरणनिवृत्तौ सर्वेषां मुक्तिस्स्यादिति भावः । विशेषणसामर्थ्यादिति ।। यद्यपि जीवेऽनादित्वादिकं विशेषणं न श्रूयते । तथाऽपि मायागतानादित्वविशेषणसामर्थ्यात्तदावृतज्ञानवतो जीवस्याप्यनादित्वं लभ्यत इति भावः । निवर्तेतेत्यस्येष्टापादनत्वं परिहरति- यदि चेति ।। इत्यादिरूपेणेति ।। यदि जडेश्वरयोर्भेदो नश्येत् तदेश्वरस्य जडत्वापत्त्या सत्यं ज्ञानमित्यादिशास्त्रस्य विरुद्धार्थत्वापत्तिः । यदि जीवानां परस्परभेदो नश्येत् तर्हि परस्परमैक्यापत्त्या परस्परगतसुखदुःखद्यनुसन्धानापत्तिः । यदि च जीवेश्वरयोर्भेदो नश्येत् तदेश्वरस्य वा दुःखाद्य-नुभवः, जीवस्य वा सार्वज्ञाद्यनुभवः स्यात् । न चात्रापीष्टापत्तिरिति वाच्यम् । प्रमाणाभावात् । यथायथं श्रुत्य-नुभवरूपप्रमाणविरुद्धार्थस्वीकारापत्तिरित्यादिरूपेणेत्यर्थः । प्रागुक्तसत्यत्वेति ।। ‘प्रभवः सर्वभावानां सता-मिति विनिश्चयः’ इति ज्ञानसत्त्वस्यानादिमाययेति मायाऽनादित्वस्य ‘अजमनिद्रम्’ इति ब्रह्माजत्वस्योक्त्या तत्तद्धर्मिकभेदानामपि सत्यत्वमुक्तमेवेति भावः । अनेनेति ।। अयमित्यनेनेत्यर्थः । ‘न द्वैतं भ्रान्तिकल्पितम्’ इत्युत्तरवाक्यानुरोधेनाविद्यमानपदं व्याचष्टे- भ्रान्तिकल्पितमिति ।। तथा चाविद्यमानपदस्यासत्त्वार्थकत्वे बाध इति परास्तमिति भावः । विरुद्धोऽयमिति ।। मायामात्रपदस्याऽविद्यकत्वार्थकत्वादिति भावः । इति-शब्दवैयर्थ्यं परिहरति- मायेति शब्देनेति ।। अत एवोच्यत इति शेषः पूरितः । हिशब्दाभिप्रायमाह- निरवद्यत्व-श्रुतीति ।। ईश्वररक्षितत्वहेतोरप्यप्रयोजकत्वं परिहरति- एवमिति ।।

भावदीपः

प्रपञ्चेति श्रुतावेकजीवाज्ञानकल्पितत्वाप्रतीतेर्माण्डूके प्रपञ्चेत्यतः पूर्वमन्त्रेऽस्ति तत्प्रतीतिरिति भावे-नाऽह- अत्र चेति ।। माण्डूके पूर्वमन्त्र इत्यर्थः । एकस्यैवेति ।। जीव इत्येकवचनादिति भावः । प्रतीयमानत्वा-दित्यनन्तरं प्रपञ्च इति विद्यते । निवर्तत इति च । कुतः मायामात्रं? पूर्वत्र प्रकृतैकजीवाज्ञानपरिकल्पितमिति प्रतीयमानत्वादित्यपि ध्येयम् । प्राक्श्रुत्यन्तरानुक्तेस्समुच्चयायोगादाह- चशब्द इति ।। पराभिमतार्थादर्थान्तर-सूचनार्थतया तुशब्दार्थ इत्यर्थः । ननु ‘भू सत्तायाम्’ इत्यस्य परस्मैपदित्वात्कथं भवेतेत्युक्तिरित्यत आह- व्यत्यय इति ।। सत्ता चेति ।। विद्येतेत्युक्तसत्ता चेत्यर्थः । इत्यस्येति ।। अस्य वाक्यस्य भूधातुः प्राप्त्यर्थक आत्मनेपदी भवति, वाशब्दाद्विकल्पेन णिच् भवतीत्यर्थकत्वाण्णिजभावपक्षे भवेतेति रूपमित्यर्थः । अर्था-दिति ।। निवर्तेतेति विनाशोक्त्यन्यथाऽनुपपत्तिरूपार्थापत्त्येत्यर्थः । जातीयरोऽर्थ इति ।। ‘प्रकारवचने जातीयर्’ इति पञ्चमस्य तृतीयपादोक्तजातीयर्प्रत्ययार्थे । प्रपञ्चो भेदपञ्चक इति वक्ष्यमाणवचनबलाद्वा ‘तद्धिताः’ इत्यधिकारसूत्रे बहुवचनोक्तिबलाद्वा डप्रत्यये ‘चुटू’ इति डलोपे ‘डिति भस्य टेर्लोपः’ इति अन् इत्यस्य लोपे प्रपञ्चेति रूपमित्यर्थः ‘कृत्तद्धित’ इति प्रातिपदिकत्वे स्वाद्युत्पत्तौ प्रपञ्च इति रूपसिद्धिरिति भावः । मोक्षाङ्गेति बहुव्रीहिः । तेन विषयत्वलाभः ।

पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ।

निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्न चान्यथा ।।’

इति भारततात्पर्यनिर्णयोक्तेः । ‘वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा’ इत्युक्तेश्चेति भावः । कथं प्रकरणप्राप्तो भेद इत्यत आह- तथा हीत्यादिना ।। अनादित्वं लब्धमित्यन्तेन ।

अनादिमायया विष्णोरिच्छया स्वापितो यदा ।

तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ।।’

इति माण्डूकभाष्यानुरोधेनार्थमाह- परमेश्वरेच्छयेति  ।।  भाष्यमुपलक्षणमिति भावेनाऽह- प्रकृत्यादिना चेति ।। आदिपदेनानादिकामकर्मग्रहः । प्रबोधश्चेति ।। परोक्षरूपः । मुक्तावपि भेदत्रयस्योपपादनार्थमुक्तम्- मुक्ते च भेदत्रयदर्शनादिति ।। अवशिष्टभेदद्वयप्राप्तिमाह- प्रागिति ।। अनादीति मन्त्रात्पूर्वमित्यर्थः । तत एवेति ।। जीवानां भेदादेव तदावरणभूतजडानामित्यर्थः । अर्थादिति ।। बद्धमुक्तव्यवस्थाऽन्यथानुपपत्ति-बलादित्यर्थः । अन्यथाऽऽवरणस्यैक्ये एकस्य ज्ञानोदयेनाऽवरणनिवृत्तौ सर्वमुक्त्यापत्तेरिति भावः । इत्यादि-विशेषणेति ।। आवरणभूतस्य प्रकृत्यादेरनादि-त्वोक्त्या जडस्य तेन सुप्तत्वोक्त्या जीवानामजत्वोक्त्या ईश्वरस्य चानादित्वेन तत्स्वरूपभेदानामनादित्वं लब्धमित्यर्थः ।

मूलेऽनिष्टत्वानुक्तेस्स्वयमाह- यदि चेति ।। इत्यादीति ।। यदि जीवानां भेदो नश्येत्तदा जीवैक्यापत्त्या बद्धमुक्तव्यवस्थाऽनुपपत्तिः । ईश्वरजडभेदनाशे त्वीश्वरस्य जडत्वाऽपत्त्या ज्ञानपूर्वं विश्वसृष्ट्याद्ययोग इत्यादिरादि-शब्दार्थः । परामर्श इतीति ।। द्वयोर्भावो द्विता, तदीयो वर्गो द्वैतं, सामान्ये नपुंसकमिति । ‘पञ्च-सम्बन्धस्तु प्रकरणाल्लभ्यते’ इति सुधोक्तदिशेति भावः । भ्रान्तिकल्पित इति ।। तेन पूर्वार्धे भेदपञ्चकस्यानादि-तोक्ता । उत्तरार्धे सत्यतोच्यत इत्युक्तं मवति । प्रमाणस्योक्तत्वादिति ।।

मायेत्युक्ता प्रकृष्टत्वात् प्रकृश्व्ं हि मयाभिधम् ।

विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते ।।’

इत्युक्तत्वादित्यर्थः । मूलविभुजादित्वादिति ।। तृतीयाद्यपादे ‘आतश्चोपसर्गे’ इति सूत्रे ‘मूलविभुजादिभ्य उपसङ्ख्यानम्, इत्युक्तत्वात्कप्रत्यय इत्यर्थः । घञर्थ इति ।। ‘अकर्तरि च कारके संज्ञायाम्’ इत्युक्तघञर्थ इत्यर्थः । ‘आतो लोप इटि च’ इत्याकारलोपे माति त्रायते चेति मात्रमिति रूपमिति भावः । ‘धातोः’ इत्यधिकारे तस्य विधानेऽपि ‘अदिभूभ्यां डुतच्’ इत्युक्तेरद्भुतमित्यादाविव धातुद्वयादपि कप्रत्ययो नायुक्त इति भावः। ननु घञ्प्रत्ययो ह्यकर्तरि विहितः । तदर्थे विहितः कप्रत्ययः कथं माया भगवत्प्रज्ञा मानत्राणकर्त्री यस्येति कर्त्रर्थं ब्रूयादिति चेत्, भावार्थ एवायं कप्रत्ययः, मायया मानं त्राणं यस्येत्येव विग्रहः । तस्य फलितार्थोक्तिः मानत्राणकर्त्री यस्येत्येके । छन्दस्त्वात्कर्तर्यपि घञमुपेत्य घञर्थे क इत्युक्तमित्यन्ये । कुतो न भ्रान्तिकल्पितमित्यस्य मूलोक्तमुत्तरं न साक्षाल्लगतीत्यतः परिष्कृत्य घटयति-यदीति ।। निरवद्यत्वेति ।। ‘निरनिष्टो निरवद्यः’ इत्यादिश्रुतीत्यर्थः । इत्यपीति ।। अन्यथाऽन्त्यहेतोरुपपादनं न कृतं स्यादिति भावः । अर्थद्वयेऽपीत्यत इत्यस्यार्थमाह- इत्याक्षेपा-दिति ।। परमिति शेषोक्तिः । इत्याक्षेपात् परं पश्चादाहेत्यर्थ इति भावः । इत्यत इत्यस्यार्थान्तरमाह- इतीति ।। इत्याक्षेपो यतो जायते अतः कारणादाहेत्यर्थ इति वेत्यर्थः । आहेति प्रतीकपूर्वं कर्माकाङ्क्षां पूरयति- आहेत्या-दिना ।। ल्यब्लोपेति ।। स्वाभिमतस्य कस्यचिल्ल्यबन्तस्य पदस्य लोपो वाच्यः । तद्योगे पञ्चमी वाच्येत्युक्त-त्वादिह चापेक्ष्येति ल्यबन्तस्य लोपे तन्निमित्ता पञ्चमीत्यर्थः । इत्यादाविति ।। माण्डूकवाक्यादावित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

ननु ‘प्रपञ्चो यदि’ इति वाक्यं मायामात्रमितिपदबलेन द्वैतप्रपञ्चस्य अज्ञानकल्पित्वमात्रे प्रमाण-मिति प्रतीयते । अतः कथमेकजीवाज्ञानपरिकल्पितत्वे प्रमाणतयोदाह्रियत इत्यत आह- अत्र चेति ।। एकस्यैव जीवस्येति ।। जीवः प्रतिबुध्यत इत्यत्र जीव इत्येकवचनसद्भावादिति भावः ।

ननु सत्तार्थकविदधातुव्याख्यानरूपभवतेरपि सत्तार्थकत्वात्सत्तार्थकस्य भवतेश्च परस्मैपदित्वनियमात्कथं भवेतेत्यात्मनेपदप्रयोगः । प्राप्त्यर्थकभवतेरेवाऽत्मनेपदित्वात् । प्रकृते च प्राप्त्यर्थकत्वाभावादित्यत आह- व्यत्यय इति ।। परस्मैपदाऽत्मनेपदानां बहुलं व्यत्ययो भवतीत्यर्थः । एवं च प्रकृते सत्तार्थकत्वेऽप्यात्मनेपदित्वं युक्तमि-त्यर्थः । कादाचित्कीति ।। कादाचित्कसत्तालाभस्यैवोत्पत्तित्वादिति भावः । अथ वा प्राप्त्यर्थ एवायं भूधातुः । तथा च भवेतेत्यात्मनेपदित्वं तस्य युक्तम् । भूधातोः प्राप्त्यर्थत्वं च धातुसूत्रसिद्धमित्याह- अथ वा भू प्राप्ता-वित्यादिना ।। भू इत्ययं धातुः, प्राप्तौ प्राप्तिरूपार्थे आत्मनेपदी भवन्, वा विकल्पेन चुरादिः स्यात् । चुरादौ (श्री.टि.) ‘आ धृषाद्वा’ इत्यधिकृत्य भू प्राप्तावात्मनेपदीति पाठादित्यर्थः । ननु भूधातोश्चुरादिगणत्वे चुरादिगणस्य ‘सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्’ एभ्यः, चुरादिभ्यश्च णिच् स्यादिति सूत्रेण णिजन्तताविधानात् भावयेतेति णिजन्तः प्रतीयेतेत्यत उक्तम्- विकल्पितण्यन्त-स्येति ।। एवं च प्रकृते णिच् न जात इति भवेतेति युक्तमिति भावः । भूधातोः प्राप्त्यर्थत्वमेव दर्शयति- सत्तां प्राप्नुयादिति ।। सत्तामित्यस्य योग्यतया लाभ इति द्रष्टव्यम् । ननु तर्हि मूले उत्पद्येतेति व्यर्थं, तद्व्याख्येया-भावादित्यत आह- तस्य तात्पर्यमिति ।। सत्तां प्राप्नुयादित्यर्थकस्य भवेतेत्यस्यैवेदं तात्पर्यकथनमित्यर्थः । असतः सत्तासम्बन्धस्यैवोत्पत्तिरूपत्वादिति भावः । पूर्वं विदेर्भवतेश्च सत्तारूपैकार्थत्वमङ्गीकृत्य विद्येतेत्येतद्भवेतेति व्याख्याय सत्तायाः कादाचित्कत्वलाभायोत्पद्येतेत्युक्तमिति व्याख्यातम् । तथा भवेतेत्यस्य सत्ताप्राप्त्यर्थकत्व-मङ्गीकृत्य तत्तात्पर्यकथनपरत्वेनोत्पद्येतेत्युक्तमिति प्रकारान्तरेण व्याख्यातम् । अधुना उत्पद्येतेत्येतत्प्रकारान्तरेण व्याख्यातुं विद्येत भवेतेत्यस्यैवाभिप्रायमाह- यद्वेति ।। विद्यतिः सत्तार्थ इत्यभिप्रेत्य भवेतेत्युक्तमित्यन्वयः । नन्वत्रापि विदेर्भवतेश्च सत्तारूपैकार्थत्वमङ्गीकृत्य विद्येतेत्येतद् भवेतेति पूर्ववदेव व्याख्यातं, को विशेषो येन यद्वेत्युक्तमित्यत उक्तम्- अर्थादुत्पत्तिर्लभ्यत इति ।। न पूर्वव्याख्यानद्वय इवोत्पद्येतेत्यनेनोत्पत्तिलाभो नोच्यते, किन्त्वर्थादेवेत्ययमेव विशेष इत्यर्थः । तथा हि-निवर्तेतेति विनाशस्याऽपाद्यत्वेनोक्तत्वात् तदापादकत्वेन विद्येतेत्यनेनोक्तसत्त्वस्य कादाचित्कत्वम् उत्पत्तिरिति यावत्, अर्थाल्लभ्यते । अन्यथोत्पत्तेरेव निवृत्तिव्याप्यत्वेन सत्त्वस्याऽत्मादौ व्यभिचारेण तद्व्याप्यत्वासम्भवादापाद्याऽपादकभावो न स्यादिति भावः । तर्हि मूले उत्पद्येते-त्येतदुर्वरितं व्यर्थं स्यादित्यत आह- अधुनेति ।। अनेकार्थत्वादिति ।। ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’ इति वचनादित्यर्थः । उत्पत्तिवाचीति ।। विदोत्पत्तावित्यपि धातुरस्तीत्यर्थः । यथोक्तमनुव्याख्याने- ‘विदोत्पत्ताविति ह्यस्माद्धातोः’ इति । तथा चास्मिन्पक्षे उत्पत्तिः शब्दत एव लभ्यते, न पूर्ववदर्थादिति भावः । इत्याहेति ।। इत्यभिप्रेत्य विद्येतेत्येतत्प्रकारान्तरेण व्याख्याती-त्यर्थः । अवश्यभ्भावादिति ।।

व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।

अनिष्टाननुकूलत्वम् इति तर्काङ्गपञ्चकम् ।

अङ्गपञ्चकसम्पन्नस्तत्त्वज्ञानाय कल्प्यते ।

अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् ।।’

इति कारिकावचनादति भावः । प्रमाणेति ।। प्रत्यक्षादिप्रमाणेत्यर्थः । नापीति ।। प्रत्यक्षादिप्रमाणबाधादेवेति भावः । विश्वविस्तार इति ।। तथा च प्रपञ्च इत्येतत्प्रोपपदात् पचि विस्तारे इति धातो रूपं न भवतीत्यर्थः । जातीयरोऽर्थ इति ।। प्रकारार्थ इत्यर्थः । ‘प्रकारवचने जातीयर्’ इति सूत्रेण प्रकारार्थे जातीयरो विधानादित्यर्थः। डप्रत्यय इति ।। तथा च पञ्चन्शब्दात्प्रकाररूपे जातीयरोऽर्थे डप्रत्यये डित्त्वाट्टिभूतस्य अन् इत्यस्य लोपे पञ्चेति (श्री.टि.) रूपमित्यर्थः । तमेव जातीयरोऽर्थं दर्शयति- पञ्चविध इति ।। पञ्चप्रकार इत्यर्थः । मोक्षाङ्गज्ञान-त्वादिति ।। मोक्षजनकज्ञानविषयत्वादित्यर्थः । यथोक्तम्-

पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ।

निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्न चान्यथा ।।’ इति ।

प्रकरणप्राप्तमिति ।। भेद इति विशेष्यपदं प्रकरणप्राप्तमित्यन्वयः ।

ननु कथं भेदः प्रकरणप्राप्तो, येन तस्यानादित्वाद्युपपादनं सङ्गत स्यादित्यत आह- तथा हीत्यादिना ।। प्रभोरिच्छयेत्यादि ।। निगडबद्धजीवप्रभ्वोः, निगडप्रभ्वोः, बद्धजीवनिगडयोश्च भेददर्शनात् प्रकृतेऽप्येवमिति भावः । लब्ध इति ।। भावानामिति बहुवचनेनेत्यर्थः । बहुत्वस्य भेदव्याप्तत्वादिति भावः । तत एवेति ।। जीवानां भेदादेवेत्यर्थः । आवरणानाम् आवरकाणाम् । अर्थाल्लभ्यत इति ।। जीवानां भेदेऽप्यावरणस्याभेदे एकस्य तत्त्वज्ञानेनाऽवरणनिवृत्तौ सर्वेषामपि मुक्तिस्स्यादिति भावः । तेषां पञ्चानामपि भेदानामिति ।। ‘अनादिमाया’ इति प्रकृतेरनादित्वोक्त्या जीवेश्वरप्रतियोगिकप्रकृतिधर्मिकभेदस्याऽवरणादिजडान्तरप्रतियोगिक-भेदस्य चानादित्वं लब्धम् । एवमीश्वरस्याजडत्वोक्त्या जीवजडप्रतियोगिकेश्वरधर्मिकभेदस्यानादित्वं लब्धम् । जडेश्वरप्रतियोगिकजीवधर्मिकभेदस्य  परस्परं जीवभेदस्य चानादित्वं कथं लब्धमित्यत इत्यादिविशेषणेत्यु-क्तम् । अत्र आदिपदेन सुप्त इति विशेषणं ग्राह्यम् । तथा चानादिमाययेति मायाशब्दोक्तलिङ्गशरीररूपाऽवरण-स्यानादित्वं तावदुक्तं, तादृशानाद्यावरणेन जीवस्य सुप्तत्वोक्त्याऽऽव्रियमाणस्य जीवस्याप्यनादित्वं लब्धम् । अन्यथा तस्याऽवरणत्वायोगात् । तेनेश्वरप्रकृत्यादिजडप्रतियोगिकजीवधर्मिकभेदस्यानादित्वं लब्धम् । तथा परस्परजीवभेदस्याप्यनादित्वं लब्धमिति द्रष्टव्यम् । अत एव विशेषणसामर्थ्यादित्युक्तम् ।

अनादिनित्यत्वमिति ।। जीवेश्वरप्रकृत्यादिजडानां नित्यतया तत्स्वरूपभूतानां पञ्चानामपि भेदानां नित्यत्वं च लब्धप्रायमिति द्रष्टव्यम् । सत्यत्वमिति ।। अनादित्वोक्तावज्ञानकार्यत्वरूपमिथ्यात्वाभावस्य लाभेऽर्थात्सत्यत्वं लब्धमिति भावः । निवर्तेतेत्यस्येष्टाऽपादनत्वं परिहरति- यदि चेति ।। वैयर्थ्येति ।। अधिकारिणोऽभावादिति भावः । इत्यादिरूपेणेति ।। यदि जडेश्वरयोर्भेदो नश्येत्तदेश्वरस्य जडत्वापत्त्या सत्यं ज्ञानमित्यादिशास्त्रस्य विरुद्धार्थत्वाऽपत्तिः । यदि जडानां परस्परं भेदो नश्येत्तदा विद्याया अप्यविद्यात्वापत्त्या तमेवं विद्वानिति शास्त्रस्य विरुद्धार्थत्वापत्तिः । यदि जीवानां परस्परभेदो नश्येत्तदा परस्परमैक्यप्राप्त्या परस्परं सुखदुःखाद्यनुसन्धानाऽ-पत्तिः । यदि च जीवेश्वरयोर्भेदो नश्येत्तदेश्वरस्य दुःखाद्यनुभवः स्यात् । तथा च ‘निरनिष्टो निरवद्यः’ इत्यादिश्रुति-विरोधः । जीवस्य वा सार्वज्ञाद्यनुभवः स्यात् । तथा चानुभवविरोधः । इत्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यमित्यर्थः । प्रागुक्तेति ।। अनादित्वोक्त्या अर्थाल्लब्धेत्यर्थः । अनेनेति ।। अयमित्यनेनेत्यर्थः । उक्तार्थस्य पञ्चविधभेदस्य    ‘न द्वैतं भ्रान्तिकल्पितम्’ इत्युत्तरवाक्यानुरोधेनाविद्यमानपदं व्याचष्टे- भ्रान्तिकल्पित इति ।। विरुद्धोऽयं हेतुरिति ।। पञ्चविधो भेदो भ्रान्तिकल्पितो न भवति मायामात्रत्वादित्यत्र मायामात्रपदस्याऽ-(श्री.टि.)विद्यकत्वार्थकत्वेन तस्योक्तसाध्याभावव्याप्तत्वाद्विरुद्धत्वमिति भावः। प्रमाणस्योक्तत्वादिति ।।

मायेत्युक्ता प्रकृष्टत्वात् प्रकृश्व्ं हि मयामिधम् ।

विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते ।।’

इति प्रमाणस्योक्तत्वादित्यर्थः । मूलविभुजादित्वादिति ।। तद्गणस्थत्वादित्यर्थः । तथा च ‘मूलविभुजादिभ्यश्च’ इति सूत्रेण कर्त्रर्थे कप्रत्यय इति भावः । मूलविभुजादिगणे मात्रशब्दस्य पाठाभावादाकृतिगणत्वकल्पनस्य चागतिकगतित्वात्प्रकारान्तरमाह- घञर्थ इति ।। इति वार्तिकेन वेत्यर्थः । कर्तृकरणभावानां त्रयाणामपि घञर्थत्वात्प्रकृते कर्त्रर्थे घञ्प्रत्यय इति भावः । तथा च ‘माङ् माने’ त्रैङ् पालने’ आभ्यां ‘मूलविभुजादिभ्यश्च’ इति सूत्रेण वा ‘घञर्थे कविधानम्’ इति वार्तिकेन वा कर्तरि कप्रत्यये ककारलोपे ‘आदेच उपदेशेऽशिति’ इत्यैकारस्याऽत्वे  मात्रा अ इति स्थिते  ‘आतो लोप इटि च’  इति धात्वाकारलोपे मात्र् अ मात्रेति रूपं द्रष्ट-व्यम् । धातुद्वयोपर्येकः प्रत्ययश्चाद्भुतमित्यादौ दृष्ट इत्यवगन्तव्यम् । बहुव्रीहिरिति ।। मात्रशब्देन बहुव्रीहिरि-त्यर्थः । हिशब्दाभिप्रायमाह- निरवद्यत्वश्रुतीति ।। ‘निरनिष्टो निरवद्यः’ इति श्रुतीत्यर्थः । मूले ईश्वरेण ज्ञातत्वहेतोरप्रयोजकत्वं परिहृतम् । इदमुपलक्षणम् । ईश्वर(रक्षित)निरीक्षितत्वेऽपि भ्रान्तिकल्पितं किं न स्यादिति द्वितीयहेतोरप्यप्रयोजकत्वपरिहारो द्रष्टव्य इत्याशयेनाऽह- एवमिति ।। इत्यत आहेत्येतद्व्याख्याति- इत्यत आक्षेपात्परमिति  ।।  आक्षेपानन्तरमित्यर्थः । आहेति सम्बन्धः । प्रकारान्तरेण योजयति- इत्याक्षेप इति ।। पञ्चमीति ।। ‘पञ्चाम्यास्तसिल्’ इति सूत्रेण परमार्थादिति पञ्चम्यास्तसिलो जातत्वादिति भावः । ल्यब्लो-पेति ।। ‘ल्यब्लोपे तत्कर्मण्यधिकरणे पञ्चमी वाच्या’ प्रासादात्प्रेक्षते, आसनात्प्रेक्षते, प्रासादमारुह्य आसने उपविश्य प्रेक्षत इति वार्तिकार्थः । एवमत्राप्यपेक्ष्येति ल्यब्लोपे तत्कर्मणि परमार्थत इति पञ्चमी जातेत्यर्थः । एतदिति ।। एवं श्रुतिव्याख्यानमित्यर्थः । शङ्कितुरपीति ।। तर्ह्यद्वैतः सर्वभावानामिति व्यपदेशः कथमिति शङ्कितुर्मायावादिनोऽपीत्यर्थः । व्यवहारत इति ।। व्यवहारदशायामित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

‘प्रपञ्चो यदि विद्येत’ इति वाक्यस्य मायामात्रपदबलेन अज्ञानकल्पितत्वप्रमाणत्वात्, तेन तन्मात्र-सिद्धावपि एकजीवाज्ञानपरिकल्पितत्वासिद्धेः कथं तत्र प्रमाणतया उपन्यास इत्यत आगमतया तस्यास्तत्र प्रमाणत्वासम्भवेऽपि  अर्थतस्तदवगमकत्वादन्यथाऽनुपपत्तितया  प्रमाणत्वं  युज्यत एवेत्याशयेनाऽह- १तत्र चेति ।। एकस्यैवेति ।। जीव इत्याद्येकवचनादिति भावः । सत्तार्थत्वमिति ।। ‘विद सत्तायाम्’ इति स्मरणादिति भावः । सत्तार्थकस्य भवतेः परस्मैपदितया कथं भवेतेत्यात्मनेपदप्रयोग इत्यत आह- व्यत्यय इति ।। एतच्च प्रागेव सकृद्व्युत्पादितं तत एव प्रतिपत्तव्यम् । सत्ता चेति ।। न तु सार्वकालिकी, येन उत्पद्येतेति व्याख्यानानुपपत्तिः स्यादिति भावः । अत्र पक्षे व्यत्ययाश्रयणं भवतीत्यपरितोषं मनसि निधायाऽह- अथ वेति ।। यद्यपि प्राप्त्यर्थकस्य भूधातोः प्राप्नुयादित्येव व्याख्यातव्यत्वात् सत्तां प्राप्नुयादिति व्याख्यानं न शाब्दम् । तथाऽपि योग्यतया सत्तायाः (पां.टि.)सम्बन्धमभिप्रेत्य तथा व्याख्यानमिति द्रष्टव्यम् । तर्हि भवेतेत्यतावता पूर्णत्वाद् उत्पद्येतेत्यस्य वैयर्थ्य-मित्यतस्तत्तात्पर्यकथनार्थत्वान्न तदिति भावेन तथा योजयति- तस्य तात्पर्यमिति ।। अत्रापि तात्पर्यार्थत्व-कल्पनादिकं भवतीत्यपरितोषादाह- (यद्वे)अथ वेति ।। अर्थादिति ।। निवर्तेतेत्यापादितविनाशान्यथाऽनुप-पत्तेरित्यर्थः । नन्वेवमुत्पद्येतेत्यस्य पौनरुक्त्यं, भवेतेत्यनेनैवोत्पत्तिलाभादित्यतः प्रकारान्तरेण तदवतारयति- अनेकार्थत्वादिति ।। ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽवगन्तव्या अनेकार्था हि धातवः’ इति स्मरणादिति भावः । अवश्यम्भावादिति ।। अन्यथा तद्रूपाङ्गवैकल्येन प्रसङ्गस्याऽभासत्वप्राप्तेरिति भावः। प्रपञ्चो घटादिरिति ।। प्रपञ्चशब्दस्य विश्वविस्तारवाचकत्वादिति भावः । विपर्यये पर्यवसानमिति ।। बाध-प्रसङ्गादिति भावः । जातीयरोऽर्थ इति ।। प्रकारार्थ इत्यर्थः । ‘प्रकारवचने जातीयर्’ इति प्रकारार्थे तद्विधानादिति भावः । डप्रत्यय इति ।। ‘पञ्चद्दशतौ वर्गे वा’ इति निपातनादिति भावः । न च ‘पञ्चद्दशतौ वर्गे वा’ इत्यत्र वर्गेऽभिधेये तदस्य परिमाणमित्येतदस्मिन्विषये पञ्चन्दशन्शब्दाभ्याम् ‘सङ्ख्याया अतिशदन्तायाः कन्’ इति कनि पञ्चकः दशकः इति नित्यं प्राप्तौ डतिप्रत्ययविधानेन डित्वाट्टिलोपे पञ्चत्, दशदित्येव निपातनात्, वाशब्देन च पक्षे कन्प्रत्ययविधानेन पञ्चकः दशकः इति पूर्वप्राप्तरूपस्याभ्यनुज्ञानात् डप्रत्ययस्यानभ्यनुज्ञानेन पञ्चन्शब्दात् डप्रत्ययस्याप्राप्त्या डित्वाट्टिलोपासम्भवेन कथमनेन पञ्च इति रूपनिष्पत्तिरिति वाच्यम् । पञ्चकः दशकः इत्यभियुक्तप्रयोगानुसारेण पक्षे वाशब्देन कन्प्रत्ययस्येव पञ्च इति श्रौतप्रयोगानुसारेण पक्षेऽप्राप्तडप्रत्ययस्यापि वाशब्दार्थत्वेनाभ्यनुज्ञातव्यत्वात्, अविशेषादित्यत्र तात्पर्यात् । सम्मतश्चायमर्थो टीकाकृतः । अत एवान्यत्र टीकाकृता ‘वाशब्देन पञ्चशब्दस्यापि निपातनात्’ इत्युक्तम् । अन्यथा वाशब्देन पञ्चकशब्दस्य निपातनादित्येवा-वक्ष्यत् । अत एव च माधवधातुवृत्तौ ‘वाग्रहणात् संख्याया अतिशदन्तायाः कन् इति कनि पञ्चकः पञ्चेति डे उक्तमिति दुर्गः’ इत्युक्तमिति द्रष्टव्यम् । न च तथाऽपि ‘पञ्चद्दशतौ’ इत्यस्यार्थान्तरे डप्रत्ययविधायकत्वप्राप्तावपि जातीयरोऽर्थे तदविधायकत्वात्कथमनेन तत्र डप्रत्ययः स्यादिति वाच्यम् । ‘विचित्रा तद्धितगतिः’ इतिवचने-नार्थान्तरे डप्रत्ययविधायकस्यापि जातीयरोऽर्थे तद्विधायकत्वस्याप्याश्रयितुं शक्यत्वात् । सम्मतश्चायमर्थो टीकाकाराणाम् । अत एव ‘एष चासावात्मा चैतदात्मा ‘विचित्रा तद्धितगतिः’ इति वचनात्’ इति एतदात्मन इदमित्यर्थे ष्यञ्प्रत्ययाश्रयणं टीकाकारीयं सङ्गच्छते । अन्यथेदमर्थे तदननुशासनात्तदयुक्तं स्यादिति द्रष्टव्यम् । यद्वेह टीकायां डप्रत्ययविधायकतया सूत्रविशेषमनुपादाय डप्रत्यय इत्येवोक्तत्वात्पञ्चन्शब्दाज्जातीयरोऽर्थे ‘तद्धिताः’ इति डप्रत्यय इत्यर्थः । यद्यपि जातीयरोऽर्थे डप्रत्ययो न विहितः । ‘तद्धिताः’ इति योगश्च पञ्चमाध्यायान्तं विहितप्रत्ययानां तद्धितसञ्ज्ञाविधायको, न डप्रत्ययविधायको, नतरां जातीयरोऽर्थे डप्रत्ययविधायक इति ‘तद्धिताः’ इति डप्रत्यय इति व्याख्यातुमनुचितम् । तथाऽपि ‘सर्वत्राधिकारसूत्रे ‘प्रत्ययः’ ‘समासान्तः’ इत्याद्येकवचनान्तप्रयोगस्यैव दर्शनात्तद्वत्प्रकृतेऽपि तद्धित इत्येकवचन एव वक्तव्ये यत् ‘तद्धिताः’ इति बहुवचनं तेन सञ्ज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति भावेन बहुवचनमनुक्ततद्धितपरिग्रहार्थम् । ततश्च ‘पृथिव्या ञाञौ’ ‘अग्रपश्चादिमन्’ इत्येवमादि लब्धं भवति’ इति वृत्तिकारेणोक्तत्वाज्जातीयरोऽर्थेऽनुक्तोऽपि (पां.टि.) डप्रत्ययः ‘तद्धिताः’ इति बहुवचनलभ्य इत्यभिप्रायेण जातीयरोऽर्थे ‘तद्धिताः’ इति ड इति व्याख्यान-मुपपन्नमेव । सम्मतश्चायमर्थो टीकाकाराणाम् । ‘मत्वर्थे तद्धिता इति डः’ इत्यन्यत्र टीकाकारैरुक्तत्वात् । अन्यथा मत्वर्थे डप्रत्ययाविधानात्तथोक्तेरसामञ्जस्यप्रसङ्गादित्यवधेयम् ।

अस्तु पञ्चविधः पञ्चः, तस्य प्रकृष्टत्वं तु कुतः, येन प्रपञ्चत्वं स्यादित्यतो मोक्षसाधनज्ञानविषयत्वादित्याह- प्रकृष्टत्वं चेति ।। ‘वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा’ इत्युक्तेरिति भावः । प्रपञ्चशब्दस्य विश्वविस्तार-वाचित्वे विशेष्यानाकाङ्क्षत्वेऽप्युक्तरीत्या तद्व्याख्याने विशेषणशब्दत्वेन पञ्चविधः क इति विशेष्याकाङ्क्षायां प्रकरणप्राप्तभेदस्य विशेष्यतया सम्बन्धसम्भवात्, तदाकाङ्क्षानिवृत्तिरिति भावेनाऽह- विशेष्येति ।। ननु भवेदेतदेवं पञ्चविधस्यानादित्वसत्यत्वोपपादकतया श्लोकद्वयव्याख्यानम्, यदि प्रपञ्चो यदीत्यतः पूर्वत्र श्रुतौ भेदपञ्चकं तदनादित्वं वा प्रसक्तं स्यात् । न चैतदस्ति । तत्कथं तत्परतया व्याख्यानम् । अस्तु वा कथञ्चित्तत्प्रसक्ति-व्युत्पादनेन श्लोकद्वयस्य तत्समर्थनपरत्वम् । तथाऽपि प्रथमश्लोके मायामात्रमित्यादेरानर्थक्यमेव । तद्वचनस्य प्रकृतोपयोगाप्रतिभासादित्यत आह- तथा हीति ।।

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ।।’

इति प्रमाणं मनसि निधायाऽह- परमेश्वरेच्छयेति ।। जीव इत्येकवचनं ‘यदा नीतिपरो राजा’ इत्यादिवत्, ‘स्वर्गकामो यजेत’ इत्यादिवच्च जात्यभिप्रायम्    न तु जीवैक्याभिप्रायम् । तथा सति ‘इति सृष्टौ विनिश्चिताः’ इति पूर्वेण, ‘सम्पूज्यः सर्वभावानाम्’ इत्युत्तरेण जीवभेदवाक्येन विरोधप्रसङ्गादिति भावेनोक्तम्-जीवजात-स्येति ।। न केवलं श्रुतौ अनादिमायया सुप्तः इति यथास्थित एव सम्बन्धः । किन्तु ‘अतः प्रबोधोऽस्मात्’ इत्युक्तरीत्या अनादिमायया प्रबुध्यत इत्यपीति भावेनोक्तम्-तथैवेति ।। भेदाः सन्तीति तत्सत्त्वं लब्धमित्यर्थः। अत एवाऽह- प्रभोरित्यादि ।। मिथो भेदोऽपीति ।। भावानामिति बहुवचनेन भावशब्दोक्तजीवानां बहुत्वो-क्तेः, बहुत्वस्य च भेदसामानाधिकरण्यस्यौत्सर्गिकत्वेन प्रकृते च बाधकाभावेन तन्नियमादिति भावः । तत एवेति ।। आव्रियमाणभेदादेवेत्यर्थः । जीवानां भेदेऽप्यावरणैक्ये एकस्य तत्त्वज्ञानात्तदनिवृत्तावनिर्मोक्ष-प्रसक्तेस्तन्निवृत्तौ च सर्वेषां मुक्तिप्रसक्तेस्दावरणभेदसिद्धिरिति भावः । एवं पञ्चविधभेदप्रसक्तिं तत्सत्यत्व-प्रसक्तिञ्चोक्त्वा तदनादिनित्यत्वप्रसक्तिमपि दर्शयति- तेषां चेति ।।

इत्यादिविशेषणसामर्थ्यादिति ।। अत्राऽदिपदेनोक्तरूपसुप्तत्वरूपविशेषणपरिग्रहः । तेनानाद्यावर-णावृतत्वमाव्रियमाणानादित्वं विना न सम्भवतीति मायागतानादित्वविशेषणसामर्थ्यात्सुप्तपदेनाऽवृततयोक्तानां जीवानामप्यनादित्वसिद्धिः । एवं च धर्मिणामनादित्वोक्त्याऽऽक्षेपाद्वा सि(द्धत) द्ध्या तद्भेदपञ्चकस्याप्यनादित्वं लब्धमित्यर्थः । निवर्तेतेत्यस्येष्टापादनत्वं परिहरति- यदि चेति ।। इत्यादिरूपेणेति ।। यदि जडेश्वरयोर्भेदो नश्येत्तदेश्वरस्य जडत्वप्रसक्त्या ‘सत्यं ज्ञानम्’ इत्यादिशास्त्रस्य विरुद्धार्थत्वप्रसङ्गः । यदि जडानां परस्परं भेदो (पां.टि.) नश्येत्तदा विद्याया अप्यविद्यात्वापत्त्या ‘तमेवं विद्वान्’ इत्यादिशास्त्रस्य विरुद्धार्थत्वापत्तिः । यदि जीवानां परस्परं भेदो नश्येत्तदा परस्परमैक्यापत्त्या परस्परगतसुखदुःखाद्यानुसन्धानापत्तिः । यदि च जीवेश्वरभेदो नश्येत्तर्हि तदैक्यप्राप्त्येश्वरस्य जीवस्येव सुखदुःखाद्यनुभवस्य, जीवस्यापीश्वरस्येव सार्वज्ञाद्यनुभवस्य च प्रसक्त्या यथायथं श्रुत्यनुभवरूपप्रमाणविरोधाद्यापत्तिरित्येवंरूपेणेत्यर्थः । प्रमाणस्येति ।। ‘विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते’ इत्यादिप्रमाणस्येत्यर्थः । मूलविभुजादित्वादिति ।। कप्रकरणे ‘मूलविभुजादिभ्य उपसङ्ख्यानम्’ इति ‘तुन्दशोकयोः परिमृजापनुदोः’ इत्येतत्सूत्रीयोपसङ्ख्यानात् ‘अदिभूभ्याम्’ इत्यादाविव धातुद्वयाद्बाहुलकात् कप्रत्यये ‘आदेच उपदेशेऽशिति’ इत्यात्वे ‘आतो लोप इटि च’ इत्याकारलोपे मात्रशब्दनिष्पत्तिरिति द्रष्टव्यम् । घञर्थ इति ।। ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्’ इति ‘ग्रहवृदृनिश्चिगमश्च’ इत्येतत्सूत्रीयवार्तिके घञर्थे कविधानाद्धातुद्वयान्माति त्रातीति कर्त्रर्थे कप्रत्यये पूर्ववन्मात्रशब्दनिष्पत्तिरिति भावः । न च कर्तरि घञोऽविहितत्वात्कथं कर्तरि घञर्थे कः स्यादिति वाच्यम् । नञा निर्दिष्टस्यानित्यत्वे कर्तर्यपि तदुपपत्तेरित्याश-यात् । न च स्थास्नादिष्वपाठात्कथमत्र तेनापि कप्रत्ययः स्यादिति वाच्यम् । पाठमूलभूतशिष्टप्रयोगानुरोधेन तथा पाठोऽपि तत्र कार्योऽन्यथाऽतिप्रसङ्गादित्यत्र तात्पर्यात् । इत्यपि वक्तव्यमिति ।। अन्यथा अप्रयोजकत्व-शङ्काकलङ्कितत्वेनेश्वररक्षितत्वहेतोरहेतुत्वप्रसङ्गादिति भावः । कथमित्यस्यार्थान्तरमाह- अथ वा कथं व्याख्येय इति ।। इत्याक्षेपो जायते यतोऽतः कारणादिति वेति च ।। भावप्रधान इति ।। औतशब्दो लक्षणयाऽद्वैतत्व-पर इत्यर्थः । ल्यब्लोपेति ।। ‘ल्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वक्तव्या’ इति तत्र प्राप्तद्वितीयादिबाधेन पञ्चमीविधानादिति भावः । तदभिप्रेतत्वमेवोपपादयति- तेनेति ।।

लघुप्रभा

(व्या.टि.)

साहाय्यवत्त्वादिति ।। ‘योपाधाद् गुरूपोत्तमाद् वुञ्’ ‘सहायाद्वा’ इति पक्षे ष्यञ् । साहाय्यं, साहायकम् इति च रूपद्वयम् । आक्षिपति- कथमिति ।। वाक्यस्य । माण्डूक्यस्येति शेषः । कथमस्य तदर्थतेत्यतस्तत्पूर्ववाक्ये तथा प्रतीतेरित्याह- अत्रेति ।। एकस्यैवेति ।। सुप्तो जीव इत्येकवचनादित्यर्थः । अज्ञानेति ।। मायाशब्दस्य तद्वाचित्वात् सुप्तिरूपाज्ञानकार्यावरणकथनाच्चेत्यर्थः । आहेति  ।। प्रतिजानीत इत्यर्थः । समुच्चेयाभावेन समुच्चयासम्भवादाह- चशब्द इति ।। विशेषार्थ इत्यर्थः। कथं प्रत्यक्षनिर्देश इत्यत आह- बुद्धिस्थ इति ।। नन्वर्थसाम्याभावात्कथं प्रतिपदग्रहणमित्यत आह- विदेरिति ।। सत्तावाचिनो भुवः परस्मैपदित्वादाह-व्यत्यय इति ।। छान्दसत्वान्न दोष इति भावः। सत्तामात्रस्य निवृत्त्यनापादकत्वादाह- सत्ता चेति ।। बुद्धिवैशद्यायार्थान्तरमाह- अथ वेति ।। विकल्पितण्यन्तस्येति ।। ‘आधृषाद्वा’ इति णेर्विकल्पना-दिति भावः । णिच्सन्नियोगेनैवाऽत्मनेपदमिति तु निर्मूलम् । सत्तामिति योग्यतयाऽन्वयि । प्राप्नुयादित्येवार्थ-निर्देशः ।‘विदुत्पत्ताविति ह्यस्माद्धातोः’ इत्यनुव्याख्यानं मनसि निधायाऽह-यद्वेति ।। अनेकार्थत्वादिति ।। यथोक्तं शाब्दिकैः- ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’ इति । विद्यतेरार्थिकार्थवर्णनम्- भवेतेति ।। उत्पद्येतेति तु साक्षाद्व्याख्येति भावः । अवश्यम्भावादिति ।।

(व्या.टि.) ‘व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।

अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ।’

इति न्यायाचार्योक्तेरिति भावः । भावमुद्घाटयितुं शङ्कते- नन्विति ।। नात्रेति ।। प्रपूर्वात् ‘पचि विस्तारे’ इत्यतो घञादिकृदन्तो न,  किन्तु  ‘तद्धिताः’ इति बहुवचनलब्धडप्रत्ययरूपतद्धितान्तोऽयमित्याह- जातीयरोऽर्थ इति ।। ‘प्रकारवचने जातीयर्’, ‘प्रकारवति चायमिष्यते’ इत्युक्तेः प्रकारिणि प्रत्ययः । पटुजातीय इतिवत् । पञ्चन्शब्दात्प्रकारिणि डप्रत्यये ‘टेः’ इति टिलोपे पञ्च इति साधुः । तदर्थमाह- पञ्चविध इति ।। मोक्षाङ्गेति ।। ‘वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा’ इत्यादिस्मृतेरिति भावः । प्रकरणपदोक्तप्रक्रमं प्रकटयति- तथा हीति ।। परमेश्वरेच्छयेति ।। ‘अभिध्योपदेशाच्च’ इति सूत्रादित्यर्थः । प्रकृत्यादिना वेति ।। ‘मायां तु प्रकृतिं विद्यात्’ इति स्मृतेरिति भावः । जीवजातस्येति ।। तेन सुप्त इत्येकवचनं समुदायापेक्षितमित्युक्तं भवति । लाभप्रकारमाह- प्रभोरिति ।। वर्गशो भेदपञ्चकं सिषाधयिषुरादौ त्रिकसिद्धिं तावदाह- भेदत्रयेति ।। कथं तर्हि पञ्चभेदवाद इत्यत आह- प्रागिति ।। द्विकप्रदर्शनम्- मिथ इति ।। भावानामिति बहुवचनेनेति भावः । तत एवेति ।। जीवबहुत्वादेवेत्यर्थः । आवरणानामिति- हेतुगर्भविशेषणम् । एकस्यानेकाव्रियमाणव्याप्तत्वे कस्यचित्तन्निवृत्तावन्यस्य बद्धत्वानुपपत्तेरित्यर्थः । सुधायामप्येवमेवास्ति ।

पञ्चानामपीति ।। अत्रैके चोदयन्ति- पञ्चभेदाङ्गीकारोऽयुक्तः । तथा हि- भेदानेकत्वस्य भेदभेदैकार्थ-समवायित्वेन भिन्नभेदवादे स्वरूपभेदवादे वा भेदभेदकाभावेन भेदपञ्चकासम्भवात् । तथा हि- भिन्नभेदवादे प्रतियोगिभेदाद्भेदभेदो वा पटत्वघटत्वभेदवत्, प्रतियोगितावच्छेदकभेदाद्वा घटपटभेदवत्, संसर्गभेदाद्वा नाना-सम्बन्धारोप्यैकैकपटादिप्रतियोगिकात्यन्ताभाववत् । नाऽद्यः । जीवजडप्रतियोगिकस्येश्वरभेदस्य प्रतियोगि-जीवजडानन्त्येन आनन्त्यप्रसङ्गादीश्वरप्रतियोगिकस्य जीवजडधर्मिकभेदस्येश्वरैक्येनैक्यप्रसङ्गश्च । न द्वितीयः । प्रतियोगितावच्छेदकानां जडत्वजीवेश्वरत्वानां त्रित्वेन भेदत्रित्वप्रसङ्गः । ईश्वरप्रतियोगिकजीवजडधर्मिक-भेदस्येश्वरत्वरूपप्रतियोगितावच्छेदकैक्येनैक्यापत्तिश्च । ईश्वरधर्मिकजीवजडप्रतियोगिकभेदस्य जीवत्वजडत्वरूप-प्रतियोगितावच्छेदकद्वित्वेन द्वित्वप्रसङ्गश्च । न तृतीयः । प्रतियोग्यानन्त्येन तत्तादात्म्यानन्त्येन भेदानन्त्य-प्रसङ्गात् । तादात्म्यत्वेनानुगमे चैकत्वप्रसङ्गः । भेदस्य धर्मिणा भेदेऽनवस्थापत्त्या भिन्नभेदवादस्यैवायुक्त-त्वाच्च । धर्मिस्वरूपभेदवादेऽपि धर्मिभेदाद्भेदभेदो वा धर्मितावच्छेदकभेदाद्वा । नाऽद्यः । प्रत्येकं भेदानन्त्येन तदानन्त्यप्रसङ्गात् । समुदायविवक्षायामपि द्वित्वादिवद्भेदस्याद्विष्ठत्वेन परस्परभेदपरिगणनायां षड्भेदापत्तिः । समुदायिनां जीवानां जडानामानन्त्येनानन्त्यापरिहाराच्च    भेदस्याभावरूपत्वेनाधिकरणभेदेन तद्भेदानुप-पत्तेश्च । अन्यथाऽत्यन्ताभावस्याप्यधिकरणभेदेन भेदापत्तेः । ईश्वरस्यैकत्वेन तद्धर्मिकेतरभेदस्याप्येकत्वापत्त्या नेति नेतीति नञ्द्वयानुपपत्तिश्च । एकधर्मिकानन्तप्रतियोगिकानामैक्यप्रसङ्गश्च । न द्वितीयः । ईश्वरत्वादिधर्मिता-वछेदकत्रित्वेन भेदत्रित्वप्रसङ्गः । उपसङ्ग्राहकैकधर्मविशेषमन्तराऽनन्तभेदेषु पञ्चभेदाः त्रयो द्वौ इत्याद्यवान्तर-सङ्ख्याऽनुपपत्तिरिति ।

(व्या.टि.) अत्रायं गूढोऽभिसन्धिः टीकाकाराणम् । भेदस्य धर्मिस्वरूपताया अत्रान्यत्र च समर्थितत्वेन भिन्नभेद-वादोऽनङ्गीकारपराहतः । धर्मिस्वरूपस्य भेदस्य धर्मितावच्छेदकभेदाद्भेदोऽसम्भावित इति धर्मिभेदादेव भेदः । तथा च धर्मिणामानन्त्याद्भेदस्याऽनन्त्यमेव । समुदायविवक्षा च नाङ्गीक्रियते । भेदस्याभावत्वेऽपि धर्मिप्रतीतौ प्रतीयमानत्वादिबहुयुक्तिभिः धर्मिस्वरूपत्वं प्रमितमिति नात्यन्ताभावप्रतिबन्दी । ईश्वरधर्मिकस्यानन्त-प्रतियोगिकस्यैकत्वेऽपि नानाप्रतियोगिकत्वविज्ञापनाय वीप्सार्थकश्रौतनञ्द्वयम् । अनन्तानामपि भेदानां धर्मित्वप्रतियोगित्वान्यतरसम्बन्धेन, जीवसम्बन्धित्वे सति ईश्वरसम्बन्धित्वम्,१। तेनैव सम्बन्धेन जडसम्बन्धित्वे सति ईश्वरसम्बन्धित्वम्, २। तेनैव सम्बन्धेन जीवसम्बन्धित्वे सति जडसम्बन्धित्वम्, ३। उभयसम्बन्धेनापि जीवमात्रसम्बन्धित्वम्, ४ । उभयसम्बन्धेनापि जडमात्रसम्बन्धित्वम्, ५ । इत्यैतैः पञ्चभिः प्रकारैः सङ्ग्रहात् पञ्चविधत्वम् । सन्मात्रसम्बन्धिकभेदस्य विवक्षितत्वान्नासत्प्रतियोगिकभेदासङ्ग्रहो दोषः । लक्ष्म्याश्च परतन्त्रचेतनत्वेन जीवत्वान्न तद्भेदासङ्ग्रहः । अत्र जीवत्वधर्मावच्छिन्नधर्मिकस्य तद्व्याप्यदेवदत्तत्वावच्छिन्न- धर्मिकस्य च ईश्वरप्रतियोगिकस्येश्वरधर्मिकस्योक्तधर्मावच्छिन्नप्रतियोगिकस्य भेदस्याऽद्येन सङ्ग्रहः । एवं जडेश्वर-भेदस्य विविधस्य द्वितीयेन सङ्ग्रहः । एवं जीवजडभेदस्य बहुविधस्य तृतीयेन सङ्ग्रहः । जीवेश्वरौ जडं नेत्यादौ तु भेदद्वयमेव प्रतीयते । जडं जीवेश्वरौ न, घटस्तौ न, जीवो जडेश्वरौ न, चैत्रस्तौ न इत्यादीनां तु प्रकारद्वयादिना सङ्ग्रहः । प्रकारसमावेशस्यादोषत्वात् । न्यूनाधिकप्रकारकरणसम्भवेऽप्यस्यैव मोक्षसाधनज्ञानविषयत्वान्नाति-प्रसङ्ग इत्यवधेयम् । धर्मित्वप्रतियोगित्वोभयतरसम्बन्धेनोभयधर्मावच्छिन्ननिरूप्यत्वधर्मित्वप्रतियोगित्वेनोभय-सम्बन्धेनान्यतरव्याप्यधर्मावच्छिन्ननिरूप्यत्वाभ्यां उभयसम्बन्धिनोऽन्यतरसम्बन्धिनश्च भेदननुगमय्य द्विकत्रिक-वर्गाभ्यां पञ्चत्वसङ्ख्यासम्पत्तिः। अत्रोभयपदेन जीवत्वजडत्वेश्वरत्वरूपत्रिकमध्ये उभयं ग्राह्यम् । अवच्छिन्नपद-माश्रयपरम् । अन्यतरदपि त्रिकस्येति ज्ञेयम् । द्वितीयोपसङ्ग्राहके जीवो जीवो न, जडं जडं नेत्युक्तौ उद्देश्यता-वच्छेदकविधेयविरोधेन शब्दप्रमाऽनुपपत्त्या व्याप्यान्तम् । तेन स जीवोऽयं न, तज्जडमिदं नेतिशब्दप्रमोपपत्तिः। उद्देश्यतावच्छेदकविधेयभेदात् । वर्गशोऽपि सङ्ख्यासम्पत्तिर्दृयते । यथा वेदे ‘समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि, चत्वार्यश्लीलानि, तानि नवेति । तथा ‘चतुरः प्रयाजान्यजति द्वावनुयाजौ षड् सम्पद्यन्ते’ इति । एवं च सजातीयैकमात्रसम्बन्धेनोपसङ्ग्राहकेणैकं द्विकम् । विजातीयोभयसम्बन्धित्वेनोपसङ्ग्राहकेण त्रिकम् । इति वर्ग-द्वयेन पञ्चत्वसङ्ख्यापूर्तिर्युक्ता । वस्तुतस्तु नायमस्ति नियमः । यदुपसङ्ग्राहकेणैवावान्तरसङ्ख्यासम्पत्तिरिति ।

पञ्च सप्त च वर्षाणि नववर्षं शतक्रतुः ।

व्रतमेतदनुष्ठेयं नववर्षाणि पञ्च च ।।’

इत्यादौ उपसङ्ग्राहकाभावेऽप्यवान्तरसङ्ख्यानदर्शनात् । ‘पञ्चाशद्वर्णराशेर्वेदस्य अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाननानारूपा भवन्तीति अनन्तवेदाः’ इति श्रौतदिशा सङ्ख्येयत्ववदसङ्ख्येयराशेरप्युपसङ्ग्राहकेण सङ्ख्येयत्वोपपत्तेश्चेत्यलम् । सम्मतं चैतन्मीमांसकानाम् ‘‘चतुरवत्तं जुहोति’ इति श्रुतचतुरवदानस्य ‘द्विर्हविषोऽ-वद्यति उपस्तृणात्यभिघारयति’ इति श्रुतौ यस्तरणाभिघारणाभ्यां सम्पत्तिं वदताम् ।

(व्या.टि.) लब्धमिति ।। भेदिनामनादित्वोक्त्येति शेषः। सत्यत्वमिति ।। मिथ्याभूतस्यानादित्वा-योगात्तन्नान्तरीयकं तदिति भावः । ननूत्पत्तिवादी तस्य विनाशमभ्युपैत्येवेति कथं तस्यानिष्टत्वमित्यतस्तत् प्रदर्शयति- यदि चेति ।। जडत्वापत्त्येत्युपलक्षणम् । जडस्य जीवत्वापत्त्या मिथ्याजडव्यतिरेकेण जीवाभावान्मोक्ष-शास्त्रवैयर्थ्यापत्तिर्बोध्या । आदिरूपेणेति ।। यदि जीवेशभेदो नश्येत्तर्हि जीवस्येश्वरत्वापत्त्या दुःखानुभवो न स्यादीश्वरस्य जीवत्वापत्त्या ‘उत्तमः पुरुषस्त्वन्यः’ इति तदनुभवसिद्धतद्भेदवचनानुपपत्तिः। एवं यदि जडेशभेदो नश्येत्तदा जडस्येश्वरत्वापत्त्या स्वतः प्रवृत्त्यापत्तिः । ईश्वरस्य जडत्वापत्त्या प्रवृत्त्यनुपपत्तिरित्यादि बोध्यम् । अनेनेति ।। इदमा प्रकृतिभूतेनेत्यर्थः । प्रागित्युक्तपदान्वयि । श्रुतौ द्वैतपदापेक्षया नपुंसकत्वेऽपि पुंलिङ्गप्रपञ्च-पदनिर्दिष्टस्य तथैव परामर्शो युक्त इति मूले पुंलिङ्गनिर्देशः । मायैव मायामात्रमित्यन्यथाप्रतीत्या शङ्कते- विरुद्ध इति ।। तस्य मिथ्याभावाविनाभावादिति भावः । स्वाशयं प्रकाशयति- प्रज्ञेति ।। वचनवृत्तौ किं प्रमाणमित्यत आह- प्रमाणस्येति ।। ‘तवेच्छाऽनन्त कथ्यते’ इति प्रमाणस्येत्यर्थः । इत्याभ्यामिति ।। धातुद्वयादेक-प्रत्ययोत्पत्तिः समर्थिताऽधस्तात् । मूलविभुजादित्वादिति ।।  मूलानि विभुजति भञ्जयतीति मूलविभुजो रथः । मूलविभुजादेराकृतिगणत्वादित्यर्थः । क इति ।। कर्तरि कृदिति कर्तरि क इति भावः । व्युत्पत्त्यन्तरं दर्शयति- घञर्थ इति ।। भावे इत्यर्थः । तत इति ।। कर्तृसाधनाद्भावसाधनाद्वा मात्राशब्दान्मायाशब्दस्य बहुव्रीहिः  । तत्राऽद्यव्युत्पत्तौ माया मात्रा यस्येति समानाधिकरणो बहुव्रीहिः । द्वितीयस्यां मायया मात्रे यस्य तन्मायामात्रमिति व्यधिकरणबहुव्रीहिः । हेतुहेतुमद्भावेति ।। मायामात्रमिति हेत्वर्थस्य, इदं द्वैतं न भ्रान्ति-कल्पितमिति प्रतिज्ञार्थस्य चेत्यर्थः । अप्रयोजकतामाशङ्क्य निराहेत्याह- परमेश्वरेणेति ।। अतिदेशेनापेक्षितं पूरयति- परमिति ।। कथम आक्षेपार्थमुपेत्य विपर्ययपर्यवसानमाह- न कथञ्चिदिति ।। फलितमाह- अत इति ।। अयुक्तमिति ।। भेदपञ्चकस्यानादिसत्यत्वपरतया व्याख्यानमित्यर्थः । बुद्धिवैशद्यायार्थान्तरमाह- अथ वेति ।। कथमित्यतः परं व्याख्येय इति शेष इति भावः । मौलमित्यत इतिपदमैकपद्येन व्याचष्टे- आक्षेपात् परमिति ।। अनेन ‘इति चासावेष च इत्येष तस्मात् इत्यतः’ इति व्याख्यातं भवति । पदभेदेनापि व्याचष्टे- इत्याक्षेप इति ।। एतच्छब्दस्य यच्छब्दसापेक्षत्वात् तं योजयति- यतोऽत इति ।। आहेति स्थानितो ब्रूञस्सकर्म-कत्वात् कर्माध्याहरति- अर्थान्तरमिति ।। अनेन पादेन । श्रुतिर्विरोधिनी । ल्यब्लोपेति ।। ल्यपोऽदर्शनेऽपि तदर्थावगतावित्यर्थः । पदार्थमुक्त्वा वाक्यार्थमाह- यदिदमिति ।। परमार्थनामभ्रान्त्या शङ्कते- नन्विति ।। विवृणोति स्वाभिप्रेतयोगमिति शेषः ।