नचोपकारेण तस्य प्रयोजनम् ..
चार्वाकसमयानर्थक्यसमर्थनम्
मूलम्
- नचोपकारेण तस्य प्रयोजनम् । अदृष्टाभावात् । अतो धर्माद्यभावं वदता स्वसमयस्याऽनर्थक्यमङ्गीकृतमेवेति नासौ समयी ।।
तत्त्वमञ्जरी
उक्तार्थं निगमयति- अत इति ।।
टीका
नन्वपकुर्वन्तु सर्वे; तथाऽपि हितबुद्ध्या शास्त्रं प्रणीतवतोऽस्योपकारित्वमस्त्येव । नहि पङ्कमग्नां गामुद्दिधीर्षुर्यदि गवा शृङ्गेण हन्यते तर्हि गोरपकारी भवतीति चेत् । तदा वक्तव्यम् । स तादृगुपकारः किं शास्त्रं प्रणयतः स्वयमेव प्रयोजनरूप उत तेनान्यत् प्रयोजनं भवति । नाऽद्यः । सुखप्राप्त्यादीतरत्वात् । द्वितीयेऽपि किं दृश्व्ं प्रयोजनमदृश्व्ं वा । आद्यं दूषयति- नचेति ।। तस्य शास्त्रप्रणेतुः । उक्तप्रकारेण सर्वविद्वेषविषयत्वात् प्रणाडिकान्तराभावादिति भावः । द्वितीयाभावे हेतुमाह- अदृष्टेति ।। न केवलं शास्त्रप्रणेतुः प्रयोजनाभावः किन्तु तस्यापि हिंसादिप्राप्तिरवर्जनीया, अदृश्वभावादेवेति । सङ्क्षेपकरणे कारणं सूचयन् चार्वाकस्यासमयित्वापादनमुपसंहरति- अत इति ।। अविद्यमानोऽर्थो विषयः प्रयोजनं च यस्य तदनर्थकं तस्य भाव आनर्थक्यम् । अङ्गीकृतमेव अङ्गीकृतप्रायमेव । अदृश्व्विषयाद्यभावस्य स्वयमेवाङ्गीकृतत्वेनार्धं तावदवसितं भारस्य । दृष्टविषयादिनिरासश्चायत्नसाध्य इति प्रतिवादिनो नात्रात्यन्तं कृत्यमित्युपसंह्रियत इति भावः । असौ धर्माद्यभावमभ्युपगच्छन्न समयी स्यात् । अतः समयित्वलोभात् तेनापि विषयत्वेन धर्मादिकमङ्गीकार्यम् । तत्सिद्धेरन्यथाऽनुपपत्त्याऽपौरुषेयं वाक्यमपीति वाक्यशेषः ।
भावदीपः
।। तादृगिति ।। लोकस्य कृतः कामोपभोगादिरूप उपकार इत्यर्थः ।। उक्तप्रकारेणेति ।। इदानी त्वित्यादिना शास्त्रप्रणेतरि चेत्यादिना वोक्तप्रकारेणेत्यर्थः । प्रणाडिकेति ।। फलस्योपपादने प्रागुक्तप्रणाडिकातः प्रणाडिकान्तराभावात् तस्याश्च दूषितत्वादिति भावः ।। हिंसादीति ।। धनवनिताद्यपहार आदिशब्दार्थः । अदृष्टाभावादेवेति ।। गुरोर्हिंसाद्यकरणे परलोकसाधनादृष्टाभावादिति वा, हिंसादिकरणे नरकाद्यनर्थहेतु-दुरदृश्वभावादिति वाऽर्थः । अर्थशब्द उभयार्थ इति भावेनाऽह- अर्थो विषयः प्रयोजनं चेति ।। अदृष्टविषयादी-त्यादिपदेन प्रयोजनपरिग्रहः ।। अयत्नसाध्य इति ।। वक्तृश्रोत्रोरभिमतमनन्यसाध्यमित्यादिना, शास्त्रं न कामान् ददातीत्यादिना चोक्तदिशेति भावः । बाधवारणायोक्तम्- न समयी स्यादिति ।। परमप्रकृतमुपसंहरति- अतः समयित्वलोभादिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
दृष्टम् उपकारजनितजनानुरागप्रयुक्तसम्पदादिरूपम् ।। उक्तप्रकारेणेति ।। धर्माधर्मज्ञानाभाव इत्यादिनोक्तप्रकारेणेत्यर्थः । ननु सर्वविद्वेषविषयत्वाभावोपपादनमुपकारेण दृष्टं प्रयोजनं च प्रकारान्तरेणोप-पादयिष्यामीति चेत्तत्राऽह- प्रणाडिकान्तरेति ।। प्रकारान्तराभावादित्यर्थः ।। किन्तु तस्यापीत्यादि ।। कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सति हि शास्त्रप्रणेतुर्लोककृतहिंसाद्यभावः स्यात्, तत्तु त्वयैव त्याजितम् । अतो हिंसादिप्राप्तिस्तस्याप्यवर्जनीयैवेत्यर्थः । अङ्गीकृतमित्यनेन सङ्क्षेपकरणे कारणं सूचितम् । कथमङ्गीकृत-प्रायमित्यतस्तदुपपादयति- अदृष्टेत्यादिना ।। वाक्यशेष इति ।। वाक्यस्य शेषो वाक्यशेष इति वाक्यरूपः शेष इति वाऽर्थः ।
लघुप्रभा
(व्या.टि.)
प्रणीतवत इति क्तवतुः ।। उद्दिधीर्षुरिति ।। ननु ‘किरश्च पञ्चभ्यः’ इति धृङः किरादित्वात् सन इटि, उद्दिधरिषुरिति वक्तव्यम् । कथम् उद्दिधीर्षुरितीति चेन्न । भौवादिकस्य धृञ एतद्रूपे न दोषः । गवा कर्त्रा । शृङ्गेण करणेन । प्राप्त्यादीत्यादिपदेन दुःखनिवृत्तिरुच्यते ।। प्रणाडिकेति ।। द्वारेत्यर्थः । मूले चशब्दम् आवर्त्य हिंसादिनाऽपकारस्यैव प्राप्तिरित्यनुवर्त्य तेन तस्येति श्रुतेन चान्वयमुपेत्याऽह- न केवलमिति ।। तस्या-पीति ।। न केवलं लोकस्येत्यर्थः । इष्टाभावहेतुमेवानिष्टप्राप्तावपि व्यापारयति- अदृष्टाभावादेवेति ।। ‘प्रादिभ्यो नञश्चोत्तरपदलोपो वा वक्तव्यः’ इति विद्यमानपदलोपं मत्वा व्याख्याति- अविद्यमान इति ।। आनर्थक्य-मिति ।। भावे ष्यञ्प्रत्ययः । अवसितम् अवरोपितम् ।। अयत्नसाध्य इति ।। यद्यप्यर्थाभावे यदव्ययं नञ् तस्य ‘अव्ययम्’ इत्यव्ययीभावे, ‘नाव्ययीभावादतोऽम् त्वपञ्चम्याः’ इत्यमादेशे, अयत्नमिति भाव्यम् । तथाऽप्य-व्ययीभावेन सह तत्पुरुषो विकल्प्यते । ‘रक्षोहागमलध्वसन्देहाः प्रयोजनम्’ इति ‘अद्रुतायामसंहितम्’ इति च भाष्यवार्तिकप्रयोगात् । तेन अनुपलब्धिरविवाद इत्यादिवदयत्न इत्यपि सिद्ध्यति । अयत्नेन साध्य इति विगृह्य अयत्नसाध्य इति समासो बोध्यः । वस्तुतस्तु अयत्नमित्यस्याऽव्ययीभावत्वेऽपि तद्गर्भतत्पुरुषे, अमः ‘सुपो धातु’ इत्यनेन लुकि श्रवणप्रसक्तेरभावः ।