कविर्मनीषी..
विश्वसत्यत्वप्रतिपादकश्रुतिस्मृत्युदाहरणम्
मूलम्
-‘कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यः समाभ्यः ।’
‘यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ।’
‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।’
‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’
‘अनाद्यनन्तं जगदेतदीदृक्प्रवर्तते नात्र विचार्यमस्ति ।
न चान्यथा क्वापि च कस्य चेदमभूत्पुरा नापि तथा भविष्यत् ।
असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि ।
यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’,
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः’ इत्यादेश्च ।
तत्त्वमञ्जरी
कविः वाग्मी । मनीषी मेधावी । अन्यान् परिभावयतीति परिभूः । यथार्थत्वेनार्थान् व्यदधात् । शाश्वतकालवर्तिसंवत्सरव्यवहारार्थम् ।
स भगवान् यत् चिकेत चकार । तन्न मोघं न मिथ्या । स्पृहाविषयं द्रव्यं तेजो वा भक्तेभ्यो दाता ।
इन्द्राब्रह्मणस्पती परमेश्वरमुख्यप्राणौ मघवाना यशस्विनौ । युवयोरिदं विश्वं सत्यमेव । आपो देवताश्च वां सत्यसृष्टिव्रतं प्रमिनन्ति प्रजानन्ति ।
अस्य महतः सत्यस्य महनीयानि सत्यानि करणानि कर्माणि प्रवोचं घ नु ब्रुवाणि हि किम्?
अप्रतिष्ठम् कालत्रयेऽपि स्थितिबाध्यमिति यावत् । अपरस्परसम्भूतं परतः परतस्तार-तम्येनानुत्पन्नम् । किमन्यत्? कथमन्यथेत्याकाङ्क्षायां कामहैतुकमाहुः । ‘अज्ञानहेतवः कामाः काममूलाः प्रवृत्तयः । प्रवृत्तिनिर्मितं सर्वं जगदेतच्चराचरम्’ इति हि तन्मतम् ।
टीका
न केवलं जगतो मिथ्यात्वं क्वापि नोच्यत इत्येव, किन्तु श्रुत्यादिवाक्यसमुदायात् सत्यत्वं च गम्यत इत्याह- कविरिति ।। कविः सर्वज्ञः । मनीषी मनसामीशिता । परिभवति सर्वानिति परिभूः सर्वतो वरः । स्वयं भूराश्रयो यस्यासौ स्वयम्भूः स्वतन्त्रः परमेश्वरोऽर्थान् महदादीन् शाश्वतीभ्यः समाभ्यः सर्वेष्वपि कालेषु याथातथ्यतो याथार्थ्येनैव सत्यानेव व्यदधात् निर्मित-वान् । निर्माणे शक्तिप्रदर्शनार्थं कविरित्यादि ।
स्पार्हं स्पृहणीयं हविरादिकं वसु भक्तेभ्यो जेतोत प्राप्ताऽपि तथा तेभ्यः स्पार्हं वसुफल दातोत दाताऽपि परमेश्वरो यद् विश्वं चिकेत चकार तत् सत्यमित् सत्यमेव । कुतः? न मोघम् अर्थक्रियास्वनुपयुक्तं न भवति ।
हे मघवानौ धनवन्तौ इन्द्राबृहस्पती युवोर्युवयोरधीनं विश्वं सत्यमित् सत्यमेव । एवं कुतः, वां युवयोः सत्यजगत्पालनादिकं व्रतं कर्म आपश्चन सर्वा देवता अपि प्रमिनन्ति जानन्ति, न केवलमहमेव ।
अस्य महतः सर्वोत्कृष्टस्य सत्यस्य परमेश्वरस्य महानि महान्ति सत्या सत्यानि करणानि कर्माणि नु इदानीम् घ एव प्रवोचम् प्रावोचम् । विषयस्यासत्यत्वे कर्मणां सत्यत्वमयुक्तम् ।
ईदृक् नानाविधम् । अन्यथा बाधितम् । तामेव शक्तिं दर्शयति- यः सत्यरूपमिति ।। सत्यकर्मा सत्यकर्मनामा ।
अप्रतिष्ठं बाधितत्वात् । ते असुराः । अपरस्परसम्भूतं परमेश्वराधिष्ठितायाः प्रकृतेर्महान्, महतोऽहङ्कार इत्यादिक्रमेण परस्परसम्भूतं न भवति । सत्यं न चेत् किं तर्हि ? अन्यत् सदस-द्भ्याम् । परस्परसम्भूतं न चेत् किं तर्हि ? कामहैतुकम् । काम इति कार्येण कारणं मिथ्याज्ञानमुप-लक्ष्यते । नष्टात्मानो दुष्टचित्ताः । अल्पबुद्धयोऽल्पज्ञानाः । प्रभवन्ति कलियुगादौ । क्षयाय अनिष्टप्राप्तये ।
भावबोधः
कविरित्यनेनैकार्थतापरिहारायाह- मनसामीशितेति ।। ‘अच्छेन्द्राब्रह्मणस्पती’ इत्युत्तरवाक्यानुसारेण विशेष्यमाह- इन्द्राबृहस्पती इति ।। अनाद्यनन्तमिति वाक्यं जगतोऽनाद्यनन्तत्वप्रतिपादकमपि साक्षात्कथं तत्सत्यत्वप्रतिपादकमित्यतोऽन्यथेतिपदं व्याचश्व्े- बाधितमिति ।। अत एव कस्य चेदमित्याद्यपि साधकम् । अन्यथेत्यस्य प्रकारवैचित्र्यादिपरत्वे तु तदलग्नकमिति भावः । परस्परसम्भूतत्वस्यान्योन्याश्रयग्रस्तत्वेन तथाऽङ्गी-कार एव निन्दाहेतुर्न तु तद्विपरीताङ्गीकार इत्यतो व्याचश्व्े- परमेश्वराधिष्ठिताया इति ।।
भावदीपः
कविरित्यनेनापौनरुक्त्यायाह- मनसामीशितेति ।। पृषोदरादित्वात्साधुरिति भावः । परिभू-रिति ।। भवतेः क्विप् । भूरित्यस्यार्थः आश्रय इति । जेतोतेत्यस्यार्थः प्राप्तापीति । उतशब्दोऽप्यर्थ इति भावः । पद्मनाभतीर्थीये तु ‘बल्यादिदैत्यराज्याख्यं स्पार्हं वसु जेता इन्द्रादिभ्यो दाता च’ इत्युक्तम् । अनुपयुक्तं न भवतीत्यनन्तरमत इति योज्यम् । मघशब्दस्य कर्मनिर्णये धनवाचित्वोक्तेराह- धनवन्ताविति ।। ‘अच्छेन्द्रा-ब्रह्मणस्पती’ इत्युत्तरार्धे श्रवणादाह- इन्द्राबृहस्पती इति ।। स्वस्वामिसम्बन्धे षष्ठी इति भावेनोक्तम्- युवयो-रधीनमिति ।। चनशब्दार्थस्यापीत्युक्तस्यार्थमाह- न केवलमहमेवेति ।। प्रमिनोमीत्यन्वयः । अत इति योज्यम् । प्रघान्विति श्रुत्यर्थमाह- अस्येति ।। इन्द्र पवित्रमिति प्रकृतेन्द्रपरामर्शी अस्येति शब्दः । अडभावश्छान्दस इति भावेनाह- प्रावोचमिति ।। प्रावोचमेवेति वा सत्यान्येवेति वा एवकारान्वयः । ननु सृष्टिपालनादिकर्मणां सत्यत्वोक्त्या विश्वसत्यत्वे किमायातमित्यत आह- विषयस्येति ।। अनादीति वचनार्थमाह- ईदृगिति ।। अन्यथेत्यनूद्यार्थमाह- अन्यथा बाधितमिति ।। अभूत्पुरेत्यादिनाऽन्वयः । क्वापि देशे कस्यापि पुरुषस्य ज्ञानं बाधितं नाभूदित्यर्थ इति भावः । तामेवेति ।। ‘शक्तिं हरेर्ये न विदुः’ इत्युक्तामित्यर्थः । एकार्थत्वाद्धेतु-हेतुमद्भावानुपपत्तेराह- सत्यकर्मनामेति ।। किमित्यस्यार्थः- सत्यं न चेत्किं तर्हीति ।। अन्यदित्युत्तरम् । प्रतियोगिनमाह- सदसद्भ्यामिति ।। सदसद्विलक्षणमित्यर्थः । लक्षणायां सम्बन्धप्रदर्शनायोक्तम्- कार्येण कारणमिति ।। मिथ्याऽज्ञानमिति ।। मिथ्याभूतमज्ञानमित्यर्थः । ‘अविद्याक्षेत्रमुत्तरेषाम्’ इत्युक्तेरज्ञानकार्यत्वात्कामादेः । दुष्टेषु नष्टशब्दप्रयोगादात्मनाशायोगाच्चाह- नष्टात्मान इति ।। बुद्धिर्मन इति भ्रमनिरासायाह- अल्पज्ञाना इति ।।
वाक्यार्थदीपिका
(श्री.टि.)
कविरित्यनेन पुनरुक्तिपरिहाराय व्याचश्व्े- मनसामीशितेति ।। प्रेरक इत्यर्थः । ‘परिभूः सर्वतो वरः’ इति प्रमाणोक्तं व्याख्यानमुपपादयितुं विग्रहं दर्शयति- परिभवतीति ।। सर्वान् प्रति परि परितः, समन्तात् स्वमेव भवति वशीकरोतीत्यर्थः । तल्लब्धार्थमाह- सर्वतो वर इति ।। स्वयं स्वयमेव । भूरित्यस्यार्थः आश्रय इति । विभक्तिव्यत्ययमभिप्रेत्याह- सर्वेष्वपीति ।। स्पृहणीयम् अपेक्षणीयम् । वसु द्रव्यम् । अनुपयुक्तं न भवतीति ।। तथा चार्थक्रियाकारित्वात्सत्यत्वमिति भावः । धनवन्ताविति ।। ‘धनं वाव मघम्’ इति श्रुतेरिति भावः । ‘अच्छेन्द्राब्रह्मणस्पती’ इत्युत्तरवाक्यानुसारेण आह- इन्द्राबृहस्पती इति ।। षष्ठ्यर्थसम्बन्धं दर्शयति- अधीनमिति ।। सर्वदेवताप्रत्यक्षमेव तत्र प्रमाणमित्याह- वां युवयोरिति ।। व्रतं कर्मेति ।। ‘व्रतं विष्टीः कर्म’ इति तन्नामसु पाठादित्यर्थः । आप इत्यस्यार्थः- सर्वा देवता इति ।। ‘आपाः इत्याप इति’ इति खण्डे अप्शब्दस्य सर्वदेवतावाचकत्वोक्तेः । ‘आपो वै सर्वा देवताः’ इति श्रुतेश्चेति भावः । चनेत्यस्यार्थः- अपीति ।। जानन्ती-ति ।। तथा च प्रमाणदृष्टत्वात्सत्यत्वमिति भावः । घ एवेत्यादि ।। तथा च प्रावोचं घ प्रावोचमेवेत्यर्थः । नन्वत्र परमेश्वरकर्मणामेव सत्यत्वं प्राप्तं न तु जगत इत्यत आह- विषयस्येति ।। कर्मविषयीभूतस्य जगत इत्यर्थः । नन्वनाद्यनन्तमिति वाक्ये जगतोऽनाद्यनन्तत्वमेवोच्यते न सत्यत्वमित्यतस्तल्लाभायान्यथेत्येतद्व्याचश्व्े- बाधितमिति ।। तथा च क्वापि देशे काले च कस्यापि पुंसोऽन्यथा बाधितं नैवेत्यर्थः । अत्राबाधितत्वोक्त्या सत्यत्वमवगम्यते यतस्तदेव सत्यत्वमिति भावः । प्रकर्षेण बहुकालमिति यावत्, न तिष्ठतीत्यप्रतिष्ठमिति पदार्थमभिप्रेत्य तत्र हेतुमाह- बाधितत्वादिति ।। न हि बाधितं शुक्तिरजतादिकं बहुकालं तिष्ठतीति भावः । त आसुरा इति ।। तथा चात्र असत्यत्ववादिनां निन्दया सत्यत्वमवगम्यत इति भावः । नन्वपरस्परसम्भूतत्वोक्त्या कथं तेषां निन्द्यत्वम्, अन्योन्याश्रयग्रस्तत्वेन परस्परसम्भूतत्वोक्तेरेव निन्दाहेतुत्वादित्यतोऽपरस्परसम्भूतत्वं यथा निन्दाहेतुः स्यात्तथा व्याचश्व्े- परमेश्वराधिष्ठिताया इत्यादिना ।। सदसद्भ्यामिति ।। सदसद्विलक्षण-त्वेनानिर्वाच्यमित्यर्थः । आत्मशब्देन जीवग्रहणे तस्य नाशासम्भवादाह- १नष्टचित्ता इति ।। अल्पज्ञानाः अल्पसम्यग्ज्ञानाः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
‘सार्वज्ञ्यात्कविरित्येव कथ्यते’ इत्यादि ईशावास्यभाष्यं मनसि निधाय कविरित्यादिश्रुतिं व्याचश्व्े- कविस्सर्वज्ञ इत्यादिना ।। सर्वेषु कालेष्विति ।। ‘व्यत्ययो बहुलम्’ इति स्मरणात् श्रुतौ पञ्चमी सप्तम्यर्थेति भावः । याथातथ्यत इति तृतीयान्तात्तसिरिति भावेनाह- याथार्थ्येनैवेति ।। श्रुतौ औकारविभक्तेः ‘सुपां (पां.टि.) सुलुग्’ इति आकारादेश इति भावेनाह- मघवानाविति ।। ‘मघ इति धनम्’ इति कर्मनिर्णयं मनसि निधायाह- धनवन्ताविति ।। विशेष्याकाङ्क्षायामुत्तरश्रुत्युक्तेन्द्राबृहस्पत्योः सम्बन्ध इति भावेनाह- इन्द्राबृहस्पती इति ।। ‘आपो वै सर्वा देवताः’ इति श्रुतिं मनसि निधायाह- सर्वा देवता इति ।। ‘बहुलं छन्दसि’ इति स्मरणादडभावश्छान्दस इति भावेनाह- प्रावोचमिति ।। जगत्सत्यत्वस्य श्रुतावश्रुतत्वेऽपि अर्थतस्तदवगमकत्वाद्युक्तं तत्र प्रमाणीकरणमिति भावेनार्थतस्तदवगतिं दर्शयति- विषयस्येति ।। मूले सृष्ट्वा त्वभूत्सत्यकर्मेत्येव पाठः । आत्मभूरिति तु लेखकदोषपतित इति द्रष्टव्यम् । उपलक्षणहेतुभूतशक्यसम्बन्ध-मुपदर्शयति- कार्येणेति ।। आत्मस्वरूपस्य नित्यत्वेन नाशायोगादन्तःकरणपरत्वेऽपि संसारदशायां नाशा-भावाद्व्याचश्व्े- दुष्टचित्ता इति ।।
लघुप्रभा
(व्या.टि.)
ननु मिथ्यात्वानुक्तावपि तत्कथं तत्सत्यत्वं लभ्यते । क्वापि तदनुक्तेः । न हि मिथ्यात्वानुक्तिमात्रेण तत्सत्यत्वोक्तिलाभः । मिथ्यात्वसत्यत्वयोः परस्परविरहरूपत्वेऽपि मिथ्यात्वानुक्तिसत्यत्वोक्त्योः परस्परविरह-रूपत्वाभावादित्यत आह- न केवलमित्यादिना ।। अत्र श्रुतिस्मृत्युदाहरणान्तिमवाक्यस्यापेक्षितप्रतिज्ञांशं पूरयित्वा व्याचश्व्े- श्रुत्यादीति ।। ज्ञानार्थात्कौतेः ‘अच इः’ इत्यौणादिकेकारप्रत्यये गुणावादेशयोः कविरिति ज्ञ इति लब्धावपि कर्मविशेषानुपादानात्सर्वज्ञ इति व्याख्यातम् । मनसामिति ।। ईशेर्णिनिप्रत्यये ईशी ईशिता । व्यत्ययेन शकारस्य षकारः । शकन्ध्वादित्वात्पररूपत्वमिति भावः । परिभवतीति ।। सर्वानिति योग्यतया सम्बन्धः । परिपूर्वाद्भवतेः क्विबिति भावः । भावं प्रकाशयति- सर्वत इति ।। भूरिति गौणी वृत्तिः । तद्गुणमाह- आश्रय इति ।। विभक्तिव्यत्यय इत्याह- सर्वेष्वपीति ।। विपूर्वस्य दधातेरर्थमाह- निर्मितवा-निति ।। स्पृहणीयमिति ।। स्पृहाशब्दात् ‘विचित्रा हि तद्धितगतिः’ इति विषय इत्यर्थे तद्धितः । वसुपदार्थमाह- हविरादिकमिति ।। प्राप्तापीति ।। दातापीति च ।। संवदति चेममर्थं यजुर्वेदः - ‘देहि मे ददामि ते नि मे देहि नि ते दधे’ इति । चिकेतेति ।। किते रोगापनयनार्थकत्वाभावात् ‘गुप्तिज्किद्भ्यः सन्’ इति सनोऽभावः । मघवानाविति ।। मघशब्दो वैदिकनिघण्टुषु धननामसु पठितः । तदनुरोधेन व्याचश्व्े- धनवन्ताविति ।। रूपन्तु ‘छन्दसीवनिपौ वक्तव्यौ’ इति वनिपि ‘सुपां सुलुग्’ इत्याकारादेशे वनिपो वकारस्य दीर्घे च भवति । ‘अच्छेन्द्राब्रह्मणस्पती हविर्नोऽलं युजेव वाजिना जिगातम्’ इत्युत्तरार्धानुरोधेन विशेष्यं द्विरूपं निरूपयति- इन्द्राबृहस्पती इति ।। ‘देवताद्वन्द्वे च’ इत्यानङ् । युवोरिति ।। ‘ओसि च’ इत्येत्वे प्राप्ते पररूपमिति भावः । श्रुतौ चनेत्येकं पदं समुच्चयार्थमिति व्याचश्व्े- देवता अपीति ।। ‘आपो वै सर्वा देवताः’ इति श्रुतेरिति भावः । ‘मीञ् हिंसायाम्’ इति धातोरुपसर्गोन्नीतमर्थमाह- प्रमिनन्ति जानन्तीति ।। अत एव न ‘हिनुमीना’ इति (व्या.टि.) णत्वम् । प्वादिषूपसङ्ख्यानाद्धातोर्ह्रस्वः । परमेश्वरस्येति ।। सत्यमिति सूर्यान्तर्गतनाम । ‘सत्यस्यापिहितं मुखम्’ इति, ‘सत्यं चित्रश्रवस्तमम्’ ‘सत्यं परं धीमहि’ ‘सैव हि सत्यादयः’ इति श्रुतिस्मृतिसूत्रेषु प्रयोगादिति भावः । ‘सदिति प्राणः तीत्यन्नं यमित्यसावादित्यः’ इति अन्नप्राणादिनियामकत्वेन तत्रैव तच्छब्दनिर्वचनाच्च । महानीति शौ तलोपश्छान्दसः । ऋचि सत्येत्यत्र ‘छन्दसि बहुलम्’ इति शेर्लोपः । ‘घोऽव-धारणे’ इति ऋग्भाष्यमनुसन्धायाह- एवेति ।। मन्त्रे दीर्घस्तु ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्वाणाम्’ इति छान्दसः। ऋचि प्रवोचमित्यत्र ‘छन्दसि व्यवहिताश्च’ इत्युपसर्गव्यवधानम्, ‘छन्दस्यमाङ्योगेऽपि’ इत्यडभावं च मत्वा व्याचश्व्े- प्रावोचमिति ।। स्वप्रतिज्ञासिद्धये श्रौतार्थापत्तिमाह- विषयस्यासत्त्व इति ।। ईदृगिति ।। ‘त्यदादिषु दृशोऽनालोचने कञ्च’ इति इदम्युपपदे दृशेश्चकारात् क्विनि ‘इदंकिमोरीश्की’ इति इदम ईशादेश इति भावः । बाधितमिति ।। बाधायां निरवधिकत्वाभावात् । अवधिरेव सत्य इति बाधितमन्यथाभवतीति भावः । सत्य-कर्मनामेति ।। ‘सत्यः सत्यपराक्रमः’ इति सहस्रनामसु पाठात्, ‘अथैनमाहुः सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते’ इति श्रुतेश्चान्वर्थकं नामेति भावः । अप्रतिष्ठमिति हेतुगर्भविशेषणमित्याह- बाधितत्वादिति ।। असुरा इति ।। असुराणां प्रकृतत्वादित्यर्थः । अन्यदिति ।। तत्प्रतियोगिनमाह- सदसद्भ्यामिति ।। दुष्टचित्ता इति ।। दुश्व्े नष्टपदप्रयोगादिति भावः । कलियुगादाविति ।। ‘मणिमत्पूर्वका दुष्टा दैत्या आसन्कलौ युगे । ते कुशास्त्रे प्रवर्तन्ते हरिवायुविरोधिनः’ इति स्कान्दवचनादित्यर्थः । इष्टप्राप्तौ हर्षः । अनिष्टप्राप्तौ हर्षक्षयः सुप्रसिद्ध इति भावः । अथ वा मिथ्योपदेशेन तमोगतयो भवन्ति । ‘क्षि निवासगत्योः’ इति धातोः ।
‘यावत्प्रयोजको ज्ञाने त•वत्तावच्छुभाधिकः ।
तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत्समम् ।
तमः............................... ।।’ इत्यादि ऋग्भाष्योक्तेरित्यर्थः ।