न च अभेदे कश्चिदागमः ..
शकुनिसूत्रदृष्टान्तेन श्रुतेर्भेदप्रतिपादकत्वसमर्थनम्
मूलम्
- न च अभेदे कश्चिदागमः । सन्ति च भेदे सर्वागमाः । तथा हि - ‘अतत्त्वमसि’ इति नवकृत्व उपदेशः सदृष्टान्तकः । न चायम् अभेदोपदेशः । ‘स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वा अन्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयते । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ।। १ ।।’
तत्त्वमञ्जरी
आगमविरोधोऽपि जीवेश्वराभेदे विद्यत इत्याह- सन्तीत्यादिना ।। न चाभेदे कश्चिदागम इति यदुक्तं तद् दृढीकर्तुं अभेदविषयत्वेन प्रतिवाद्यभ्युपगतागमं जीवेशभेदविषयत्वेनोदाहरति- तथा ह्यतत्त्वमसीति ।। ननु हन्तायमभेदोपदेशः । त्रयीविद्याप्रसङ्गेन भेदाभिनिवेशिनः श्वेतकेतोः तत्त्वमसीत्याद्यात्मैक्यबोधनात्मक इत्यत आह- न चायमिति ।। दृष्टान्तानां भेदविषयत्वप्रकटनार्थं दृष्टान्तभेदवाक्यान्युदाहरति- स यथेत्यादि ।।
टीका
एवं सर्वप्रमाणज्येष्ठसाक्षिप्रत्यक्षासिद्धत्वं तद्विरुद्धत्वं च ऐक्यस्य प्रथममुक्त्वाऽनुमानादपि आगमस्य प्राबल्यादिदानी तदसिद्धत्वं तद्विरुद्धत्वं च प्रतिपादयन् तदसिद्धत्वं तावद्दर्शयति- न च अभेद इति ।। जीवेश्वरयोरिति प्रकृतम् । एतच्चोपपादयिष्यते । आगमविरुद्धत्वं चाह- सन्ति चेति ।। तत्कथमित्यतः तावदेकमागमवाक्यं पठति- तथा हीति ।। जीवेश्वरभेदेऽस्तीति वर्तते । ‘स आत्माऽतत्त्वमसि’ स एव परमात्मा,(त्वन्तु) अतदसि- तस्मादन्यद्वस्त्वसीति उद्दालकेन पित्रा पुत्रं श्वेतकेतुं प्रति उपदेशः क्रियते । अतो नैतद्विरोचनं प्रति प्रजापतिवाक्यवत् प्रतारणमिति सूचयत्युपदेश इति । न चास्य स्वार्थे तात्पर्याभावः शङ्कनीयः, नववारमुपदेशात् । शकुनि-सूत्रादिदृश्वन्तैरुपपादनाच्च । प्रसिद्धं ह्यभ्यासोपपत्त्योस्तात्पर्यलिङ्गत्वमित्युक्तं नवकृत्वः सदृष्टान्तक इति । यद्यप्यसन्दिग्धानि जीवेश्वरभेदे वेदवाक्यानि सन्ति । तथापि ऐक्यस्यागमासिद्धत्वं तद्विरुद्धत्वं च उभयमुपपादयितुम् अस्य वाक्यस्योदाहरणम् । ननु तत्त्वमसीति पदविच्छेदेन अयं जीवेश्वराभेदोपदेशः प्रसिद्धः, तत्कथमकारप्रश्लेषेण पदं विच्छिद्य भेदोपदेशः कथ्यत इत्यत आह- न चायमिति ।। कुतो नेत्यत आह- स यथेति ।। स यथेत्यादिना १स्थाननवकेऽपि नवस्वपि प्रकरणेषु भेद एव दृष्टान्ताभिधानात् ।
एतदुक्तं भवति- यद्यप्युभयथा पदविच्छेदसम्भवेन इदं सन्दिग्धं वाक्यम् । तथापि असन्दिग्ध-भेदविषयदृष्टान्ताभिधानानुगुण्येन भेदोपदेश एवायमिति निश्चीयते न त्वभेदोपदेश इति । न ह्यन्यत्प्रतिज्ञाय अन्यत्र दृष्टान्ताभिधानमुपपद्यते । यथा सधर्मघटदृश्वन्ताभिधानसामर्थ्यात् ‘शब्दो नित्यः’ इति प्रतिज्ञा सन्दिग्धार्थाऽपि अनित्यताविषयेति निश्चीयते तद्वत् । यदा त्वेकमपि भेद-विषयत्वेनासन्दिग्धं दृष्टान्ताभिधानं सन्दिग्धप्रतिज्ञावाक्यार्थनिश्चयायालं तदा किमु वक्तव्यं नवस्वपि प्रकरणेषु नवासन्दिग्धार्थानि भेदविषयाणि दृष्टान्ताभिधानानीति ।
अत्र दृष्टान्ताभिधानादित्युपलक्षणम् । अन्यान्यपि नवप्रकरण्यां भेदविषयाण्येव वाक्यानि सन्ति । अतोऽपीति द्रष्टव्यम् । तत्रादौ जीवेश्वरयोरत्यन्तभेदबोधनायासहायस्यैव भगवतस्तेजो-बन्नादिसमस्तजगन्निमित्तकारणत्वादिरूपं जीवेष्वसम्भाव्यमानं महन्माहात्म्यमुपवर्णितम् । तच्चागममात्रवेद्यं न पुनरनुभवसिद्धमित्यतो जागरे जीवस्य स्वातन्त्र्याभिमानात् स्वापे तदभावात् तत्र जीवस्य भगवदाश्रयत्वमनुभवारूढं कर्तुं ‘स्वप्नान्तं मे सोम्य विजानीहि’ इत्युपक्रान्तम् । तत्र जागरस्वप्नयोः शरीरेन्द्रियमनसामितस्ततो विक्षेपेण श्रान्तस्य जीवस्य श्रमापनोदाय स्वापे परमेश्वराश्रयतामभिधाय तत्र दृष्टान्त उच्यते ‘स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वा अन्यत्र आयतनमलब्ध्वा बन्धनमेवोपाश्रयते’ इति । तथा प्रसिद्धयोरशनायापिपासयोः स्वरूपपर्यालोचनयाऽपि जीवानां भगवदधीनत्वं प्रतिपाद्योपसंह्रियते ।
भावबोधः
वस्त्विति ।। तथा च अतदिति नपुंसकत्वोपपत्तिरिति भावः । नवस्वपि प्रकरणेष्वपीति ।। एतेषां खण्डानां प्रत्येकं स्थानत्वाभावादिति भावः । ननु सन्मूला इत्यादीनां मूलोदाहृतवाक्यानां दृष्टान्तप्रतिपादकत्वा-भावात्कथं ‘स्थाननवकेऽपि भेद एव दृष्टान्ताभिधानात्’ इत्युक्तम् इत्यत आह-अत्रेति ।। असहायस्यैवेति ।। अनेन ‘सदेव सोम्य’ इत्याद्युपनिषद्वाक्यगतावधारणादिप्रयोजनमुक्तं भवति । जागरस्वप्नयोरिति ।। एतच्च ‘एवमेव खलु सोम्य एतन्मनः’ इति वाक्याभिप्रायकथनमिति ज्ञातव्यम् । तथा प्रसिद्धयोरिति ।। ‘अशनाया-पिपासे मे सोम्य विजानीहि’ इत्युक्तयोः यत्रैतत्पुरुष इत्याद्युक्तप्रकारेण पर्यालोचनया जीवस्येश्वरमूलकाशना- यापिपासावत्त्वस्य ईश्वरस्य जीवसम्बन्ध्यशनायापिपासामूलत्वस्य च प्रतीतस्य भगवदधीनत्वं विनाऽनुपपत्तिरिति जीवानां भगवदधीनत्वं प्रतिपाद्यत इत्यर्थः ।
भावदीपः
न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह- एतच्चोपपादयिष्यत इति ।। पराभिमतवाक्यानामग्रे व्याख्यास्यमानत्वादिति भावः । अनुषङ्गोक्त्याऽकाङ्क्षां पूरयति- जीवेश्वरभेदेऽस्तीति वर्तत इति ।। सन्तीत्यस्श्ण्वपरिणामेनास्तीति वर्तत इत्यर्थः । पूर्ववाक्यमुदाहृत्यार्थमाह- स आत्मेति ।। ननु त्वमसोऽसीति वाच्यं, कथमतदिति नपुंसकतेत्यतो वस्तुपदाध्याहारेण घटयति- तस्मादन्यद्वस्त्वसीति ।। उपदेशपदतात्पर्यमाह- अतो न तद्विरोचनं प्रतीति ।। व्यक्तमेतच्छान्दोग्येऽष्टमेऽध्याये । नवकृत्व इत्यस्य सदृष्टान्तक इत्यस्य च व्यावर्त्यशङ्कापूर्वमुपयोगमाह- न चास्येति ।। अतत्त्वमसीति वाक्यस्येत्यर्थः । असन्दिग्धानीति ।। द्वा सुपर्णेत्यादीनीति भावः । ‘स्थाननवकेऽपि भेद एव दृष्टान्ताभिधानात्’ इति चरमवाक्यार्थं तावदाह- स यथेत्यादिना ।। स्थाननवकेऽपीति ।। स्थानशब्दोऽत्र प्रकरणपरः, न प्रकरणजातपर इति भावः । तावता कथमुक्तशङ्कापरिहार इत्यत आह- एतदुक्तमिति ।। नवप्रकरण्यामिति ।। ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसमासे ‘द्विगोः’ इति ङीप् । इत्यपि द्रष्टव्यमिति ।। तथा च मूले सन्मूला इत्यादिवाक्योक्तिरप्यर्थवतीति भावः । स यथेत्यादि वाक्यं व्याख्यातुं सङ्गतिप्रदर्शनाय पूर्वप्रकरणस्य सङ्क्षेपेणार्थमनुवदति- तत्रेति ।। नवकृत्वो भेदोक्तिपरे षष्ठेऽध्याय इति वा दृष्टान्तनवकेन स आत्माऽतत्त्वमसीत्यस्य भेदोपदेशपरत्वे सतीति वाऽर्थः । ‘सदेव सोम्येदमग्र आसीत् । एकमेवाद्वितीयम् । तदैक्षत बहु स्याम्’ इत्येवमादेः खण्डषट्कस्यार्थः- असहायस्येत्यादि ।। उपक्रान्तमिति ।। अष्टमखण्डे । परमेश्वराश्रयतामिति ।। ‘सता सोम्य तदा सम्पन्नो भवति’ इत्यादिनेति भावः । अश्व्मखण्डस्थस्यैव ‘अशनायापिपासे मे सोम्य विजानीहि’ इत्यादेस्तात्पर्यानुवादः- प्रसिद्धयोरि-त्यादि ।। जीवेष्वनुभूयमानयोरित्यर्थः । जीवानां स्वतन्त्रत्वे दुःखहेत्वोस्तयोरयोगाद्भगवदधीनत्वमिति भावः।
वाक्यार्थदीपिका
(श्री.टि.)
प्रकृतमिति ।। तथा च जीवेशयोरिति शेष इति भावः । अतदिति नपुंसकलिङ्गोपपत्त्यर्थं तस्मादन्य-द्वस्त्वित्युक्तम् । प्रजापतिवाक्यवदिति ।। ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’ इति वाक्यवदित्यर्थः । न चास्येति ।। पित्रा पुत्रं प्रत्युपदिष्टस्यापीत्यर्थः । प्रसिद्धमिति ।। ‘उपक्रमोपसंहाराव-भ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ।।’ इति प्रमाणप्रसिद्धमित्यर्थः । आगमासिद्धत्वम् एतदागमासिद्धत्वमित्यर्थः । अकारप्रश्लेषेणेति ।। अकारप्रश्लेषस्य ‘अकः सवर्णे दीर्घः’ इति शास्त्रानुसन्धा-नाधीनतया प्रसिद्ध्यपेक्षया विलम्बोपस्थितिकत्वादिति भावः । स्थाननवकेऽपीत्यत्र स्थानशब्दस्य वाक्यं प्रकरणं स्थानमित्युक्तानेकप्रकरणात्मकस्थानरूपप्रमाणपरत्वं न सम्भवति । एकैकस्य खण्डस्यैकैकप्रकरणत्वेन प्रत्येकं स्थानत्वाभावादतः प्रकरणसमुदायवाचिना स्थानशब्देन तदेकदेशभूतं प्रकरणं लक्ष्यत इत्यभिप्रेत्य व्याचश्व्े- स्थाननवकेऽपि नवस्वपि प्रकरणेष्विति ।। अन्यद् ऐक्यम् । अन्यत्र भेदे । सधर्मेति ।। शब्दोनित्यः (श्री.टि.) कृतकत्वात् घटवत् इत्यत्र कृतकत्वरूपधर्मसहितघटरूपदृष्टान्ताभिधानसामर्थ्यादित्यर्थः । सन्दि-ग्धार्थेति ।। शब्दो नित्यः अनित्यः इत्युभयथाऽपि पदच्छेदसम्भवादिति भावः । ननु ‘सन्मूलाः सोम्येमास्सर्वाः प्रजाः सदायतनास्सत्प्रतिष्ठाः’ इति मूलोदाहृतानां वाक्यानां दृष्टान्तप्रतिपादकत्वाभावात् स्थाननवकेऽपि भेद एव दृश्वन्ताभिधानादिति कथमुक्तमित्यत आह- अत्रेति ।। अन्यानीति ।। सन्मूला इत्यादीनीत्यर्थः । अतोऽ-पीति ।। नायमभेदोपदेश इति सम्बन्धः । असहायस्यैवेति ।। ‘एकमेवाद्वितीयम्’ इति वाक्यगतैकशब्दार्था-नुवादोऽयम् । ‘एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानवाची’ इति कैयटोक्तेरस्त्येकशब्दोऽसहाय-वाची । ‘एकाग्नयः एकहलानि’ इति महाभाष्योक्तेश्चैकशब्दस्यासहायवाचित्वावगमादित्यर्थः । स्वप्नान्तं स्वप्नस्यान्तः सुप्तिः तं स्वप्नान्तम् । जागरस्वप्नयोरिति ।। ‘एवमेव खलु सोम्यैतन्मनो दिशं दिशं पतित्वा’ इति वाक्याभिप्रायानुवाद इति ज्ञातव्यम् । अभिधायेति ।। ‘सता सोम्य तदा सम्पन्नो भवति’ इति वाक्येनेत्यर्थः । अशनायापिपासयोरिति ।। ‘अशनायापिपासे सोम्य विजानीहि’ इत्युक्तयोरशनायापिपासयोः ‘यत्रैतत्पुरुषोऽ-शिषति नाम यत्रैतत्पुरुषः पिपासति नाम’ इत्यादिना उक्तक्रमेण पर्यालोचनया जीवस्येश्वरमूलकाश-नायापिपासावत्त्वस्येश्वरस्य जीवसम्बन्ध्यशनायापिपासामूलत्वस्य च प्रतीतस्य जीवानां भगवदधीनत्वं विनाऽनुप-पत्तिरित्येवं जीवानां भगवदधीनत्वं प्रतिपाद्येत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु प्रत्यक्षानुमानागमविरुद्धत्वात्तदसिद्धत्वाच्चेति प्रतिज्ञाऽनुसारेण प्रत्यक्षासिद्धत्वप्रत्यक्षविरुद्ध-त्वोपपादनानन्तरम् अनुमानासिद्धत्वतद्विरुद्धत्वयोरुपपादनीयत्वात्तदनुपपाद्यागमासिद्धत्वतद्विरुद्धत्वमेवोप-पाद्यानन्तरमनुमानासिद्धत्वतद्विरुद्धत्वोपपादनं निर्निबन्धनमित्यत अर्थग्रहणक्रमेण तथा प्रतिज्ञायामपि प्राबल्य-क्रमेणोपपादनप्रवृत्तेर्नानुपपत्तिरित्याह- एवमिति ।। उपपादयिष्यत इति ।। तथा हीत्यादिनेति शेषः । प्रजापति-वाक्यवदिति ।। ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच’ इति वाक्यवदित्यर्थः । नवकृत्व इत्यादेरानर्थक्यमाशङ्क्य तद्व्यावर्तनीयां शङ्कां दर्शयति- न चेति ।। नवानां खण्डानां प्रसिद्धस्थानलक्षणाना-क्रान्तत्वेन प्रत्येकं स्थानत्वाभावादाह- नवस्वपि प्रकरणेष्विति ।। ननु कथमनेनोक्तशङ्कापरिहार इत्यत आह- एतदुक्तं भवतीति ।। सन्दिग्धप्रतिज्ञावाक्यस्य असन्दिग्धदृष्टान्तवाक्यानुसारेण अर्थविशेषविषयकत्वं कुत आश्रयणीयमित्यतो लोके तथा दृष्टत्वादित्यभिप्रायेणानुरूपं दृष्टान्तमाह- यथेति ।। तर्हि भेदपरदृष्टान्त-वाक्यानुसारेण तत्त्वमसीति सन्दिग्धप्रतिज्ञावाक्यस्याकारप्रश्लेषेण भेदविषयतानिश्चयसम्भवान्मूले नवदृष्टान्ता-भिधानमनर्थकमित्यतस्तदुक्तेरभिप्रायमाह- यदा त्विति ।। मूले ‘भेद एव दृष्टान्ताभिधानात्’ इति विशेषतः कथनात्तदेव सन्दिग्धप्रतिज्ञावाक्यार्थनिर्णायकमिति भ्रान्तिपरिहाराय उपलक्षणतया तदुक्तिरिति व्याचष्टे- अत्रेति ।। सदेवेति श्रौतावधारणाभिप्रायमाह- असहायस्यैवेति ।। जागरे जीवस्य स्वातन्त्र्याभिमाना-दिति ।। अतो जीवस्य जागरे परमेश्वराधीनत्वं नानुभवारूढं कर्तुं शक्यमिति तत्र तदनुपपादनमिति भावः । तथा प्रसिद्धयोरिति ।। अत्र अशनायापिपासयोरित्येव पाठः । तथैव मूलकोशेषु दर्शनात् । स्वरसत्वाच्च । अशनापिपासयोरिति तु लेखकदोषपतितः ।
लघुप्रभा
(व्या.टि.)
जीवेश्वरयोरिति ।। अत्र इतीति तन्त्रं पूर्वोत्तरान्वयि । तत्र पूर्वस्मादितीत्यतः परं शेष इति शेषः । कुत इत्यत आह- इति प्रकृतमिति ।। एतदर्थकं जीवपरमात्मपदं प्रकृतं ‘कथं च जीवपरमात्मैक्ये’ सति प्रकरणप्रारम्भ इति भावः । यथाश्रुतार्थत्वे प्राग्जीवेश्वरपदाभावेन शब्दपरामर्शकेतिशब्दवैयर्थ्यमवधेयम् । प्रकृतं प्रकरणलब्धमिति वा । एतच्चेति प्रकृतवाक्यार्थमागमासिद्धत्वं परामृशति । सन्ति चेतीति ।। अत्रापि जीवेश्वरयो-रिति शेष इति शेषः । जीवेश्वरभेद इति ।। श्रुतिशेषाभ्यां जीवेश्वरभेदे बुद्धिसन्निहिते सतीत्यर्थः । अस्तीति ।। उपदेश इत्येकवचनानुरोधादस्तीत्यपि बुद्धौ वर्तत इत्यर्थः । सर्वं वाक्यं सावधारणमिति न्यायेन व्याचष्टे- स एवेति ।। त्वं त्विति ।। अनेन श्रुतावतत्तु त्वमिति पठितव्ये ‘ब्रह्मवादिनो वदन्ति सत्वै(सत्वे) यजेते(ता)न्वा(नु) उपस्तीर्णमिच्छन्ति’ इत्यादिवत् तुशब्दोकारस्य पररूपं द्रष्टव्यमिति सूचयति । यद्यपि पररूपप्रकरणे ‘तुन्वोर्वि निपात उपसङ्ख्यानम्’ इति वार्तिकादत्र वकारादिनिपाताभावेन तदयोगः । तथापि योगविभागः । स्वरित्यादि-वच्छान्दसो वा वर्णलोपः । ननु नञ्तत्पुरुषस्य परवल्लिङ्गत्वे आत्मशब्देन प्रकृतस्य तच्छब्देन परामर्शे असोऽसी-त्यस्य प्रसङ्गात् । अनियतलिङ्गत्वाभिप्रायेऽपि अनियतलिङ्गस्य पट्वादेः स्त्रीपरतामुपेत्य वटुरपट्वीति क्वाप्यदर्श-नात् । विशेष्यनिघ्नत्वेऽपि श्वेतकेतोः पुरुषस्य विशेष्यत्वेन तद्वाचकस्य युष्मच्छब्दस्य पुंलिङ्गत्वेन तस्यैव प्रसङ्गात् । एवं च असोऽसीति वक्तव्ये कथमतदिति चेन्न । ‘तत्सत्यम्’ इति नपुंसकेन प्रकृतपरामर्शित्वेन शब्दविशेषाविवक्षया वा अतदित्युपपन्नम् । विशेष्यनिघ्नत्वेऽपि वस्तुपदाध्याहारेण योजनीयमित्याह- अन्यद्वस्त्वसीति । अत्राधिकं विचारितं गुरुप्रभायाम् ।
अत्र परपक्षे तच्छब्देन व्यवहितसत्परामर्शायोगेनात्मपरामर्शे सोऽसीति निर्देशापत्तिर्बाधिका । किञ्चाद्वैत-बोधनस्य स आत्माऽसीत्येतावतैव सम्भवेन तत्त्वमित्यस्य वैयर्थ्यम् । न चास्मत्पक्षेऽयं दोषः । स एव परमात्मा, त्वं तु अतदिति वाक्यभेदाङ्गीकारात् । तुशब्देन वाक्यभेदद्योतनात् । यथा पूर्वतन्त्रे ‘अथैष ज्योतिरथैष विश्व-ज्योतिरथैष सर्वज्योतिः’ इत्यादावथशब्दः, एवं तुशब्दोऽपि वाक्यभेदकः । अत एवोत्तरतन्त्रे तुशब्दस्य वाक्य-भेदकत्वमुक्तं व्यतिहाराधिकरणे । तत्र हि ‘एष तु वाऽतिवदति यः प्राणेनातिवदति’ इत्युक्तप्राणातिवादात् सत्यातिवादस्य तुशब्देन विशेषणात्प्राणसत्यवादयोर्भेदः’ इत्युक्तम् । अमरोऽप्येवमाह- ‘त्वन्ताथादि न पूर्वभाक्’ इति । तदुक्तं छान्दोग्यभाष्ये ‘एष तु वा अतिवदतीति तुशब्दोऽर्थान्तरवाची’ इति । परपक्षे तुशब्दादिवाक्य-
(व्या.टि.) भेदकाभावात्सम्भवत्येकवाक्यत्वे वाक्यभेदो दुरुद्धरो दोषः स्यात् । अत एव पूर्वतन्त्रे ‘वाजपेयेन स्वाराज्यकामो यजेत’ ‘उद्भिदा यजेत पशुकामः’ इत्यादावेकवाक्यतालाभाय नामधेयत्वमुक्तम् ।
ननु तथाऽप्यतत्त्वमसीति पदविच्छेदोऽयुक्तः । तथा हि । नञ्तत्पुरुषः परवल्लिङ्गनियतो वा विशेष्यनिघ्नो वा । नाऽद्यः । अतदित्यत्र तच्छब्देन सत्परामर्शेन त्वं न तदिति विग्रहेणातदिति भाव्यत्वेऽपि तस्मादन्योऽसीति तदर्थो वर्णनीयः, तस्मादन्यदिति भावकथनमयुक्तम् । वस्तुपदाध्याहारश्चाधिकः । किञ्च तथात्वे इदं न तदिति विगृह्य अतदितिवत् इयं न तदिति विगृह्याप्यतदित्येवेयं न स इति विगृह्याप्यस इत्येव समस्येत । एवम् ‘इयं न सा’ इति विगृह्य ‘इयम् असा’ इति समासवद् ‘इदं न सा’ ‘इदं न स’ इति विगृह्यापि ‘इदम् असा’ ‘इदम् अस’ इति समस्येत । एवम् ‘अयं न स’ इति विगृह्य ‘अयम् अस’ इतिवद् ‘अयं न साऽयं न तत्’ इति विगृह्यापि ‘अयम् असाऽयम् अतत्’ इति समस्येत । न चैवंविधसमासः शाब्दिकानां हृदयङ्गमः । प्रत्युत तद्विपरीत एवाभियुक्तव्यवहारो लोके दरीदृश्यते । न द्वितीयः । तर्ह्यपीयं न सेति विगृह्यासेतिवदियं न तदियं न स इति विगृह्याप्यसेत्येव समस्येत । एवमयं न स इति विगृह्यासः शिव इतिवदयं न सायं न तदिति विगृह्याप्यस इत्येव समस्येत । एवमिदं न तदिति विगृह्यातदितिवदिदं न सा इदं न स इति विगृह्याप्यतदित्येव समस्येत । नचेष्टमिदं शाब्दिकानाम् । ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति सूत्रविरोधात् । प्रकृतेऽप्यस इति निर्देशापातेनातत्त्वमसीति श्रुतिव्याकोपात् । तस्मान्नात्र सवर्णदीर्घाश्रयणेन अतदिति पदविच्छेदो युक्त इति चेद्, अत्रोच्यते । नञ्तत्पुरुषः परवल्लिङ्ग इत्युत्सर्गः । क्वचिद्विशेष्यनिघ्नोऽपि । न चैवं परवल्लिङ्गसूत्रविरोधः । तस्यापि व्यवस्थितत्वात् । तथा हि । द्विविधं पदं नियतलिङ्गमनियतलिङ्गं च । यत्र परं नियतलिङ्गं तत्र तद्वल्लिङ्गम् । यथा गुणोऽद्रव्यमिति द्रव्यमगुण इति च । यत्र चानियतलिङ्गं परं तत्र विशेष्यलिङ्गम् । यथा वटुरपटुस्तटमपटु तट्यपट्वीति । तथा च प्रकृते तच्छब्दस्यानियतलिङ्गत्वाद्विशेष्यनिघ्नो नञ्त्पुरुष इति ‘तदोः सः सावनन्त्ययोः’ इति सभावे त्यदाद्यत्वे पररूपे चासोऽसीति निर्देश्व्व्येऽतदिति निर्देशोऽयुक्त इति वस्तुपदाध्याहारेण योजना कृता । न चातदिति पदस्य साक्षाद्युष्मद्विशेषणत्वेऽपि नानुपपत्तिः । ‘अलिङ्गे युष्मदस्मदी’ इति शाब्दिकमर्यादया युष्मदोऽप्यनियतलिङ्गत्वेन नपुंसकलिङ्गत्वादिति वाच्यम् । युष्मदः सम्बोध्यवाचकत्वेन सम्बोधनस्य च चेतन इवाचेतनेऽपि ‘ओषधे त्रायस्वैनं स्वधिते मैनहिंसीः’ ‘शृृणोत ग्रावाणो विदुषो नु’ इत्यादौ दर्शनेऽपि, तस्याचेतने गौणतया पुरुषस्यैव मुख्य-सम्बोध्यत्वम् । मुख्यामुख्यन्यायात्, त्वमसि श्वेतकेतो इति पुरुषपरसम्बुद्धिसमभिव्याहाराच्च त्वमित्यस्य पुरुष-परत्वेन पुंलिङ्गत्वान्नपुंसकस्यातत्पदस्य साक्षात्तद्विशेषणत्वायोगाद्वस्तुपदाध्याहारो न दोष इति रहस्यम् । न चैवम् ‘इयं न सा’ इति विगृह्य ‘असा’ इतिवत् ‘अयं न स’ इति ‘न तत्’ इति विगृह्याप्यसेत्येव स्यात् । एवम् ‘इदं न तत्’ इति विगृह्यातदितिवत् ‘इदं न सा’ इति ‘इदं न स’ इति विगृह्याप्यतदित्येव स्यात् । एवम् ‘अयं न स’ इति विगृह्य ‘अस’ इतिवत् ‘अयं न साऽयं न तत्’ इति विगृह्याप्यस इत्येव स्यादिति वाच्यम् । इष्टापत्तेः । तच्छब्दस्यानियतलिङ्गत्वेन विशेष्यनिघ्नत्वात् । तस्मान्न समासानुपपत्तिः । अधिकं तु गुरुप्रभायाम् । एवमेव पदं विच्छिद्य श्रुतिर्व्याख्याता सामसंहितायाम्-
(व्या.टि.) ‘अतत्त्वमसि पुत्रेति यदुक्तं गौतमेन तु ।
नवकृत्वः सदृष्टान्तं सर्वभेदेन केशवः ।
तस्मै नमो भगवते चिदचित्परमाय ते ।।’
इति च । वस्तुतस्तु परपक्षे तत्त्वमसीत्यद्वैतबोधनमयुक्तमेव । तथा हि - परमते ‘साक्षादपरोक्षाद्ब्रह्म’ इति श्रुतेः सर्वदाऽपरोक्षैकरसं ब्रह्मेति, तदेव इदंशब्देन निर्दिश्याद्वैतं बोधनीयम् । ‘इदं सर्वं यदयमात्मा’ इतिवत् । न तु भूतपरोक्षवाचकतत्पदेन परामर्शो युक्तः । तत्रापि ‘एतद्ब्राह्मणान्येव पञ्च हवीषि’ इत्यत्रेव सन्निहितभूत-परामर्शकैतच्छब्देन ‘ऐतदात्म्यमिदं सर्वम्’ इति पूर्वसार्वात्म्योपदेशवच्च, चिदद्वैतमपि प्रकृतप्रत्यभिज्ञानाय एतच्छब्देनैव ब्रह्म परामृश्य ‘एष आत्मा त्वमसि’ इत्येव बोधनीयतया ‘तत्सत्यं स आत्मा तद्’ इति च तच्छब्दत्रयं विरुद्धम् । व्यवहितभूतपरोक्षत्वाभावात् । तथात्वे तत्त्वमसीति लटप्रयोगापातेनासीति विप्रतिषिद्धं च । जरद्गवादि-वाक्यवत् व्यवहितभूतपरोक्षनिर्देशायोगेन लटोऽयोगात् । तस्मात्परमते सन्निहितवर्तमानापरोक्षपरामर्शसम्भवे व्यवहितभूतपरामर्शो न युक्तः । नतरां तदद्वैतोपदेश इति युक्तमुत्पश्यामः । भगवद्गीतातात्पर्यनिर्णये तु तदित्येव पदं विच्छिद्य ऐतदात्म्यमिति नपुंसकलिङ्गेन प्रकृतमेतदीयं परामृश्यत इत्याह । तत्र न कोऽपि दोषः प्रादुःष्यादिति भावः ।
पित्रेत्याप्त्युक्तिः । उपदेश इति ।। प्रजापतिवाक्यवदिति ।। तात्पर्याभाव इति ।। सर्वतात्पर्यलिङ्गशृङ्गा-भ्यासोपपत्ती दर्शयति- नववारमिति ।। गणनाभ्यावृत्तौ कृत्वसुचो विधानादित्यर्थः । दृष्टान्तैरिति ।। तदुपदेशै-रित्यर्थः । नन्वभ्यासस्यैकप्रकारासकृदुक्तिरूपस्य वैयर्थ्यापादकत्वेन उपपत्तेर्युक्तिरूपत्वेन सम्भावकत्वेनानिर्णाय-कत्वात् कथं तात्पर्यग्राहकत्वमित्यत आह- प्रसिद्धं हीति ।। ‘उपक्रमोपसंहारौ’ इति स्मृत्या इति शेषः । अथवा अभ्यासोपपत्तिभ्यां क्वापि तात्पर्यानिर्णयात् कथं तत्त्वमित्यत आह- प्रसिद्धं हीति ।। पूर्वोत्तरतन्त्रयोरिति शेषः । तथा हि- पूर्वतन्त्रे तावत् अभ्यासाधिकरणे-
‘समिधो यजतीत्यादावेकत्वमुत भिन्नता ।
धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः ।
अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे ।
विधित्वं श्रुतितो भाति सन्निधेरनुवादता ।।’ इति ।
दर्शपूर्णमासयोः श्रूयते ‘समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति’ इति । तत्र पञ्चकृत्वः श्रुतयजतिना यागभेद उत यागैक्यमिति सन्दिह्य यजति, ददाति, जुहोति इत्यादिष्विव धातुभेदाभावेन तद्विरुद्धभावनाभेदाभावाद् आख्यातैक्यप्रयुक्तं भावनैक्यमेवेति पूर्वपक्षं प्रापय्य यजतिपदाभ्यासेन कर्मभेदः । तदैक्येऽभ्यासानर्थक्यात् । न च समिधो यजतीति प्रथमवाक्यविहितयागानुवादेन तनूनपादादयो द्रव्यरूपा देवतारूपा वा गुणा विधीयन्त इति वाच्यम् ।
(व्या.टि.) ‘तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः ।
देवताया विधिस्तत्र दुर्बलं तु परस्परम् ।।’
इत्युक्तदेवताविधायकान्यतमाभावात् । ‘दध्ना जुहोति’ इतिवत्तृतीयाभावेन द्रव्यविधानायोगाच्च । तेषामपि यागनामत्वाच्च । समिद्वाक्यस्य यागविधित्वे च विहितस्य विधानायोगात् तत्तन्नामकानि यागान्तराणि विधी-यन्ते । न चैवं संज्ञाभेदात् कर्मभेदापत्त्या उत्तराधिकरणसाङ्कर्यमिति वाच्यम् । ‘अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरनेन सहस्रदक्षिणेन यजेत’ इत्युत्तराधिकरणोदाहरणे, यागावगमात् प्रागेव सञ्ज्ञात्वावगमात् संज्ञया कर्मभेदः । इह तु यजतिविहितयागानामविशेषपुनःश्रुतिरूपाभ्यासात् भेदेऽवगते भिन्नानामेकसमित्सञ्ज्ञायोगात् तनूनपादादीनामपि नामत्वं कल्प्यत इति न संज्ञया तद्भेदः किन्त्वभ्यासादेवेति निर्णीतं भेदलक्षणे । तथा तत्रैव वाजिनाधिकरणे ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र वाजमन्नं येषामिति योगेन वाजिपदेन प्रकृतामिक्षादेवतानुवादिना प्रकृतकर्मानुवादेन वाजिनविधानमिति पूर्वपक्षं प्रापय्य ‘सा वैश्वदेव्यामिक्षा’ इत्युत्पत्तिविधिशिष्टामिक्षाविरोधेन निराकाङ्क्षे पूर्वकर्मणि अन्यगुणविधानानुपपत्तिरूपोपपत्त्या तद्विशिष्टयागान्तरविधिरिति श्रुतितात्पर्यं निर्णीतम् । उत्तरमीमांसायां ‘आनन्दमयोऽभ्यासात्’ ‘आकाशस्तल्लिङ्गात्’ इत्यादौ अभ्यासोपपत्तिभ्यां वाक्यतात्पर्यनिर्णयः सुविस्पश्व् इति भावः ।
ननु ‘न ते महित्वमन्वश्नुवन्ति’, ‘न ते विष्णो जायमानः’, ‘हरिर्हरन्तमनुयन्ति देवाः’, ‘त्वमग्निं हव्यवाहनं समित्सोतस्यामश्राम्य प्रजापतिः’, ‘स देवानसृजत’, ‘जुष्टं यदा पश्यत्यन्यमीशम्’, ‘अङ्गान्यन्या देवताः’, ‘परमात्मा व्यवस्थितः’, ‘द्वे ब्रह्मणी वेदितव्ये’, ‘पृथगात्मानं प्रेरितारं च मत्वा’, ‘द्वा सुपर्णा’, ‘भिन्नोऽ-चिन्त्यः’, ‘ईश्वरः सर्वभूतानाम्’, ‘तमीश्वराणां परमं महेश्वरम्’, इत्यादिस्पश्व्वेदवाक्यानि विहाय किमस्पष्ट-वाक्योदाहरणेनेत्याशङ्क्य परिहरति- यद्यपीत्यादिना ।। आगमेति ।। ऐक्यपरमहावाक्यतया प्रसिद्धेत्यर्थः । अकारप्रश्लेषेणेति ।। नञो नलोपेनाकारमात्रावशेषे तस्य सवर्णदीर्घेणेत्यर्थः । स्थाननवकेऽपीति ।। नवानां वर्गो नवकम् ‘सङ्ख्याया अतिशदन्तायाः कन्’ इति वर्गार्थे कनिति भावः । असन्दिग्धं सन्दिग्धस्य निर्णायक-मित्येतन्निदर्शयति- यथेति ।। तथा ‘अक्ताः शर्करा उपदधाति’ इत्यत्र विध्युद्देशेऽञ्जनकरणश्रवणाद् घृततैलव-सादीनामनेकेषां तत्साधनानां सत्त्वात् सन्दिग्धमक्तपदं ‘तेजो वै घृतम्’ इत्यसन्दिग्धवाक्यशेषेण घृताक्तपरतया निर्णीतम् ‘सन्दिग्धेषु वाक्यशेषात्’ इत्यत्र । ईदृशं वैदिकमप्युदाहार्यम् । स्थाननवकेऽपीति मौलापिपदद्योतितं कैमुत्यमाह- यदा त्वेकमिति ।। उपलक्षणमिति ।। दृष्टान्ताभिधानरूपं हेत्वभिधानमित्यर्थः । अन्यान्य-पीति ।। सन्मूलाः, सदायतनाः, सत्प्रतिष्ठाः इत्यादीनीति भावः । भेदविषयाण्येवेति ।। ‘प्रजानां सुखदुःखेन राजाऽऽप्नोति शुभाशुभम्’ इत्यादौ प्रजाशब्दस्य चेतनपरत्ववन्मूलमूलिभावाश्रयाश्रयिभावादेर्भेदाविनाभावेन स्पश्व्वाक्यानीत्यर्थः ।
(व्या.टि.) तत्र नवप्रकरण्या भावं विवक्षुराद्यप्रकरणे सृष्टिस्थानाभिप्रायमाह- तत्रादाविति ।। असहायस्यैवेति सदेवेत्यवधारणवर्णनम् । तेजोऽबन्नादीति ।। ‘सेयं देवतेमास्तिस्रो देवता अनेन जीवेन’ इत्यादिनेति शेषः । निमित्तेति ।। देवताशब्दादीक्षतिकर्मणः ‘तदैक्षत’ इति व्यपदेशाच्चेति भावः ।
‘तेजोभिमानिनी लक्ष्मीः प्राणस्त्वबभिमानवान् ।
अन्नाभिमानी रुद्रश्च तिस्रस्ता देवताः पुरा ।।’
इति छान्दोग्यभाष्यमनुसन्धायाह- जीवेष्वसम्भाव्यमानमिति ।। महन्माहात्म्यमिति ।। ‘आन्महतः’ इति स्थान्यादेशविपर्ययेण समानाधिकरणजातीययोरिति ‘अल्पाच्तरं पूर्वम्’ इति परनिपातेन वा आत्वस्यानित्यत्व-ज्ञापनादात्वाभावः । इत्थमेवोक्तं गीताभाष्यटीकायाम् । तस्यापि ‘व्यर्थं सत्किञ्चिदिष्टं ज्ञापयति’ इति परिभाषैव मूलम् । महद्भ्यो माहात्म्यमिति वा, भिन्नं पदं वाऽवधेयम् । आगममात्रेति ।। आदिसृष्टेरध्यक्षासम्भवादिति भावः । स्वातन्त्र्याभिमानादिति ।। करणस्वाम्याभिमानादित्यर्थः । ‘यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्’ इति तल्लक्षणश्रवणादित्यर्थः । सोम्येति ।। ‘सोममर्हति यः’ इति यप्रत्यय इति भावः । तत्र स्वप्नान्तः सुषुप्तिः। मनोनामा पुरुषः । प्राणनामा भगवान् । ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इति संसारिणो ब्रह्मप्राप्तिमुक्त्वा ‘स यथा शकुनिः’ इति ‘सन्मूलाः’ इति चोपसंहारादिति छान्दोग्यभाष्यं मनसि निधायाह- तत्रेत्यादिना ।। विक्षेपः उपहतिः । श्रान्तस्येति ।। ‘अनुनासिकस्य क्विझलोः’ इति दीर्घः । अनेनास्वातन्त्र्ये प्रमाणमुक्तम् । यथोक्तं छान्दोग्यभाष्ये ‘अस्वातन्त्र्यं श्रान्तस्य निश्चितमेव । न हि श्रमः स्वेच्छया युज्यते’ इति । अभिधायेति ।। ‘एवमेतन्मनो दिशं पतित्वाऽन्य-त्रायतनमलब्ध्वा प्राणमेवोपाश्रयते’ इति दार्ष्टान्तिकवचनेनेति शेषः । जागरेऽपि ईश्वराधीनत्वं जीवस्य अशनाये-त्यादिना प्रस्ताव्य ‘यत्रैतत्पुरुषोऽशिषति नाम, यत्रैतत्पुरुषः पिपासति नाम’ इत्यादिना बोधितम् । तद्भावमाह- तथेति ।। स्वरूपेति ।। अन्नपानोपशमनीयत्वस्वरूपम् । ‘आप ओषधयो वनस्पतयः प्रजाः पशव उपजीवनीयाः’ इति तैत्तिरीयश्रुतेरिति भावः । ‘अपां च खलु वौषधीनां च रसमुपजीवामः’ इति च । भगवदिति ।। अन्नपानीययोर्भगवत्सृष्टत्वेन तदधीनत्वादिति भावः ।