टीका

उदयनोक्तधर्मादिसिद्धिप्रकारनिरासः

टीका  

ननु न प्रयोजनाधीना प्रमेयव्यवस्थितिः किन्तु प्रमाणाधीना । नहि देवदत्तः पिपासित इत्येतावता मरौ वारि सिद्ध्यति । नच धर्मादौ प्रमाणमस्ति । प्रत्यक्षेण तदनवगमात् । अनुमानादीनां च प्रामाण्याभावात् ।

अत्राऽहोदयनः । यद्यदृश्व्ं न स्यात् न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत । नहि निष्फले दुःखैकफले वा कदाचित् कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते प्रागेव जगदिति । अत्र प्रश्व्व्यं किमनेन प्रमाणमुक्तमिति । अनुमानमर्थापत्तिर्वेति चेन्न । प्रत्यक्षैकप्रमाणवादिनं प्रति तदुपन्यासस्या-नुचितत्वात् । किञ्चैवं चैत्यवन्दनादिकमपि धर्मादिसाधनं स्यात् । तत्रापि हि शक्यते वक्तुम्- अन्यथा न कश्चिच्चैत्यवन्दनादौ घटेतेति । नैतदेवम् । यतो हेतुदर्शनादर्शनाभ्यां विशेषोऽस्ति । जीविकादिकं तत्र हेतुरस्ति नचात्र कश्चिदिति चेन्न । सर्वेषां चैत्यवन्दनादेर्जीविकादिमूलकत्व-कल्पनेऽनुभवविरोधात् । केषाञ्चित् तथात्वस्येष्टापूर्तयोरपि समत्वात् । तस्माच्चैत्यवन्दनादिकमिव इष्टापूर्तमप्यन्धपरम्परया विप्रलम्भेन वा प्राप्तमिति । प्रयोजनाभावान्नैवंविधं विप्रलम्भनं सम्भवतीति चेन्न । परचित्तवृत्तिगुरुतरप्रयोजनस्य इदानीन्तनैरस्माभिरपाकर्तुमशक्यत्वात् । त्वयाऽपि कथमिदं निश्चितमिति चेत्, न मयाऽपि निश्चितं किन्तु शङ्क्यत एव । तावताऽप्यनुमानादेरन्यथासिद्धि-शङ्काकलङ्कितस्य न प्रवृत्तिरिति ।

भावदीपः

शास्त्रस्य सप्रयोजनत्वाद्यर्थं धर्मादिकमङ्गीकार्यमिति यदुक्तं धर्माद्यभाववादी तदाक्षिपति- ननु न प्रयोजनेत्यादिना उच्यत इति पर्यन्तेन । मराविति ।। ऊषरभूमावित्यर्थः । शङ्कितैव चार्वाकः उदयनोक्तं परिहारमनूद्य निराह- अत्राऽहेति ।। प्रागेव जगदिति ।। न हि प्रवर्तत इत्यनुषङ्गः । प्रेक्षापूर्वकारिणः कस्या-प्यप्रवृत्तौ सुतरां जगतोऽप्रवृत्तिरिति भावः । प्रसाध्याङ्गकस्याप्युपन्यासार्हत्वात्तत्प्रामाण्यं साधयिष्यामीति वदन्तं प्रति दोषान्तरं चाऽह- किञ्चेति ।। चैत्यवन्दनादिप्रतिबन्दी मोचयितुं तद्वैषम्यमाहोदयनः- नैतदेवमित्या-दिना ।। तमेव विशेषं व्यनक्ति- जीविकेति ।। जीविका जीवनम् । चैत्यवन्दनादौ कृते सति तदीयाजीवनार्थं द्रविणादिकं प्रयच्छन्तीति जीवनादिकं दृष्टमेव किञ्चित्फलमस्ति । न चेष्टापूर्तादिकृतौ किमपि दृष्टं प्रयोजन-मस्ति । प्रत्युतार्थव्ययः कायक्लेश एवातोऽदृष्टमस्तीति । उक्तं हि जैमिनिना  ‘रागलोभमोहजीवनादिमूलकानां स्मृतिवचनानामप्रामाण्यं हेतुदर्शनाच्च’ इति सूत्र इति भावः । चार्वाक एव तद्वैषम्यं निराह- नेत्यादिना । समत्वादिति ।। इश्वपूर्तादि करोमीति द्रविणं याचित्वा  किञ्चिद्व्ययेनान्यस्य  जीवनार्थं  स्थापनसम्भवात्    लोके  तथा  विप्रलम्भदर्शनाच्चेति भावः ।। नैवंविधमिति ।। बहुवित्तव्ययायाससाध्येष्टापूर्तादिकृतिरूप-विप्रलम्भनमित्यर्थः ।। त्वयाऽपीति ।। पूर्वपक्षिणा चार्वाकेण त्वयाऽपीष्टापूर्तादिकं विप्रलम्भादिमूलं चैत्य-भावदीपः

वन्दनादिकमिवेति कथं निश्चितमित्यर्थः ।। तावतेति ।। मूलान्तरशङ्कामात्रेणापि ।। अनुमानादेरिति ।। प्रागुक्तानुमानार्थापत्त्योरित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.) 

समयित्वलोभात्तेनापि विषयादित्वेन धर्मादिकमङ्गीकार्यमित्युक्तौ धर्मादिरूपप्रमेयव्यवस्थितिः समयित्वलोभरूपप्रयोजनाधीनेत्यापन्नम् । तदुपर्याशङ्कते चार्वाकः- नन्विति । किन्त्विति ।। यथाऽहुः पदार्थविदः ‘मानाधीना मेयसिद्धिः’ इति । प्रमेयव्यवस्थितेः प्रयोजनाधीनत्वेऽतिप्रसङ्गमाह- नहीति ।। मरौ ऊषरभूमौ । तत्रापि पिपासानिवृत्तिरूपप्रयोजनसद्भावाद् वारिरूपप्रमेयसिद्धिः स्यादिति भावः । ननु तर्हि मयाऽपि प्रमाणेनैव धर्मादिरूपं प्रमेयं व्यवस्थाप्यत इति चेत्तत्राऽह- न चेति ।। न हीत्यर्थः । तदुपपादयति- प्रत्यक्षेणेति ।। अयं घट इतिवदयं धर्म इत्यनुभवाभावादिति भावः । एवं चार्वाकेण धर्माद्यङ्गीकारवादिनः सर्वान् प्रति धर्मादिसाधक-प्रमाणाभावे शङ्किते तं प्रत्युदयनोक्तं धर्मादिसाधनप्रकारं (माणं) दूषयितुमनुवदति- अत्राहोदयन इति ।। न स्यादित्यनन्तरं तर्हीति शेषः । इष्टं यजनम् । पूर्तम् अन्नप्रपादानादि ।। प्रागेव जगदिति ।। मूर्खो लोको न घटत इति किं वक्तव्यमित्यर्थः । अयं भावः । अनेन कर्मणा स्वर्गादिरूपं फलमस्तु वा मा वा । अस्तु वा इदं दुःखैकफलकम् । विरक्तानामस्माकमुभयमपि समानमिति ज्ञात्वा प्रेक्षावतां प्रवृत्त्या भाव्यमिति कदाचित्सम्भावितं दृष्टम् । लोके तादृशानामपि यदा निष्फले दुःखैकफलके वा कर्मणि प्रवृत्तिर्नास्ति तदा सुखमेव मे स्याद्दुःखं मनागपि मा भूदित्येवानुसन्धानवतां मूर्खाणां निष्फले दुःखैकफलके वा कर्मणि प्रवृत्तिर्नास्तीति किमु वक्तव्य-मिति । स्वयं समाधानं वक्तुमुदयनोक्तं समाधानं तावद्दूषयति- अत्र प्रष्टव्यमिति ।। अनेनेति ।। यद्यदृष्टं न स्यादित्यादिना ग्रन्थेनेत्यर्थः ।। अनुमानमर्थापत्तिर्वेति ।। इष्टापूर्तमदृष्टफलकं, प्रेक्षावत्प्रवृत्तिविषयत्वाद् यदेवं तदेवं, यथा सम्प्रतिपन्नमित्यनुमानं वा । इष्टापूर्तयोः प्रेक्षावत्प्रवृत्तिविषयत्वान्यथाऽनुपपत्त्याऽदृष्टफलत्व-सिद्धिरित्यर्थापत्तिर्वेत्यर्थः । अन्यथेत्यस्य यद्यदृष्टं न स्यादित्यर्थः । तथा च तत्प्रवृत्त्यन्यथानुपपत्त्याऽनुमानेन वा चैत्यवन्दनस्याप्यदृष्टसाधनत्वसिद्धिः स्यादिति भावः ।

नन्वस्मिन्ननुमानेऽन्यथासिद्धिः, अर्थापत्तेश्चान्यथाऽप्युपपत्तिरित्युदयनः शङ्कते- नैतदेवमिति ।। तमेव विशेषं व्यनक्ति- जीविकादिकमिति ।। जीवनोपायसाधनभूतं धनादिकमित्यर्थः । तत्र चैत्यवन्दने । चैत्यवन्दने कृते सति धनादिकं बौद्धैर्दीयत इति भावः ।। न चात्रेति ।। इश्वपूर्तकरणे च न जीविकादिकं हेतुरस्तीत्यर्थः ।। अनुभवविरोधादिति ।। तथा च कैश्चिज्जीविकामनपेक्ष्यादृष्टार्थमेव चैत्यवन्दनं क्रियत इति तत्प्रवृत्त्यन्यथाऽ-नुपपत्त्या तस्यापि धर्मसाधनत्वसिद्धिरित्यर्थः । ननु केषाञ्चित्तावच्चैत्यवन्दनादौ प्रवृत्तिर्जीविकाद्यपेक्षयैवाऽस्ति तत्प्रवृत्त्यन्यथाऽनुपपत्त्या नादृष्टसाधनत्वं तस्य सिध्यतीति चेत्तत्राऽह- केषाञ्चिदिति ।। चैत्यवन्दनादिप्रवृत्तेरिति शेषः ।। तथात्वस्येति ।। जीविकादिहेतुकत्वकल्पनस्येत्यर्थः ।। समत्वादिति ।। इष्टापूर्तकरणेऽयं परोपकारी समीचीन इति मत्वा धनं दास्यन्तीति जीविकादिबुद्ध्यैव केचिदिष्टापूर्ते कुर्वन्त्यतो न तत्प्रवृत्त्यन्यथाऽनुपपत्त्येष्टा-पूर्तयोरदृष्टफलकत्वमिति तदनुमानस्याप्यन्यथासिद्धिः, अर्थापत्तेश्चन्यथाप्युपपत्तिरिति भावः । उदयनः शङ्कते- (श्री.टि.) प्रयोजनाभावादिति ।। बहुवित्तव्ययायासाध्येष्टापूर्तविषयकं विप्रलम्भनं चैत्यवन्दनादाविव न सम्भवतीत्यर्थः ।। परेति ।। इष्टापूर्तकर्तृपूर्वकालीनपुरुषेत्यर्थः ।। गुरुतरेति ।। येन प्रयोजनेन बहुवित्तव्ययायास-साध्येष्टापूर्तविषयकं विप्रलम्भनं करोति तादृशगुरुतरप्रयोजनस्येत्यर्थः । उदयनः शङ्कते- त्वयाऽपि कथमिद-मिति ।।  इष्टापूर्तविषयकप्रवृत्तेरन्धपरम्परामूलकत्वं विप्रलम्भकत्वमूलकत्वं वा त्वयाऽपि कथं निश्चितमि-त्यर्थः ।। तावताऽपीति ।। इष्टापूर्तयोरन्धपरम्परादिमूलकत्वेनादृष्टफलकत्वाभावशङ्कनेनेत्यर्थः । आदिपदे-नार्थापत्तिग्रहणम् । अन्यथासिद्धिपदेनान्यथाप्युपपत्तिश्च ग्राह्या । तथा चेष्टापूर्तयोः प्रेक्षावत्प्रवृत्तिविषयत्वमदृश्व्-फलकत्वरूपसाध्यं विना विप्रलम्भादिमूलकत्वेनाप्युपपद्यत इत्यन्यथासिद्धिशङ्कयाऽन्यथाप्युपपत्तिशङ्कया वाऽनु-मानस्यार्थापत्तेर्वा न प्रवृत्तिरित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

अत्र  कुसुमाञ्जलिकृतोक्तसमाधानं दूषयितुमनुवदति- अत्राहेति ।। इष्टं यागादि, पूर्तं तटाकादि । न हीति ।। बलवदनिश्वननुबन्धीष्टसाधनताज्ञानजन्यत्वात्प्रवृत्तेरिति भावः ।। प्रागेवेति ।। प्रागेवेति निपात-समुदायोऽतिशयार्थः । उक्तहेतोरिति भावः ।। जीविकादीति ।। तथा च दृष्टेष्टसाधनताज्ञानादेव तत्र प्रवृत्तिः । न पारलौकिकेष्टसाधनताज्ञानादित्यर्थः ।। तथात्वस्येति ।। जीविकादिहेतुत्वस्येत्यर्थः । तथा च दृष्टेष्टसाधनता-ज्ञानादेवात्र प्रवृत्तिः । न तु पारलौकिकेश्व्साधनताज्ञानादिति साम्यमेवेति भावः ।

लघुप्रभा

(व्या.टि.)

।। पिपासित इति ।। ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ इतीतच्प्रत्यय इति भावः । मरौ ऊषर-प्रदेशे ।। इष्टापूर्तयोरिति ।। ‘चित्रं स्यात् क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि’ इत्यमरः । ‘अन्येषामपि दृश्यते’ इति पूर्वपददीर्घः ।। कश्चिदेकोऽपीति ।। कैमुत्यद्योतनायैकोऽपीति । कस्यचिदेकस्य प्रतिबन्धकवशान्न प्रवृत्तिरिति तु न शङ्क्यम् । अन्यस्याप्येकस्याप्रवृत्तेरिति वक्तुं कोऽपीत्यर्थकं कश्चिदिति विशेषणम् ।। प्रेक्षापूर्वकारीति ।। उन्मादरहितकर्तेत्यर्थः ।। प्रागेव जगदिति ।। विद्वत्समुदाय इत्यर्थः । मूर्खो लोक इति केचित् । तन्न । कैमुत्या-योगात् । न हि घटत इत्यनुषङ्गः ।। प्रत्यक्षैकेति ।। केवलार्थोऽयमेकशब्दः । तदिति । अप्रत्यक्षप्रमाणेत्यर्थः । घटेत चेष्टेत    शङ्कते- नैतदिति ।। जीविका वृत्तिः ।। इदानीन्तनैरिति ।। ‘सायञ्चिरम्’ इत्यादिना ट्युस्तुट् च ।