उक्तं च नारदीये ..
विष्णोस्सर्वोत्तमत्वे समस्तवेदानां परमतात्पर्यसमर्थनम्
मूलम्
- उक्तं च नारदीये - ‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।
सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ।।
सर्वेषामपि वेदानाम् इतिहासपुराणयोः ।
प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते ।।’ इति ।।
टीका
अस्तु वाक्यस्य सिद्धार्थे प्रामाण्यम् । तथाऽपि समतीतक्षराक्षरत्वादिलक्षणे नारायणे सकलसदागमानां प्रामाण्यमित्येतत्कुतः सिद्ध्येत् । नहि निश्चायकप्रमाणेन विना सम्भावना-मात्रेणार्थसिद्धिर्भवति । सम्भावनाकारणमेव प्रागुक्तं समस्तम् । ‘ज्ञेय एतैः’ इति वाक्यमपि न विशिश्व्भगवत्स्वरूपप्रतिपादकत्वं सर्वेषां सदागमानामाचश्व्े । वक्ष्यमाण(णामा)शङ्कां च न परिहरतीत्यत आह- उक्तं चेति ।। न केवलं सम्भावितमिति चार्थः । अत्राऽद्येन विशेषणद्वयेना-शेषसद्गुणत्वं लक्ष्यते । तृतीयेन निर्दोषत्वं, चतुर्थेन समतीतक्षराक्षरत्वम् । सर्वस्मादुत्तम इति विगृह्य ‘पञ्चमी’ इति योगविभागात् समासः । ज्ञापयन्तीत्यत्र सर्वेषामपि वेदानामित्यादिकं सिंहावलो-(कित)कनन्यायेनानुवर्तते । अर्थवशाद्विभक्तिविपरिणामः । ननु धर्मादिकमपि वेदादिप्रति-पाद्यम् । अन्यथा तदसिद्धिप्रसङ्गात् । अतः कथमेवमुच्यत इत्यत उक्तम्- महातात्पर्यमिति ।। अत्र उक्तलक्षणे नारायणे । प्रमाणानां च सर्वेषां पञ्चरात्रादीनाम् । अन्यत्तु धर्मादिकं, तदर्थं भगवत्प्रतिपत्त्यर्थमेवोच्यते वेदादिभिः । तत्प्रकारश्च प्रागेव सङ्क्षेपेणोक्त इति ।
।। इति कार्यतावादः ।।
भावबोधः
वक्ष्यमाणशङ्कामिति ।। ‘ननु धर्मादिकमपि वेदप्रतिपाद्यम्’ इत्यादिना वक्ष्यमाणामित्यर्थः । वेदादिभिरिति ।। ज्ञापयन्तीत्यत्रेवात्राप्यनुवृत्त्यादिकमभिप्रेत्यैवमुक्तमिति ज्ञातव्यम् ।
भावदीपः
सम्भावना वा कथं सिद्धेत्यत आह- सम्भावनाकारणमेवेति ।। ‘न चैतेषां वचनानामेवाप्रामा-ण्यम्’ इत्यादिनोक्तं वेदादेः प्रामाण्यम्, वेदापौरुषेयत्वम्, सिद्धार्थे व्युत्पत्तिः, तत्र वाक्यानां पर्यवसानेन प्रामाण्यमित्येतत्समस्तमित्यर्थः । वेदादिसर्वसदागमानां प्रामाण्ये सिद्धार्थप्रमापकत्वे च सिद्धे सति भगवानुक्त-विशेषणविशिश्व्ः सिद्धार्थः सन्नपि सिद्धार्थप्रमापकवेदादिसदागमबोध्यो भवितुमर्हतीति सम्भावना सिद्ध्यतीति भावः । ‘ज्ञेयः एतैः सदा युक्तैर्भक्तिमद्भिः’ इति प्रागुदाहृतवाक्येन तन्निश्चयोऽस्त्वित्यत आह- ज्ञेय एतै-रिति ।। तत्र जनार्दन इत्येव श्रवणेन विशेषणविशिष्टत्वेनाश्रवणादिति भावः । वक्ष्यमाणेति ।। सर्वेषां भगवत्परत्वे कर्माद्यसिद्धिरिति शङ्कामित्यर्थः । न परिहरतीति ।। इत्यादिवाक्यमित्यनुषङ्गः । षष्ठीसमासपक्षे समतीतेत्यादि-विशेषणेनैकार्थता न लभ्यत इत्यत आह- इति विगृह्येति ।। नन्वेवं ‘पञ्चमी भयेन’ इति सूत्रे भयशब्देनैव पञ्चम्यन्तस्य ‘चोराद् भयं चोरभयम्’ इत्यादावेव समासोक्तेरिह कथं समास इत्यत आह- पञ्चमीति योग-विभागादिति ।। पञ्चमीति एको योगः, भयेनेत्यपरः । योगः सूत्रम् । तत्राऽद्यस्यायमर्थः पञ्चम्यन्तपदं येन केनचित्समस्यत इति । भयेनेति सूत्रे च पञ्चमीत्यनुवर्तने । पञ्चम्यन्तं भयशब्देन समस्यत इति । आद्यसूत्रं क्वाचित्कप्रौढप्रयोगविषयम् । द्वितीयं सार्वत्रिकम् । ज्ञापयन्तीत्यत्र कर्त्राकाङ्क्षायामाह- ज्ञापयन्तीत्यत्रेति ।। सिंहावलोकनेति ।। सिंहो हि गच्छन् पश्चाद्देशं पश्यतीति न्यायेनेत्यर्थः । अर्थेति ।। आकाङ्क्षितकर्त्रर्थवशादि-त्यर्थः । विभक्तीति ।। प्रथमाविभक्तीत्यर्थः । अत्रेत्यनुवादः । चस्त्वर्थ इत्युपेत्याऽह- अन्यत्त्वि-ति ।। प्रागेवेति ।। इयं मातेत्यादिवाक्यतात्पर्योक्तिप्रस्ताव इति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
समतीतक्षराक्षरत्वादिलक्षण इति ।। ‘सदागमैकविज्ञेयम्’ इत्यत्र वीत्युपसर्गस्य विलक्षणतया ज्ञेयमित्यर्थस्योक्तत्वादिति भावः । ननु समतीतक्षराक्षरत्वेनेतरविलक्षणत्वात्तत्रैव नारायणे सकलसदागमानां प्रामाण्यं सिद्ध्यतीति चेत्तत्राऽह- न हीति ।। ननु वेदस्यापौरुषेयत्वेऽप्रामाण्यापत्तेः सर्वस्यापि कार्यपरत्वाच्च नेश्वरप्रतिपादकत्वमिति शङ्काया अपौरुषेयत्वसमर्थनेन कार्यतापरत्वनिराकरणेन निराकृतत्वादुक्तलक्षणे नारायणे सकलसदागमानां प्रामाण्यं निश्चितं भविष्यतीत्यत आह- सम्भावनाकारणमेवेति ।। प्रागुक्तमिति ।। कार्यतापरत्वनिराकरणादिकं ‘सकलसदागमानामुक्तलक्षणे नारायणे प्रामाण्यम्’ इत्यस्य सम्भावकमेव न निश्चायकमिति भावः । ननु ज्ञेय एतैरिति वाक्ये सर्वेषां सदागमानां सदागमैकविज्ञेयत्वादिविशिष्टभगवत्स्वरूप-प्रतिपादकत्वस्योक्तत्वान्निश्चायकं प्रमाणमुक्तमस्तीति चेत्तत्राऽह- ज्ञेय एतैरिति वाक्यमपीति ।। जनार्दन एतैरेव ज्ञेय इत्येवोक्तत्वादुक्तविशेषणविशिश्व्भगवत्प्रतिपादकत्वं सकलसदागमानां नोक्तमित्यर्थः । केचित्तु, यद्यपि तत्र विशेषणार्थकतुशब्दस्य जनार्दन इत्यनेन सम्बन्धं कृत्वा ‘सदागमैकविज्ञेयत्वादिविशेषणविशिष्टो जनार्दन एतैरेव ज्ञेयः’ इति यदा व्याख्यातं तदा नाचश्व् इत्ययुक्तम् । तथाऽपि स्पश्व्ं नाचश्व् इति व्याख्यानाददोष इत्याहुः । तुष्यत्विति न्यायेनाऽह- वक्ष्यमाणामिति ।। ज्ञेय एतैरिति वाक्यमिति वर्तते । ‘ननु धर्मादिकमपि वेदादिप्रतिपाद्यम् अन्यथा तदसिद्धिप्रसङ्गात् । अतः सर्वस्यापि वेदादेः कथं नारायणज्ञापकत्वमुच्यते’ इत्यनुपदमेव वक्ष्यमाणामाशङ्कामित्यर्थः । निर्दोषत्वमिति ।। रोगवाचि-आमयशब्दस्य सर्वदोषोपलक्षकत्वेन रोगाभाववाचि- अनामयपदेन निर्दोषत्वं लक्ष्यत इत्यर्थः । ननु सर्वोत्तममित्यत्र कः समासः । न च सर्वस्मादुत्तम इति विग्रहं कृत्वा पश्चात्पञ्चम्या उत्तमपदेन समास इति वाच्यम् । ‘पञ्चमी भयेन’ भयशब्दयोगे पञ्चमी समस्यते, चोराद्भयं चोरभयमिति भयशब्दयोगे एव पञ्चम्याः समासविधानात्, प्रकृते च भयशब्दयोगाभावात् । अतस्सर्वस्मादुत्तम इत्येव वक्तव्यमित्यत आह-पञ्चमीति योगविभागादिति ।। योगो वाक्यं तद्विभागादित्यर्थः । तथा च पञ्चमी-त्येकं वाक्यम् । पञ्चमी येन केनापि पदेन समस्यत इति तदर्थः । भयेनेत्यपरं वाक्यम् । भयशब्देन च समस्यत इति तदर्थः । तथा च सर्वस्मादुत्तम इति विगृह्य विग्रहं कृत्वा अनन्तरं पञ्चम्या उत्तमपदेन समासे सति सर्वोत्तममिति युक्तमिति भावः । ननु तर्हि सर्वेषां वेदानां ज्ञापयन्तीत्यसङ्गतिरिति चेत्तत्राऽह- अर्थवशादिति ।। अर्थसङ्गतिवशात् षष्ठीविभक्तेः प्रथमात्वेन विपरिणामः कर्तव्यः । तथा च सर्वे वेदाद्या ज्ञापयन्तीत्यर्थो द्रष्टव्यः । तदसिद्धीति ।। धर्मादिविषये प्रत्यक्षस्याप्रवृत्तेः । केवलनानुमानस्य चाप्रामाण्यादिति भावः । एवमुच्यत इति ।। सर्वस्यापि वेदादेः कथं नारायणज्ञापकत्वमुच्यत इत्यर्थः । उक्तलक्षणे सर्वज्ञमित्यादिनोक्तलक्षणविशिश्व्े । धर्मादौ त्ववान्तरं तात्पर्यमिति भावः । धर्मादिकं निवृत्तकर्मादिकम् । ननु कथं धर्मादीनां भगवत्प्रतिपत्त्यङ्गत्वमित्यत आह- तत्प्रकारश्चेति ।। भगवत्प्रतिपत्त्यङ्गत्वप्रकार इत्यर्थः । प्रागेव सङ्क्षेपेणोक्त इति ।। ‘अनेनैतां वेदवाक्यानां (श्री.टि.) योजनां सूचयति’ इत्यादिना प्रकारद्वयेन वेदवाक्यानां योजनाकरणसमय इत्यर्थः । एकान्तभक्ताभि-प्रायेण योजनाकरणसमये ‘ततो वाक्यार्थज्ञानादवाप्तपरमानन्दः तत्साक्षात्कारं कामयते । तं प्रति तदुपासना विधीयते । सा च प्रक्षीणान्तःकरणमलस्यैव सम्भवतीति तदर्थं कर्मविधयः प्रवर्तन्ते’ इति । तथा तदितरभक्ताभि-प्रायेण अथ वेत्यादियोजनाकरणसमये ‘ततः पुनरसौ जिज्ञासते केनोपायेनाहमिदमस्वाभाविकं रूपं हित्वा स्वरूपेणावस्थितः स्यामिति । तं प्रति परमेश्वर एव प्रसन्नस्तदुपाय इति तत्स्वरूपं निरूप्यते । ततः कथमसौ प्रसीदतीत्यपेक्षायां तत्साक्षात्कारस्तदर्थं श्रवणादिकं तदङ्गतया कर्माणि विधीयन्ते ।’ इति सङ्क्षेपेणास्माभिरुक्त इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
नन्वेतद्वाक्यशेषे ‘केवलागमविज्ञेयः’ इति विशिष्टत्वेन विलक्षणत्वेन चाऽगमविज्ञेयत्वोक्तेः समतीत-क्षराक्षरत्वादिविशिष्टे नारायणे सदागमानां प्रामाण्यसिद्धिर्भविष्यतीत्यरुचेराह- वक्ष्यमाणशङ्कां चेति ।। नारायणस्यैव सदागमवेद्यत्वे धर्मादिसाधकप्रमाणाभावेन धर्मादिसिद्धिर्न स्यादित्येवंरूपामित्यर्थः । ननु सर्वोत्तम इत्यत्र न समानाधिकरणसमासोऽङ्गीकर्तुं शक्यः । तथा सति ‘सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ इति सूत्रेण प्रथमानिर्दिष्टस्योत्तमशब्दस्य पूर्वनिपातप्रसङ्गात् । नापि सर्वस्मादुत्तम इति पञ्चमीसमासः । भयभीतभीतिभीभिरेव पञ्चम्याः समासस्य ‘पञ्चमी भयेन’ इत्यनेन नियमितत्वादुत्तमशब्दस्य भयादित्वाभावेन तदयोगात् । नापि षष्ठीसमासः । ‘न निर्धारणे’ इति षष्ठ्याः समासप्रतिषेधादित्यतो ‘नृणां द्विजः श्रेष्ठः’ इत्यादाविव जात्यादिभि-रेकदेशस्य समुदायादपृथक्करणान्निर्धारणाभावात् शेषषष्ठ्या अयं समासः । ‘यस्मान्निर्धार्यते यश्चैकदेशो निर्धार्यते यश्च निर्धारणहेतुरेतत्त्रितयसन्निधाने सत्येव निर्धारणं भवतीति तत्रैव षष्ठीसमासप्रतिषेधः’ इति ‘द्विवचन-विभज्योपपद’ इति सूत्रे कैयटोक्तेः । अथ वा ‘यतश्च निर्धारणम्’ इति निर्धारणे सप्तम्या अपि विधानात्तस्याश्च समासाप्रतिषेधात् सर्वेषूत्तम इति निर्धारणसप्तम्याः ‘सञ्ज्ञायाम्’ इति समासो भविष्यति । न चैवं ‘न निर्धारणे’ इत्यनर्थकं प्राप्नोति तद्विषयेऽपि तत्प्रसङ्गादिति वाच्यम् । षष्ठीसमासेऽन्तोदात्तत्वस्य सप्तमीसमासे च ‘तत्पुरुषे तुल्यार्थ’ इति पूर्वपदप्रकृतिस्वरत्वस्य प्रसक्त्या स्वरभेदेनाऽनर्थक्यासम्भवात् । यद्वा पञ्चमीसमासः । न चोक्त-दोषः । ‘कर्तृकरणे कृता बहुलम्’ इति बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वाद् ‘ग्रामान्निर्गतो यो ग्रामनिर्गतः’ इत्यादाविव ‘सर्वस्मादुत्तमः सर्वोत्तमः’ इति पञ्चमीसमासस्याविकलत्वादिति सत्येव समाधाने उपायस्योपा-यान्तरादूषकत्वात्स्वयं योगविभागाश्रयणेन समाधत्ते- योगविभागेनेति ।। प्रागेवेति ।। ‘अनेनैतां वेदवाक्यानां योजनां सूचयति’ इत्यादिनेत्यर्थः ।
लघुप्रभा
(व्या.टि.)
तथाऽपि न पूर्वशङ्का समूलघातं हतेत्याशङ्कते- अस्त्विति ।। प्रागुक्तमिति ।। सिद्धव्युत्पत्त्यादिक-मित्यर्थः । विशिष्टेति ।। निर्दोषाशेषसद्गुणत्वादिविशिष्टेत्यर्थः । मूले नारदीय इति ।। ‘वा नामधेयस्य वृद्धसञ्ज्ञा’ इति नारदशब्दस्य वृद्धसञ्ज्ञायां ‘वृद्धाच्छः’ इति छप्रत्यय इति भावः । निर्दोषत्वमिति ।। आमयशब्दस्य (व्या.टि.) दोषान्तरोपलक्षणत्वादिति भावः । योगविभागादिति ।। सूत्रभेदादित्यर्थः । कर्त्रश्रवणादभिलषिता-लाभ इत्यत आह- ज्ञापयन्तीत्यत्रेति ।। वृत्तस्यानुवृत्तिर्युक्ता न वर्तिष्यमाणस्येत्यत उक्तम्- सिंहावलोकित-न्यायेनेति ।। ‘या ते अग्ने याशया रजाशया हराशया तनूर्वर्षिष्ठा’ इत्यादौ शेषाकाङ्क्षिणोः पूर्वमन्त्रयोरुत्तर-शेषानुवृत्तिदर्शनात् । न च नैवं मीमांसितमिति वाच्यम् । यतस्तदधिकरणं शाखान्तरोदाहरणेन नेयम् । ननु षष्ठ्यन्ततया श्रुतं कथमत्रानुवर्तेत अयोग्यत्वादित्यत उक्तम्- अर्थवशादिति ।। अङ्गस्येत्यादौ दर्शनादिति भावः । कर्त्रपेक्षायामाह- वेदादिभिरिति ।।
।। इति कार्यतावादः समाप्तः ।।